Skip to content

Arthashastra 21.7–8

अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ।। ०१.२१.०७अ । व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ।। ०१.२१.०७ब । द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ।। ०१.२१.०७क । रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ।। ०१.२१.०७ड । शुष्काणां आशु शातनं वैवर्ण्यं च । ।। ०१.२१.०७ए । कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ।। ०१.२१.०७फ़् । आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ।। ०१.२१.०७ग् । लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ।। ०१.२१.०७ह् । विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ॥ ७–८ ॥

annasya ūṣmā mayūra-grīva-ābhaḥ śaityaṃ āśu kliṣṭasyaiva vaivarṇyaṃ saudakatvaṃ aklinnatvaṃ ca || 01.21.07a | vyañjanānāṃ āśu śuṣkatvaṃ ca kvātha-dhyāma-phena-paṭala-vicchinna-bhāvo gandha-sparśa-rasa-vadhaśca || 01.21.07ba | draveṣu hīna-atiriktac-chāyā-darśanaṃ phena-paṭala-sīmanta-ūrdhva-rājī-darśanaṃ ca || 01.21.07ka | rasasya madhye nīlā rājī | payasastāmrā | madya-toyayoḥ kālī | dadhnaḥ śyāmā | madhunaḥ śvetā | dravyāṇāṃ ārdrāṇāṃ āśu pramlānatvaṃ utpakva-bhāvaḥ kvātha-nīla-śyāvatā ca || 01.21.07ḍa | śuṣkāṇāṃ āśu śātanaṃ vaivarṇyaṃ ca | || 01.21.07e | kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam | tad-abhyāśe kṣudra-sattva-vadhaśca | || 01.21.07pha़ | āstaraṇa-pravaraṇānāṃ dhyāma-maṇḍalatā tanturoma-pakṣma-śātanaṃ ca | || 01.21.07g | loha-maṇimayānāṃ paṅkama-lopadehatā sneha-rāga-gaurava-prabhāva-varṇa-sparśavadhaśca iti viṣayuktasya liṅgāni || 01.21.07h | viṣa-pradasya tu śuṣka-śyāva-vaktratā vāk-saṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākya-viprekṣaṇaṃ āvegaḥ karmaṇi sva-bhūmau cānavasthānaṃ iti || 7–8 ||

Report an error