सर्वेषां मण्डपानां तु लक्षणं वक्ष्यतेऽधुना । तैतलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥ १ ॥
sarveṣāṃ maṇḍapānāṃ tu lakṣaṇaṃ vakṣyate'dhunā | taitalānāṃ dvijātīnāṃ varṇānāṃ vāsayogyakam || 1 ||
अध्यायः ३२ · मण्डपविधानम्
maṇḍapavidhānam
A chapter of the Manasara.
286 versesSanskrit with transliteration
सर्वेषां मण्डपानां तु लक्षणं वक्ष्यतेऽधुना । तैतलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥ १ ॥
sarveṣāṃ maṇḍapānāṃ tu lakṣaṇaṃ vakṣyate'dhunā | taitalānāṃ dvijātīnāṃ varṇānāṃ vāsayogyakam || 1 ||
भक्तिमानं तथा भित्तिविस्तारं चाप्यलिन्द्र कम् । प्रपाङ्गं मण्डपाकारं पञ्चभेदं क्रमोच्यते ॥ २ ॥
bhaktimānaṃ tathā bhittivistāraṃ cāpyalindra kam | prapāṅgaṃ maṇḍapākāraṃ pañcabhedaṃ kramocyate || 2 ||
अत्यर्धहस्तमारभ्य षट्षडङ्गुलवर्धनात् । पञ्चहस्तान्तकं भित्तिपञ्चादशविशालकम् ॥ ३ ॥
atyardhahastamārabhya ṣaṭṣaḍaṅgulavardhanāt | pañcahastāntakaṃ bhittipañcādaśaviśālakam || 3 ||
विस्तारस्य समं दीर्घमधिकं चैकमेव वा । विस्तारद्विगुणान्तं च एकैकाङ्गुलवर्धनात् ॥ ४ ॥
vistārasya samaṃ dīrghamadhikaṃ caikameva vā | vistāradviguṇāntaṃ ca ekaikāṅgulavardhanāt || 4 ||
विस्ताराष्टांशकांशेन वर्धनाद् द्विगुणान्तकम् । एवं भक्त्यायतं प्रोक्तं भक्तितारमिहोच्यते ॥ ५ ॥
vistārāṣṭāṃśakāṃśena vardhanād dviguṇāntakam | evaṃ bhaktyāyataṃ proktaṃ bhaktitāramihocyate || 5 ||
एकं हस्तं समारभ्य षट्षडङ्गुलवर्धनात् । भक्तितारं द्विहस्तान्तं पञ्चधा परिकीर्तितम् ॥ ६ ॥
ekaṃ hastaṃ samārabhya ṣaṭṣaḍaṅgulavardhanāt | bhaktitāraṃ dvihastāntaṃ pañcadhā parikīrtitam || 6 ||
एकभक्ति द्विभक्तिं वालिन्द्र विस्तारमेव च । अधिस्ठानं विना कुर्याज्जन्मादिप्रस्तरान्तकम् ॥ ७ ॥
ekabhakti dvibhaktiṃ vālindra vistārameva ca | adhisṭhānaṃ vinā kuryājjanmādiprastarāntakam || 7 ||
अथवा पादवंशं च संयुक्तं तत्प्रपाङ्गकम् । खदिरं खादिरं चैव घातपादस्य दारुभिः ॥ ८ ॥
athavā pādavaṃśaṃ ca saṃyuktaṃ tatprapāṅgakam | khadiraṃ khādiraṃ caiva ghātapādasya dārubhiḥ || 8 ||
अन्यैः सारद्रुमैः प्रोक्तं होमान्तं पाद दारु च । मधुकं क्षीरिणी सालै रन्यैः श्रेष्ठद्रुमोत्तमम् ॥ ९ ॥
anyaiḥ sāradrumaiḥ proktaṃ homāntaṃ pāda dāru ca | madhukaṃ kṣīriṇī sālai ranyaiḥ śreṣṭhadrumottamam || 9 ||
अथवा शिलासंयुक्तं प्रपासर्वाङ्गमेव च । शुद्ध मिश्रं च संकीर्णं यथाशोभं बलं तु यत् ॥ १० ॥
athavā śilāsaṃyuktaṃ prapāsarvāṅgameva ca | śuddha miśraṃ ca saṃkīrṇaṃ yathāśobhaṃ balaṃ tu yat || 10 ||
यथालाभं द्रुमैः स्तम्भैः वंशे त्ववसारवृक्षकम् । क्रमुकं स्तम्भयुक्तं वा घातयेत्स्थापयेत्सुधीः ॥ ११ ॥
yathālābhaṃ drumaiḥ stambhaiḥ vaṃśe tvavasāravṛkṣakam | kramukaṃ stambhayuktaṃ vā ghātayetsthāpayetsudhīḥ || 11 ||
क्रमुकैर्वंशयुक्तं वा वेणुभिश्चोर्ध्ववंशकम् । दीर्घं च तिर्यग्वंशं चोर्ध्वे तद् दीर्घवंशकम् ॥ १२ ॥
kramukairvaṃśayuktaṃ vā veṇubhiścordhvavaṃśakam | dīrghaṃ ca tiryagvaṃśaṃ cordhve tad dīrghavaṃśakam || 12 ||
नालिकेरदलाभिश्च बध्वा त्वाच्छादनं भवेत् । अन्यैरपि दलास् सर्वे यथालाभं वितानयेत् ॥ १३ ॥
nālikeradalābhiśca badhvā tvācchādanaṃ bhavet | anyairapi dalās sarve yathālābhaṃ vitānayet || 13 ||
वातेन त्वचलं तत्र कुर्याद्दक्षिणिका प्रपा । प्रपाङ्गं च प्रपाश्चैतत्कुर्यात्तत्तद्विचक्षणः ॥ १४ ॥
vātena tvacalaṃ tatra kuryāddakṣiṇikā prapā | prapāṅgaṃ ca prapāścaitatkuryāttattadvicakṣaṇaḥ || 14 ||
देवालये गृहे वापि मण्डपे पृथगेववा । अन्तर्वापि बहिर्वापि परितस्तु यथा प्रपा ॥ १५ ॥
devālaye gṛhe vāpi maṇḍape pṛthagevavā | antarvāpi bahirvāpi paritastu yathā prapā || 15 ||
यत्र देशे प्रपां कुर्यात्तत्र दोषो न विद्यते । इति प्रपाङ्गमुक्तं तं मण्डपं वक्ष्यतेऽधुना ॥ १६ ॥
yatra deśe prapāṃ kuryāttatra doṣo na vidyate | iti prapāṅgamuktaṃ taṃ maṇḍapaṃ vakṣyate'dhunā || 16 ||
देवालयेषु सर्वेषु संमुखे बहुमण्डपम् । पुण्यक्षेत्रे तथारामे ग्रामादौ वास्तुमध्यमे ॥ १७ ॥
devālayeṣu sarveṣu saṃmukhe bahumaṇḍapam | puṇyakṣetre tathārāme grāmādau vāstumadhyame || 17 ||
चतुर्दिक्षु विदिक्षु वापि बाह्याभ्यन्तरतोऽथवा । नराणां गृहमध्ये च संमुखे मण्डपं तु वा ॥ १८ ॥
caturdikṣu vidikṣu vāpi bāhyābhyantarato'thavā | narāṇāṃ gṛhamadhye ca saṃmukhe maṇḍapaṃ tu vā || 18 ||
सर्वेषां वासयोग्यार्थं मण्डपं यागमण्डपम् । नृपाणामभिषेकार्थं मण्डपं नृत्तमण्डपम् ॥ १९ ॥
sarveṣāṃ vāsayogyārthaṃ maṇḍapaṃ yāgamaṇḍapam | nṛpāṇāmabhiṣekārthaṃ maṇḍapaṃ nṛttamaṇḍapam || 19 ||
पाणिपीडनसिद्ध्यर्थं तथा मैत्रं च मण्डपम् । उपनयनमण्डपं चैव तथा च स्नानमण्डपम् ॥ २० ॥
pāṇipīḍanasiddhyarthaṃ tathā maitraṃ ca maṇḍapam | upanayanamaṇḍapaṃ caiva tathā ca snānamaṇḍapam || 20 ||
अर्भकानां मुखालोकं मण्डपं सतीमण्डपम् । क्षौरार्थं मण्डपं चैव चाग्निकार्यार्थमण्डपम् ॥ २१ ॥
arbhakānāṃ mukhālokaṃ maṇḍapaṃ satīmaṇḍapam | kṣaurārthaṃ maṇḍapaṃ caiva cāgnikāryārthamaṇḍapam || 21 ||
सुखान्वितार्थं कल्पेत मण्डपं विधिवत्क्रमात् । मण्डपानां च सर्वेषां स्थानमुक्तं पुरातनैः ॥ २२ ॥
sukhānvitārthaṃ kalpeta maṇḍapaṃ vidhivatkramāt | maṇḍapānāṃ ca sarveṣāṃ sthānamuktaṃ purātanaiḥ || 22 ||
प्रासादाभिमुखे सप्तमण्डपं कल्पयेत्क्रमात् । आदौ स्नपनार्थं च द्वितीयाध्ययनमण्डपम् ॥ २३ ॥
prāsādābhimukhe saptamaṇḍapaṃ kalpayetkramāt | ādau snapanārthaṃ ca dvitīyādhyayanamaṇḍapam || 23 ||
विशेषं स्नपनार्थं च मण्डपं च तृतीयकम् । चतुर्थं प्रतिमागारं पञ्चमं स्थापनमण्डपम् ॥ २४ ॥
viśeṣaṃ snapanārthaṃ ca maṇḍapaṃ ca tṛtīyakam | caturthaṃ pratimāgāraṃ pañcamaṃ sthāpanamaṇḍapam || 24 ||
षष्ठं चापि ततः कुर्यात्तत्तत्तीर्थमण्डपम् । सप्तमं नृत्तगीतार्थमागार तत्साधकार्थकम् ॥ २५ ॥
ṣaṣṭhaṃ cāpi tataḥ kuryāttattattīrthamaṇḍapam | saptamaṃ nṛttagītārthamāgāra tatsādhakārthakam || 25 ||
अथवा तन्मुखे कुर्यादेकद्वित्रि च मण्डपम् । स्नपनं प्रतिमाङ्गानां गीतनृत्तार्थमण्डपम् ॥ २६ ॥
athavā tanmukhe kuryādekadvitri ca maṇḍapam | snapanaṃ pratimāṅgānāṃ gītanṛttārthamaṇḍapam || 26 ||
मण्डपं द्वितीयं चैतत् अग्रमण्डप तन्मुखे । आदौ चाध्ययनार्थं स्यात्प्रतिमामण्डपं तथा ॥ २७ ॥
maṇḍapaṃ dvitīyaṃ caitat agramaṇḍapa tanmukhe | ādau cādhyayanārthaṃ syātpratimāmaṇḍapaṃ tathā || 27 ||
तत्रैव मण्डपं कुर्यात्प्रतिमामण्डपं बुधः । त्रिचतुःपञ्चषट्सप्तचाष्टरन्ध्रं विभित्तिकम् ॥ २८ ॥
tatraiva maṇḍapaṃ kuryātpratimāmaṇḍapaṃ budhaḥ | tricatuḥpañcaṣaṭsaptacāṣṭarandhraṃ vibhittikam || 28 ||
प्रथमात्सप्तमान्तं च भित्तिरेकं प्रकल्पयेत् । तस्मात्तथैकपङ्क्त्यन्तमेकभागैर्विवर्धनात् ॥ २९ ॥
prathamātsaptamāntaṃ ca bhittirekaṃ prakalpayet | tasmāttathaikapaṅktyantamekabhāgairvivardhanāt || 29 ||
मण्डपानां च सप्तानां प्रत्येकं पञ्चधा भवेत् । एवं तु चतुरश्रं स्यात्तस्मादेकेन वर्धनात् ॥ ३० ॥
maṇḍapānāṃ ca saptānāṃ pratyekaṃ pañcadhā bhavet | evaṃ tu caturaśraṃ syāttasmādekena vardhanāt || 30 ||
तत्समाधिकायामं समं वा चायतं तु वा । युग्मभित्तिश च यः कुर्यान्मध्यस्तम्भान्परित्यजेत् ॥ ३१ ॥
tatsamādhikāyāmaṃ samaṃ vā cāyataṃ tu vā | yugmabhittiśa ca yaḥ kuryānmadhyastambhānparityajet || 31 ||
तत्त्वधिष्ठान पादं च प्रस्तरं च त्रिवर्गकम् । तदूर्ध्वे मण्डपानां च चूलिकाकर्णहर्म्यकम् ॥ ३२ ॥
tattvadhiṣṭhāna pādaṃ ca prastaraṃ ca trivargakam | tadūrdhve maṇḍapānāṃ ca cūlikākarṇaharmyakam || 32 ||
अन्तर प्रस्तरोपेतं कुर्यात्तु समलङ्कतम् । सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ३३ ॥
antara prastaropetaṃ kuryāttu samalaṅkatam | sopapīṭhamadhiṣṭhānaṃ kevalaṃ vā masūrakam || 33 ||
हर्म्योपपीठयुक्तं चेत्सोपपीठादिमण्डपम् । पीनोपपीठहर्म्यं चेन्मण्डपं च त्रिवर्गकम् ॥ ३४ ॥
harmyopapīṭhayuktaṃ cetsopapīṭhādimaṇḍapam | pīnopapīṭhaharmyaṃ cenmaṇḍapaṃ ca trivargakam || 34 ||
हर्म्यं च विपरीतं चेत्स्वामिनो मरणं ध्रुवम् । प्रस्तरं तत्र यत्तत्र प्रासादवदलङ्कृतम् ॥ ३५ ॥
harmyaṃ ca viparītaṃ cetsvāmino maraṇaṃ dhruvam | prastaraṃ tatra yattatra prāsādavadalaṅkṛtam || 35 ||
प्रासादवदलङ्कृत्य चाधिकालङ्कृतं तु वा । बाह्यं चालयवद् भूष्यं मण्डपान्तमितीष्यते ॥ ३६ ॥
prāsādavadalaṅkṛtya cādhikālaṅkṛtaṃ tu vā | bāhyaṃ cālayavad bhūṣyaṃ maṇḍapāntamitīṣyate || 36 ||
तेषां क्रमेण विन्यासं लक्षणं वक्ष्यतेऽधुना । चतुरश्रसमाकारं सममानं त्रिभित्तिकम् ॥ ३७ ॥
teṣāṃ krameṇa vinyāsaṃ lakṣaṇaṃ vakṣyate'dhunā | caturaśrasamākāraṃ samamānaṃ tribhittikam || 37 ||
षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् । चतुर्दिक् भद्र विस्तारमेकभागेन निर्गमम् ॥ ३८ ॥
ṣoḍaśastambhasaṃyuktaṃ caturdvārasamanvitam | caturdik bhadra vistāramekabhāgena nirgamam || 38 ||
चतुरश्रं चतुर्भक्तिः षोडशस्तम्भसंयुतम् । चतुर्दिक्षु चतुर्द्वारमेकभागेन भद्र कम् ॥ ३९ ॥
caturaśraṃ caturbhaktiḥ ṣoḍaśastambhasaṃyutam | caturdikṣu caturdvāramekabhāgena bhadra kam || 39 ||
द्वात्रिंशत्क्षुद्र नास्यङ्गं शेषं प्रागुक्तवन्नयेत् । षड्भागं चतुरश्रं स्यात् षट्त्रिंशत्पादसंयुतम् ॥ ४० ॥
dvātriṃśatkṣudra nāsyaṅgaṃ śeṣaṃ prāguktavannayet | ṣaḍbhāgaṃ caturaśraṃ syāt ṣaṭtriṃśatpādasaṃyutam || 40 ||
चतुर्दिक्षु चतुर्द्वारं मध्यपादान्परित्यजेत् । द्विभक्त्यै भक्त विस्तारमेकभागेन निर्गमम् ॥ ४१ ॥
caturdikṣu caturdvāraṃ madhyapādānparityajet | dvibhaktyai bhakta vistāramekabhāgena nirgamam || 41 ||
द्वात्रिंशत्क्षुद्र नास्यङ्गं सर्वालङ्कारसंयुतम् । चतुःषष्ट्यङ्घ्रिसंयुक्तं सप्तसप्तद्विभागिकम् ॥ ४२ ॥
dvātriṃśatkṣudra nāsyaṅgaṃ sarvālaṅkārasaṃyutam | catuḥṣaṣṭyaṅghrisaṃyuktaṃ saptasaptadvibhāgikam || 42 ||
चतुष्पादं त्यजेन्मध्ये चतुर्द्वारं चतुर्दिशि । त्रिभक्तिविस्तृतं भद्र मेकभागेन निर्गमम् ॥ ४३ ॥
catuṣpādaṃ tyajenmadhye caturdvāraṃ caturdiśi | tribhaktivistṛtaṃ bhadra mekabhāgena nirgamam || 43 ||
षष्ठ्यङ्घ्रिकयुक्तं वापि तन्मध्ये चोर्ध्वकूटकम् । चत्वारिंशत्तु नास्यङ्गं शेषं पूर्ववदाचरेत् ॥ ४४ ॥
ṣaṣṭhyaṅghrikayuktaṃ vāpi tanmadhye cordhvakūṭakam | catvāriṃśattu nāsyaṅgaṃ śeṣaṃ pūrvavadācaret || 44 ||
चतुरष्टाष्टभित्तिश्च चतुःषष्ट्यङ्घ्रिसंयुतम् । चतुर्दिक्षु चतुर्द्वारं मध्यपादान्परित्यजेत् ॥ ४५ ॥
caturaṣṭāṣṭabhittiśca catuḥṣaṣṭyaṅghrisaṃyutam | caturdikṣu caturdvāraṃ madhyapādānparityajet || 45 ||
चतुर्भागेन भद्रं स्यादेकभागेन निर्गमम् । पूर्ववत्क्षुद्र नास्यङ्गं युक्त्या तत्रैव योजयेत् ॥ ४६ ॥
caturbhāgena bhadraṃ syādekabhāgena nirgamam | pūrvavatkṣudra nāsyaṅgaṃ yuktyā tatraiva yojayet || 46 ||
नन्दनन्दविभागेन विस्तारायामतत्समम् । कल्पयेन्नवरङ्गं स्यात्षट्षट्पादान्परित्यजेत् ॥ ४७ ॥
nandanandavibhāgena vistārāyāmatatsamam | kalpayennavaraṅgaṃ syātṣaṭṣaṭpādānparityajet || 47 ||
नन्दाष्टभागसंयुक्तं त्रिभागैकेन भद्र कम् । चतुर्दिक्षु चतुर्द्वारं तत्तदग्रे सभद्र कम् ॥ ४८ ॥
nandāṣṭabhāgasaṃyuktaṃ tribhāgaikena bhadra kam | caturdikṣu caturdvāraṃ tattadagre sabhadra kam || 48 ||
सर्वालङ्कारसंयुक्तं षडष्टे वाल्पनासिका । तन्मध्ये चोर्ध्वतुङ्गं स्याच्चत्वारिंशाष्टनासिकम् ॥ ४९ ॥
sarvālaṅkārasaṃyuktaṃ ṣaḍaṣṭe vālpanāsikā | tanmadhye cordhvatuṅgaṃ syāccatvāriṃśāṣṭanāsikam || 49 ||
तदेवषोडशस्तम्भं त्यजेत्कर्णचतुष्टये । चतुर्दिक्षु चतुर्भागं वेदभागैकभद्र कम् ॥ ५० ॥
tadevaṣoḍaśastambhaṃ tyajetkarṇacatuṣṭaye | caturdikṣu caturbhāgaṃ vedabhāgaikabhadra kam || 50 ||
सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत् । एकादशभागेन मण्डपं चतुरश्रकम् ॥ ५१ ॥
sarvālaṅkārasaṃyuktaṃ śeṣaṃ yuktyā prayojayet | ekādaśabhāgena maṇḍapaṃ caturaśrakam || 51 ||
सालिन्द्रं नवरङ्गं स्यादष्टोत्तरशताङ्घ्रिकम् । तद्बहिः परितोलिन्द्र मेकभागेन कारयेत् ॥ ५२ ॥
sālindraṃ navaraṅgaṃ syādaṣṭottaraśatāṅghrikam | tadbahiḥ paritolindra mekabhāgena kārayet || 52 ||
चतुर्दिक् पञ्चभागेन भद्रं चांशेन निर्गमम् । चतुर्दिक्षु चतुर्द्वार चतुःषष्ट्यल्पनासिकम् ॥ ५३ ॥
caturdik pañcabhāgena bhadraṃ cāṃśena nirgamam | caturdikṣu caturdvāra catuḥṣaṣṭyalpanāsikam || 53 ||
नभोर्ध्वे कूटसंयुक्तं सर्वालङ्कारसंयुतम् । एवं तु चतुरश्रं स्यात्तदायाममिहोच्यते ॥ ५४ ॥
nabhordhve kūṭasaṃyuktaṃ sarvālaṅkārasaṃyutam | evaṃ tu caturaśraṃ syāttadāyāmamihocyate || 54 ||
त्रिभक्ति विस्तृतं चैव षड्भक्त्यायाम कल्पयेत् । मूलाग्रे द्वारसंयुक्तं पार्श्वे द्वारं न योजयेत् ॥ ५५ ॥
tribhakti vistṛtaṃ caiva ṣaḍbhaktyāyāma kalpayet | mūlāgre dvārasaṃyuktaṃ pārśve dvāraṃ na yojayet || 55 ||
अथवा हीनाधिकांशेन दीर्घ मध्ये प्रवेशनम् । अंशेनावृतालिन्दं स्यात् शेषं प्रागुक्तवन्नयेत् ॥ ५६ ॥
athavā hīnādhikāṃśena dīrgha madhye praveśanam | aṃśenāvṛtālindaṃ syāt śeṣaṃ prāguktavannayet || 56 ||
चतुर्भाग विशाले तु चाष्टभागायतं तथा । द्व्यंशषड्भाग विस्तारं दीर्घ मध्ये च मण्डपम् ॥ ५७ ॥
caturbhāga viśāle tu cāṣṭabhāgāyataṃ tathā | dvyaṃśaṣaḍbhāga vistāraṃ dīrgha madhye ca maṇḍapam || 57 ||
परितस्तस्य बाह्ये तु भागेनालिन्द्र मिष्यते । यथेष्टद्वारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ ५८ ॥
paritastasya bāhye tu bhāgenālindra miṣyate | yatheṣṭadvārasaṃyuktaṃ śeṣaṃ prāguktavannayet || 58 ||
भूतभागेन विस्तारं दशभागं तथायतम् । तन्मध्ये त्र्! यंशविस्तारं चाष्टांशायाममण्डपम् ॥ ५९ ॥
bhūtabhāgena vistāraṃ daśabhāgaṃ tathāyatam | tanmadhye tr! yaṃśavistāraṃ cāṣṭāṃśāyāmamaṇḍapam || 59 ||
तद्बहिः परितो वा रमेकभागेन कारयेत् । शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ६० ॥
tadbahiḥ parito vā ramekabhāgena kārayet | śeṣaṃ prāguktavatkuryātsarvālaṅkārasaṃyutam || 60 ||
षड्भागेन विशालं स्यात्तत्समेनाधिकायतम् । द्विभागं मध्यरङ्गं स्यात्परितो द्व्यंशेन मण्डपम् ॥ ६१ ॥
ṣaḍbhāgena viśālaṃ syāttatsamenādhikāyatam | dvibhāgaṃ madhyaraṅgaṃ syātparito dvyaṃśena maṇḍapam || 61 ||
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् । विस्तारं चाष्टभागं स्यादायामं षोडशांशकम् ॥ ६२ ॥
śeṣaṃ prāguktavatkuryātsarvālaṅkārasaṃyutam | vistāraṃ cāṣṭabhāgaṃ syādāyāmaṃ ṣoḍaśāṃśakam || 62 ||
तन्मध्ये वेदभागेन द्वादशांशेन मण्डपम् । परितं द्व्यंशेनालिन्द्रं स्याच्छेषं पूर्ववदाचरेत् ॥ ६३ ॥
tanmadhye vedabhāgena dvādaśāṃśena maṇḍapam | paritaṃ dvyaṃśenālindraṃ syāccheṣaṃ pūrvavadācaret || 63 ||
नवभागेन विस्तारं चाष्टदशांशमायतम् । त्रिभागे द्वादशांशेन मध्यरङ्गं प्रकल्पयेत् ॥ ६४ ॥
navabhāgena vistāraṃ cāṣṭadaśāṃśamāyatam | tribhāge dvādaśāṃśena madhyaraṅgaṃ prakalpayet || 64 ||
तद्बाह्येऽलिन्द्र मंशेन परितो द्विंशेन मण्डपम् । अथवा चैकभागे तु चान्तर्बाह्येत्वलिन्द्र कम् ॥ ६५ ॥
tadbāhye'lindra maṃśena parito dviṃśena maṇḍapam | athavā caikabhāge tu cāntarbāhyetvalindra kam || 65 ||
चतुष्कर्णे चतुर्मासं चेष्टदिग्गतभित्तिकम् । उक्तवद् द्वारसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ६६ ॥
catuṣkarṇe caturmāsaṃ ceṣṭadiggatabhittikam | uktavad dvārasaṃyuktaṃ sarvālaṅkārasaṃyutam || 66 ||
विशाले दशभागे तु विंशत्यंशं तथायतम् । परितोऽलिन्द्र भागं स्याद्विस्तारं द्विगुणायतम् ॥ ६७ ॥
viśāle daśabhāge tu viṃśatyaṃśaṃ tathāyatam | parito'lindra bhāgaṃ syādvistāraṃ dviguṇāyatam || 67 ||
मध्यत्रिभागविस्तारं तस्यान्त द्विंशमण्डपम् । तस्यान्तश्चैकभागेन चावृतालिन्द्र मिष्यते ॥ ६८ ॥
madhyatribhāgavistāraṃ tasyānta dviṃśamaṇḍapam | tasyāntaścaikabhāgena cāvṛtālindra miṣyate || 68 ||
मध्ये च द्विंशविस्तारं द्वादशायतनं तथा । एवं तु मण्डपकारं शेषं प्रागुक्तवन्नयेत् ॥ ६९ ॥
madhye ca dviṃśavistāraṃ dvādaśāyatanaṃ tathā | evaṃ tu maṇḍapakāraṃ śeṣaṃ prāguktavannayet || 69 ||
विस्तारे रुद्र भागं स्याद्विस्तारं द्विगुणायतम् । मध्ये त्रिभागविस्तारं मनुभागायतं तथा ॥ ७० ॥
vistāre rudra bhāgaṃ syādvistāraṃ dviguṇāyatam | madhye tribhāgavistāraṃ manubhāgāyataṃ tathā || 70 ||
कुर्यान्मण्डप बाह्ये तु सर्वं प्रागुक्तवन्नयेत् । विस्तारं रुद्र भागं स्याद्विस्ताराद्द्विगुणायतम् ॥ ७१ ॥
kuryānmaṇḍapa bāhye tu sarvaṃ prāguktavannayet | vistāraṃ rudra bhāgaṃ syādvistārāddviguṇāyatam || 71 ||
यथामध्येऽङ्कणं कुर्यात्पञ्चभागेन विस्तृतम् । परितॐऽशेनलिङ्गं स्याद् द्व्यंशेनावृतालिङ्गकम् ॥ ७२ ॥
yathāmadhye'ṅkaṇaṃ kuryātpañcabhāgena vistṛtam | paritaoṃ'śenaliṅgaṃ syād dvyaṃśenāvṛtāliṅgakam || 72 ||
अथवा सप्ताङ्गविस्तारं द्विर्नवांशं कर्णायतम् । तद्बाह्ये तु द्विभागेन मण्डपं परितस्तथा ॥ ७३ ॥
athavā saptāṅgavistāraṃ dvirnavāṃśaṃ karṇāyatam | tadbāhye tu dvibhāgena maṇḍapaṃ paritastathā || 73 ||
तदेवांशाधिकं स्याद् दीर्घ द्वित्रिमण्डपम् । प्रत्येकं पञ्चभागेन सभा कूटं च मण्डपम् ॥ ७४ ॥
tadevāṃśādhikaṃ syād dīrgha dvitrimaṇḍapam | pratyekaṃ pañcabhāgena sabhā kūṭaṃ ca maṇḍapam || 74 ||
अथवा मण्डपाकारं युक्त्या तत्रैव योजयेत् । चतुर्दिक्षु चतुर्द्वारं कुर्याद् भद्रै रलङ्कृतम् ॥ ७५ ॥
athavā maṇḍapākāraṃ yuktyā tatraiva yojayet | caturdikṣu caturdvāraṃ kuryād bhadrai ralaṅkṛtam || 75 ||
एवं तु मण्डपं प्रोक्तं तन्नाममिहोच्यते । प्रथमं हिमजं चैव ततो निषदजं भवेत् ॥ ७६ ॥
evaṃ tu maṇḍapaṃ proktaṃ tannāmamihocyate | prathamaṃ himajaṃ caiva tato niṣadajaṃ bhavet || 76 ||
तृतीयं विजयं चैव चतुर्थं माल्यजं तथा । पञ्चमं पारियात्रं च षष्ठं स्याद् गन्धमादनम् ॥ ७७ ॥
tṛtīyaṃ vijayaṃ caiva caturthaṃ mālyajaṃ tathā | pañcamaṃ pāriyātraṃ ca ṣaṣṭhaṃ syād gandhamādanam || 77 ||
सप्तमं हेमकूटं स्यान्मण्डपाख्यानि सप्तकम् । एवं हर्म्यमुखे कुर्यादन्यत्सर्वमिहोच्यते ॥ ७८ ॥
saptamaṃ hemakūṭaṃ syānmaṇḍapākhyāni saptakam | evaṃ harmyamukhe kuryādanyatsarvamihocyate || 78 ||
एकादश चतुरंशं स्यात् आयताश्रकमेव च । अंशेनावृतवारं स्याच्चतुर्द्वारं चतुर्दिशि ॥ ७९ ॥
ekādaśa caturaṃśaṃ syāt āyatāśrakameva ca | aṃśenāvṛtavāraṃ syāccaturdvāraṃ caturdiśi || 79 ||
एकभागेन भद्रं स्यात्सर्वालङ्कारसंयुतम् । एवं तु मेरुजं प्रोक्तं पुस्तकार्जनयोग्यकम् ॥ ८० ॥
ekabhāgena bhadraṃ syātsarvālaṅkārasaṃyutam | evaṃ tu merujaṃ proktaṃ pustakārjanayogyakam || 80 ||
द्विभक्तिचतुरंशेन भद्र स्यावृतलिन्द्र कम् । एवं तु विजयं प्रोक्तं विवाहार्थं हि मण्डपम् ॥ ८१ ॥
dvibhakticaturaṃśena bhadra syāvṛtalindra kam | evaṃ tu vijayaṃ proktaṃ vivāhārthaṃ hi maṇḍapam || 81 ||
देवतार्थं समुद्दिश्य पानीयाय मण्डपम् । पूर्वोक्तविजयं नाम मण्डपं तत्र कारयेत् ॥ ८२ ॥
devatārthaṃ samuddiśya pānīyāya maṇḍapam | pūrvoktavijayaṃ nāma maṇḍapaṃ tatra kārayet || 82 ||
त्रिभागं चतुरश्रं स्याच्चतुर्द्वारसमन्वितम् । द्विरष्टरविपादं स्यात् सिद्धयागादि सर्वशः ॥ ८३ ॥
tribhāgaṃ caturaśraṃ syāccaturdvārasamanvitam | dviraṣṭaravipādaṃ syāt siddhayāgādi sarvaśaḥ || 83 ||
चतुरश्रं चतुर्भागं मध्यस्तम्भान्परित्यजेत् । मध्ये तु चाङ्गणं कुर्यात् अंशेनावृतमण्डपम् ॥ ८४ ॥
caturaśraṃ caturbhāgaṃ madhyastambhānparityajet | madhye tu cāṅgaṇaṃ kuryāt aṃśenāvṛtamaṇḍapam || 84 ||
एकद्वित्रिचतुर्द्वारं कल्पयेत्तु यथेष्टकम् । एकांशमावृतद्वारं पार्श्वे वारं प्रकल्पयेत् ॥ ८५ ॥
ekadvitricaturdvāraṃ kalpayettu yatheṣṭakam | ekāṃśamāvṛtadvāraṃ pārśve vāraṃ prakalpayet || 85 ||
एकद्विभागविस्तारं निर्गमं भद्र संयुतम् । तत्पार्श्वे च मुखे वापि सोपानं तत्प्रकल्पयेत् ॥ ८६ ॥
ekadvibhāgavistāraṃ nirgamaṃ bhadra saṃyutam | tatpārśve ca mukhe vāpi sopānaṃ tatprakalpayet || 86 ||
एवं तु पद्मकं प्रोक्तं देवानां पचनालयम् । सिचाख्यमण्डपं चापि पचनालयमेव च ॥ ८७ ॥
evaṃ tu padmakaṃ proktaṃ devānāṃ pacanālayam | sicākhyamaṇḍapaṃ cāpi pacanālayameva ca || 87 ||
विस्तारे वेदभागेन पञ्चभागं तदायतम् । द्वित्रिभागाङ्कणं मध्ये चांशेनावृतमण्डपम् ॥ ८८ ॥
vistāre vedabhāgena pañcabhāgaṃ tadāyatam | dvitribhāgāṅkaṇaṃ madhye cāṃśenāvṛtamaṇḍapam || 88 ||
तद्बहिः परितो देशे चांशेनालिन्द्र मिष्यते । त्र्! यंशं तद्भद्र विस्तारं निर्गमांशेन योजयेत् ॥ ८९ ॥
tadbahiḥ parito deśe cāṃśenālindra miṣyate | tr! yaṃśaṃ tadbhadra vistāraṃ nirgamāṃśena yojayet || 89 ||
वातायनसमायुक्तमेकद्वारं प्रकल्पयेत् । अङ्गणे च प्रपायुक्तं पद्माख्यं पुष्पमण्डपम् ॥ ९० ॥
vātāyanasamāyuktamekadvāraṃ prakalpayet | aṅgaṇe ca prapāyuktaṃ padmākhyaṃ puṣpamaṇḍapam || 90 ||
पञ्चांशं चतुरश्रं स्यात्तत्त्रिभागाङ्गणं भवेत् । तद्बहिः परितॐऽशेन मण्डपं परिकल्पयेत् ॥ ९१ ॥
pañcāṃśaṃ caturaśraṃ syāttattribhāgāṅgaṇaṃ bhavet | tadbahiḥ paritaoṃ'śena maṇḍapaṃ parikalpayet || 91 ||
वातायनसमायुक्तं भद्र शेषं तु पूर्ववत् । जलसंपूरितार्थाय भद्र मण्डपमीरितम् ॥ ९२ ॥
vātāyanasamāyuktaṃ bhadra śeṣaṃ tu pūrvavat | jalasaṃpūritārthāya bhadra maṇḍapamīritam || 92 ||
तदेकभागाधिकं वापि द्विभागाधिकमायतम् । तद्धि द्वित्रिभागं वा तारं पञ्चाशमायतम् ॥ ९३ ॥
tadekabhāgādhikaṃ vāpi dvibhāgādhikamāyatam | taddhi dvitribhāgaṃ vā tāraṃ pañcāśamāyatam || 93 ||
विस्तारे मण्डपं कुर्यात् इष्टदिग्गतभित्तिकम् । अग्रे च द्वारमेकं स्याद्युक्त्या चाङ्गणसंयुतम् ॥ ९४ ॥
vistāre maṇḍapaṃ kuryāt iṣṭadiggatabhittikam | agre ca dvāramekaṃ syādyuktyā cāṅgaṇasaṃyutam || 94 ||
तद्बहिः परितॐऽशेन द्वारं कुर्याद्विचक्षणः । मण्डपं भद्र संयुक्तं धान्यनिक्षेपयोग्यकम् ॥ ९५ ॥
tadbahiḥ paritaoṃ'śena dvāraṃ kuryādvicakṣaṇaḥ | maṇḍapaṃ bhadra saṃyuktaṃ dhānyanikṣepayogyakam || 95 ||
षड्भागेन विशाले तु चायामं चाष्टभागिकम् । वेदभागेन विस्तारं षड्भागायामतोऽङ्गणम् ॥ ९६ ॥
ṣaḍbhāgena viśāle tu cāyāmaṃ cāṣṭabhāgikam | vedabhāgena vistāraṃ ṣaḍbhāgāyāmato'ṅgaṇam || 96 ||
तत्तद्बाह्यावृतांशेन वसपं परिकल्पयेत् । आयामे मध्यसूत्रात्तु वामे द्वारं तु योजयेत् ॥ ९७ ॥
tattadbāhyāvṛtāṃśena vasapaṃ parikalpayet | āyāme madhyasūtrāttu vāme dvāraṃ tu yojayet || 97 ||
कूटाङ्गं मण्डपं कुर्यात्प्रच्छादनमथापि वा । शिवाख्यमण्डपं प्रोक्तं धान्यकर्णन योग्यकम् ॥ ९८ ॥
kūṭāṅgaṃ maṇḍapaṃ kuryātpracchādanamathāpi vā | śivākhyamaṇḍapaṃ proktaṃ dhānyakarṇana yogyakam || 98 ||
पञ्चसप्तांशविस्तारं तस्याद् द्विंशाधिकायतम् । मण्डपं तत्तदंशेन समाश्रं वायतं तु वा ॥ ९९ ॥
pañcasaptāṃśavistāraṃ tasyād dviṃśādhikāyatam | maṇḍapaṃ tattadaṃśena samāśraṃ vāyataṃ tu vā || 99 ||
तत्त्रिभागाङ्गणं मध्ये चैकद्व्यंशेन मण्डपम् । वातायनसमायुक्तं इष्टदिग्वारसंयुतम् ॥ १०० ॥
tattribhāgāṅgaṇaṃ madhye caikadvyaṃśena maṇḍapam | vātāyanasamāyuktaṃ iṣṭadigvārasaṃyutam || 100 ||
मध्ये प्रच्छादनं कुर्वात्प्रपाङ्गं वाधिकल्पयेत् । एकभागेन बाह्ये तु परितो भूपलिन्दकम् ॥ १०१ ॥
madhye pracchādanaṃ kurvātprapāṅgaṃ vādhikalpayet | ekabhāgena bāhye tu parito bhūpalindakam || 101 ||
तत्तद्भागेन संयुक्तं मेनं प्रागुक्तवन्नयेत् । एवं तु मण्डपं प्रोक्तं नृत्तश्रवणयोग्यकम् ॥ १०२ ॥
tattadbhāgena saṃyuktaṃ menaṃ prāguktavannayet | evaṃ tu maṇḍapaṃ proktaṃ nṛttaśravaṇayogyakam || 102 ||
तदेव चेष्टदिग्वासं कुर्यादेवं तु जालकम् । वस्त्राभरणशास्त्रादीन् रत्नकोशादियोग्यकम् ॥ १०३ ॥
tadeva ceṣṭadigvāsaṃ kuryādevaṃ tu jālakam | vastrābharaṇaśāstrādīn ratnakośādiyogyakam || 103 ||
विस्तारं सप्तभागं स्याद्यथेष्टांशं तथायतम् । समाश्रं वाथ वेदाश्रं कुर्यादास्थानमण्डपम् ॥ १०४ ॥
vistāraṃ saptabhāgaṃ syādyatheṣṭāṃśaṃ tathāyatam | samāśraṃ vātha vedāśraṃ kuryādāsthānamaṇḍapam || 104 ||
विस्तारं द्विगुणं वापि त्रिगुणं वा तदायतम् । समाश्रं सप्तसप्तांशे त्रित्रिमध्यमरङ्गकम् ॥ १०५ ॥
vistāraṃ dviguṇaṃ vāpi triguṇaṃ vā tadāyatam | samāśraṃ saptasaptāṃśe tritrimadhyamaraṅgakam || 105 ||
परितो कैकभागं द्व्यंशैकं मण्डपं तु वा । पृष्ठे तत्पार्श्वयोर्मध्ये मुखे पादसमन्वितम् ॥ १०६ ॥
parito kaikabhāgaṃ dvyaṃśaikaṃ maṇḍapaṃ tu vā | pṛṣṭhe tatpārśvayormadhye mukhe pādasamanvitam || 106 ||
पार्श्वयोः पृष्ठतः द्वारं द्वारं तु प्रस्तरं तु वा । पार्श्वैकद्वारसंयुक्तं युक्त्या सोपानसंयुतम् ॥ १०७ ॥
pārśvayoḥ pṛṣṭhataḥ dvāraṃ dvāraṃ tu prastaraṃ tu vā | pārśvaikadvārasaṃyuktaṃ yuktyā sopānasaṃyutam || 107 ||
चतुर्दिक्षु द्विभागैकं विस्तारं भद्र निर्गमम् । अथवा मुखभद्रे तु निर्गमं तद्द्विभागिकम् ॥ १०८ ॥
caturdikṣu dvibhāgaikaṃ vistāraṃ bhadra nirgamam | athavā mukhabhadre tu nirgamaṃ taddvibhāgikam || 108 ||
तदग्रे वाथ पार्श्वे च कुर्यात्सोपानभूषणम् । तस्य मध्ये च रङ्गे तु मौक्तिकेन प्रपान्वितम् ॥ १०९ ॥
tadagre vātha pārśve ca kuryātsopānabhūṣaṇam | tasya madhye ca raṅge tu mauktikena prapānvitam || 109 ||
तन्मध्ये शासनादीनां तोरणं कल्पवृक्षकम् । तन्मानं चोक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११० ॥
tanmadhye śāsanādīnāṃ toraṇaṃ kalpavṛkṣakam | tanmānaṃ coktavatkuryātsarvālaṅkārasaṃyutam || 110 ||
मण्डपे द्वे विमानं स्यादेकं वा द्वितलं तु वा । मण्डपाग्रे प्रपाङ्गं स्याद्यथेष्टाय्तामं कल्पयेत् ॥ १११ ॥
maṇḍape dve vimānaṃ syādekaṃ vā dvitalaṃ tu vā | maṇḍapāgre prapāṅgaṃ syādyatheṣṭāytāmaṃ kalpayet || 111 ||
तस्य मध्ये त्रिभागेन विस्तारमायामं चोक्तवद् भवेत् । नाटकादि प्रच्छादनं शेषभागावृतं प्रपा ॥ ११२ ॥
tasya madhye tribhāgena vistāramāyāmaṃ coktavad bhavet | nāṭakādi pracchādanaṃ śeṣabhāgāvṛtaṃ prapā || 112 ||
प्रपाग्रैकद्विभागं वा कर्णे लाङ्गलभित्तिकम् । तन्मुखे त्यंश विस्तारं भद्र मंशेन निर्गमम् ॥ ११३ ॥
prapāgraikadvibhāgaṃ vā karṇe lāṅgalabhittikam | tanmukhe tyaṃśa vistāraṃ bhadra maṃśena nirgamam || 113 ||
विस्तारसमभद्रं वा सोपानं मुखभद्र योः । शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११४ ॥
vistārasamabhadraṃ vā sopānaṃ mukhabhadra yoḥ | śeṣaṃ prāguktavatkuryātsarvālaṅkārasaṃyutam || 114 ||
अथवा मण्डपदेवाख्ये द्वित्रिभागेन पूर्ववत् । अथवा मण्डपाख्ये तत्प्रपासंयुक्तं बाह्यके ॥ ११५ ॥
athavā maṇḍapadevākhye dvitribhāgena pūrvavat | athavā maṇḍapākhye tatprapāsaṃyuktaṃ bāhyake || 115 ||
एकभाग द्विभाग वा परितोऽलिन्द्र मिष्यते । शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११६ ॥
ekabhāga dvibhāga vā parito'lindra miṣyate | śeṣaṃ prāguktavatkuryātsarvālaṅkārasaṃyutam || 116 ||
अथवा मण्डपोदेशे सप्तसप्तांश हस्तिकम् । त्रिपञ्चांशेन विस्तारमायामं मध्यरङ्गकम् ॥ ११७ ॥
athavā maṇḍapodeśe saptasaptāṃśa hastikam | tripañcāṃśena vistāramāyāmaṃ madhyaraṅgakam || 117 ||
तद्बाह्ये चैकभागेन मण्डपं परितस्तथा । तन्मुखे च त्रिभागेन भद्रं शेषं तु पूर्ववत् ॥ ११८ ॥
tadbāhye caikabhāgena maṇḍapaṃ paritastathā | tanmukhe ca tribhāgena bhadraṃ śeṣaṃ tu pūrvavat || 118 ||
अथवा मण्डपाद्ये तत्प्रपासंयुक्तं बाह्यके । एकभाग द्विभागं वा परितोऽलिन्द्र मिष्यते ॥ ११९ ॥
athavā maṇḍapādye tatprapāsaṃyuktaṃ bāhyake | ekabhāga dvibhāgaṃ vā parito'lindra miṣyate || 119 ||
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् । शतपादयुतं वाथ सहस्राङ्घ्रिक मण्डपम् ॥ १२० ॥
śeṣaṃ prāguktavatkuryātsarvālaṅkārasaṃyutam | śatapādayutaṃ vātha sahasrāṅghrika maṇḍapam || 120 ||
युक्त्या तद्भक्तिमध्येन यथेष्टायतविस्तृतम् । देवानां भूपतीनां च कुर्यादास्थानमण्डपम् ॥ १२१ ॥
yuktyā tadbhaktimadhyena yatheṣṭāyatavistṛtam | devānāṃ bhūpatīnāṃ ca kuryādāsthānamaṇḍapam || 121 ||
अष्टांशं चतुरश्रं वा नवांशं चतुरश्रकम् । तत्तदायाममेवं च भूपतीनां च योग्यकम् ॥ १२२ ॥
aṣṭāṃśaṃ caturaśraṃ vā navāṃśaṃ caturaśrakam | tattadāyāmamevaṃ ca bhūpatīnāṃ ca yogyakam || 122 ||
मण्डपं पूर्ववत्कुर्याद्देवता चोत्सवार्थकम् । सालाख्या तु कृताख्या स्यात्कुट्याधो रङ्गके सुधीः ॥ १२३ ॥
maṇḍapaṃ pūrvavatkuryāddevatā cotsavārthakam | sālākhyā tu kṛtākhyā syātkuṭyādho raṅgake sudhīḥ || 123 ||
दशांशं चतुरश्रं स्यात्षट्षडशं तु मध्यमे । ऊर्ध्वकूटसमायुक्तं परितो द्व्यंशेन मण्डपम् ॥ १२४ ॥
daśāṃśaṃ caturaśraṃ syātṣaṭṣaḍaśaṃ tu madhyame | ūrdhvakūṭasamāyuktaṃ parito dvyaṃśena maṇḍapam || 124 ||
मध्ये द्वारं द्विभागं स्याद् द्विषड्भागेन चाग्रतः । तद्भागेन द्विभागेन द्वारे पार्श्वे तु वदिकम् ॥ १२५ ॥
madhye dvāraṃ dvibhāgaṃ syād dviṣaḍbhāgena cāgrataḥ | tadbhāgena dvibhāgena dvāre pārśve tu vadikam || 125 ||
परितोऽलिन्द्र भागेन वारन मुखभद्र कम् । अथवा नेत्रभद्रं स्यात् शेषं युक्त्या प्रयोजयेत् ॥ १२६ ॥
parito'lindra bhāgena vārana mukhabhadra kam | athavā netrabhadraṃ syāt śeṣaṃ yuktyā prayojayet || 126 ||
दर्भाख्यं मण्डपं प्रोक्तं कुञ्जरस्यालयं तथा । एकादशांशविस्तारमायतं विंशदंशकम् ॥ १२७ ॥
darbhākhyaṃ maṇḍapaṃ proktaṃ kuñjarasyālayaṃ tathā | ekādaśāṃśavistāramāyataṃ viṃśadaṃśakam || 127 ||
एकभाग द्विभागं वा मण्डपं परितस्तथा । शेषं तु चाङ्गणं मध्ये चेष्टदिग्द्वारसंयुतम् ॥ १२८ ॥
ekabhāga dvibhāgaṃ vā maṇḍapaṃ paritastathā | śeṣaṃ tu cāṅgaṇaṃ madhye ceṣṭadigdvārasaṃyutam || 128 ||
अष्टमेकैकपङ्क्तिः स्यादश्वानां निलयान्वितम् । कौशिकं मण्डपं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ १२९ ॥
aṣṭamekaikapaṅktiḥ syādaśvānāṃ nilayānvitam | kauśikaṃ maṇḍapaṃ proktaṃ śeṣaṃ yuktyā prayojayet || 129 ||
द्वादशांशं तु विस्तारमायामं तद्द्वयं भवेत् । अष्टांशं चाङ्गणं मध्ये परितः द्व्यंशेन मण्डपम् ॥ १३० ॥
dvādaśāṃśaṃ tu vistāramāyāmaṃ taddvayaṃ bhavet | aṣṭāṃśaṃ cāṅgaṇaṃ madhye paritaḥ dvyaṃśena maṇḍapam || 130 ||
इष्टदिगवारसंयुक्तमिष्टदिग्गतभित्तिकम् । कूलधारणमित्युक्तं गोसङ्घैर्वा सयोग्यकम् ॥ १३१ ॥
iṣṭadigavārasaṃyuktamiṣṭadiggatabhittikam | kūladhāraṇamityuktaṃ gosaṅghairvā sayogyakam || 131 ||
त्रयोदशांशविस्तारं समाश्रं वायताश्रकम् । विस्तारं च यदायामं युक्त्या तत्रैव योजयेत् ॥ १३२ ॥
trayodaśāṃśavistāraṃ samāśraṃ vāyatāśrakam | vistāraṃ ca yadāyāmaṃ yuktyā tatraiva yojayet || 132 ||
सप्तांशं विस्तृतं मध्ये कल्पयेदङ्गणं भवेत् । तस्य बाह्यावृतांशेन कारयेत्तन्मसूरकम् ॥ १३३ ॥
saptāṃśaṃ vistṛtaṃ madhye kalpayedaṅgaṇaṃ bhavet | tasya bāhyāvṛtāṃśena kārayettanmasūrakam || 133 ||
विस्तारद्वयमायामशेषं युक्त्या प्रयोजयेत् । तद्बाह्ये मण्डपं कुर्याद् द्विंशेनावृतमेव च ॥ १३४ ॥
vistāradvayamāyāmaśeṣaṃ yuktyā prayojayet | tadbāhye maṇḍapaṃ kuryād dviṃśenāvṛtameva ca || 134 ||
चतुर्दिक्षु चतुर्द्वारमिष्टदिग्गतभित्तिकम् । तत्तद्बाह्यावृतांशेन कुर्यात्तत्समलिन्द्र कम् ॥ १३५ ॥
caturdikṣu caturdvāramiṣṭadiggatabhittikam | tattadbāhyāvṛtāṃśena kuryāttatsamalindra kam || 135 ||
पञ्चांशं चन्द्र विस्तारं निर्गमं भद्र संयुतम् । सुखाङ्गाख्यमिति प्रोक्तं सत्रयोग्यं तु मण्डपम् ॥ १३६ ॥
pañcāṃśaṃ candra vistāraṃ nirgamaṃ bhadra saṃyutam | sukhāṅgākhyamiti proktaṃ satrayogyaṃ tu maṇḍapam || 136 ||
मन्वंशसमविस्तारमधिकायतम् । दक्षिणे पश्चिमे वपि चतुर्दशांशमायतम् ॥ १३७ ॥
manvaṃśasamavistāramadhikāyatam | dakṣiṇe paścime vapi caturdaśāṃśamāyatam || 137 ||
तदंशेनावृतालिन्दं त्र्! यंश मध्ये तु मण्डपम् । मध्यस्तम्भं तु सर्वेषां युक्त्या द्वारं प्रयोजयेत् ॥ १३८ ॥
tadaṃśenāvṛtālindaṃ tr! yaṃśa madhye tu maṇḍapam | madhyastambhaṃ tu sarveṣāṃ yuktyā dvāraṃ prayojayet || 138 ||
तन्मुखे द्व्यंशमावृत्य द्वा शेषं तथाङ्गणम् । परितश्चैकभागेन तद्बाह्ये भ्रमलिन्द्र कम् ॥ १३९ ॥
tanmukhe dvyaṃśamāvṛtya dvā śeṣaṃ tathāṅgaṇam | paritaścaikabhāgena tadbāhye bhramalindra kam || 139 ||
एवं तु सौख्यकं प्रोक्तं शेषं प्रागुक्तवन्नयेत् । नदीतीरे तटाके वा सिन्धुतीरे प्रकल्पयेत् ॥ १४० ॥
evaṃ tu saukhyakaṃ proktaṃ śeṣaṃ prāguktavannayet | nadītīre taṭāke vā sindhutīre prakalpayet || 140 ||
सर्वेषां देवतानां च तीर्थयोग्यं प्रकीर्तितम् । पञ्चदशांशविस्तारमेकत्रिंशायतं तथा ॥ १४१ ॥
sarveṣāṃ devatānāṃ ca tīrthayogyaṃ prakīrtitam | pañcadaśāṃśavistāramekatriṃśāyataṃ tathā || 141 ||
अथवा चतुरश्रं स्याच्चतुर्द्वारसमन्वितम् । तन्मध्ये पञ्चभागेन सप्तभागाङ्गणं तथा ॥ १४२ ॥
athavā caturaśraṃ syāccaturdvārasamanvitam | tanmadhye pañcabhāgena saptabhāgāṅgaṇaṃ tathā || 142 ||
तद्बाह्ये परितॐऽशेन कुर्यादन्तरलिन्दकम् । खलूरिकापि तद्बाह्ये त्रित्रिभागेन मण्डपम् ॥ १४३ ॥
tadbāhye paritaoṃ'śena kuryādantaralindakam | khalūrikāpi tadbāhye tritribhāgena maṇḍapam || 143 ||
तद्बाह्यावृतालिन्दमेकभागेन कारयेत् । तद्बहिश्चावृतांशेन कारयेद् भ्रमालिन्दकम् ॥ १४४ ॥
tadbāhyāvṛtālindamekabhāgena kārayet | tadbahiścāvṛtāṃśena kārayed bhramālindakam || 144 ||
पञ्चाशं द्विंशविस्तारं निर्गमं भद्र संयुतम् । मण्डपस्य बहिर्देशे प्रपां परितस्तु कारयेत् ॥ १४५ ॥
pañcāśaṃ dviṃśavistāraṃ nirgamaṃ bhadra saṃyutam | maṇḍapasya bahirdeśe prapāṃ paritastu kārayet || 145 ||
मण्डपे चोर्ध्वकूटं स्यान्मालिकाकृति विन्यसेत् । अथवा रुद्र संयुक्तं वातायनसमन्वितम् ॥ १४६ ॥
maṇḍape cordhvakūṭaṃ syānmālikākṛti vinyaset | athavā rudra saṃyuktaṃ vātāyanasamanvitam || 146 ||
कर्णे ककर भद्रं स्याद्युक्त्या तत्रैव योजयेत् । सर्वालङ्कारसंयुक्तं मालिकाख्यं तु मण्डपम् ॥ १४७ ॥
karṇe kakara bhadraṃ syādyuktyā tatraiva yojayet | sarvālaṅkārasaṃyuktaṃ mālikākhyaṃ tu maṇḍapam || 147 ||
मध्यं कर्णे जलं पूर्य जलं पुष्पैरलङ्कृतम् । एवं वसन्तयोग्यं स्याद् देवानां क्षत्रियादिनाम् ॥ १४८ ॥
madhyaṃ karṇe jalaṃ pūrya jalaṃ puṣpairalaṅkṛtam | evaṃ vasantayogyaṃ syād devānāṃ kṣatriyādinām || 148 ||
षोडशांशेन विस्तारं द्वात्रिंशायामकं तथा । पूर्ववच्चतुरश्रं स्यान्मध्यस्तम्भान्परित्यजेत् ॥ १४९ ॥
ṣoḍaśāṃśena vistāraṃ dvātriṃśāyāmakaṃ tathā | pūrvavaccaturaśraṃ syānmadhyastambhānparityajet || 149 ||
मध्याङ्गणं तु षड्भागं शेषं प्रागुक्तवन्नयेत् । तदेव षोडशांशे तु मध्यरङ्कात् षडंशकम् ॥ १५० ॥
madhyāṅgaṇaṃ tu ṣaḍbhāgaṃ śeṣaṃ prāguktavannayet | tadeva ṣoḍaśāṃśe tu madhyaraṅkāt ṣaḍaṃśakam || 150 ||
तद्बाह्यावृतांशेन चान्तरलिन्दमिष्यते । तद्बहिश्च त्रियंशेन मण्डपं परितस्तथा ॥ १५१ ॥
tadbāhyāvṛtāṃśena cāntaralindamiṣyate | tadbahiśca triyaṃśena maṇḍapaṃ paritastathā || 151 ||
तद्बाह्यावृतांशेन लिन्द्रं कुर्याद् विचक्षणः । तत्पुरे पृष्ठपार्श्वे तु भ्रमलिन्द्रै कभागतः ॥ १५२ ॥
tadbāhyāvṛtāṃśena lindraṃ kuryād vicakṣaṇaḥ | tatpure pṛṣṭhapārśve tu bhramalindrai kabhāgataḥ || 152 ||
तच्चतुष्कर्णदेशे तु कर्करी चाष्टभद्र कम् । ऊर्ध्वकूटसमायुक्तं द्वारभद्रै स्तु संयुतम् ॥ १५३ ॥
taccatuṣkarṇadeśe tu karkarī cāṣṭabhadra kam | ūrdhvakūṭasamāyuktaṃ dvārabhadrai stu saṃyutam || 153 ||
तन्मुखे पुरतः पार्श्वे द्वारसंयुक्तभद्र कम् । तत्कर्णं च द्वयोर्भद्रं चतुर्थं कर्करीकृतम् ॥ १५४ ॥
tanmukhe purataḥ pārśve dvārasaṃyuktabhadra kam | tatkarṇaṃ ca dvayorbhadraṃ caturthaṃ karkarīkṛtam || 154 ||
कर्करीभद्र संयुक्तं मण्डपस्य विशालकम् । एकद्वित्र्! यैकभागं स्यात्कर्करीभद्र निर्गमम् ॥ १५५ ॥
karkarībhadra saṃyuktaṃ maṇḍapasya viśālakam | ekadvitr! yaikabhāgaṃ syātkarkarībhadra nirgamam || 155 ||
मधे भद्रे तु विस्तारं पञ्चषड्भागमेव वा । तत्समं निर्गमं वापि द्वित्रिवेदांशमेव वा ॥ १५६ ॥
madhe bhadre tu vistāraṃ pañcaṣaḍbhāgameva vā | tatsamaṃ nirgamaṃ vāpi dvitrivedāṃśameva vā || 156 ||
भद्रै स्तत्पुरपार्श्वे तु कुर्याद् द्वारं तदंशकम् । एकद्वित्रितलं मध्ये मण्डपे चोर्ध्वकूटकम् ॥ १५७ ॥
bhadrai statpurapārśve tu kuryād dvāraṃ tadaṃśakam | ekadvitritalaṃ madhye maṇḍape cordhvakūṭakam || 157 ||
एवं तु मालिकाकारं शेषं प्रागुक्तवन्नयेत् । सर्वालङ्कारसंयुक्तं माल्याकृतमितीरितम् ॥ १५८ ॥
evaṃ tu mālikākāraṃ śeṣaṃ prāguktavannayet | sarvālaṅkārasaṃyuktaṃ mālyākṛtamitīritam || 158 ||
देवतालोकनयोग्यं देवदेवस्य मण्डपम् । एवं तु मण्डपं प्रोक्तं देवभूसुरभूपतेः ॥ १५९ ॥
devatālokanayogyaṃ devadevasya maṇḍapam | evaṃ tu maṇḍapaṃ proktaṃ devabhūsurabhūpateḥ || 159 ||
विस्तारे चैकभक्त्ये वा यथेष्टायामवर्धनात् । सर्वेषां मण्डपानां तु पूर्वोक्तानां तदायतम् ॥ १६० ॥
vistāre caikabhaktye vā yatheṣṭāyāmavardhanāt | sarveṣāṃ maṇḍapānāṃ tu pūrvoktānāṃ tadāyatam || 160 ||
द्विभक्तिविस्तृतं तस्मात् एकभागाधिकायतम् । मध्येकभक्तिवासं स्यात्पुर पार्श्वे च मण्डपम् ॥ १६१ ॥
dvibhaktivistṛtaṃ tasmāt ekabhāgādhikāyatam | madhyekabhaktivāsaṃ syātpura pārśve ca maṇḍapam || 161 ||
आत्मार्थं विप्रसद्मे तु यजनार्थमुदीरितम् । तदेव द्विगुणायामं मध्यरङ्ग द्विभागतः ॥ १६२ ॥
ātmārthaṃ viprasadme tu yajanārthamudīritam | tadeva dviguṇāyāmaṃ madhyaraṅga dvibhāgataḥ || 162 ||
तत्पार्श्वे चैकभागेन वासं कुर्याद् विचक्षणः । तत्पुरेऽलिन्दमेकांशमथवा निर्वासमण्डपम् ॥ १६३ ॥
tatpārśve caikabhāgena vāsaṃ kuryād vicakṣaṇaḥ | tatpure'lindamekāṃśamathavā nirvāsamaṇḍapam || 163 ||
अथवा वंशमूले तु चैकद्विंशेन वासकम् । एवं तु विप्रयोग्यं स्याद्धनदाख्यं तु मण्डपम् ॥ १६४ ॥
athavā vaṃśamūle tu caikadviṃśena vāsakam | evaṃ tu viprayogyaṃ syāddhanadākhyaṃ tu maṇḍapam || 164 ||
त्रिभक्ति विस्तृतं तस्मात् एकभागाधिकायतम् । तदर्धेन द्विभागेन मण्डपं चोन्नतासनम् ॥ १६५ ॥
tribhakti vistṛtaṃ tasmāt ekabhāgādhikāyatam | tadardhena dvibhāgena maṇḍapaṃ connatāsanam || 165 ||
पृष्ठे च पार्श्वयोः कुड्यं पुरतो पादसंमितम् । तन्मुखे द्वित्रिभागेन निर्गमं चासनसंयुतम् ॥ १६६ ॥
pṛṣṭhe ca pārśvayoḥ kuḍyaṃ purato pādasaṃmitam | tanmukhe dvitribhāgena nirgamaṃ cāsanasaṃyutam || 166 ||
कर्णे लाङ्गलभित्तिः स्याद् भ्रमरावृतबाह्यके । एकांशेनाङ्घ्रिसंयुक्तं पुर पार्श्वे तु भद्र कम् ॥ १६७ ॥
karṇe lāṅgalabhittiḥ syād bhramarāvṛtabāhyake | ekāṃśenāṅghrisaṃyuktaṃ pura pārśve tu bhadra kam || 167 ||
धनाधिपमण्डपं स्याद् देवभूसुरयोग्यकम् । तदेव मध्याङ्गणसंयुक्तं क्षौरार्थं द्विजभूपतेः ॥ १६८ ॥
dhanādhipamaṇḍapaṃ syād devabhūsurayogyakam | tadeva madhyāṅgaṇasaṃyuktaṃ kṣaurārthaṃ dvijabhūpateḥ || 168 ||
तदेव भागाधिकायाममिष्टदिग्गतभित्तिकम् । भूपतीनां च वैश्यानां कोशरत्नादियोग्यकम् ॥ १६९ ॥
tadeva bhāgādhikāyāmamiṣṭadiggatabhittikam | bhūpatīnāṃ ca vaiśyānāṃ kośaratnādiyogyakam || 169 ||
तदेवाधिकमायामं मध्यभागाङ्गणं भवेत् । एकभागावृतावासमिष्टदिग्गतभित्तिकम् ॥ १७० ॥
tadevādhikamāyāmaṃ madhyabhāgāṅgaṇaṃ bhavet | ekabhāgāvṛtāvāsamiṣṭadiggatabhittikam || 170 ||
आयाममध्यसूत्रं तु वामे द्वारं प्रकल्पयेत् । कर्णैककर्करीभद्रं स्याद् भ्रमरांशेन पूर्ववत् ॥ १७१ ॥
āyāmamadhyasūtraṃ tu vāme dvāraṃ prakalpayet | karṇaikakarkarībhadraṃ syād bhramarāṃśena pūrvavat || 171 ||
शूद्रा णां च इति प्रोक्तं धान्यागारमथ नामकम् । चतुरंशं विस्तारं स्यात् एकभागाधिकायतम् ॥ १७२ ॥
śūdrā ṇāṃ ca iti proktaṃ dhānyāgāramatha nāmakam | caturaṃśaṃ vistāraṃ syāt ekabhāgādhikāyatam || 172 ||
पञ्चांश द्व्यंशकेनैव मण्डपं परिकल्पयेत् । तन्मुखेव त्रिभागन निर्गमं भद्र विस्तृतम् ॥ १७३ ॥
pañcāṃśa dvyaṃśakenaiva maṇḍapaṃ parikalpayet | tanmukheva tribhāgana nirgamaṃ bhadra vistṛtam || 173 ||
तत्पुरे तु द्विपार्श्वे वा प्रपां चैकेन कारयेत् । भद्रा न्तं कुड्यसंयुक्तं मण्डपं पृष्ठपार्श्वयोः ॥ १७४ ॥
tatpure tu dvipārśve vā prapāṃ caikena kārayet | bhadrā ntaṃ kuḍyasaṃyuktaṃ maṇḍapaṃ pṛṣṭhapārśvayoḥ || 174 ||
देवतानां च मौनार्थं भूषणाख्यं तु मण्डपम् । तदेकभागाधिकायामं विस्तारं पूर्ववद् भवेत् ॥ १७५ ॥
devatānāṃ ca maunārthaṃ bhūṣaṇākhyaṃ tu maṇḍapam | tadekabhāgādhikāyāmaṃ vistāraṃ pūrvavad bhavet || 175 ||
तद्भागद्विभागेन विस्तारं मण्डपं भवेत् । द्वित्रिभागाङ्गणं पूर्वे एकभागं खलूरकम् ॥ १७६ ॥
tadbhāgadvibhāgena vistāraṃ maṇḍapaṃ bhavet | dvitribhāgāṅgaṇaṃ pūrve ekabhāgaṃ khalūrakam || 176 ||
मण्डपं तु विना दीर्घे द्वारं कुर्याद् विचक्षणः । भूषणाख्यं च विप्राणां योग्यं पुंसवनार्थकम् ॥ १७७ ॥
maṇḍapaṃ tu vinā dīrghe dvāraṃ kuryād vicakṣaṇaḥ | bhūṣaṇākhyaṃ ca viprāṇāṃ yogyaṃ puṃsavanārthakam || 177 ||
तदेव भागाधिकायामं विस्तारं पूर्ववद् भवेत् । त्रिचतुर्भागमायामं मण्डपं परितो भवेत् ॥ १७८ ॥
tadeva bhāgādhikāyāmaṃ vistāraṃ pūrvavad bhavet | tricaturbhāgamāyāmaṃ maṇḍapaṃ parito bhavet || 178 ||
एवं सुभूषणाख्यं स्याच्छेषं पूर्वोक्तवन्नयेत् । भूसुरादित्रयाना चोपनयनादियोग्यकम् ॥ १७९ ॥
evaṃ subhūṣaṇākhyaṃ syāccheṣaṃ pūrvoktavannayet | bhūsurāditrayānā copanayanādiyogyakam || 179 ||
वेदाष्टांशविस्तारमायामं मण्डपं भवेत् । वंशे मूलाग्रयोः सन्धिर्द्विचतुर्भागेन कारयेत् ॥ १८० ॥
vedāṣṭāṃśavistāramāyāmaṃ maṇḍapaṃ bhavet | vaṃśe mūlāgrayoḥ sandhirdvicaturbhāgena kārayet || 180 ||
एकद्विवासयोर्मध्ये द्विचतुर्भागाङ्गणं भवेत् । एतत्पार्श्वे द्वयोश्चैकं चातुर्भागेन द्वारकम् ॥ १८१ ॥
ekadvivāsayormadhye dvicaturbhāgāṅgaṇaṃ bhavet | etatpārśve dvayoścaikaṃ cāturbhāgena dvārakam || 181 ||
दीर्घे च मध्य सूत्रं तु वामे द्वारं प्रकल्पयेत् । अथवा तस्य मध्ये तु कुड्यवासं विभाजिते ॥ १८२ ॥
dīrghe ca madhya sūtraṃ tu vāme dvāraṃ prakalpayet | athavā tasya madhye tu kuḍyavāsaṃ vibhājite || 182 ||
कुलाभद्वारसंयुक्तं शेषं युक्त्या प्रयोजयेत् । एवं तु भूषनाख्यं स्यात् शूद्रा णां पचनालयम् ॥ १८३ ॥
kulābhadvārasaṃyuktaṃ śeṣaṃ yuktyā prayojayet | evaṃ tu bhūṣanākhyaṃ syāt śūdrā ṇāṃ pacanālayam || 183 ||
तद् द्विभागेन विस्तारे तस्माद् द्विंशाधिकायतम् । पञ्चांशेन द्विभागेन पूर्ववद् द्वारसंयुतम् ॥ १८४ ॥
tad dvibhāgena vistāre tasmād dviṃśādhikāyatam | pañcāṃśena dvibhāgena pūrvavad dvārasaṃyutam || 184 ||
वासमेतद्द्वयोर्मध्ये त्रित्रिभागाङ्गणं भवेत् । एकांशेन त्रिभागेन पार्श्वे द्वारं प्रयोजयेत् ॥ १८५ ॥
vāsametaddvayormadhye tritribhāgāṅgaṇaṃ bhavet | ekāṃśena tribhāgena pārśve dvāraṃ prayojayet || 185 ||
तद्बाह्ये परितोऽलिन्दमेकभागेन कारयेत् । दीर्घे मध्यमभागे तु द्वारं संकल्पयेत्सुधीः ॥ १८६ ॥
tadbāhye parito'lindamekabhāgena kārayet | dīrghe madhyamabhāge tu dvāraṃ saṃkalpayetsudhīḥ || 186 ||
एकद्वित्रिभागेन निर्गमं भद्र विस्तृतम् । एवं तु मण्डपं हर्म्यं देवभूसुरभूपतेः ॥ १८७ ॥
ekadvitribhāgena nirgamaṃ bhadra vistṛtam | evaṃ tu maṇḍapaṃ harmyaṃ devabhūsurabhūpateḥ || 187 ||
पचनार्थमिति प्रोक्तं नानातलद्वारैरपि । तस्माद् द्व्यधिकायामं विस्तारं पूर्ववद् भवेत् ॥ १८८ ॥
pacanārthamiti proktaṃ nānātaladvārairapi | tasmād dvyadhikāyāmaṃ vistāraṃ pūrvavad bhavet || 188 ||
तन्मध्ये चाङ्गणांशेन परितो द्विशेन मण्डपम् । तस्यान्तं चैकभागेन परितस्तु खलूरिका ॥ १८९ ॥
tanmadhye cāṅgaṇāṃśena parito dviśena maṇḍapam | tasyāntaṃ caikabhāgena paritastu khalūrikā || 189 ||
तद्दीर्घं मध्यसूत्रात्तु वामे द्वारं प्रकल्पयेत् । शेषं तु पूर्ववत्कुर्यान्मण्डपं हर्म्यमीरितम् ॥ १९० ॥
taddīrghaṃ madhyasūtrāttu vāme dvāraṃ prakalpayet | śeṣaṃ tu pūrvavatkuryānmaṇḍapaṃ harmyamīritam || 190 ||
सर्वेषामपि वर्णानां बालालोकनयोग्यकम् । षड्भागविस्तृत चैव सप्तभागायतं तथा ॥ १९१ ॥
sarveṣāmapi varṇānāṃ bālālokanayogyakam | ṣaḍbhāgavistṛta caiva saptabhāgāyataṃ tathā || 191 ||
तद्भागेन द्वित्रिभागेन मध्यरङ्गं प्रकल्पयेत् । मध्यस्तम्भान्परित्यज्य परितः द्व्यंशेन मण्डपम् ॥ १९२ ॥
tadbhāgena dvitribhāgena madhyaraṅgaṃ prakalpayet | madhyastambhānparityajya paritaḥ dvyaṃśena maṇḍapam || 192 ||
तद्बाह्ये चावृतांशेन भूवृतालिन्दसंयुतम् । चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलभित्तिकम् ॥ १९३ ॥
tadbāhye cāvṛtāṃśena bhūvṛtālindasaṃyutam | caturdikṣu caturdvāraṃ karṇe lāṅgalabhittikam || 193 ||
चतुर्दिग्भद्र संयुक्तमेकद्वित्रिकभागिकम् । देवानां च विलासार्थं शृङ्गाराख्यं तु मण्डपम् ॥ १९४ ॥
caturdigbhadra saṃyuktamekadvitrikabhāgikam | devānāṃ ca vilāsārthaṃ śṛṅgārākhyaṃ tu maṇḍapam || 194 ||
आयामं चाष्टभागेन विस्तारं पूर्ववद् भवेत् । तद्भागे द्विचतुर्भागं तन्मध्ये चाङ्गणं भवेत् ॥ १९५ ॥
āyāmaṃ cāṣṭabhāgena vistāraṃ pūrvavad bhavet | tadbhāge dvicaturbhāgaṃ tanmadhye cāṅgaṇaṃ bhavet || 195 ||
तद्बहिश्चावृतांशेन कुर्यात्तत्तदलिन्द्र कम् । तद्बहिश्चावृतांशेन मण्डपं द्विंशमेव वा ॥ १९६ ॥
tadbahiścāvṛtāṃśena kuryāttattadalindra kam | tadbahiścāvṛtāṃśena maṇḍapaṃ dviṃśameva vā || 196 ||
चतुर्वासं चतुष्कर्णे द्विद्विभागेन योजयेत् । तद्बहिश्चैकभागेन परितो वारमिष्यते ॥ १९७ ॥
caturvāsaṃ catuṣkarṇe dvidvibhāgena yojayet | tadbahiścaikabhāgena parito vāramiṣyate || 197 ||
तद्दीर्घे मध्यसूत्रं तु वामे द्वारं तु पूर्ववत् । वंशमूलाग्रयोः सर्वे कर्करीकृतनेत्रकम् ॥ १९८ ॥
taddīrghe madhyasūtraṃ tu vāme dvāraṃ tu pūrvavat | vaṃśamūlāgrayoḥ sarve karkarīkṛtanetrakam || 198 ||
द्व्यंशैकं तत्र विस्तारं निर्गमं भद्र संयुतम् । सर्वेषामपि वर्णानां सूगतं सर्वदेशिकम् ॥ १९९ ॥
dvyaṃśaikaṃ tatra vistāraṃ nirgamaṃ bhadra saṃyutam | sarveṣāmapi varṇānāṃ sūgataṃ sarvadeśikam || 199 ||
चतुर्भागाधिकायामं विस्तारं पूर्ववद् भवेत् । ललाटे द्व्यंशविस्तारं रसभागं तदायतम् ॥ २०० ॥
caturbhāgādhikāyāmaṃ vistāraṃ pūrvavad bhavet | lalāṭe dvyaṃśavistāraṃ rasabhāgaṃ tadāyatam || 200 ||
पुरतः पृष्ठवाग्रे तु एकभागेनलिन्द्र कम् । वंशमूले तु वासं स्यात्कुर्यात्तु द्वित्रिभागतः ॥ २०१ ॥
purataḥ pṛṣṭhavāgre tu ekabhāgenalindra kam | vaṃśamūle tu vāsaṃ syātkuryāttu dvitribhāgataḥ || 201 ||
शेषं प्रागुक्तवत्सर्वं युक्त्या तत्रैव योजयेत् । तदेवाग्रे चतुर्भागं चोक्तवन्मण्डपं तु वा ॥ २०२ ॥
śeṣaṃ prāguktavatsarvaṃ yuktyā tatraiva yojayet | tadevāgre caturbhāgaṃ coktavanmaṇḍapaṃ tu vā || 202 ||
केचित्षडष्टभागेन विस्तारायाम कल्पयेत् । ललाटे द्विंशषड्भागं विस्तारायाम मण्डपम् ॥ २०३ ॥
kecitṣaḍaṣṭabhāgena vistārāyāma kalpayet | lalāṭe dviṃśaṣaḍbhāgaṃ vistārāyāma maṇḍapam || 203 ||
एकांशे तत्पुरेऽलिन्द्रं द्वित्रिभागाङ्गणं भवेत् । तत्पुरे पार्श्वयोः शेषं महावारं तु कल्पयेत् ॥ २०४ ॥
ekāṃśe tatpure'lindraṃ dvitribhāgāṅgaṇaṃ bhavet | tatpure pārśvayoḥ śeṣaṃ mahāvāraṃ tu kalpayet || 204 ||
ललाटे द्विंशविस्तारमायामं मण्डपं भवेत् । एवं तु प्रागतं प्रोक्तं सर्वकर्मसुखावहम् ॥ २०५ ॥
lalāṭe dviṃśavistāramāyāmaṃ maṇḍapaṃ bhavet | evaṃ tu prāgataṃ proktaṃ sarvakarmasukhāvaham || 205 ||
सप्तांशं तु विस्तारं नवभागं तदायतम् । त्रिभागं पञ्चभागेन चाङ्गणं विस्तृतायतम् ॥ २०६ ॥
saptāṃśaṃ tu vistāraṃ navabhāgaṃ tadāyatam | tribhāgaṃ pañcabhāgena cāṅgaṇaṃ vistṛtāyatam || 206 ||
तद्बहिश्च द्विभागेन परितो मण्डप भवेत् । अथवा तत्त्रिभागेन ललाटे मण्डपं भवेत् ॥ २०७ ॥
tadbahiśca dvibhāgena parito maṇḍapa bhavet | athavā tattribhāgena lalāṭe maṇḍapaṃ bhavet || 207 ||
तत्पुरे च द्विभागेन युक्त्या मध्ये तु चाङ्गणम् । तत्पुरे च द्विपार्श्वे च एकभागेनलिन्द्र कम् ॥ २०८ ॥
tatpure ca dvibhāgena yuktyā madhye tu cāṅgaṇam | tatpure ca dvipārśve ca ekabhāgenalindra kam || 208 ||
तद्बहिश्चावृतांशेन मण्डपानां तु अलिन्दकम् । मध्ये चरं तु संकल्प्य विस्तरे चाथ दैवतम् ॥ २०९ ॥
tadbahiścāvṛtāṃśena maṇḍapānāṃ tu alindakam | madhye caraṃ tu saṃkalpya vistare cātha daivatam || 209 ||
तद्द्वित्रिभागेन विस्तारं निर्गमं भद्र संयुतम् । एकं वाथ द्वयं वापि द्वारं च त्रयमेव च ॥ २१० ॥
taddvitribhāgena vistāraṃ nirgamaṃ bhadra saṃyutam | ekaṃ vātha dvayaṃ vāpi dvāraṃ ca trayameva ca || 210 ||
तद्बहिश्चावृतांशेन कुर्यादावृतालिन्दकम् । सर्वालङ्कारसंयुक्तं कर्णहर्म्यादिमण्डितम् ॥ २११ ॥
tadbahiścāvṛtāṃśena kuryādāvṛtālindakam | sarvālaṅkārasaṃyuktaṃ karṇaharmyādimaṇḍitam || 211 ||
द्रो णाख्यं मण्डपं प्रोक्तं देवारामं प्रकल्पयेत् । अथवा भूपतीनां च आत्मार्थं यजनार्थकम् ॥ २१२ ॥
dro ṇākhyaṃ maṇḍapaṃ proktaṃ devārāmaṃ prakalpayet | athavā bhūpatīnāṃ ca ātmārthaṃ yajanārthakam || 212 ||
विप्राणां शुभकर्मार्थं सन्ध्यायोग्यकमण्डपम् । अथवा तपस्विनीनां च मठं वा नाटकाहकम् ॥ २१३ ॥
viprāṇāṃ śubhakarmārthaṃ sandhyāyogyakamaṇḍapam | athavā tapasvinīnāṃ ca maṭhaṃ vā nāṭakāhakam || 213 ||
एकभागाधिकायामं विस्तारं पूर्ववत्क्रमात् । षट्त्रिभागाङ्गणं मध्ये परितद्विंशेन मण्डपम् ॥ २१४ ॥
ekabhāgādhikāyāmaṃ vistāraṃ pūrvavatkramāt | ṣaṭtribhāgāṅgaṇaṃ madhye paritadviṃśena maṇḍapam || 214 ||
ललाटे मण्डपे पूर्वे चैकभागेनलिन्द्र कम् । एवं तु भूपहर्म्ये तु मल्लयोग्यं तु कारयेत् ॥ २१५ ॥
lalāṭe maṇḍape pūrve caikabhāgenalindra kam | evaṃ tu bhūpaharmye tu mallayogyaṃ tu kārayet || 215 ||
तस्माद्व्यंशाधिकायामं विस्तारं सप्तभागिकम् । पञ्चांशं चैकपङ्क्त्यंशं तन्मध्ये चाङ्गणं भवेत् ॥ २१६ ॥
tasmādvyaṃśādhikāyāmaṃ vistāraṃ saptabhāgikam | pañcāṃśaṃ caikapaṅktyaṃśaṃ tanmadhye cāṅgaṇaṃ bhavet || 216 ||
तद्बाह्ये परितः उर्यादेकभागेन वेदिकाम् । एतद् द्रो णं च भूपानामायुधाभ्यासमण्डपम् ॥ २१७ ॥
tadbāhye paritaḥ uryādekabhāgena vedikām | etad dro ṇaṃ ca bhūpānāmāyudhābhyāsamaṇḍapam || 217 ||
पञ्चदशांशकं दीर्घं नेत्रत्रिभागमण्डपम् । तत्पुरेऽलिन्द्र मेकांशं नवांशेन युताङ्गणम् ॥ २१८ ॥
pañcadaśāṃśakaṃ dīrghaṃ netratribhāgamaṇḍapam | tatpure'lindra mekāṃśaṃ navāṃśena yutāṅgaṇam || 218 ||
तत्पार्श्वे पुरतश्चैव युगांशेन खलूरिकाः । द्रो णाख्यमण्डपं चैव मेषयुद्धार्थयोग्यकम् ॥ २१९ ॥
tatpārśve purataścaiva yugāṃśena khalūrikāḥ | dro ṇākhyamaṇḍapaṃ caiva meṣayuddhārthayogyakam || 219 ||
अष्टाष्टांशविस्तारमायामं तत्र कल्पयेत् । तन्मध्ये द्विद्विभागेन कल्पयेद् विवृताङ्गणम् ॥ २२० ॥
aṣṭāṣṭāṃśavistāramāyāmaṃ tatra kalpayet | tanmadhye dvidvibhāgena kalpayed vivṛtāṅgaṇam || 220 ||
तद्बहिश्चावृतांशेन कुर्याच्चैका खलूरिका । तद्बहिश्च द्वयांशेन मण्डप परितस्तथा ॥ २२१ ॥
tadbahiścāvṛtāṃśena kuryāccaikā khalūrikā | tadbahiśca dvayāṃśena maṇḍapa paritastathā || 221 ||
कर्णे च द्विद्विभागेन कुर्याद् वासं चतुष्टयम् । तद्बहिश्चावृतांशेन संयुक्तं भद्रा लिन्दकम् ॥ २२२ ॥
karṇe ca dvidvibhāgena kuryād vāsaṃ catuṣṭayam | tadbahiścāvṛtāṃśena saṃyuktaṃ bhadrā lindakam || 222 ||
मध्यसूत्रात् तु वामे तु द्वारं कुर्याद् विचक्षणः । तद्बहिश्चावृतांशेन कुर्याच्चैव खलूरिकम् ॥ २२३ ॥
madhyasūtrāt tu vāme tu dvāraṃ kuryād vicakṣaṇaḥ | tadbahiścāvṛtāṃśena kuryāccaiva khalūrikam || 223 ||
चतुष्कर्णेऽष्टनेत्रं स्याद् भद्र युक् कर्करीकृतम् । अथवा वेदभागेन मध्यकोष्ठं समाश्रकम् ॥ २२४ ॥
catuṣkarṇe'ṣṭanetraṃ syād bhadra yuk karkarīkṛtam | athavā vedabhāgena madhyakoṣṭhaṃ samāśrakam || 224 ||
तद्बहिश्चावृतांशेन जलपादं च निम्नकम् । तद्बहिः परितो भागे कुर्याच्चैव खलूरिकाः ॥ २२५ ॥
tadbahiścāvṛtāṃśena jalapādaṃ ca nimnakam | tadbahiḥ parito bhāge kuryāccaiva khalūrikāḥ || 225 ||
तन्मध्ये मण्डपं कुर्यात्कर्णे लाङ्गलभित्तिकम् । मध्यस्तम्भं त्यजेत् शस्तं दिक्षु स्तम्भं त्यजेत्तुवा ॥ २२६ ॥
tanmadhye maṇḍapaṃ kuryātkarṇe lāṅgalabhittikam | madhyastambhaṃ tyajet śastaṃ dikṣu stambhaṃ tyajettuvā || 226 ||
ऊर्ध्वकूटं समायुक्तं सर्वालङ्कारसंयुतम् । तद्बहिः परितो देशे यथेष्टांशप्रपाङ्गकम् ॥ २२७ ॥
ūrdhvakūṭaṃ samāyuktaṃ sarvālaṅkārasaṃyutam | tadbahiḥ parito deśe yatheṣṭāṃśaprapāṅgakam || 227 ||
नृपाणां भोजनार्थं स्यात्खर्वटाख्यं तु मण्डपम् । तदेव भागैकवेदांशं मध्यरङ्गं तमिष्यते ॥ २२८ ॥
nṛpāṇāṃ bhojanārthaṃ syātkharvaṭākhyaṃ tu maṇḍapam | tadeva bhāgaikavedāṃśaṃ madhyaraṅgaṃ tamiṣyate || 228 ||
तद्बाह्ये तद्विभागेन मण्डपावृतमिष्यते । तद्बहिश्चावृतांशेन कुर्यात्तद्भ्रमालिन्दकम् ॥ २२९ ॥
tadbāhye tadvibhāgena maṇḍapāvṛtamiṣyate | tadbahiścāvṛtāṃśena kuryāttadbhramālindakam || 229 ||
तच्चतुर्दिक्षु मध्ये च स्तम्भं सर्वोपरि त्यजेत् । द्विभागैकं नेत्रविस्ता निर्गमं भद्र संयुतम् ॥ २३० ॥
taccaturdikṣu madhye ca stambhaṃ sarvopari tyajet | dvibhāgaikaṃ netravistā nirgamaṃ bhadra saṃyutam || 230 ||
मध्यभद्रं तु विस्तारं निर्गमं च द्विभागिकम् । चतुर्दिक्षु चतुर्द्वारं कर्णे च कर्करीकृतम् ॥ २३१ ॥
madhyabhadraṃ tu vistāraṃ nirgamaṃ ca dvibhāgikam | caturdikṣu caturdvāraṃ karṇe ca karkarīkṛtam || 231 ||
ऊर्ध्वकूटं समायुक्तं सर्वालङ्कारसंयुतम् । तन्मुखे तत्समांशेन विस्तारायामं कारयेत् ॥ २३२ ॥
ūrdhvakūṭaṃ samāyuktaṃ sarvālaṅkārasaṃyutam | tanmukhe tatsamāṃśena vistārāyāmaṃ kārayet || 232 ||
चतुःषड्भागविस्तारायामं मण्डपाङ्गणम् । पुरश्च पार्श्वयोश्चैव द्व्यंशेन मुखमण्डपम् ॥ २३३ ॥
catuḥṣaḍbhāgavistārāyāmaṃ maṇḍapāṅgaṇam | puraśca pārśvayoścaiva dvyaṃśena mukhamaṇḍapam || 233 ||
द्वारं तन्मुखभद्रं स्यात्कर्णेषु कर्करीकृतम् । मण्डपे चाङ्गणं ज्ञात्वा विधानं विविधाननम् ॥ २३४ ॥
dvāraṃ tanmukhabhadraṃ syātkarṇeṣu karkarīkṛtam | maṇḍape cāṅgaṇaṃ jñātvā vidhānaṃ vividhānanam || 234 ||
सर्वालङ्कारसंयुक्तं वातायनसमायुतम् । एवं तु खर्वटं प्रोक्तमभिषेकार्थमण्डपम् ॥ २३५ ॥
sarvālaṅkārasaṃyuktaṃ vātāyanasamāyutam | evaṃ tu kharvaṭaṃ proktamabhiṣekārthamaṇḍapam || 235 ||
नवभागं तु विस्तारं तत्समांशमुखायतम् । मध्यरङ्गं त्रिभागं स्यादंशेनावृतलिन्द्र कम् ॥ २३६ ॥
navabhāgaṃ tu vistāraṃ tatsamāṃśamukhāyatam | madhyaraṅgaṃ tribhāgaṃ syādaṃśenāvṛtalindra kam || 236 ||
तद्बहिश्च द्विभागेन मण्डपावृतमेव च । तस्मात्त्रिभागषड्भागं विस्तारायामरङ्गकम् ॥ २३७ ॥
tadbahiśca dvibhāgena maṇḍapāvṛtameva ca | tasmāttribhāgaṣaḍbhāgaṃ vistārāyāmaraṅgakam || 237 ||
कुर्यात्तु शिल्पिविद्वद्भिर्मुखमण्डप मध्यमे । तत्पुरे पार्श्वयोश्चैव एकभागेन लिन्द्र कम् ॥ २३८ ॥
kuryāttu śilpividvadbhirmukhamaṇḍapa madhyame | tatpure pārśvayoścaiva ekabhāgena lindra kam || 238 ||
तद्बहिस्तद्वशात्कुर्यान्मण्डपं तद्द्वयांशकम् । शेषं प्रागुक्तवत्कुर्यात् श्रीरूपाख्यं च मण्डपम् ॥ २३९ ॥
tadbahistadvaśātkuryānmaṇḍapaṃ taddvayāṃśakam | śeṣaṃ prāguktavatkuryāt śrīrūpākhyaṃ ca maṇḍapam || 239 ||
एवं देवालये कुर्याद् भूपाकयोग्यकम् । दशभागविशालं स्याद्विंशत्यंशं तदायतम् ॥ २४० ॥
evaṃ devālaye kuryād bhūpākayogyakam | daśabhāgaviśālaṃ syādviṃśatyaṃśaṃ tadāyatam || 240 ||
मध्यरङ्गं युगांशं स्यात्मध्यस्तम्भान् परित्यजेत् । तद्बदिश्चावृतांशेन लिन्द्रं द्व्यंशेन मण्डपम् ॥ २४१ ॥
madhyaraṅgaṃ yugāṃśaṃ syātmadhyastambhān parityajet | tadbadiścāvṛtāṃśena lindraṃ dvyaṃśena maṇḍapam || 241 ||
तद्बहिश्चावृतांशेन चोर्ध्वे तु जलस्थलम् । तस्मात्तु तन्मुखे रङ्गं द्व्यंशं षड्भागमेव च ॥ २४२ ॥
tadbahiścāvṛtāṃśena cordhve tu jalasthalam | tasmāttu tanmukhe raṅgaṃ dvyaṃśaṃ ṣaḍbhāgameva ca || 242 ||
तन्मुखे पार्श्वयोश्चैव मण्डपाकारं योजयेत् । मङ्गलाख्यमिति प्रोक्तं शेषं तु पुरतोक्तवत् ॥ २४३ ॥
tanmukhe pārśvayoścaiva maṇḍapākāraṃ yojayet | maṅgalākhyamiti proktaṃ śeṣaṃ tu puratoktavat || 243 ||
एवं तु नृपहर्म्ये तु तुलाभारार्थयोग्यकम् । भूपानां च यथास्थानं मण्डपं वक्ष्यते क्रमात् ॥ २४४ ॥
evaṃ tu nṛpaharmye tu tulābhārārthayogyakam | bhūpānāṃ ca yathāsthānaṃ maṇḍapaṃ vakṣyate kramāt || 244 ||
एकादशविभागेन मूलविस्तारदीर्घकम् । तत्समांशेन विस्तारमेकद्वित्रिमुखायतम् ॥ २४५ ॥
ekādaśavibhāgena mūlavistāradīrghakam | tatsamāṃśena vistāramekadvitrimukhāyatam || 245 ||
विस्तारसमसूत्रं स्यात्कुर्यादास्थानमण्डपम् । मूलमण्डपमध्ये तु पञ्चपञ्चांशरङ्गकम् ॥ २४६ ॥
vistārasamasūtraṃ syātkuryādāsthānamaṇḍapam | mūlamaṇḍapamadhye tu pañcapañcāṃśaraṅgakam || 246 ||
तद्बाह्ये द्वित्रिभागेन परितो मण्डपं भवेत् । चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलभित्तिकम् ॥ २४७ ॥
tadbāhye dvitribhāgena parito maṇḍapaṃ bhavet | caturdikṣu caturdvāraṃ karṇe lāṅgalabhittikam || 247 ||
बाह्ये च द्वित्रिभागेन भूवृतालिन्दकम् । चतुर्दिक्षु त्रिभागेन भद्र द्वारणसंयुतम् ॥ २४८ ॥
bāhye ca dvitribhāgena bhūvṛtālindakam | caturdikṣu tribhāgena bhadra dvāraṇasaṃyutam || 248 ||
पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम् । सोपपीठमधिष्ठानं स्तम्भादीन्प्रस्तरान्वितम् ॥ २४९ ॥
pārśve sopānasaṃyuktaṃ hastihastavibhūṣitam | sopapīṭhamadhiṣṭhānaṃ stambhādīnprastarānvitam || 249 ||
प्रस्तरोर्ध्वे विशेषोऽस्ति चूली हर्म्यादिमण्डितम् । मध्यरङ्गोर्ध्वकूटं स्यात् एकद्वित्रितलं तु वा ॥ २५० ॥
prastarordhve viśeṣo'sti cūlī harmyādimaṇḍitam | madhyaraṅgordhvakūṭaṃ syāt ekadvitritalaṃ tu vā || 250 ||
रत्नप्रासादरङ्गे तु प्रागुक्तवदलङ्कृतम् । तन्मुखे च प्रपां कुर्याद् युक्त्यायामं तु कल्पयेत् ॥ २५१ ॥
ratnaprāsādaraṅge tu prāguktavadalaṅkṛtam | tanmukhe ca prapāṃ kuryād yuktyāyāmaṃ tu kalpayet || 251 ||
नाटका विस्तरं पञ्चपञ्चभागेन योजयेत् । पार्श्वे चैव त्रिभागेन बहुपादसमन्वितम् ॥ २५२ ॥
nāṭakā vistaraṃ pañcapañcabhāgena yojayet | pārśve caiva tribhāgena bahupādasamanvitam || 252 ||
सोपपीठाङ्घ्रिसंयुक्तं प्रस्तरं च प्रपाङ्गकम् । प्रमुखे भद्र सोपानं कर्णे लाङ्गलभित्तिकम् ॥ २५३ ॥
sopapīṭhāṅghrisaṃyuktaṃ prastaraṃ ca prapāṅgakam | pramukhe bhadra sopānaṃ karṇe lāṅgalabhittikam || 253 ||
शिले वा दारुजे वापि मिश्रद्र व्येण कारयेत् । शेषं तु देवतास्थानं मण्डपोक्तवदाचरेत् ॥ २५४ ॥
śile vā dāruje vāpi miśradra vyeṇa kārayet | śeṣaṃ tu devatāsthānaṃ maṇḍapoktavadācaret || 254 ||
एवमास्थानयोग्यं स्यात्ततस्वराक्षरयोग्यकम् । चतुःषड्भागविस्तारमायामं तत्प्रकल्पयेत् ॥ २५५ ॥
evamāsthānayogyaṃ syāttatasvarākṣarayogyakam | catuḥṣaḍbhāgavistāramāyāmaṃ tatprakalpayet || 255 ||
द्विचतुर्भागविस्तारमायामं मण्डपं भवेत् । विस्ताराद् द्विभागेन वंशमूले तु व्रासकम् ॥ २५६ ॥
dvicaturbhāgavistāramāyāmaṃ maṇḍapaṃ bhavet | vistārād dvibhāgena vaṃśamūle tu vrāsakam || 256 ||
तदग्रे द्वित्रिभागेन कुड्यपादसमन्वितम् । तद्बहिश्चावृतांशेन वारं कान्ताख्यमण्डपम् ॥ २५७ ॥
tadagre dvitribhāgena kuḍyapādasamanvitam | tadbahiścāvṛtāṃśena vāraṃ kāntākhyamaṇḍapam || 257 ||
एवं तु युवराजस्य लीलालोकनमण्डपम् । सर्वालङ्कारसंयुक्तं चोर्ध्वकूटसमन्वितम् ॥ २५८ ॥
evaṃ tu yuvarājasya līlālokanamaṇḍapam | sarvālaṅkārasaṃyuktaṃ cordhvakūṭasamanvitam || 258 ||
षडष्टांशेन विस्तारमायामं मण्डपं भवेत् । द्वित्रिभागेन वासं स्यात्त्रिचतुर्भागमण्डपम् ॥ २५९ ॥
ṣaḍaṣṭāṃśena vistāramāyāmaṃ maṇḍapaṃ bhavet | dvitribhāgena vāsaṃ syāttricaturbhāgamaṇḍapam || 259 ||
वंशमूलाग्रयोर्वासं तन्मध्ये मण्डपं भवेत् । तत्पुरेऽलिन्द्र मेकांशं चेष्टदिग्गतभित्तिकम् ॥ २६० ॥
vaṃśamūlāgrayorvāsaṃ tanmadhye maṇḍapaṃ bhavet | tatpure'lindra mekāṃśaṃ ceṣṭadiggatabhittikam || 260 ||
मुखेऽष्टद्व्यंशमायामं विस्तारं मुखवारकम् । द्वित्रिभागेन वासं स्यात् अग्रे मूले निर्योजयेत् ॥ २६१ ॥
mukhe'ṣṭadvyaṃśamāyāmaṃ vistāraṃ mukhavārakam | dvitribhāgena vāsaṃ syāt agre mūle niryojayet || 261 ||
अथवा मूलवासैश्च द्वित्रिभागेन योजयेत् । द्विचतुर्भागविस्तारायामं मूलमण्डपम् ॥ २६२ ॥
athavā mūlavāsaiśca dvitribhāgena yojayet | dvicaturbhāgavistārāyāmaṃ mūlamaṇḍapam || 262 ||
तत्पुरे पृष्ठदेशे तु चैकैकांशेनालिन्द्र कम् । परितः कुड्यसंयुक्तं तद्बहिर्वारमेव च ॥ २६३ ॥
tatpure pṛṣṭhadeśe tu caikaikāṃśenālindra kam | paritaḥ kuḍyasaṃyuktaṃ tadbahirvārameva ca || 263 ||
तस्मादेव द्विभागेन निर्गमं भद्र विस्तृतम् । मण्डपे वंशमूलाग्रे त्रिभागं भद्र विशालकम् ॥ २६४ ॥
tasmādeva dvibhāgena nirgamaṃ bhadra vistṛtam | maṇḍape vaṃśamūlāgre tribhāgaṃ bhadra viśālakam || 264 ||
निर्गमं च द्विभागं स्याद् भद्रा वृतवारकम् । मण्डपे चोर्ध्वकूटं स्यात् शालाकारं तु योजयेत् ॥ २६५ ॥
nirgamaṃ ca dvibhāgaṃ syād bhadrā vṛtavārakam | maṇḍape cordhvakūṭaṃ syāt śālākāraṃ tu yojayet || 265 ||
अष्टवक्त्रसमायुक्तं कर्णेषु कर्करीकृतम् । मध्यसूत्रं तु वामे तु दारं कुर्याद् विचक्षणः ॥ २६६ ॥
aṣṭavaktrasamāyuktaṃ karṇeṣu karkarīkṛtam | madhyasūtraṃ tu vāme tu dāraṃ kuryād vicakṣaṇaḥ || 266 ||
श्रीविशालमिति प्रोक्तं महिष्यावासमण्डपम् । चतुःषड्भागविस्तारं आयाम मण्डपं भवेत् ॥ २६७ ॥
śrīviśālamiti proktaṃ mahiṣyāvāsamaṇḍapam | catuḥṣaḍbhāgavistāraṃ āyāma maṇḍapaṃ bhavet || 267 ||
द्विद्विभागेन संयुक्तं तन्मध्ये चाङ्गणं भवेत् । द्विचतुर्भागविस्तारं वासमायाममीरितम् ॥ २६८ ॥
dvidvibhāgena saṃyuktaṃ tanmadhye cāṅgaṇaṃ bhavet | dvicaturbhāgavistāraṃ vāsamāyāmamīritam || 268 ||
तत्पुरे पृष्ठभागान्तं चैकद्व्यंशेन कारयेत् । तद्बहिर्वारमेकेन परितः कूटाकृतिस्तथा ॥ २६९ ॥
tatpure pṛṣṭhabhāgāntaṃ caikadvyaṃśena kārayet | tadbahirvāramekena paritaḥ kūṭākṛtistathā || 269 ||
वंशमूलाग्रयोर्वासं तद्वारं वासमध्यमे । मण्डपे सूत्रमध्यं तु वामे द्वारं तथायते ॥ २७० ॥
vaṃśamūlāgrayorvāsaṃ tadvāraṃ vāsamadhyame | maṇḍape sūtramadhyaṃ tu vāme dvāraṃ tathāyate || 270 ||
एवं सोमार्कनामस्य वैश्यानां च पचनालयम् । तदेव विस्तारदीर्घेषु द्विद्विभागेन वर्धनात् ॥ २७१ ॥
evaṃ somārkanāmasya vaiśyānāṃ ca pacanālayam | tadeva vistāradīrgheṣu dvidvibhāgena vardhanāt || 271 ||
अन्यत् क्षित्रियसर्वेषां युगभागेन मण्डपम् । विस्तारं द्विगुणान्तं स्याद् द्विद्विभागेन वर्धनात् ॥ २७२ ॥
anyat kṣitriyasarveṣāṃ yugabhāgena maṇḍapam | vistāraṃ dviguṇāntaṃ syād dvidvibhāgena vardhanāt || 272 ||
यथा तद्विनियोगार्थं मण्डपं वैश्यशूद्र योः । तत्तच्चित्तवशात्सर्वमष्टदिग्भागभित्तिकम् ॥ २७३ ॥
yathā tadviniyogārthaṃ maṇḍapaṃ vaiśyaśūdra yoḥ | tattaccittavaśātsarvamaṣṭadigbhāgabhittikam || 273 ||
देवानां भूसुराणां च मण्डपं जातिरूपकम् । भूपानां मण्डपे सर्वे छन्दरूपमितीरितम् ॥ २७४ ॥
devānāṃ bhūsurāṇāṃ ca maṇḍapaṃ jātirūpakam | bhūpānāṃ maṇḍape sarve chandarūpamitīritam || 274 ||
वैश्यकानां तु सर्वेषां विकल्पं चेति कथ्यते । शूद्रा णां मण्डपं सर्वमाभांसमिति कीर्तितम् ॥ २७५ ॥
vaiśyakānāṃ tu sarveṣāṃ vikalpaṃ ceti kathyate | śūdrā ṇāṃ maṇḍapaṃ sarvamābhāṃsamiti kīrtitam || 275 ||
केचिद् भद्रं विशेषेण जातिरुक्ता पुरातनैः । द्विवक्त्रं दण्डकं प्रोक्तं त्रिवक्त्रं स्वस्तिकं तथा ॥ २७६ ॥
kecid bhadraṃ viśeṣeṇa jātiruktā purātanaiḥ | dvivaktraṃ daṇḍakaṃ proktaṃ trivaktraṃ svastikaṃ tathā || 276 ||
त्रिवक्त्रं लाङ्गलाकारं नन्द्यावर्त्तं चतुर्मुखम् । षण्मुखं मौलिकं प्रोक्तं मण्डप चाष्टवक्त्रयुक् ॥ २७७ ॥
trivaktraṃ lāṅgalākāraṃ nandyāvarttaṃ caturmukham | ṣaṇmukhaṃ maulikaṃ proktaṃ maṇḍapa cāṣṭavaktrayuk || 277 ||
एवं तु सर्वतोभद्रं सर्वालङ्कारसंयुतम् । वक्ष्यते विधिना सम्यक् सर्वग्रामार्थमण्डपम् ॥ २७८ ॥
evaṃ tu sarvatobhadraṃ sarvālaṅkārasaṃyutam | vakṣyate vidhinā samyak sarvagrāmārthamaṇḍapam || 278 ||
समाश्रं वायतायामं युग्मं वायुग्मभित्तिकम् । लुपां वा प्रस्तराङ्गं वा तप्लच्छादनमेव च ॥ २७९ ॥
samāśraṃ vāyatāyāmaṃ yugmaṃ vāyugmabhittikam | lupāṃ vā prastarāṅgaṃ vā taplacchādanameva ca || 279 ||
लुपायुक्तं तु सर्वाङ्गं सभा चेति प्रकीर्तितम् । परितः प्रस्तरं मध्ये चोर्ध्वे कूटं तु मण्डपम् ॥ २८० ॥
lupāyuktaṃ tu sarvāṅgaṃ sabhā ceti prakīrtitam | paritaḥ prastaraṃ madhye cordhve kūṭaṃ tu maṇḍapam || 280 ||
प्रस्तराङ्गं तु सर्वाङ्गं मण्डपं चेति कथ्यते । मण्डपं वा सभां वापि ग्रामयोग्यं यथादिशि ॥ २८१ ॥
prastarāṅgaṃ tu sarvāṅgaṃ maṇḍapaṃ ceti kathyate | maṇḍapaṃ vā sabhāṃ vāpi grāmayogyaṃ yathādiśi || 281 ||
नगरे च यथाकारं द्विगुणाध्यर्धकायतम् । पादूनं द्विगुणं वापि द्विगुणं पत्तने न्यसेत् ॥ २८२ ॥
nagare ca yathākāraṃ dviguṇādhyardhakāyatam | pādūnaṃ dviguṇaṃ vāpi dviguṇaṃ pattane nyaset || 282 ||
विस्तारद्विगुणायामं शूद्र खर्बटयोग्यकम् । अधिष्ठानाद्यलङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥ २८३ ॥
vistāradviguṇāyāmaṃ śūdra kharbaṭayogyakam | adhiṣṭhānādyalaṅkāraṃ sarvaṃ prāguktavannayet || 283 ||
यात्रामार्गेषु सर्वेषां कारयेन्मण्डपं सुधीः । प्रपाङ्गं मण्डपं वापि यथायुक्त्या प्रयोजयेत् ॥ २८४ ॥
yātrāmārgeṣu sarveṣāṃ kārayenmaṇḍapaṃ sudhīḥ | prapāṅgaṃ maṇḍapaṃ vāpi yathāyuktyā prayojayet || 284 ||
ब्रह्मक्षत्रियवैश्यशूद्र चतुर्वर्णे यदुक्तं तु तद् । देवानां भवति त्वनन्तरान्तरं शूद्रै र्विशा क्षत्रियैः । तद्विप्रैर्भवति त्वनन्तरान्तरं क्षत्रैर्विशा शूद्र कम् । राजानो भवति त्वनन्तरान्तरं शूद्रै र्विशां वश्यकैः ॥ २८५ ॥
brahmakṣatriyavaiśyaśūdra caturvarṇe yaduktaṃ tu tad | devānāṃ bhavati tvanantarāntaraṃ śūdrai rviśā kṣatriyaiḥ | tadviprairbhavati tvanantarāntaraṃ kṣatrairviśā śūdra kam | rājāno bhavati tvanantarāntaraṃ śūdrai rviśāṃ vaśyakaiḥ || 285 ||
शूद्रै र्युक्तं मण्डपं शूद्र काणाम् । अन्येषां तज्जातियोग्यं तु कुर्यात् । चोक्तद्विप्रजात्यादि चोक्तम् । कर्ता भर्ता सर्वथा नाशमीयात् ॥ २८६ ॥
śūdrai ryuktaṃ maṇḍapaṃ śūdra kāṇām | anyeṣāṃ tajjātiyogyaṃ tu kuryāt | coktadviprajātyādi coktam | kartā bhartā sarvathā nāśamīyāt || 286 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).