ब्रह्मोवाच । अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ १ ॥
brahmovāca | aśokakalikā hyaṣṭau ye pibanti punarvasau | caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ || 1 ||
आचारकाण्डः · अध्यायः १३३
A chapter of the Garuda Purana.
18 versesSanskrit with transliteration
ब्रह्मोवाच । अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ १ ॥
brahmovāca | aśokakalikā hyaṣṭau ye pibanti punarvasau | caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ || 1 ||
त्वामशोक ! हराभीष्ट ! मधुमाससमुद्भव । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥ २ ॥
tvāmaśoka ! harābhīṣṭa ! madhumāsasamudbhava | pibāmi śokasantapto māmaśokaṃ sadā kuru || 2 ||
(इत्यशोकाष्टमीव्रतम्) । ब्रह्मोवाच । शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युता । सा महानवमीत्युक्ता स्नानदानादि चाक्षयम् ॥ ३ ॥
(ityaśokāṣṭamīvratam) | brahmovāca | śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā | sā mahānavamītyuktā snānadānādi cākṣayam || 3 ||
नवमी केवला चापि दुर्गां चैव तु पूजयेत् । महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ॥ ४ ॥
navamī kevalā cāpi durgāṃ caiva tu pūjayet | mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam || 4 ||
अयाचितादि षष्ठ्यादौ राजा शत्रुजयाया च । जपहोमसमायुक्तः कन्यां वा भोजयेत्सदा ॥ ५ ॥
ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca | japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā || 5 ||
दुर्गेदुर्गे रक्षिणि स्वाहा मन्त्रोऽयं पूजनादिषु । दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽन्तिकाः ॥ ६ ॥
durgedurge rakṣiṇi svāhā mantro'yaṃ pūjanādiṣu | dīrghākārādimātrābhirnava devyo namo'ntikāḥ || 6 ||
षड्भिः पदैर्नमः स्वाहा वषडादिहृदादिकम् । अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पृजयेच्छिवाम् ॥ ७ ॥
ṣaḍbhiḥ padairnamaḥ svāhā vaṣaḍādihṛdādikam | aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pṛjayecchivām || 7 ||
अष्टम्यां नव गेहानि दारुजान्येकमेव वा । तस्मिन्देवी प्रकर्तव्या हैमी वाराजतापि वा ॥ ८ ॥
aṣṭamyāṃ nava gehāni dārujānyekameva vā | tasmindevī prakartavyā haimī vārājatāpi vā || 8 ||
शूले खङ्गे पुस्तके वा पटे वा मण्डले (पे) यजेत् । कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः ॥ ९ ॥
śūle khaṅge pustake vā paṭe vā maṇḍale (pe) yajet | kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīṃ dhanaḥ || 9 ||
ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रती । शक्तिं च मुद्गरं शूलं वज्रं खङ्गं तथाङ्कुशम् ॥ १० ॥
dhvajaṃ ḍamarukaṃ pāśaṃ vāmahasteṣu bibhratī | śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaṅgaṃ tathāṅkuśam || 10 ||
शरं चक्रं शलाकां च दुर्गामायुधसंयुताम् । शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना ॥ ११ ॥
śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām | śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā || 11 ||
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १२ ॥
rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā | caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā || 12 ||
नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः । रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका ॥ १३ ॥
navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ | rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā || 13 ||
पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा । म (मा) हिषोऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः ॥ १४ ॥
pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā | ma (mā) hiṣo'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ || 14 ||
जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते । पञ्च (ञ्चा) दशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत् । लिङ्गस्यां पूजयेद्वापि पादुकेऽथ जलेऽपि वा ॥ १५ ॥
japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate | pañca (ñcā) daśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet | liṅgasyāṃ pūjayedvāpi pāduke'tha jale'pi vā || 15 ||
विचित्रां रक्षयेत्पूजामष्टम्यामुपवासयेत् । पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत् ॥ १६ ॥
vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet | pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet || 16 ||
विधिवत्कालिकालीति तदुत्थरुधिरादिकम् । नेरृत्यां पूतनां चैव वायव्यां पापराक्षसीम् ॥ १७ ॥
vidhivatkālikālīti taduttharudhirādikam | nerṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm || 17 ||
दद्याच्चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम् ॥ १८ ॥
dadyāccarakyai caiśānyāmāgneyyāṃ ca vidārikām || 18 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).