Read / Lakshmi Tantra / Chapter 39 of 57 अध्यायः ३९
Ekonacatvāriṃśo'dhyāyaḥ - 39 ॥
A chapter of the Lakshmi Tantra.
47 verses · Sanskrit with transliteration
एकोनचत्वारिंशोऽध्यायः - 39 ।
श्रीः--- ।
शृणु भोगान् सुरेशान दत्तैस्तुष्यामि यैरहम् ।
येषु मे वितता शक्तिर्भोग्यभोगाय तिष्ठते ॥ १ ॥
ekonacatvāriṃśo'dhyāyaḥ - 39 |
śrīḥ--- |
śṛṇu bhogān sureśāna dattaistuṣyāmi yairaham |
yeṣu me vitatā śaktirbhogyabhogāya tiṣṭhate || 1 ||
1. तिष्ठते; स्वाशयं प्रकाशयन्ती तिष्ठतीत्यर्थः। प्रकाशनार्थे तङ् ।
यथाशक्त्यनुरूपेण तत्तद्भोगोपकल्पने ।
दिव्यशक्तिप्रभेदैस्तैर्विचित्रैः स्त्यानतां गतैः ॥ २ ॥
1. tiṣṭhate; svāśayaṃ prakāśayantī tiṣṭhatītyarthaḥ| prakāśanārthe taṅ |
yathāśaktyanurūpeṇa tattadbhogopakalpane |
divyaśaktiprabhedaistairvicitraiḥ styānatāṃ gataiḥ || 2 ||
2. - - - - - - - - - - - - ।
संपूर्णमीस्वरार्हं तद्भावनीयमशेषतः ।
मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम् ॥ ३ ॥
2. - - - - - - - - - - - - |
saṃpūrṇamīsvarārhaṃ tadbhāvanīyamaśeṣataḥ |
mṛdvāstaraṇasaṃstīrṇamādāvāsanamuttamam || 3 ||
3. भोगविशेषा उच्यन्ते---मृद्वित्यादिना। भगवदाराधने षडासनानि; यथा---मन्त्रासनम्, स्नानासनम्, अलंकारासनम्, भोज्यासनम्, पुनर्मन्त्रासनम्, पर्यह्कासनं चेति। तत्र प्रथमं मन्त्रासनमत्रोच्यते ।
अर्घ्यं पाद्यं मधूपर्कस्तथैवाचमनीयकम् ।
प्रणामपूर्वकं पश्चादात्मात्मीयनिवेदनम् ॥ ४ ॥
3. bhogaviśeṣā ucyante---mṛdvityādinā| bhagavadārādhane ṣaḍāsanāni; yathā---mantrāsanam, snānāsanam, alaṃkārāsanam, bhojyāsanam, punarmantrāsanam, paryahkāsanaṃ ceti| tatra prathamaṃ mantrāsanamatrocyate |
arghyaṃ pādyaṃ madhūparkastathaivācamanīyakam |
praṇāmapūrvakaṃ paścādātmātmīyanivedanam || 4 ||
4. तस्मिन्नासने समर्पणीयानाह---अर्घ्यमित्यादिना। आत्मात्मीयनिवेदनप्रकारमाह पाद्मे (4-3-140)---"दासोऽहं ते जगन्नाथ सपुत्रादिपरिग्रहः। प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्क्ष्व हिते सदा।।" इति ।
अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम् ।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहः ॥ ५ ॥
4. tasminnāsane samarpaṇīyānāha---arghyamityādinā| ātmātmīyanivedanaprakāramāha pādme (4-3-140)---"dāso'haṃ te jagannātha saputrādiparigrahaḥ| preṣyaṃ praśādhi kartavye māṃ niyuṅkṣva hite sadā||" iti |
anujñāpya tataḥ paścāt snānāsanamanuttamam |
pādapīṭhamathārghyaṃ ca tataḥ pādyapratigrahaḥ || 5 ||
5. द्वितीयं स्नानासनमत्र। अत्र मन्त्रः सात्त्वते (6-26)---"स्फुटीकृतं मया देव त्विदं स्नानपरे त्वयि। सपादपीठं परमं शुभं स्नानासनं महत्। आसादयाशु स्नानार्थं मदनुग्रहकाम्यया।।" इति ।
पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका ।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ॥ ६ ॥
5. dvitīyaṃ snānāsanamatra| atra mantraḥ sāttvate (6-26)---"sphuṭīkṛtaṃ mayā deva tvidaṃ snānapare tvayi| sapādapīṭhaṃ paramaṃ śubhaṃ snānāsanaṃ mahat| āsādayāśu snānārthaṃ madanugrahakāmyayā||" iti |
pādyāmbu pāduke snānaśāṭī mātrā ca śālikā |
darpaṇaṃ gandhatoyaṃ ca pāṇiprakṣālanārthakam || 6 ||
6. मात्रा च शालिकेति। अक्षताग्रशुभ्रवर्णशालितण्डुलपूर्णपात्रमत्र मात्रापदार्थः। तथा च पाद्मे (4-6-36)---"शालितण्डुलमात्रया" इति। एतच्च मात्रादानमाराधनमध्यापतितवैकल्यपरिहाराय ।
दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी ।
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ॥ ७ ॥
6. mātrā ca śāliketi| akṣatāgraśubhravarṇaśālitaṇḍulapūrṇapātramatra mātrāpadārthaḥ| tathā ca pādme (4-6-36)---"śālitaṇḍulamātrayā" iti| etacca mātrādānamārādhanamadhyāpatitavaikalyaparihārāya |
dantakāṣṭhaṃ ca vadanaprakṣālācamanāmbunī |
gandhatailaṃ ca cūrṇaṃ ca śāligodhūmasaṃbhavam || 7 ||
7. - - - - - - - - - - - - ।
हरिद्राचूर्णसंमिश्रमीषत्पद्मकभावितम् ।
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ॥ ८ ॥
7. - - - - - - - - - - - - |
haridrācūrṇasaṃmiśramīṣatpadmakabhāvitam |
udvartanārthaṃ tadanu snānārthaṃ khalisaṃyutam || 8 ||
8. खलिः मृगमदादिवासनावासितं घनीभूतगन्धतैलकिट्टकम् ।
उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम् ।
क्षीरं दधि घृतं गव्यं मध्वैक्षवरसं तथा ॥ ९ ॥
8. khaliḥ mṛgamadādivāsanāvāsitaṃ ghanībhūtagandhatailakiṭṭakam |
uṣṇāmbu candanaṃ candramiśritaṃ lepanārthakam |
kṣīraṃ dadhi ghṛtaṃ gavyaṃ madhvaikṣavarasaṃ tathā || 9 ||
9. चन्द्रः घनसारः ।
सुगन्धामलकाभिश्च लोध्रतोयं ततः परम् ।
रक्तचन्दनतोयं च रजनीवारि चोत्तमम् ॥ १० ॥
9. candraḥ ghanasāraḥ |
sugandhāmalakābhiśca lodhratoyaṃ tataḥ param |
raktacandanatoyaṃ ca rajanīvāri cottamam || 10 ||
10. - - - - - - - - - - - - ।
ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम् ।
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम् ॥ ११ ॥
10. - - - - - - - - - - - - |
granthiparṇīpayaḥ paścāt tataśca tagarodakam |
priyaṅgujaṭilāsiddhārthakasarvauṣadhījalam || 11 ||
11. - - - - - - - - - - - - ।
पुष्पपत्रफलाम्भांसि बीजगन्धोदके तथा ।
हेमरत्नसरित्तीर्थकेवलाम्बूनि च क्रमात् ॥ १२ ॥
11. - - - - - - - - - - - - |
puṣpapatraphalāmbhāṃsi bījagandhodake tathā |
hemaratnasarittīrthakevalāmbūni ca kramāt || 12 ||
12. - - - - - - - - - - - - ।
स्नानीयांम्बुसमेतानि देयान्यम्बून्यमूनि तु ।
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा ॥ १३ ॥
12. - - - - - - - - - - - - |
snānīyāṃmbusametāni deyānyambūnyamūni tu |
arghyapātrāttathaivārghyaṃ snānānāmantarāntarā || 13 ||
13. - - - - - - - - - - - - ।
दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा ।
स्नानशिष्टाम्बुसंपूर्णं {1}हरिद्राशालिसंभृतम् ॥ १४ ॥
13. - - - - - - - - - - - - |
dadyāt sapuṣpatoyena kṣālanaṃ cāntarāntarā |
snānaśiṣṭāmbusaṃpūrṇaṃ {1}haridrāśālisaṃbhṛtam || 14 ||
14. स्नपनानन्तरं नीराजनमुच्यते---स्नानशिष्टेति ।
{1. हरिद्राग्रन्थि B. } ।
स्रगादिसंयुतं कुम्भं हस्ते कृत्वापरत्र तु ।
सिद्धार्थैर्धूपवत् पात्रं भ्रामयित्वा तु मूर्धनि ॥ १५ ॥
14. snapanānantaraṃ nīrājanamucyate---snānaśiṣṭeti |
{1. haridrāgranthi B. } |
sragādisaṃyutaṃ kumbhaṃ haste kṛtvāparatra tu |
siddhārthairdhūpavat pātraṃ bhrāmayitvā tu mūrdhani || 15 ||
15. हस्ते; वामहस्ते। अपरत्र; दक्षिणहस्ते ।
बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके ।
केशोदकापकर्षार्थमम्बरं देहवारिहृत् ॥ १६ ॥
15. haste; vāmahaste| aparatra; dakṣiṇahaste |
bahiḥ kṣipettato dadyāt sudhaute cāṅgaśāṭike |
keśodakāpakarṣārthamambaraṃ dehavārihṛt || 16 ||
16. - - - - - - - - - - - ।
अन्तरीयोत्तरीये द्वे सुधौते वाससी शुभे ।
भाविते गन्धधूपेन दद्याद् भद्रासनं ततः ॥ १७ ॥
16. - - - - - - - - - - - |
antarīyottarīye dve sudhaute vāsasī śubhe |
bhāvite gandhadhūpena dadyād bhadrāsanaṃ tataḥ || 17 ||
17. भद्रासनम्; स्नानासनम् ।
शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम् ।
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम् ॥ १८ ॥
17. bhadrāsanam; snānāsanam |
śodhayet pūrṇakumbhaistu khaplutaṃ bhāvayeddharim |
alaṃkārāsanaṃ paścāddeyaṃ mṛdvāstarolbaṇam || 18 ||
18. खप्लुतम्; द्वादसान्तस्थितम्। तृतीयमलंकारासनमाह--अलंकारेति ।
तत्र सर्वं प्रदातव्यमर्घ्यपाद्यादि पूर्ववत् ।
{2}विवेचनं च केशानां कङ्कतेन प्रशोधनम् ॥ १९ ॥
18. khaplutam; dvādasāntasthitam| tṛtīyamalaṃkārāsanamāha--alaṃkāreti |
tatra sarvaṃ pradātavyamarghyapādyādi pūrvavat |
{2}vivecanaṃ ca keśānāṃ kaṅkatena praśodhanam || 19 ||
19. कङ्कतं केशप्रसाधनी ।
{2. निवेशनं A. } ।
शीर्षण्यास्ताः सुमनसस्ततश्चूडोपकल्पनम् ।
{3}चन्दनाद्याः सुगन्धाश्च व्यजनं शोषणार्थकम् ॥ २० ॥
19. kaṅkataṃ keśaprasādhanī |
{2. niveśanaṃ A. } |
śīrṣaṇyāstāḥ sumanasastataścūḍopakalpanam |
{3}candanādyāḥ sugandhāśca vyajanaṃ śoṣaṇārthakam || 20 ||
20. - - - - - - - - - - - - - - ।
{3. चन्दनाद्यास्तु A. B. } ।
मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः ।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः ॥ २१ ॥
20. - - - - - - - - - - - - - - |
{3. candanādyāstu A. B. } |
makuṭādyā alaṃkārāḥ pradeyāḥ paramādbhutāḥ |
srajo nānāvidhākārāḥ sāttvikaiḥ kusumaiścitāḥ || 21 ||
21. - - - - - - - - - - - - - - ।
पुष्पाञ्जलिः पदद्वन्द्वे प्राकारः सुमनश्चयैः ।
गन्धद्रव्यसुशीतेन ह्यञ्जनेनाञ्जनं दृशोः ॥ २२ ॥
21. - - - - - - - - - - - - - - |
puṣpāñjaliḥ padadvandve prākāraḥ sumanaścayaiḥ |
gandhadravyasuśītena hyañjanenāñjanaṃ dṛśoḥ || 22 ||
22. - - - - - - - - - - - - ।
तथैवालम्भनं चापि ललाटतिलकं तथा ।
आदर्शो विमलो मृष्टः परितश्च समीक्षणम् ॥ २३ ॥
22. - - - - - - - - - - - - |
tathaivālambhanaṃ cāpi lalāṭatilakaṃ tathā |
ādarśo vimalo mṛṣṭaḥ paritaśca samīkṣaṇam || 23 ||
23. - - - - - - - - - - - - - - ।
प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत् ।
स्तुतिमङ्गलगीतानि नृत्तवादित्रदर्शनम् ॥ २४ ॥
23. - - - - - - - - - - - - - - |
pradīpaśca pradhūpaśca vāhanaṃ cetanetarat |
stutimaṅgalagītāni nṛttavāditradarśanam || 24 ||
24. चेतनेतरत् वाहनमिति। सुवर्णादिनिर्मितं हस्त्यश्वादि ।
मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः ।
बुद्ध्या विरचितास्तास्ता राजराजोचिताः क्रियाः ॥ २५ ॥
24. cetanetarat vāhanamiti| suvarṇādinirmitaṃ hastyaśvādi |
mātrāśca ratnasaṃpūrṇā bhogacchidraprapūraṇāḥ |
buddhyā viracitāstāstā rājarājocitāḥ kriyāḥ || 25 ||
25. - - - - - - - - - - - - - - ।
अलंकारासनस्थाय त्वेते भोगा हि मन्मयाः ।
अथ भोज्यासनं देयमर्ग्यपाद्यादिकं तथा ॥ २६ ॥
25. - - - - - - - - - - - - - - |
alaṃkārāsanasthāya tvete bhogā hi manmayāḥ |
atha bhojyāsanaṃ deyamargyapādyādikaṃ tathā || 26 ||
26. मन्मया इत्यनेनाध्यायादावुक्तो विषयः स्मार्यते। तुरीयं भोज्यासनमुपवर्ण्यते---अथेति ।
यजेत मधुपर्केण {4}यथा तदवधारय ।
पयसो मधुनो दध्नः संयोगो मधुपर्ककः ॥ २७ ॥
26. manmayā ityanenādhyāyādāvukto viṣayaḥ smāryate| turīyaṃ bhojyāsanamupavarṇyate---atheti |
yajeta madhuparkeṇa {4}yathā tadavadhāraya |
payaso madhuno dadhnaḥ saṃyogo madhuparkakaḥ || 27 ||
27. मधुपर्कमाह--पयस इति ।
{4. यथावत् B. F. } ।
पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम् ।
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत् ॥ २८ ॥
27. madhuparkamāha--payasa iti |
{4. yathāvat B. F. } |
pātraṃ puraḥ pratiṣṭhāpya madhuparkeṇa pūritam |
arhaṇaṃ tarpaṇaṃ cārghyāt pṛthak pātradvaye bhavet || 28 ||
28. - - - - - - - - - - - - - ।
{5}अर्हणेनार्चनं पूर्वं ततश्च मधुपर्ककम् ।
तर्पणं तर्पणीयाभिस्ततो निष्पुंसनं करे ॥ २९ ॥
28. - - - - - - - - - - - - - |
{5}arhaṇenārcanaṃ pūrvaṃ tataśca madhuparkakam |
tarpaṇaṃ tarpaṇīyābhistato niṣpuṃsanaṃ kare || 29 ||
29. अर्हणमापोशनम्। तर्पणम्; पानीयतीर्थम्। निष्पुंसनम्; हस्तोद्वर्तनम् ।
{5. अर्हणं चार्चनं B. } ।
देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी ।
यष्टव्यमन्नयज्ञेन साङ्गेन मधुपर्कवत् ॥ ३० ॥
29. arhaṇamāpośanam| tarpaṇam; pānīyatīrtham| niṣpuṃsanam; hastodvartanam |
{5. arhaṇaṃ cārcanaṃ B. } |
deyamācamanaṃ paścānmātrā gaurmādhuparkikī |
yaṣṭavyamannayajñena sāṅgena madhuparkavat || 30 ||
30. पुनः मधुपर्कदानसंभावितवैकल्यपरिहाराय गवा मात्रादानमत्रोच्यते ।
{6}प्रदेया अन्नयज्ञार्था मात्राः शाल्यन्ननिर्मिताः ।
सकर्पूरं च ताम्बूलं प्रदेयमनुवासनम् ॥ ३१ ॥
30. punaḥ madhuparkadānasaṃbhāvitavaikalyaparihārāya gavā mātrādānamatrocyate |
{6}pradeyā annayajñārthā mātrāḥ śālyannanirmitāḥ |
sakarpūraṃ ca tāmbūlaṃ pradeyamanuvāsanam || 31 ||
31. पञ्चमे मन्त्रासने समर्पणीयानि ताम्बूलादीनि ।
{6. B. C. F. omit four lines from here. } ।
ततश्च विश्रमार्थाय विमानं परमाद्भुतम् ।
प्रदेयं तत्र दातव्यं सर्वमर्घ्यादि पूर्ववत् ॥ ३२ ॥
31. pañcame mantrāsane samarpaṇīyāni tāmbūlādīni |
{6. B. C. F. omit four lines from here. } |
tataśca viśramārthāya vimānaṃ paramādbhutam |
pradeyaṃ tatra dātavyaṃ sarvamarghyādi pūrvavat || 32 ||
32. षष्ठं पर्यह्कासनमुच्यते---ततश्चेति ।
जपं समाचरेत् पश्चादलक्ष्यमितरैर्जनैः ।
मन्त्रसंस्कृतया सम्यक् शुभया ह्यक्षमालया ॥ ३३ ॥
32. ṣaṣṭhaṃ paryahkāsanamucyate---tataśceti |
japaṃ samācaret paścādalakṣyamitarairjanaiḥ |
mantrasaṃskṛtayā samyak śubhayā hyakṣamālayā || 33 ||
33. जपसंख्यागणनोपकरणेष्वक्षमाला प्रशस्ता ।
प्राकृतस्त्वङ्गुलीभिस्तु पर्वभिस्तु दशोत्तरः ।
शतोत्तरादिसंख्यस्तु विज्ञेयो ह्यक्षमालया ॥ ३४ ॥
33. japasaṃkhyāgaṇanopakaraṇeṣvakṣamālā praśastā |
prākṛtastvaṅgulībhistu parvabhistu daśottaraḥ |
śatottarādisaṃkhyastu vijñeyo hyakṣamālayā || 34 ||
34. - - - - - - - - - - - - ।
वाचिकः क्षुद्रकर्मार्थमुपांशु सिद्धिकर्मणि ।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् ॥ ३५ ॥
34. - - - - - - - - - - - - |
vācikaḥ kṣudrakarmārthamupāṃśu siddhikarmaṇi |
mānaso mokṣalakṣmīdo dhyānātmā sarvasiddhikṛt || 35 ||
35. जपविशेषो वाचिकादिः ।
अक्षमाला तथा कार्या न दृश्या प्राकृतैर्यथा ।
अक्षास्थिमात्रा मण्य उत्तमाः परिकीर्तिताः ॥ ३६ ॥
35. japaviśeṣo vācikādiḥ |
akṣamālā tathā kāryā na dṛśyā prākṛtairyathā |
akṣāsthimātrā maṇya uttamāḥ parikīrtitāḥ || 36 ||
36. - - - - - - - - - - - - ।
धात्रीफलास्थिसदृशा मध्यमाः परिकीर्तिताः ।
{7}अधमा बदरास्थ्याभाः श्रेष्ठमष्टशतात्मकम् ॥ ३७ ॥
36. - - - - - - - - - - - - |
dhātrīphalāsthisadṛśā madhyamāḥ parikīrtitāḥ |
{7}adhamā badarāsthyābhāḥ śreṣṭhamaṣṭaśatātmakam || 37 ||
37. - - - - - - - - - - - - - - ।
{7. अथवा A. } ।
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम् ।
सौवर्णं द्रव्यसिद्ध्यर्थे पुष्ट्यर्थे पितृकर्मणि ॥ ३८ ॥
37. - - - - - - - - - - - - - - |
{7. athavā A. } |
tadardhaṃ madhyamaṃ proktaṃ tadardhamadhamaṃ smṛtam |
sauvarṇaṃ dravyasiddhyarthe puṣṭyarthe pitṛkarmaṇi || 38 ||
38. अक्षमालामणिविशेषानाह---सौवर्णमित्यादिना ।
राजतं ताम्ररूपं तु मेधावीर्यजयाप्तये ।
त्रापुषं यक्षिणीसिद्धौ सैसं रक्षःपिशाचयोः ॥ ३९ ॥
38. akṣamālāmaṇiviśeṣānāha---sauvarṇamityādinā |
rājataṃ tāmrarūpaṃ tu medhāvīryajayāptaye |
trāpuṣaṃ yakṣiṇīsiddhau saisaṃ rakṣaḥpiśācayoḥ || 39 ||
39. - - - - - - - - - - - - ।
वेतालसाधनार्थं तु रीतिजं कांस्यजं तु तत् ।
अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने ॥ ४० ॥
39. - - - - - - - - - - - - |
vetālasādhanārthaṃ tu rītijaṃ kāṃsyajaṃ tu tat |
akṣasūtraṃ parijñeyaṃ nāgapannagasādhane || 40 ||
40. रीतिः पित्तललोहविशेषः ।
आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः ।
आयुरारोग्यभूत्यर्थः{8} सर्वो मणिमयो मणिः ॥ ४१ ॥
40. rītiḥ pittalalohaviśeṣaḥ |
āyasaṃ kṣudrakarmārthamiti dhātumayo maṇiḥ |
āyurārogyabhūtyarthaḥ{8} sarvo maṇimayo maṇiḥ || 41 ||
41. - - - - - - - - - - - - - ।
{8. वृद्ध्यर्थः C. } ।
मोक्षाय शान्तये चैव स्फाटिको मणिरुच्यते ।
सौभाग्ये वैद्रुमः कार्यः सौत्रः कार्यस्तु मुक्तये ॥ ४२ ॥
41. - - - - - - - - - - - - - |
{8. vṛddhyarthaḥ C. } |
mokṣāya śāntaye caiva sphāṭiko maṇirucyate |
saubhāgye vaidrumaḥ kāryaḥ sautraḥ kāryastu muktaye || 42 ||
42. सैत्रः; तन्तुनिर्मितः ।
शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः ।
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः ॥ ४३ ॥
42. saitraḥ; tantunirmitaḥ |
śāntaye muktaye puṣṭyai tulasīmūlajo maṇiḥ |
sarvasiddhipradaḥ pādmo maṇiḥ śāṅkhaḥ śriyai mataḥ || 43 ||
43. - - - - - - - - - - - - - - ।
आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः ।
आदद्यादेकमेतेषां शुभकाले गुणाधिके ॥ ४४ ॥
43. - - - - - - - - - - - - - - |
āyuḥprajāyaśodaḥ syānmauktiko maṇiruttamaḥ |
ādadyādekameteṣāṃ śubhakāle guṇādhike || 44 ||
44. - - - - - - - - - - - ।
अस्रेण गन्धतोयेन क्षालयेत्तदनन्तरम् ।
{9}शाणकार्पासजोर्णानां कृत्वा सूत्रं नवं दृढम् ॥ ४५ ॥
44. - - - - - - - - - - - |
asreṇa gandhatoyena kṣālayettadanantaram |
{9}śāṇakārpāsajorṇānāṃ kṛtvā sūtraṃ navaṃ dṛḍham || 45 ||
45. - - - - - - - - - - - - - ।
{9. B. omits four lines from here. } ।
त्रिगुणं त्रिगुणीकृत्य चतुर्धा वा यथा दृढम् ।
क्षालयित्वास्रतोयेन तेनैव ग्रथयेन्मणीन् ॥ ४६ ॥
45. - - - - - - - - - - - - - |
{9. B. omits four lines from here. } |
triguṇaṃ triguṇīkṛtya caturdhā vā yathā dṛḍham |
kṣālayitvāsratoyena tenaiva grathayenmaṇīn || 46 ||
46. - - - - - - - - - - - ।
अनूनानधिकांस्तुल्यानचलान् ग्रथितान्तरान् ।
इष्टसंख्यामणिप्रोतसूत्रान्तद्वितयोपमम् ।
मणिं प्रकल्पयेन्मेरुमक्षमालाविधिस्त्वयम् ॥ ४७ ॥
46. - - - - - - - - - - - |
anūnānadhikāṃstulyānacalān grathitāntarān |
iṣṭasaṃkhyāmaṇiprotasūtrāntadvitayopamam |
maṇiṃ prakalpayenmerumakṣamālāvidhistvayam || 47 ||
← Chapter 38 Aṣṭatriṃśo'dhyāyaḥ - 38 Chapter 40 → Catvāriṃśo'dhyāyaḥ - 40 Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).