अथ शाकवर्गः । पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुदृष्टं गुरुं विद्याद्यथोत्तरम् ॥ १ ॥
atha śākavargaḥ | patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā | śākaṃ ṣaḍvidhamudṛṣṭaṃ guruṃ vidyādyathottaram || 1 ||
अध्याय १७ · शाकवर्गः
śākavargaḥ
A chapter of the Bhavaprakasha.
109 versesSanskrit with transliteration
अथ शाकवर्गः । पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुदृष्टं गुरुं विद्याद्यथोत्तरम् ॥ १ ॥
atha śākavargaḥ | patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā | śākaṃ ṣaḍvidhamudṛṣṭaṃ guruṃ vidyādyathottaram || 1 ||
प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि च ॥ २ ॥
prāyaḥ śākāni sarvāṇi viṣṭambhīni gurūṇi ca | rūkṣāṇi bahuvarcāṃsi sṛṣṭaviṇmārutāni ca || 2 ||
शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयं च कुरुते पलितं च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः३ । शाकेषु सर्वेषु वसन्ति रोगास्ते हेतवो देहविनाशनाय । तस्माद् बुधः शाकविवर्जनं तु कुर्यात्तथाऽम्लेषु स एव दोषः ॥ ३ ॥
śākaṃ bhinatti vapurasthi nihanti netraṃ varṇaṃ vināśayati raktamathāpi śukram | prajñākṣayaṃ ca kurute palitaṃ ca nūnaṃ hanti smṛtiṃ gatimiti pravadanti tajjñāḥ3 | śākeṣu sarveṣu vasanti rogāste hetavo dehavināśanāya | tasmād budhaḥ śākavivarjanaṃ tu kuryāttathā'mleṣu sa eva doṣaḥ || 3 ||
वास्तूकं वास्तुकं च स्यात्क्षारपत्रं च शाकराट् । तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम् ॥ ४ ॥
vāstūkaṃ vāstukaṃ ca syātkṣārapatraṃ ca śākarāṭ | tadeva tu bṛhatpatraṃ raktaṃ syādgauḍavāstukam || 4 ||
प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम् । वास्तूकद्वितयं स्वादु क्षारं पाके कटूदितम् ॥ ५ ॥
prāyaśo yavamadhye syādyavaśākamataḥ smṛtam | vāstūkadvitayaṃ svādu kṣāraṃ pāke kaṭūditam || 5 ||
दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम् । सरं प्लीहास्रपित्तार्शः कृमिदोषत्रयापहम् ॥ ६ ॥
dīpanaṃ pācanaṃ rucyaṃ laghu śukrabalapradam | saraṃ plīhāsrapittārśaḥ kṛmidoṣatrayāpaham || 6 ||
पोतक्युपोदिका सा तु मालवाऽमृतवल्लरी । पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तनुत् ॥ ७ ॥
potakyupodikā sā tu mālavā'mṛtavallarī | potakī śītalā snigdhā śleṣmalā vātapittanut || 7 ||
अकण्ठ्या पिच्छिला निद्रा शुक्रदा रक्त पित्तजित् । बलदा रुचिकृत्पथ्या बृंहणी तृप्तिकारिणी ॥ ८ ॥
akaṇṭhyā picchilā nidrā śukradā rakta pittajit | baladā rucikṛtpathyā bṛṃhaṇī tṛptikāriṇī || 8 ||
मारिषो वाष्पको मार्ष श्वेतो रक्तश्च संस्मृतः । मारिषो मधुरः शीतो विष्टम्भी पित्तनुद् गुरुः १०.१० । वातश्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित् । रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः । श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ॥ ९ ॥
māriṣo vāṣpako mārṣa śveto raktaśca saṃsmṛtaḥ | māriṣo madhuraḥ śīto viṣṭambhī pittanud guruḥ 10.10 | vātaśleṣmakaro raktapittanud viṣamāgnijit | raktamārṣo gururnāti sakṣāro madhuraḥ saraḥ | śleṣmalaḥ kaṭukaḥ pāke svalpadoṣa udīritaḥ || 9 ||
तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः । भण्डीरस्तण्डुलीबीजो विषघ्नश्चाल्पमारिषः ॥ १० ॥
taṇḍulīyo meghanādaḥ kāṇḍerastaṇḍulerakaḥ | bhaṇḍīrastaṇḍulībījo viṣaghnaścālpamāriṣaḥ || 10 ||
तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित् । सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः ॥ ११ ॥
taṇḍulīyo laghuḥ śīto rūkṣaḥ pittakaphāsrajit | sṛṣṭamūtramalo rucyo dīpano viṣahārakaḥ || 11 ||
पानीयतण्डुलीयं तु कञ्चटं समुदाहृतम् । कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु ॥ १२ ॥
pānīyataṇḍulīyaṃ tu kañcaṭaṃ samudāhṛtam | kañcaṭaṃ tiktakaṃ raktapittānilaharaṃ laghu || 12 ||
पलक्या वास्तुकाकारा छुरिका चीरितच्छदा ॥ १३ ॥
palakyā vāstukākārā churikā cīritacchadā || 13 ||
पलक्या वातला शीता श्मेष्मला भेदिनी गुरुः । विष्टम्भिनी मदश्वासपित्तरक्तकफापहा ॥ १४ ॥
palakyā vātalā śītā śmeṣmalā bhedinī guruḥ | viṣṭambhinī madaśvāsapittaraktakaphāpahā || 14 ||
नाडिकं कालशाकं च श्राद्धशाकं च कालकम् । कालशाकं सरं रुच्यं वातकृत्कफशोथहृत् । बल्यं रुचिकरं मेध्यं रक्तपित्तहरं हिमम् ॥ १५ ॥
nāḍikaṃ kālaśākaṃ ca śrāddhaśākaṃ ca kālakam | kālaśākaṃ saraṃ rucyaṃ vātakṛtkaphaśothahṛt | balyaṃ rucikaraṃ medhyaṃ raktapittaharaṃ himam || 15 ||
पट्टशाकस्तु नाडीको नाडीशाकश्च स स्मृतः । नाडीको रक्तपित्तघ्नो विष्टम्भो वातकोपनः ॥ १६ ॥
paṭṭaśākastu nāḍīko nāḍīśākaśca sa smṛtaḥ | nāḍīko raktapittaghno viṣṭambho vātakopanaḥ || 16 ||
कलम्बी शतपर्वी च कथ्यन्ते तद्गुणा अथ । कलम्बी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी ॥ १७ ॥
kalambī śataparvī ca kathyante tadguṇā atha | kalambī stanyadā proktā madhurā śukrakāriṇī || 17 ||
लोणालोणी च कथिता वृहल्लोणी तु घोटिका । लोणी रूक्षा स्मृता गुर्वी वातश्लेष्महरी पटुः १०.२० । अर्शोघ्नी दीपनी चाम्ला मन्दाग्निविषनाशिनी । घोटिकाऽम्ला सराचोष्णा वातकृत्कफपित्तहृत् ॥ १८ ॥
loṇāloṇī ca kathitā vṛhalloṇī tu ghoṭikā | loṇī rūkṣā smṛtā gurvī vātaśleṣmaharī paṭuḥ 10.20 | arśoghnī dīpanī cāmlā mandāgniviṣanāśinī | ghoṭikā'mlā sarācoṣṇā vātakṛtkaphapittahṛt || 18 ||
वाग्दोषव्रणगुल्मघ्नी श्वासकासप्रमेहनुत् । शोथे लोचनरोगे च हिता तज्ज्ञैरुदाहृता ॥ १९ ॥
vāgdoṣavraṇagulmaghnī śvāsakāsapramehanut | śothe locanaroge ca hitā tajjñairudāhṛtā || 19 ||
चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाऽम्ललोणिका । अश्मन्तकस्तु शफरी कुशली चाम्लपत्रकः ॥ २० ॥
cāṅgerī cukrikā dantaśaṭhāmbaṣṭhā'mlaloṇikā | aśmantakastu śapharī kuśalī cāmlapatrakaḥ || 20 ||
चाङ्गेरी दीपनी रुच्या रुक्षोष्णा कफवातनुत् । पित्तलाऽम्ला ग्रहण्यर्शः कुष्ठातीसारनाशिनी ॥ २१ ॥
cāṅgerī dīpanī rucyā rukṣoṣṇā kaphavātanut | pittalā'mlā grahaṇyarśaḥ kuṣṭhātīsāranāśinī || 21 ||
चुक्रिका स्यात्तु पत्राम्ला रोचनी शतवेधिनी ॥ २२ ॥
cukrikā syāttu patrāmlā rocanī śatavedhinī || 22 ||
चुक्रा त्वम्लतरा स्वाद्वी वातघ्नी कफपित्तकृत् । रुच्या लघुतरा पाके वृन्ताकेनातिरोचनी ॥ २३ ॥
cukrā tvamlatarā svādvī vātaghnī kaphapittakṛt | rucyā laghutarā pāke vṛntākenātirocanī || 23 ||
चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्रा सतिक्तका । चञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा । धातुपुष्टिकरी बल्या मेध्या पिच्छिलका स्मृता ॥ २४ ॥
ciñcā cañcuścañcukī ca dīrghapatrā satiktakā | cañcuḥ śītā sarā rucyā svādvī doṣatrayāpahā | dhātupuṣṭikarī balyā medhyā picchilakā smṛtā || 24 ||
ब्राह्मी शङ्खधराऽचारी मत्स्याक्षी हिलमोचिका । शोथं कुष्ठं कफं पित्तं हरते हिलमोचिका ॥ २५ ॥
brāhmī śaṅkhadharā'cārī matsyākṣī hilamocikā | śothaṃ kuṣṭhaṃ kaphaṃ pittaṃ harate hilamocikā || 25 ||
शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः । श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी ॥ २६ ॥
śitivāraḥ śitivaraḥ svastikaḥ suniṣaṇṇakaḥ | śrīvārakaḥ sūcipatraḥ parṇakaḥ kukkuṭaḥ śikhī || 26 ||
चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः । शाको जलान्विते देशे चतुष्पत्रीति चोच्यते १०.३० । सुनिषण्णो हिमो ग्राही मेदोदोषत्रयापहः ॥ २७ ॥
cāṅgerīsadṛśaḥ patraiścaturdala itīritaḥ | śāko jalānvite deśe catuṣpatrīti cocyate 10.30 | suniṣaṇṇo himo grāhī medodoṣatrayāpahaḥ || 27 ||
अविदाही लघुः स्वादुः कषायो रूक्षदीपनः । वृष्यो रुच्योज्वरश्वासमेहकुष्ठभ्रम प्रणुत् ॥ २८ ॥
avidāhī laghuḥ svāduḥ kaṣāyo rūkṣadīpanaḥ | vṛṣyo rucyojvaraśvāsamehakuṣṭhabhrama praṇut || 28 ||
पाचनं लघु रुच्योष्णं पत्रं मूलकजं नवम् । स्नेहसिद्धं त्रिदोषघ्नमसिद्धं कफपित्तकृत् ॥ २९ ॥
pācanaṃ laghu rucyoṣṇaṃ patraṃ mūlakajaṃ navam | snehasiddhaṃ tridoṣaghnamasiddhaṃ kaphapittakṛt || 29 ||
द्रो णपुष्पीदलं स्वादु रूक्षं गुरु च पित्तकृत् । भेदनं कामलाशोथमेहज्वरहरं कटु ॥ ३० ॥
dro ṇapuṣpīdalaṃ svādu rūkṣaṃ guru ca pittakṛt | bhedanaṃ kāmalāśothamehajvaraharaṃ kaṭu || 30 ||
यवानीशाकमाग्नेयं रुच्यं वातकफप्रणुत् । उष्णं कटु च तिक्तं च पित्तलं लघु शूलहृत् ॥ ३१ ॥
yavānīśākamāgneyaṃ rucyaṃ vātakaphapraṇut | uṣṇaṃ kaṭu ca tiktaṃ ca pittalaṃ laghu śūlahṛt || 31 ||
दद्रुघ्नपत्रं दोषघ्नमम्लं वातकफापहम् । कण्डूकासक्रिमिश्वासदद्रुकुष्ठप्रणुल्लघु ॥ ३२ ॥
dadrughnapatraṃ doṣaghnamamlaṃ vātakaphāpaham | kaṇḍūkāsakrimiśvāsadadrukuṣṭhapraṇullaghu || 32 ||
सेहुण्डस्य दलं तीक्ष्णं दीपनं रेचनं हरेत् । आध्मानाष्ठीलिकागुल्मशूलशोथोदराणि च ॥ ३३ ॥
sehuṇḍasya dalaṃ tīkṣṇaṃ dīpanaṃ recanaṃ haret | ādhmānāṣṭhīlikāgulmaśūlaśothodarāṇi ca || 33 ||
पर्पटो हन्ति पित्तास्रज्वरतृष्णाकफभ्रमान् । संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ॥ ३४ ॥
parpaṭo hanti pittāsrajvaratṛṣṇākaphabhramān | saṃgrāhī śītalastikto dāhanudvātalo laghuḥ || 34 ||
गोजिह्वा कुष्ठमेहास्रकृच्छ्रज्वरहरी लघुः ॥ ३५ ॥
gojihvā kuṣṭhamehāsrakṛcchrajvaraharī laghuḥ || 35 ||
पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु । स्निग्धं वृष्यं तथोष्णं च ज्वरकासक्रिमिप्रणुत् १०.४० । गुडूचीपत्रमाग्नेयं सर्वज्वरहरं लघु । कषायं कटुतित्तं च स्वादुपाकं रसायनम् ॥ ३६ ॥
paṭolapatraṃ pittaghnaṃ dīpanaṃ pācanaṃ laghu | snigdhaṃ vṛṣyaṃ tathoṣṇaṃ ca jvarakāsakrimipraṇut 10.40 | guḍūcīpatramāgneyaṃ sarvajvaraharaṃ laghu | kaṣāyaṃ kaṭutittaṃ ca svādupākaṃ rasāyanam || 36 ||
बल्यमुष्णं च संग्राहि हन्याद्दोषत्रयं तृषाम् । दाहप्रमेहवातासृक्कामलाकुष्ठपाण्डुताः ॥ ३७ ॥
balyamuṣṇaṃ ca saṃgrāhi hanyāddoṣatrayaṃ tṛṣām | dāhapramehavātāsṛkkāmalākuṣṭhapāṇḍutāḥ || 37 ||
कासमर्दोऽरिमर्दश्च कासारिः कर्कशस्तथा । कासमर्ददलं रुच्यं वृष्यं कासविषास्रनुत् ॥ ३८ ॥
kāsamardo'rimardaśca kāsāriḥ karkaśastathā | kāsamardadalaṃ rucyaṃ vṛṣyaṃ kāsaviṣāsranut || 38 ||
मधुरं कफवातघ्नं पाचनं कण्ठशोधनम् । विशेषतः कासहरं पित्तघ्नं ग्राहकं लघु ॥ ३९ ॥
madhuraṃ kaphavātaghnaṃ pācanaṃ kaṇṭhaśodhanam | viśeṣataḥ kāsaharaṃ pittaghnaṃ grāhakaṃ laghu || 39 ||
रुच्यं चणकशाकं स्याद् दुर्जरं कफवातकृत् । अम्लं विष्टम्भजनकं पित्तनुदृन्तशोथहृत् ॥ ४० ॥
rucyaṃ caṇakaśākaṃ syād durjaraṃ kaphavātakṛt | amlaṃ viṣṭambhajanakaṃ pittanudṛntaśothahṛt || 40 ||
कलायशाकं भेदि स्याल्लघु तिक्तं त्रिदोषजित् ॥ ४१ ॥
kalāyaśākaṃ bhedi syāllaghu tiktaṃ tridoṣajit || 41 ||
कटुकं सार्षपं शाकं बहुमूत्रमलं गुरु । अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत् । सक्षारलवणं तीक्ष्णं स्वादु शाकेषु निन्दितम् ॥ ४२ ॥
kaṭukaṃ sārṣapaṃ śākaṃ bahumūtramalaṃ guru | amlapākaṃ vidāhi syāduṣṇaṃ rūkṣaṃ tridoṣakṛt | sakṣāralavaṇaṃ tīkṣṇaṃ svādu śākeṣu ninditam || 42 ||
अगस्तिकुसुमं शीतं चातुर्थिकनिवारणम् । नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च । पीनसश्लेष्मपित्तघ्नं वातघ्नं मुनिभिर्मतम् ॥ ४३ ॥
agastikusumaṃ śītaṃ cāturthikanivāraṇam | naktāndhyanāśanaṃ tiktaṃ kaṣāyaṃ kaṭupāki ca | pīnasaśleṣmapittaghnaṃ vātaghnaṃ munibhirmatam || 43 ||
कदल्याः कुसुमं स्निग्धं मधुरं तुवरं गुरु । वातपित्तहरं शीतं रक्तपित्तक्षयप्रणुत् ॥ ४४ ॥
kadalyāḥ kusumaṃ snigdhaṃ madhuraṃ tuvaraṃ guru | vātapittaharaṃ śītaṃ raktapittakṣayapraṇut || 44 ||
शिग्रोः पुष्पं तु कटुकं तीक्ष्णोष्णं स्नायुशोथनुत् । कृमिहृत्कफवातघ्नं विद्र धिप्लीहगुल्मजित् । मधु शिग्रोस्त्वक्षिहितं रक्तपित्तप्रसादनम् १०.५० । शाल्मलीपुष्पशाकं तु घृतसैन्धवसाधितम् । प्रदरं नाशयत्येव दुःसाध्यं च न संशयः ॥ ४५ ॥
śigroḥ puṣpaṃ tu kaṭukaṃ tīkṣṇoṣṇaṃ snāyuśothanut | kṛmihṛtkaphavātaghnaṃ vidra dhiplīhagulmajit | madhu śigrostvakṣihitaṃ raktapittaprasādanam 10.50 | śālmalīpuṣpaśākaṃ tu ghṛtasaindhavasādhitam | pradaraṃ nāśayatyeva duḥsādhyaṃ ca na saṃśayaḥ || 45 ||
रसे पाके च मधुरं कषायं शीतलं गुरु । कफपित्तास्रजिद् ग्राहि वातलं च प्रकीर्त्तितम् ॥ ४६ ॥
rase pāke ca madhuraṃ kaṣāyaṃ śītalaṃ guru | kaphapittāsrajid grāhi vātalaṃ ca prakīrttitam || 46 ||
इति पुष्पशाकानि । अथ फलशाकानि । कूष्माडं स्यात्पुष्पफलं पीतपुष्पं बृहत्फलम् ॥ ४७ ॥
iti puṣpaśākāni | atha phalaśākāni | kūṣmāḍaṃ syātpuṣpaphalaṃ pītapuṣpaṃ bṛhatphalam || 47 ||
कूष्माण्डं बृंहणं वृष्यं गुरु पित्तास्रवातनुत् । बालं पित्तापहं शीतं मध्यमं कफकारकम् ॥ ४८ ॥
kūṣmāṇḍaṃ bṛṃhaṇaṃ vṛṣyaṃ guru pittāsravātanut | bālaṃ pittāpahaṃ śītaṃ madhyamaṃ kaphakārakam || 48 ||
बृद्धंनातिहिमं स्वादु सक्षारं दीपनं लघु । बस्तिशुद्धिकरं चेतोरोगहृत्सर्वदोषजित् ॥ ४९ ॥
bṛddhaṃnātihimaṃ svādu sakṣāraṃ dīpanaṃ laghu | bastiśuddhikaraṃ cetorogahṛtsarvadoṣajit || 49 ||
कूष्माण्डी तु भृशं लघ्वी कर्कारुरपि कीर्त्तिता । कर्कारुग्राहिणी शीता रक्तपित्तहरा गुरुः । पक्वा तिक्ताऽग्निजननी सक्षारा कफवातनुत् ॥ ५० ॥
kūṣmāṇḍī tu bhṛśaṃ laghvī karkārurapi kīrttitā | karkārugrāhiṇī śītā raktapittaharā guruḥ | pakvā tiktā'gnijananī sakṣārā kaphavātanut || 50 ||
अलाबूः कथिता तुम्बी द्विधा दीर्घा च वर्तुला ॥ ५१ ॥
alābūḥ kathitā tumbī dvidhā dīrghā ca vartulā || 51 ||
मिष्टतुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु । वृष्यं रुचिकरं प्रोक्तं धातु पुष्टिविवर्धनम् ॥ ५२ ॥
miṣṭatumbīphalaṃ hṛdyaṃ pittaśleṣmāpahaṃ guru | vṛṣyaṃ rucikaraṃ proktaṃ dhātu puṣṭivivardhanam || 52 ||
इक्ष्वाकुः कटुतुम्बी स्यात्सा तूम्बी च महाफला । कटुतुम्बी हिमा हृद्या पित्तकासविषापहा । तिक्ता कटुर्विपाके च वातपित्तज्वरान्तकृत् ॥ ५३ ॥
ikṣvākuḥ kaṭutumbī syātsā tūmbī ca mahāphalā | kaṭutumbī himā hṛdyā pittakāsaviṣāpahā | tiktā kaṭurvipāke ca vātapittajvarāntakṛt || 53 ||
एर्वारुः कर्कटी प्रोक्ता कथ्यन्ते तद्गुणा अथ १०.६० । कर्कटी शीतला रूक्षा ग्राहिणी मधुरा गुरुः । रुच्या पित्तहरा सामा पक्वा तृष्णाऽग्निपित्तकृत् ॥ ५४ ॥
ervāruḥ karkaṭī proktā kathyante tadguṇā atha 10.60 | karkaṭī śītalā rūkṣā grāhiṇī madhurā guruḥ | rucyā pittaharā sāmā pakvā tṛṣṇā'gnipittakṛt || 54 ||
चिचिण्डः श्वेतराजिः स्यात्सुदीर्घो गृहकूलकः । चिचिण्डो वातपित्तघ्नो बल्यः पथ्यो रुचिप्रदः । शोषणोऽतिहितः किञ्चिद् गुणैर्न्यूनः पटोलतः ॥ ५५ ॥
ciciṇḍaḥ śvetarājiḥ syātsudīrgho gṛhakūlakaḥ | ciciṇḍo vātapittaghno balyaḥ pathyo rucipradaḥ | śoṣaṇo'tihitaḥ kiñcid guṇairnyūnaḥ paṭolataḥ || 55 ||
कारवेल्लं कटिल्लं स्यात्कारवेल्ली ततोलघुः । कारवेल्लं हिमं भेदि लघुतिक्तमवातलम् ॥ ५६ ॥
kāravellaṃ kaṭillaṃ syātkāravellī tatolaghuḥ | kāravellaṃ himaṃ bhedi laghutiktamavātalam || 56 ||
ज्वरपित्तकफास्रघ्नं पाण्डुमेहकृमीन् हरेत् । तद्गुणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः ॥ ५७ ॥
jvarapittakaphāsraghnaṃ pāṇḍumehakṛmīn haret | tadguṇā kāravellī syādviśeṣāddīpanī laghuḥ || 57 ||
महाकोशातकी प्रोक्ता हस्तिघोषा महाफला ॥ ५८ ॥
mahākośātakī proktā hastighoṣā mahāphalā || 58 ||
धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः । महाकोशातकीस्निग्धा रक्तपित्तानिलापहा ॥ ५९ ॥
dhāmārgavo ghoṣakaśca hastiparṇaśca sa smṛtaḥ | mahākośātakīsnigdhā raktapittānilāpahā || 59 ||
धामार्गवः पीतपुष्पो जालिनी कृतवेधना । राजकोशातकी चेति तथोक्ता राजिमत्फला ॥ ६० ॥
dhāmārgavaḥ pītapuṣpo jālinī kṛtavedhanā | rājakośātakī ceti tathoktā rājimatphalā || 60 ||
राजकोशातकी शीता मधुरा कफवातकृत् । पितघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत् ॥ ६१ ॥
rājakośātakī śītā madhurā kaphavātakṛt | pitaghnī dīpanī śvāsajvarakāsakṛmipraṇut || 61 ||
पटोलः कुलकस्तिक्तः पाण्डुकः कर्कशच्छदः । राजीफलः पाण्डुफलो राजेयश्चामृतफलः ॥ ६२ ॥
paṭolaḥ kulakastiktaḥ pāṇḍukaḥ karkaśacchadaḥ | rājīphalaḥ pāṇḍuphalo rājeyaścāmṛtaphalaḥ || 62 ||
बीजगर्भः प्रतीकश्च कुष्ठहा कासभञ्जनः । पटोलं पाचनं हृद्यं वृष्यं लघ्वग्निदीपनम् । स्निग्धोष्णं हन्ति कासास्रज्वरदोषत्रयक्रिमीन् १०.७० । पटोलस्य भवेन्मूलं विरेचनकरं सुखात् ॥ ६३ ॥
bījagarbhaḥ pratīkaśca kuṣṭhahā kāsabhañjanaḥ | paṭolaṃ pācanaṃ hṛdyaṃ vṛṣyaṃ laghvagnidīpanam | snigdhoṣṇaṃ hanti kāsāsrajvaradoṣatrayakrimīn 10.70 | paṭolasya bhavenmūlaṃ virecanakaraṃ sukhāt || 63 ||
नालं श्लेष्महरं पत्रं पित्तहारी फलं पुनः । दोषत्रयहरं प्रोक्तं तद्वतिक्ता पटोलिका ॥ ६४ ॥
nālaṃ śleṣmaharaṃ patraṃ pittahārī phalaṃ punaḥ | doṣatrayaharaṃ proktaṃ tadvatiktā paṭolikā || 64 ||
बिम्बी रक्तफला तुण्डी तुण्डीकेरी च बिम्बिका । ओष्ठोपमफला प्रोक्ता पीलुपर्णी च कथ्यते ॥ ६५ ॥
bimbī raktaphalā tuṇḍī tuṇḍīkerī ca bimbikā | oṣṭhopamaphalā proktā pīluparṇī ca kathyate || 65 ||
बिम्बीफलं स्वादु शीतं गुरु पित्तास्रवातजित् । स्तभनं लेखनं रुच्यं विबन्धाध्मानकारकम् ॥ ६६ ॥
bimbīphalaṃ svādu śītaṃ guru pittāsravātajit | stabhanaṃ lekhanaṃ rucyaṃ vibandhādhmānakārakam || 66 ||
शिम्बिः शिम्बी पुस्तशिम्बी तथा पुस्तकशिम्बिका । शिम्बीद्वयं च मधुरं रसे पाके हिमं गुरु । बल्यं दाहकरं प्रोक्तं श्लेष्मलं वातपित्तजित् ॥ ६७ ॥
śimbiḥ śimbī pustaśimbī tathā pustakaśimbikā | śimbīdvayaṃ ca madhuraṃ rase pāke himaṃ guru | balyaṃ dāhakaraṃ proktaṃ śleṣmalaṃ vātapittajit || 67 ||
कोलशिम्बिः कृष्णफला तथा पर्यङ्कपट्टिका ॥ ६८ ॥
kolaśimbiḥ kṛṣṇaphalā tathā paryaṅkapaṭṭikā || 68 ||
कोलशिम्बिः समीरघ्नी गुर्व्युष्णा कफपित्तकृत् । शुक्राग्निसादकृत् वृष्या रुचिकृद् बद्धविड् गुरुः ॥ ६९ ॥
kolaśimbiḥ samīraghnī gurvyuṣṇā kaphapittakṛt | śukrāgnisādakṛt vṛṣyā rucikṛd baddhaviḍ guruḥ || 69 ||
शोभाञ्जनफलं स्वादु कषायं कफपित्तनुत् । शूलकुष्ठक्षयश्वासगुल्महृद् दीपनं परम् ॥ ७० ॥
śobhāñjanaphalaṃ svādu kaṣāyaṃ kaphapittanut | śūlakuṣṭhakṣayaśvāsagulmahṛd dīpanaṃ param || 70 ||
वृन्ताकं स्त्री तु वार्त्ताकुर्भण्टाकी भाण्टिकाऽपि च । वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम् । ज्वरवातबलासघ्नं दीपनं शुक्रलं लघु ॥ ७१ ॥
vṛntākaṃ strī tu vārttākurbhaṇṭākī bhāṇṭikā'pi ca | vṛntākaṃ svādu tīkṣṇoṣṇaṃ kaṭupākamapittalam | jvaravātabalāsaghnaṃ dīpanaṃ śukralaṃ laghu || 71 ||
तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु १०.८० । वृन्ताकं पित्तलं किञ्चिदङ्गारपरिपाचितम् । कफमेदोऽनिलामघ्नमत्यर्थं लघु दीपनम् ॥ ७२ ॥
tadbālaṃ kaphapittaghnaṃ vṛddhaṃ pittakaraṃ guru 10.80 | vṛntākaṃ pittalaṃ kiñcidaṅgāraparipācitam | kaphamedo'nilāmaghnamatyarthaṃ laghu dīpanam || 72 ||
तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् । अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भवेत् । तदर्शःसु विशेषेण हितं हीनं च पूर्वतः ॥ ७३ ॥
tadeva hi guru snigdhaṃ satailaṃ lavaṇānvitam | aparaṃ śvetavṛntākaṃ kukkuṭāṇḍasamaṃ bhavet | tadarśaḥsu viśeṣeṇa hitaṃ hīnaṃ ca pūrvataḥ || 73 ||
डिण्डिशो रोमशफलो मुनिनिर्मित इत्यपि ॥ ७४ ॥
ḍiṇḍiśo romaśaphalo muninirmita ityapi || 74 ||
डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः । सुशीतो वातलो रूक्षो मूत्रलश्चाश्मरीहरः ॥ ७५ ॥
ḍiṇḍiśo rucikṛdbhedī pittaśleṣmāpahaḥ smṛtaḥ | suśīto vātalo rūkṣo mūtralaścāśmarīharaḥ || 75 ||
पिण्डारं शीतलं बल्यं पित्तघ्नंरुचिकारकम् । पाके लघु विशेषेण विषशान्तिकरं स्मृतम् ॥ ७६ ॥
piṇḍāraṃ śītalaṃ balyaṃ pittaghnaṃrucikārakam | pāke laghu viśeṣeṇa viṣaśāntikaraṃ smṛtam || 76 ||
कर्कोटकी पीतपुष्पा महाजालीति चोच्यते । कर्कोटी मलहृत्कुष्ठहृल्लासारुचिनाशिनी । श्वासकासज्वरान्हन्ति कटुपाका च दीपनी ॥ ७७ ॥
karkoṭakī pītapuṣpā mahājālīti cocyate | karkoṭī malahṛtkuṣṭhahṛllāsārucināśinī | śvāsakāsajvarānhanti kaṭupākā ca dīpanī || 77 ||
डोडिका विषमुष्टिश्च डोडित्यपि सुमुष्टिका ॥ ७८ ॥
ḍoḍikā viṣamuṣṭiśca ḍoḍityapi sumuṣṭikā || 78 ||
डोडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः । हन्ति पित्तकफार्शांसि कृमिगुल्मविषामयान् ॥ ७९ ॥
ḍoḍikā puṣṭidā vṛṣyā rucyā vahnipradā laghuḥ | hanti pittakaphārśāṃsi kṛmigulmaviṣāmayān || 79 ||
कण्टकारीफलं तिक्तं कटुकं दीपनं लघु । रूक्षोष्णं श्वासकासघ्नं ज्वरानिलकफापहम् ॥ ८० ॥
kaṇṭakārīphalaṃ tiktaṃ kaṭukaṃ dīpanaṃ laghu | rūkṣoṣṇaṃ śvāsakāsaghnaṃ jvarānilakaphāpaham || 80 ||
इति फल शाकानि । तीक्ष्णोष्णं सार्षपं नालं वातश्लेष्मव्रणापहम् । कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम् १०.९० । इति नालशाकानि । अथ कन्दशाकानि । सूरणः कन्द ओलश्च कन्दलोऽशोघ्न इत्यपि । सूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः ॥ ८१ ॥
iti phala śākāni | tīkṣṇoṣṇaṃ sārṣapaṃ nālaṃ vātaśleṣmavraṇāpaham | kaṇḍūkṛmiharaṃ dadrukuṣṭhaghnaṃ rucikārakam 10.90 | iti nālaśākāni | atha kandaśākāni | sūraṇaḥ kanda olaśca kandalo'śoghna ityapi | sūraṇo dīpano rūkṣaḥ kaṣāyaḥ kaṇḍukṛt kaṭuḥ || 81 ||
विष्टम्भी विशदो रुच्यः कफार्शः कृन्तनो लघुः । विशेषादर्शसे पथ्यः प्लीहगुल्मविनाशनः ॥ ८२ ॥
viṣṭambhī viśado rucyaḥ kaphārśaḥ kṛntano laghuḥ | viśeṣādarśase pathyaḥ plīhagulmavināśanaḥ || 82 ||
सर्वेषां कन्दशाकानां सूरणः श्रेष्ठ उच्यते । दद्रू णां कुष्ठिनां रक्तपित्तिनां न हितो हि सः । सन्धानयोगं सम्प्राप्तः सूरणो गुणवत्तरः ॥ ८३ ॥
sarveṣāṃ kandaśākānāṃ sūraṇaḥ śreṣṭha ucyate | dadrū ṇāṃ kuṣṭhināṃ raktapittināṃ na hito hi saḥ | sandhānayogaṃ samprāptaḥ sūraṇo guṇavattaraḥ || 83 ||
आरूकं वीरसेनञ्च वीरं वीरारुकं तथा । आरुकमप्यालुकं तत्कथितं वीरसेनकम् ॥ ८४ ॥
ārūkaṃ vīrasenañca vīraṃ vīrārukaṃ tathā | ārukamapyālukaṃ tatkathitaṃ vīrasenakam || 84 ||
काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते । पिण्डालुकमघ्वालुक रक्तालुकानि चोक्तानि ॥ ८५ ॥
kāṣṭhālukaśaṅkhālukahastyālukāni kathyante | piṇḍālukamaghvāluka raktālukāni coktāni || 85 ||
आलुकं शीतलं सर्वं विष्टम्भि मधुरं गुरु ॥ ८६ ॥
ālukaṃ śītalaṃ sarvaṃ viṣṭambhi madhuraṃ guru || 86 ||
सृष्टमूत्रमलं रूक्षं दुर्जरं रक्तपित्तनुत् । कफानिलकरं बल्यं वृष्यं स्वल्पाग्निवर्द्धनम् ॥ ८७ ॥
sṛṣṭamūtramalaṃ rūkṣaṃ durjaraṃ raktapittanut | kaphānilakaraṃ balyaṃ vṛṣyaṃ svalpāgnivarddhanam || 87 ||
रक्तालुभेदो या दीर्घा तन्वी च प्रथिताऽलुकी । आलुकी बलकृत्स्निग्धा गुर्वी हृत्कफनाशिनी । विष्टम्भकारिणी तैले तलिताऽतिरुचिप्रदा ॥ ८८ ॥
raktālubhedo yā dīrghā tanvī ca prathitā'lukī | ālukī balakṛtsnigdhā gurvī hṛtkaphanāśinī | viṣṭambhakāriṇī taile talitā'tirucipradā || 88 ||
मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् । शालामर्कटकं विस्रं शालेयं मरुसम्भवम् ॥ ८९ ॥
mūlakaṃ dvividhaṃ proktaṃ tatraikaṃ laghumūlakam | śālāmarkaṭakaṃ visraṃ śāleyaṃ marusambhavam || 89 ||
चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका । नेपालमूलकं चान्यत्तद्भवेद्गजदन्तवत् १०.१०० । लघुमूलं कटूष्णं स्याद्रुच्यं लघु च पाचनम् । दोषत्रयहरं स्वर्यं ज्वरश्वासविनाशनम् ॥ ९० ॥
cāṇakyamūlakaṃ tīkṣṇaṃ tathā mūlakapotikā | nepālamūlakaṃ cānyattadbhavedgajadantavat 10.100 | laghumūlaṃ kaṭūṣṇaṃ syādrucyaṃ laghu ca pācanam | doṣatrayaharaṃ svaryaṃ jvaraśvāsavināśanam || 90 ||
नासिकाकण्ठरोगघ्नं नयनामयनाशनम् ॥ ९१ ॥
nāsikākaṇṭharogaghnaṃ nayanāmayanāśanam || 91 ||
महत्तदेव रूक्षोष्णं गुरु दोषत्रयप्रदस् । स्नेहसिद्धं तदेव स्याद् दोषत्रयविनाशनम् ॥ ९२ ॥
mahattadeva rūkṣoṣṇaṃ guru doṣatrayapradas | snehasiddhaṃ tadeva syād doṣatrayavināśanam || 92 ||
गृञ्जनं गाजरं प्रोक्तं तथा नारङ्गवर्णकम् । गाजरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु । संग्राहि रक्तपित्तार्शोग्रहणीकफवातजित् ॥ ९३ ॥
gṛñjanaṃ gājaraṃ proktaṃ tathā nāraṅgavarṇakam | gājaraṃ madhuraṃ tīkṣṇaṃ tiktoṣṇaṃ dīpanaṃ laghu | saṃgrāhi raktapittārśograhaṇīkaphavātajit || 93 ||
शीतलः कदलीकन्दो बल्यः केश्योऽम्लपित्तजित् । वह्निकृद्दाहहारी च मधुरो रुचिकारकः ॥ ९४ ॥
śītalaḥ kadalīkando balyaḥ keśyo'mlapittajit | vahnikṛddāhahārī ca madhuro rucikārakaḥ || 94 ||
मानकः स्यान्महापत्रः कथ्यन्ते तद्गुणा अथ । मानकः शोथहृच्छीतो रक्तपित्तहरो लघुः ॥ ९५ ॥
mānakaḥ syānmahāpatraḥ kathyante tadguṇā atha | mānakaḥ śothahṛcchīto raktapittaharo laghuḥ || 95 ||
वाराही पित्तला बल्या कट्वी तिक्ता रसायनी । आयुःशुक्राग्निकृन्मेहकफकुष्ठानिलापहा ॥ ९६ ॥
vārāhī pittalā balyā kaṭvī tiktā rasāyanī | āyuḥśukrāgnikṛnmehakaphakuṣṭhānilāpahā || 96 ||
गजकर्णा तु तिक्तोष्णा तथा वातकफाञ्जयेत् । शीतज्वरहरी स्वादुः पाके तस्यास्तु कन्दकः ॥ ९७ ॥
gajakarṇā tu tiktoṣṇā tathā vātakaphāñjayet | śītajvaraharī svāduḥ pāke tasyāstu kandakaḥ || 97 ||
पाण्डुशोथकृमिप्लीहगुल्मानाहोदरापहः । ग्रहण्यर्शोविकारघ्नी वनसूरणकन्दवत् ॥ ९८ ॥
pāṇḍuśothakṛmiplīhagulmānāhodarāpahaḥ | grahaṇyarśovikāraghnī vanasūraṇakandavat || 98 ||
केमुकं कटुकं पाके तिक्तं ग्राहि हिमं लघु १०.११० । दीपनं पाचनं हृद्यं कफपित्तज्वरापहम् । कुष्ठकासप्रमेहास्रनाशनं वातलं कटु ॥ ९९ ॥
kemukaṃ kaṭukaṃ pāke tiktaṃ grāhi himaṃ laghu 10.110 | dīpanaṃ pācanaṃ hṛdyaṃ kaphapittajvarāpaham | kuṣṭhakāsapramehāsranāśanaṃ vātalaṃ kaṭu || 99 ||
कसेरु द्विविधं तत्तु महद्रा जकसेरुकम् । मुस्ताकृति लघु स्याद्यत्तच्चिचोढमिति स्मृतम् ॥ १०० ॥
kaseru dvividhaṃ tattu mahadrā jakaserukam | mustākṛti laghu syādyattaccicoḍhamiti smṛtam || 100 ||
कसेरुकद्वयं शीतं मधुरं तुवरं गुरु । पित्तशोणितदाहघ्नं नयनामयनाशनम् । ग्राहि शुक्रानिलश्लेष्मारुचिस्तन्यकरं स्मृतम् ॥ १०१ ॥
kaserukadvayaṃ śītaṃ madhuraṃ tuvaraṃ guru | pittaśoṇitadāhaghnaṃ nayanāmayanāśanam | grāhi śukrānilaśleṣmārucistanyakaraṃ smṛtam || 101 ||
पद्मादिकन्दः शालूकं करहाटश्च कथ्यते ॥ १०२ ॥
padmādikandaḥ śālūkaṃ karahāṭaśca kathyate || 102 ||
मृणालमूलं भिस्साण्डं जलालूकञ्च कथ्यते । शालूकं शीतलं वृष्यं पित्तदाहास्रनुद् गुरु ॥ १०३ ॥
mṛṇālamūlaṃ bhissāṇḍaṃ jalālūkañca kathyate | śālūkaṃ śītalaṃ vṛṣyaṃ pittadāhāsranud guru || 103 ||
दुर्जरं स्वादुपाकश्च स्तन्यानिलकफप्रदम् । संग्राहि मधुरं रूक्षं भिस्साण्डमपि तद्गुणम् ॥ १०४ ॥
durjaraṃ svādupākaśca stanyānilakaphapradam | saṃgrāhi madhuraṃ rūkṣaṃ bhissāṇḍamapi tadguṇam || 104 ||
बालं ह्यनार्त्तवं जीर्णं व्याधितं कृमिभक्षितम् । कन्दं विवर्जयेत्सर्वं यद्वाऽग्न्यादिविदूषितम् । अतिजीर्णमकालोत्थं रूक्षसिद्धमदेशजम् ॥ १०५ ॥
bālaṃ hyanārttavaṃ jīrṇaṃ vyādhitaṃ kṛmibhakṣitam | kandaṃ vivarjayetsarvaṃ yadvā'gnyādividūṣitam | atijīrṇamakālotthaṃ rūkṣasiddhamadeśajam || 105 ||
कर्कशं कोमलं चातिशीतव्यालादिदूषितम् । संशुष्कं सकलं शाकं नाश्नीयान्मूलकं विना ॥ १०६ ॥
karkaśaṃ komalaṃ cātiśītavyālādidūṣitam | saṃśuṣkaṃ sakalaṃ śākaṃ nāśnīyānmūlakaṃ vinā || 106 ||
इति कन्द शाकानि । उक्तं संस्वेदजं शाकं भूमिच्छत्रं शिलीन्ध्रकम् । क्षितिगोमयकाष्ठेषु वृक्षादिषु तदुद्भवेत् ॥ १०७ ॥
iti kanda śākāni | uktaṃ saṃsvedajaṃ śākaṃ bhūmicchatraṃ śilīndhrakam | kṣitigomayakāṣṭheṣu vṛkṣādiṣu tadudbhavet || 107 ||
सर्वे संस्वेदजाः शीता दोषलाः पिच्छिलाश्च ते । गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः १०.१२० । श्वेताशुचिस्थलीकाष्ठवंशगोमयसम्भवाः । नातिदोषकरास्ते स्युः शेषास्तेभ्यो विगर्हिताः ॥ १०८ ॥
sarve saṃsvedajāḥ śītā doṣalāḥ picchilāśca te | guravaśchardyatīsārajvaraśleṣmāmayapradāḥ 10.120 | śvetāśucisthalīkāṣṭhavaṃśagomayasambhavāḥ | nātidoṣakarāste syuḥ śeṣāstebhyo vigarhitāḥ || 108 ||
इति श्रीलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिस्रप्रकरणे दशमः शाकवर्गं समाप्तः ॥ १०९ ॥
iti śrīlaṭakana tanaya śrīmiśrabhāva viracite bhāvaprakāśe misraprakaraṇe daśamaḥ śākavargaṃ samāptaḥ || 109 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).