।।सूत उवाच । गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् । द्वारे धाता विधाता च गंगायमुनया सह ॥ १ ॥
||sūta uvāca | gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm | dvāre dhātā vidhātā ca gaṃgāyamunayā saha || 1 ||
आचारकाण्डः · अध्यायः २८
A chapter of the Garuda Purana.
12 versesSanskrit with transliteration
।।सूत उवाच । गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् । द्वारे धाता विधाता च गंगायमुनया सह ॥ १ ॥
||sūta uvāca | gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm | dvāre dhātā vidhātā ca gaṃgāyamunayā saha || 1 ||
शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया । पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ॥ २ ॥
śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā | pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau || 2 ||
पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् । उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती ॥ ३ ॥
paścime balaprabalau jayaśca vijayo yajet | uttare śrīścaturdvāre gaṇo durgā sarasvatī || 3 ||
क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् । सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत् ॥ ४ ॥
kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam | siddho gururnalakūvaraṃ koṇe bhagavataṃ yajet || 4 ||
पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् । ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्म्मकम् ॥ ५ ॥
pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet | tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmmakam || 5 ||
अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः । ऐश्वर्य्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे ॥ ६ ॥
anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ | aiśvaryyaṃ vāyupūrvaṃ ca prakāśātmānamuttare || 6 ||
सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे । तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम् ॥ ७ ॥
sattvāya prakṛtātmane rajase moharūpiṇe | tamase kanda padmāya yajetkaṃ kākatattvakam || 7 ||
विद्यातत्त्वं परं तत्त्वं सूर्य्येन्दुवह्निमण्डलम् । विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत् ॥ ८ ॥
vidyātattvaṃ paraṃ tattvaṃ sūryyenduvahnimaṇḍalam | vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet || 8 ||
गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते । अङ्गानि यथा-आच क्रं च सुचक्रं च विचक्रं च तथैव च ॥ ९ ॥
gopījanavallabhāya svāhānto manurucyate | aṅgāni yathā-āca kraṃ ca sucakraṃ ca vicakraṃ ca tathaiva ca || 9 ||
त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम् । हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः ॥ १० ॥
trailokyarakṣakaṃ cakramasurārisudarśanam | hṛdādipūrvakoṇaṣu astraṃ śaktiṃ ca pūrvataḥ || 10 ||
रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि । लक्ष्मणा मित्रविंदा च जाम्बवत्या शुशीलया ॥ ११ ॥
rukmiṇī satyabhāmā ca sunandā nāgnajityapi | lakṣmaṇā mitraviṃdā ca jāmbavatyā śuśīlayā || 11 ||
शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् । खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत् ॥ १२ ॥
śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet | khaṅgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet || 12 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).