विज्ञानखण्डः · अध्यायः ८
Mahāpūjāvidhivarṇanam
॥
A chapter of the Garga Samhita.
23 verses·Sanskrit with transliteration
महापूजाविधिवर्णनम् ।
श्रीव्यास उवाच - ।
अथ स्नात्वा च कृत्वा च नित्यनैमित्तिकीं क्रियाम् ॥ ।
पञ्चवर्णसमायुक्तं शुद्धे स्थण्डिलमण्डले ॥ १ ॥
mahāpūjāvidhivarṇanam |
śrīvyāsa uvāca - |
atha snātvā ca kṛtvā ca nityanaimittikīṃ kriyām || |
pañcavarṇasamāyuktaṃ śuddhe sthaṇḍilamaṇḍale || 1 ||
द्वात्रिंशद्दलसंयुक्तं कार्णिकाकेसरोज्ज्वलम् ॥ ।
विधाय कमलं स्थाप्य विधिवद्वेदसूक्तिभिः ॥ २ ॥
dvātriṃśaddalasaṃyuktaṃ kārṇikākesarojjvalam || |
vidhāya kamalaṃ sthāpya vidhivadvedasūktibhiḥ || 2 ||
कर्णिकायां न्यसेद्राजन्हरेः सिंहासनं शुभम् ॥ ।
तत्र राधां रमां स्थाप्य भूदेवीं विरजां तथा ॥ ३ ॥
karṇikāyāṃ nyasedrājanhareḥ siṃhāsanaṃ śubham || |
tatra rādhāṃ ramāṃ sthāpya bhūdevīṃ virajāṃ tathā || 3 ||
तन्मध्ये स्थापयेत्साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ॥ ।
तथाष्टदलमध्ये तु राधिकाष्टसखीः शुभाः ॥ ४ ॥
tanmadhye sthāpayetsākṣācchrīkṛṣṇaṃ puruṣottamam || |
tathāṣṭadalamadhye tu rādhikāṣṭasakhīḥ śubhāḥ || 4 ||
ततोऽष्टदलमध्ये तु श्रीकृष्णस्य तथा सखीन् ॥ ।
तथा षोडशपर्णेषु सखीनां च द्वयं द्वयम् ॥ ५ ॥
tato'ṣṭadalamadhye tu śrīkṛṣṇasya tathā sakhīn || |
tathā ṣoḍaśaparṇeṣu sakhīnāṃ ca dvayaṃ dvayam || 5 ||
कमलस्य च पार्श्वेषु शंखं चक्रं गदां तथा ॥ ।
पद्मं च नंदकं शार्ङ्गं बाणांश्च मुसलं हलम् ॥ ६ ॥
kamalasya ca pārśveṣu śaṃkhaṃ cakraṃ gadāṃ tathā || |
padmaṃ ca naṃdakaṃ śārṅgaṃ bāṇāṃśca musalaṃ halam || 6 ||
कौस्तुभं वनमालां च श्रीवत्सं नीलमंबरम् ॥ ।
पीतांबरं तथा वंशीं वेत्रं च स्थापयेद्बुधः ॥ ७ ॥
kaustubhaṃ vanamālāṃ ca śrīvatsaṃ nīlamaṃbaram || |
pītāṃbaraṃ tathā vaṃśīṃ vetraṃ ca sthāpayedbudhaḥ || 7 ||
ततः पार्श्वेषु तालांकं गरुडांकं रथं तथा ॥ ।
सुमतिं दारुकं सूतं गरुडं कुमुदं तथा ॥ ८ ॥
tataḥ pārśveṣu tālāṃkaṃ garuḍāṃkaṃ rathaṃ tathā || |
sumatiṃ dārukaṃ sūtaṃ garuḍaṃ kumudaṃ tathā || 8 ||
चंडं चैव प्रचंडं च बलं चैव महाबलम् ॥ ।
कुमुदाक्षं बलं चैव स्थापयेद्यत्नतः सुधीः ॥ ९ ॥
caṃḍaṃ caiva pracaṃḍaṃ ca balaṃ caiva mahābalam || |
kumudākṣaṃ balaṃ caiva sthāpayedyatnataḥ sudhīḥ || 9 ||
तथा दिक्षु च दिक्पालान्संस्थाप्य च पृथक् पृथक् ॥ ।
विष्वक्सेनं शिवं मां च विधिं दुर्गां विनायकम् ॥ १० ॥
tathā dikṣu ca dikpālānsaṃsthāpya ca pṛthak pṛthak || |
viṣvaksenaṃ śivaṃ māṃ ca vidhiṃ durgāṃ vināyakam || 10 ||
नवग्रहांश्च वरुणं तथा षोडश मातृकाः ॥ ।
तत्पद्माग्रे वीतिहोत्रं स्थंडिले स्थापयेद्बुधः ॥ ११ ॥
navagrahāṃśca varuṇaṃ tathā ṣoḍaśa mātṛkāḥ || |
tatpadmāgre vītihotraṃ sthaṃḍile sthāpayedbudhaḥ || 11 ||
आवाहनमासनं च पाद्यमर्घ्यं विशेषतः ॥ ।
स्नानं च मधुपर्कं च धूपं दीपं तथैव च ॥ १२ ॥
āvāhanamāsanaṃ ca pādyamarghyaṃ viśeṣataḥ || |
snānaṃ ca madhuparkaṃ ca dhūpaṃ dīpaṃ tathaiva ca || 12 ||
यज्ञोपवीतं वस्त्रं च भूषणं गंधमेव च ॥ ।
पुष्पं तथाक्षतांश्चैव नैवेद्यं च मनोहरम् ॥ १३ ॥
yajñopavītaṃ vastraṃ ca bhūṣaṇaṃ gaṃdhameva ca || |
puṣpaṃ tathākṣatāṃścaiva naivedyaṃ ca manoharam || 13 ||
आचमनं प्रदातव्यं तांबूलं दक्षिणां तथा ॥ ।
प्रदक्षिणां प्रार्थनां च तथा नीराजनं स्मृतम् ॥ १४ ॥
ācamanaṃ pradātavyaṃ tāṃbūlaṃ dakṣiṇāṃ tathā || |
pradakṣiṇāṃ prārthanāṃ ca tathā nīrājanaṃ smṛtam || 14 ||
नमस्कारं ततः कुर्यात्कर्मणा च पृथक् पृथक् ॥ ।
आवाहने तु पुष्पाणि आसने तु कुशद्वयम् ॥ ।
पाद्ये श्यामां च दूर्वां च विष्णुक्रांतां तथैव च ॥ ।
सौगंधिकानि पुष्पाणि अर्घ्ये योग्यानि यादव ॥ १५–१६ ॥
namaskāraṃ tataḥ kuryātkarmaṇā ca pṛthak pṛthak || |
āvāhane tu puṣpāṇi āsane tu kuśadvayam || |
pādye śyāmāṃ ca dūrvāṃ ca viṣṇukrāṃtāṃ tathaiva ca || |
saugaṃdhikāni puṣpāṇi arghye yogyāni yādava || 15–16 ||
चंदनोशीरकर्पूरकुंकुमागुरुमिश्रितम् ॥ ।
एतादृशं जलं योग्यं स्नाने राजन्महामते ॥ १७ ॥
caṃdanośīrakarpūrakuṃkumāgurumiśritam || |
etādṛśaṃ jalaṃ yogyaṃ snāne rājanmahāmate || 17 ||
मधुपर्के ह्यामलकमरविंदं तथा मतम् ॥ ।
धूपे गंधाष्टकं देयं दीपे कर्पूरमेव च ॥ १८ ॥
madhuparke hyāmalakamaraviṃdaṃ tathā matam || |
dhūpe gaṃdhāṣṭakaṃ deyaṃ dīpe karpūrameva ca || 18 ||
यज्ञोपवीतं पीतं च वस्त्रे पीतांबरं मतम् ॥ ।
भूषणे चैव सौवर्णं गंधे कुंकुमचन्दने ॥ १९ ॥
yajñopavītaṃ pītaṃ ca vastre pītāṃbaraṃ matam || |
bhūṣaṇe caiva sauvarṇaṃ gaṃdhe kuṃkumacandane || 19 ||
तुलसीमंजरी पुष्पेऽक्षतेषु स्युस्तु तंडुलाः ॥ ।
नैवेद्ये तु रसाः षट् च भोगा नानाविधा मताः ॥ २० ॥
tulasīmaṃjarī puṣpe'kṣateṣu syustu taṃḍulāḥ || |
naivedye tu rasāḥ ṣaṭ ca bhogā nānāvidhā matāḥ || 20 ||
जले गंगाजलं योग्यं यमुनाजलमेव च ॥ ।
जातीफलं च कंकोलमंते चाचमने नृप ॥ २१ ॥
jale gaṃgājalaṃ yogyaṃ yamunājalameva ca || |
jātīphalaṃ ca kaṃkolamaṃte cācamane nṛpa || 21 ||
तांबूले चोषणं त्वेला दक्षिणायां तु हाटकम् ॥ ।
प्रदक्षिणायां भ्रमणं घृतं नीराजने गवाम् ॥ २२ ॥
tāṃbūle coṣaṇaṃ tvelā dakṣiṇāyāṃ tu hāṭakam || |
pradakṣiṇāyāṃ bhramaṇaṃ ghṛtaṃ nīrājane gavām || 22 ||
प्रार्थनायां हरेर्भक्तिः प्रेमलक्षणसंयुता ॥ ।
नमस्कारे महाराज साष्टांगनतविग्रहः ॥ २३ ॥
prārthanāyāṃ harerbhaktiḥ premalakṣaṇasaṃyutā || |
namaskāre mahārāja sāṣṭāṃganatavigrahaḥ || 23 ||
द्वादशाक्षरमंत्रेण शिखां बद्ध्वा शुचिः पुमान् ॥ ।
उपचरान्पुरस्कृत्य श्रीमुखे संमुखो भवेत् ॥ २४ ॥
dvādaśākṣaramaṃtreṇa śikhāṃ baddhvā śuciḥ pumān || |
upacarānpuraskṛtya śrīmukhe saṃmukho bhavet || 24 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).