।।हरिरुवाच । नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि । जीवमुत्क्षिप्य मूर्द्धन्यां नाभ्यां व्योम्निनिवेशयेत् ॥ १ ॥
||hariruvāca | navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi | jīvamutkṣipya mūrddhanyāṃ nābhyāṃ vyomniniveśayet || 1 ||
आचारकाण्डः · अध्यायः ११
A chapter of the Garuda Purana.
44 versesSanskrit with transliteration
।।हरिरुवाच । नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि । जीवमुत्क्षिप्य मूर्द्धन्यां नाभ्यां व्योम्निनिवेशयेत् ॥ १ ॥
||hariruvāca | navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi | jīvamutkṣipya mūrddhanyāṃ nābhyāṃ vyomniniveśayet || 1 ||
ततोरमिति बीजेन दहेद्भूतात्मकं वपुः । यमित्यनेन बीजेन तच्च सर्व विनाशयेत् ॥ २ ॥
tatoramiti bījena dahedbhūtātmakaṃ vapuḥ | yamityanena bījena tacca sarva vināśayet || 2 ||
लमित्यनेन बीजेन प्लावयेत्सचराचरम् । वमित्यनेन बीजेन चिन्तयेदमृतं ततः ॥ ३ ॥
lamityanena bījena plāvayetsacarācaram | vamityanena bījena cintayedamṛtaṃ tataḥ || 3 ||
ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः । अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत् ॥ ४ ॥
tato budvudamadhye tu pītavāsāścaturbhujaḥ | ahaṃ matastathātmānaṃ dhyānena paricintayet || 4 ||
मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः । द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम् ॥ ५ ॥
mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ | dvādaśākṣarabījena uktabījairanantaram || 5 ||
षडङ्गेन ततः कुर्य्यात्साक्षाद्येन हरिर्भवेत् । दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठंदले न्यसेत् ॥ ६ ॥
ṣaḍaṅgena tataḥ kuryyātsākṣādyena harirbhavet | dakṣiṇāṅguṣṭhamārabhya madhyāṅguṣṭhaṃdale nyaset || 6 ||
मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः । हृच्छिरसि शिखावर्म्मवक्क्राक्ष्युदहपृष्ठतः ॥ ७ ॥
madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ | hṛcchirasi śikhāvarmmavakkrākṣyudahapṛṣṭhataḥ || 7 ||
बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् । पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठं निवेशयेत् ॥ ८ ॥
bāhvośca karayorjānvoḥ pādayoścāpi vinyaset | padmākārau karau kṛtvā madhye'ṅguṣṭhaṃ niveśayet || 8 ||
चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् । क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत् ॥ ९ ॥
cintayettatra sarveśaṃ paraṃ tattvamanāmayam | kramāccaitāni bījāni tarjanyādiṣu vinya set || 9 ||
ततो मूर्द्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा । नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात् ॥ १० ॥
tato mūrddhākṣivakkreṣu kaṇṭhe ca hṛdaye tathā | nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt || 10 ||
पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् । अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम् ॥ ११ ॥
pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset | aṅguṣṭhādikaniṣṭhāntaṃ vinyasedvījapañcakam || 11 ||
करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः । हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ॥ १२ ॥
karamadhye netrabījamaṅganyāsa'pyayaṃ kramaḥ | hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset || 12 ||
शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ । नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः ॥ १३ ॥
śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau | netraṃ netre vidhātavyamastrañca karayordvayoḥ || 13 ||
तेनैव च दिशो बद्धा पूजा विधिमथाचरेत् । हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः ॥ १४ ॥
tenaiva ca diśo baddhā pūjā vidhimathācaret | hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ || 14 ||
धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम् । आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत् ॥ १५ ॥
dharma jñanaṃ ca vairāgyamaiśvaryaṃ ca yathākramam | āgneyādau ca pūrvādāvadharmādīṃśca vinyaset || 15 ||
एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् । अनन्तं विन्यसेत्पश्चात्पूर्वकायोन्नतं स्थितम् ॥ १६ ॥
ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam | anantaṃ vinyasetpaścātpūrvakāyonnataṃ sthitam || 16 ||
ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् । सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्द्धकर्णिकम् ॥ १७ ॥
tato vidyātsarojātaṃ dalāṣṭasamadigdalam | sitābjaṃ śatapatrāḍhyaṃ viprakīrṇorddhakarṇikam || 17 ||
ध्यात्वा वेदादिना पश्चात्सूर्य्यसोमानलात्मनाम् । मण्डलानि क्रमादेवमुपर्य्युपरि चिन्तयेत् ॥ १८ ॥
dhyātvā vedādinā paścātsūryyasomānalātmanām | maṇḍalāni kramādevamuparyyupari cintayet || 18 ||
ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः । विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम् ॥ १९ ॥
tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ | vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām || 19 ||
एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् । मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः ॥ २० ॥
evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram | manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ || 20 ||
हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः । मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः ॥ २१ ॥
hṛdayādīni pūrvādicaturdigdalayogataḥ | madhye netraṃ tu koṇeṣu astramantraṃ nyasettataḥ || 21 ||
सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः । द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत् ॥ २२ ॥
saṅkarṣaṇādibījāni pūrvādikramayogataḥ | dvāri pūrve pare caiva vainateyaṃ tu vinyaset || 22 ||
सुदर्शनं सहस्त्रारं दक्षिणे द्वारि विन्यसेत् । श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा ॥ २३ ॥
sudarśanaṃ sahastrāraṃ dakṣiṇe dvāri vinyaset | śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā || 23 ||
द्वार्य्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् । देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत् ॥ २४ ॥
dvāryyattare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset | devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset || 24 ||
तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् । ततोऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत् ॥ २५ ॥
tadvatkhaṅgaṃ tathā cakraṃ nyasetpārśvadvayordvayam | tato'ntarlokapālāṃśca svadigbhedena vinyaset || 25 ||
वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् । ऊर्घ्वं ब्रह्म तथानन्तमधश्च परिचिन्तयेत् ॥ २६ ॥
vajrādīnyāyudhānyeva tathaiva viniveśayet | ūrghvaṃ brahma tathānantamadhaśca paricintayet || 26 ||
सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः । अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी ॥ २७ ॥
sarvaṃ dhyātveti saṃpūjya mudrāḥ sandarśayettataḥ | añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī || 27 ||
वन्दनी हृदयासक्तात्सार्द्धं दक्षिणतोन्नता । ऊर्द्धाङ्गुष्ठो वाममुष्टिर्दक्षिणांगुष्ठबन्धनः ॥ २८ ॥
vandanī hṛdayāsaktātsārddhaṃ dakṣiṇatonnatā | ūrddhāṅguṣṭho vāmamuṣṭirdakṣiṇāṃguṣṭhabandhanaḥ || 28 ||
सव्यस्य तस्य चांगुष्ठो यः स उद्ध्र्वः प्रकीर्त्तितः । तिस्त्रः साधारणा ह्येता मूर्त्तिभेदेन कल्पिताः ॥ २९ ॥
savyasya tasya cāṃguṣṭho yaḥ sa uddhrvaḥ prakīrttitaḥ | tistraḥ sādhāraṇā hyetā mūrttibhedena kalpitāḥ || 29 ||
कनिष्ठादिप्रयोगेण अष्टौ मुद्रा यथाक्रमम् । अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत् ॥ ३० ॥
kaniṣṭhādiprayogeṇa aṣṭau mudrā yathākramam | aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet || 30 ||
अंगुष्ठेन कनिष्ठान्तं नामयित्वांगुलित्रयम् । मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम् ॥ ३१ ॥
aṃguṣṭhena kaniṣṭhāntaṃ nāmayitvāṃgulitrayam | mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam || 31 ||
सव्यहस्तं तथोत्तानं कृत्वोर्द्धं भ्रामयेच्छनैः । नवमीयं स्मृता मुद्रा वराहाभिमता सदा ॥ ३२ ॥
savyahastaṃ tathottānaṃ kṛtvorddhaṃ bhrāmayecchanaiḥ | navamīyaṃ smṛtā mudrā varāhābhimatā sadā || 32 ||
मुष्टिद्वयमथोत्तानमृज्वेकैकेन मोचयेत् । उत्कुञ्चये त्सर्वमुक्ता अंगमुद्रेयमुच्यते ॥ ३३ ॥
muṣṭidvayamathottānamṛjvekaikena mocayet | utkuñcaye tsarvamuktā aṃgamudreyamucyate || 33 ||
मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः । दशानां लोकपालानां मुद्राश्च क्रमयोगतः ॥ ३४ ॥
muṣṭidvayamatho baddhā evamevānupūrvaśaḥ | daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ || 34 ||
स्वरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च । वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥ ३५ ॥
svaramādyaṃ dvitīyaṃ ca upāntyañcāntyameva ca | vāsudevo balaḥ kāmo hyaniruddho yathākramam || 35 ||
प्रणवस्तत्सदित्येतद् हुं क्षौं भूरिति मन्त्रकाः । नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट् ॥ ३६ ॥
praṇavastatsadityetad huṃ kṣauṃ bhūriti mantrakāḥ | nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ || 36 ||
सितारुणहरिद्राभा नीलश्यामल्लोहिताः । मेघाग्निमधुपिंगाभा वर्णतो नवनामकाः ॥ ३७ ॥
sitāruṇaharidrābhā nīlaśyāmallohitāḥ | meghāgnimadhupiṃgābhā varṇato navanāmakāḥ || 37 ||
कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् । षं चं फं षं गदादेवी वं लं मं क्षं च शंखकम् ॥ ३८ ॥
kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam | ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṃkhakam || 38 ||
घँ ढँ भँ ङँ भवेच्छ्रीश्च गं जं वं शं च पुष्टिका । घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत् ॥ ३९ ॥
gha~ ḍha~ bha~ ṅa~ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā | ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet || 39 ||
छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च । इत्यंगानियथायोगं देवदेवस्य वै दशा ॥ ४० ॥
chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca | ityaṃgāniyathāyogaṃ devadevasya vai daśā || 40 ||
गरुडोऽम्बुजसंकाशो गदा चैवासिताकृतिः । पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥ ४१ ॥
garuḍo'mbujasaṃkāśo gadā caivāsitākṛtiḥ | puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā || 41 ||
पूर्णचन्द्रनिभः शंखः कौस्तुभस्त्वरुणद्युतिः । चक्रं सूर्य्यसहस्त्राभं श्रीवत्सः कुन्दसन्निभः ॥ ४२ ॥
pūrṇacandranibhaḥ śaṃkhaḥ kaustubhastvaruṇadyutiḥ | cakraṃ sūryyasahastrābhaṃ śrīvatsaḥ kundasannibhaḥ || 42 ||
पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः । विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥ ४३ ॥
pañcavarṇanibhā mālā hyananto meghasannibhaḥ | vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ || 43 ||
अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया ॥ ४४ ॥
arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā || 44 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).