अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात् । पादं चतुर्विधं प्रोक्तं तद्वशान्मानं गृह्यते ॥ १ ॥
adhunā vakṣyate sarvabhaktānāṃ lakṣaṇaṃ kramāt | pādaṃ caturvidhaṃ proktaṃ tadvaśānmānaṃ gṛhyate || 1 ||
अध्यायः ५७ · भक्तलक्षणम्
bhaktalakṣaṇam
A chapter of the Manasara.
51 versesSanskrit with transliteration
अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात् । पादं चतुर्विधं प्रोक्तं तद्वशान्मानं गृह्यते ॥ १ ॥
adhunā vakṣyate sarvabhaktānāṃ lakṣaṇaṃ kramāt | pādaṃ caturvidhaṃ proktaṃ tadvaśānmānaṃ gṛhyate || 1 ||
प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यते । सारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥ २ ॥
prathamaṃ sālokyamatha dvitīyaṃ sāmīpyamucyate | sārūpyaṃ ca tṛtīyaṃ syātsāyujyaṃ tu caturthakam || 2 ||
भक्तिज्ञानं च वैराग्यं युक्तं सालोक्यमीरितम् । ज्ञानं वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥ ३ ॥
bhaktijñānaṃ ca vairāgyaṃ yuktaṃ sālokyamīritam | jñānaṃ vairāgyasaṃyuktaṃ sāmīpyamiti kathyate || 3 ||
केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम् । शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवत् ॥ ४ ॥
kevalaṃ dhyānasaṃyuktaṃ sārūpyamiti niścayam | śuddhajñānasamāyuktaṃ sāyujyaṃ paramārthavat || 4 ||
उत्तमं नवतालेन सालोक्याङ्गं प्रमीयते । अधमं दशतालेन सामीप्याङ्गस्य निर्मितम् ॥ ५ ॥
uttamaṃ navatālena sālokyāṅgaṃ pramīyate | adhamaṃ daśatālena sāmīpyāṅgasya nirmitam || 5 ||
मध्यमं दशतालेन सारूप्यं मानयेत्सुधीः । उत्तमं दशतालेन सायुज्यं कथितं बुधैः ॥ ६ ॥
madhyamaṃ daśatālena sārūpyaṃ mānayetsudhīḥ | uttamaṃ daśatālena sāyujyaṃ kathitaṃ budhaiḥ || 6 ||
एवं क्रमेण भक्तानां तालमानं प्रवक्ष्यते । उष्णीषात्पादपर्यन्तं भावोत्तरशतांशकम् ॥ ७ ॥
evaṃ krameṇa bhaktānāṃ tālamānaṃ pravakṣyate | uṣṇīṣātpādaparyantaṃ bhāvottaraśatāṃśakam || 7 ||
उष्णीषं तु चतुर्मात्रं नेत्रान्तं तु युगाङ्गुलम् । पुटान्तं वेदमात्रं स्यात्तत्समं हनुसीमकम् ॥ ८ ॥
uṣṇīṣaṃ tu caturmātraṃ netrāntaṃ tu yugāṅgulam | puṭāntaṃ vedamātraṃ syāttatsamaṃ hanusīmakam || 8 ||
कर्णोच्चं वेदमात्रं स्याद् भद्र काद्धृदयान्तकम् । हृदयं नाभिसीमान्तं नाभिर्मेढ्रं तु सीमकम् ॥ ९ ॥
karṇoccaṃ vedamātraṃ syād bhadra kāddhṛdayāntakam | hṛdayaṃ nābhisīmāntaṃ nābhirmeḍhraṃ tu sīmakam || 9 ||
तत्समं भानुभागं स्याच्चोरुदीर्घं मुखद्वयम् । जानु कर्ण समं कुर्याज्जङ्घा चोरुतुल्यकम् ॥ १० ॥
tatsamaṃ bhānubhāgaṃ syāccorudīrghaṃ mukhadvayam | jānu karṇa samaṃ kuryājjaṅghā corutulyakam || 10 ||
पादं जानुसमोच्चं स्यादेवमुत्तुङ्गं मापयेत् । अङ्गुष्ठात्पार्ष्णिपर्यन्तं तलं षोडशमात्रकम् ॥ ११ ॥
pādaṃ jānusamoccaṃ syādevamuttuṅgaṃ māpayet | aṅguṣṭhātpārṣṇiparyantaṃ talaṃ ṣoḍaśamātrakam || 11 ||
चतुर्विंशतिमात्रं स्याद्बाहुदीर्घं प्रशस्यते । कूर्परं च द्विमात्रं स्यात्प्रकोष्ठाष्टादशाङ्गुलम् ॥ १२ ॥
caturviṃśatimātraṃ syādbāhudīrghaṃ praśasyate | kūrparaṃ ca dvimātraṃ syātprakoṣṭhāṣṭādaśāṅgulam || 12 ||
मध्याङ्गुल्यग्रसीमान्तं तलं द्वादशमात्रकम् । रुद्रा शं! मुखतारं स्याद् गलतारं युगद्वयम् ॥ १३ ॥
madhyāṅgulyagrasīmāntaṃ talaṃ dvādaśamātrakam | rudrā śaṃ! mukhatāraṃ syād galatāraṃ yugadvayam || 13 ||
तत्समं बाहुमूलं स्याज्जानुविस्तारं तत्समम् । बाहुपर्यन्तविस्तारं षट्त्रिंशाङ्गुलकं तथा ॥ १४ ॥
tatsamaṃ bāhumūlaṃ syājjānuvistāraṃ tatsamam | bāhuparyantavistāraṃ ṣaṭtriṃśāṅgulakaṃ tathā || 14 ||
कक्षयोरन्तरं तारं विशमात्रं प्रशस्यते । मध्योदरतारं च पञ्चादशाङ्गुलं भवेत् ॥ १५ ॥
kakṣayorantaraṃ tāraṃ viśamātraṃ praśasyate | madhyodaratāraṃ ca pañcādaśāṅgulaṃ bhavet || 15 ||
श्रोणिदेशविशालं स्यात्सप्तादशाङ्गुलं भवेत् । नवाधिक्यं दशाङ्गुल्यं कटिदेशविशालकम् ॥ १६ ॥
śroṇideśaviśālaṃ syātsaptādaśāṅgulaṃ bhavet | navādhikyaṃ daśāṅgulyaṃ kaṭideśaviśālakam || 16 ||
ऊरुमूलविशालं तु सार्धं द्वादशाङ्गुलं भवेत् । जङ्घामूलविशालं तु सार्धसप्ताङ्गुलं तथा ॥ १७ ॥
ūrumūlaviśālaṃ tu sārdhaṃ dvādaśāṅgulaṃ bhavet | jaṅghāmūlaviśālaṃ tu sārdhasaptāṅgulaṃ tathā || 17 ||
जङ्घामध्यं षडङ्गुल्यं विस्तारं तु युगाङ्गुलम् । नलकागुल्फविस्तारं सत्रिपादाङ्घ्रिमात्रकम् ॥ १८ ॥
jaṅghāmadhyaṃ ṣaḍaṅgulyaṃ vistāraṃ tu yugāṅgulam | nalakāgulphavistāraṃ satripādāṅghrimātrakam || 18 ||
सार्धवेदाङ्गुलं पार्ष्णिविस्तारं परिकीर्तितम् । षड्भागिकं च पञ्चांशं प्रपदं विस्तृतं भवेत् ॥ १९ ॥
sārdhavedāṅgulaṃ pārṣṇivistāraṃ parikīrtitam | ṣaḍbhāgikaṃ ca pañcāṃśaṃ prapadaṃ vistṛtaṃ bhavet || 19 ||
तलातारं शराङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम् । द्विमात्रं तत्रविस्तारं तारार्धं नखविस्तृतम् ॥ २० ॥
talātāraṃ śarāṅgulyaṃ vedāṃśamaṅguṣṭhadīrghakam | dvimātraṃ tatravistāraṃ tārārdhaṃ nakhavistṛtam || 20 ||
तर्जन्याङ्गुष्ठतत्तुल्यं दीर्घं विस्तारमंशकम् । त्र्! यङ्गुलं सार्धपक्षांशं द्व्यङ्गुलं च क्रमेण वै ॥ २१ ॥
tarjanyāṅguṣṭhatattulyaṃ dīrghaṃ vistāramaṃśakam | tr! yaṅgulaṃ sārdhapakṣāṃśaṃ dvyaṅgulaṃ ca krameṇa vai || 21 ||
मध्यमादि कनिष्ठान्तं दीर्घमेवं प्रशस्यते । विस्तारं सप्तषट्पञ्चयवमानमुदीरितम् ॥ २२ ॥
madhyamādi kaniṣṭhāntaṃ dīrghamevaṃ praśasyate | vistāraṃ saptaṣaṭpañcayavamānamudīritam || 22 ||
तदर्धं च तदर्धं च नखविस्तारमुच्यते । बाहुमध्यविशालं तु सप्तांशं कूर्परं तथा ॥ २३ ॥
tadardhaṃ ca tadardhaṃ ca nakhavistāramucyate | bāhumadhyaviśālaṃ tu saptāṃśaṃ kūrparaṃ tathā || 23 ||
वेदाङ्गुलं प्रकोष्ठं च मणिबन्धं त्रियङ्गुलम् । षडंशं तलमूलं चाग्रं तारं युगाङ्गुलम् ॥ २४ ॥
vedāṅgulaṃ prakoṣṭhaṃ ca maṇibandhaṃ triyaṅgulam | ṣaḍaṃśaṃ talamūlaṃ cāgraṃ tāraṃ yugāṅgulam || 24 ||
तलदीर्घं षडङ्गुल्यं शेषांशं मध्यमाङ्गुलम् । सार्धपञ्चाङ्गुलं दीर्घं तर्जन्यनामिकाद्वयम् ॥ २५ ॥
taladīrghaṃ ṣaḍaṅgulyaṃ śeṣāṃśaṃ madhyamāṅgulam | sārdhapañcāṅgulaṃ dīrghaṃ tarjanyanāmikādvayam || 25 ||
सार्धवह्न्यङ्गुलं दीर्घं कनिष्ठाङ्गुष्ठयोस्तथा । अंशकं षड्यवं सप्त षड्यवं तुर्यवं भवेत् ॥ २६ ॥
sārdhavahnyaṅgulaṃ dīrghaṃ kaniṣṭhāṅguṣṭhayostathā | aṃśakaṃ ṣaḍyavaṃ sapta ṣaḍyavaṃ turyavaṃ bhavet || 26 ||
अङ्गष्ठादिकनिष्ठान्तं विस्तारं परिकीर्तितम् । स्थूलमूल कृशाग्रं तु उक्तमानेन योजयेत् ॥ २७ ॥
aṅgaṣṭhādikaniṣṭhāntaṃ vistāraṃ parikīrtitam | sthūlamūla kṛśāgraṃ tu uktamānena yojayet || 27 ||
अग्रे च त्रित्रिभागेन नखतारं प्रशस्यते । त्रिचतुर्भागमाधिक्यं नखायाममुदाहृतम् ॥ २८ ॥
agre ca tritribhāgena nakhatāraṃ praśasyate | tricaturbhāgamādhikyaṃ nakhāyāmamudāhṛtam || 28 ||
एकद्वित्रियवं वापि नखाग्रं कारयेत्सुधीः । अङ्गुष्ठे च द्विपर्वं स्यात्त्रिपर्वं चान्यथाङ्गुलैः ॥ २९ ॥
ekadvitriyavaṃ vāpi nakhāgraṃ kārayetsudhīḥ | aṅguṣṭhe ca dviparvaṃ syāttriparvaṃ cānyathāṅgulaiḥ || 29 ||
ज्ञानरेखादिरेखैश्च कुर्यात्तु तलमध्यमे । फेशान्तं दक्षसूत्रान्तं द्वयोर्मध्ये भ्रुवः स्थितिः ॥ ३० ॥
jñānarekhādirekhaiśca kuryāttu talamadhyame | pheśāntaṃ dakṣasūtrāntaṃ dvayormadhye bhruvaḥ sthitiḥ || 30 ||
अक्षायाम द्वयाङ्गुल्यं तदर्धं तस्यविस्तृतम् । कर्णायामं युगाङ्गुल्यं कर्णनालं तु तत्समम् ॥ ३१ ॥
akṣāyāma dvayāṅgulyaṃ tadardhaṃ tasyavistṛtam | karṇāyāmaṃ yugāṅgulyaṃ karṇanālaṃ tu tatsamam || 31 ||
विस्तारं द्व्यङ्गुलं प्रोक्तं शेषमूह्यं विचक्षणः । नवतालोत्तमं प्रोक्तं शेषं च दशतालवत् ॥ ३२ ॥
vistāraṃ dvyaṅgulaṃ proktaṃ śeṣamūhyaṃ vicakṣaṇaḥ | navatālottamaṃ proktaṃ śeṣaṃ ca daśatālavat || 32 ||
सद्विरष्टशतं भागं द्वितीये च पदं तथा । पादादुष्णीषसीमान्तं कन्यसपङ्क्तितालवत् ॥ ३३ ॥
sadviraṣṭaśataṃ bhāgaṃ dvitīye ca padaṃ tathā | pādāduṣṇīṣasīmāntaṃ kanyasapaṅktitālavat || 33 ||
उष्णीषात्केशपर्यन्तमुत्तुङ्गं वेदमात्रकम् । तस्मान्नेत्रं तु सूत्रान्तं सार्धवेदङ्गुलं भवेत् ॥ ३४ ॥
uṣṇīṣātkeśaparyantamuttuṅgaṃ vedamātrakam | tasmānnetraṃ tu sūtrāntaṃ sārdhavedaṅgulaṃ bhavet || 34 ||
तस्मात्तु पुटसीमान्तं वेदमात्रं प्रशस्यते । पुटान्ताद्धनुसीमान्तं सार्धवह्न्यङ्गुलं भवेत् ॥ ३५ ॥
tasmāttu puṭasīmāntaṃ vedamātraṃ praśasyate | puṭāntāddhanusīmāntaṃ sārdhavahnyaṅgulaṃ bhavet || 35 ||
गलमध्यर्धमात्रं स्याद् गलतुङ्गं युगाङ्गुलम् । कर्णाद्धृदयमानं हृदयं नाभिसीमकम् ॥ ३६ ॥
galamadhyardhamātraṃ syād galatuṅgaṃ yugāṅgulam | karṇāddhṛdayamānaṃ hṛdayaṃ nābhisīmakam || 36 ||
नाभ्यन्तं मेढ्रसीमान्तं समं वा युगत्रयम् । मेढ्रमूरुदीर्घं स्यात्पञ्चविंशाङ्गुलं भवेत् ॥ ३७ ॥
nābhyantaṃ meḍhrasīmāntaṃ samaṃ vā yugatrayam | meḍhramūrudīrghaṃ syātpañcaviṃśāṅgulaṃ bhavet || 37 ||
जानुपादतलं वेदमात्रं जङ्घोरुतुल्यकम् । पार्ष्णिद्व्यङ्गुष्ठसीमान्तं सार्धषोडशमात्रकम् ॥ ३८ ॥
jānupādatalaṃ vedamātraṃ jaṅghorutulyakam | pārṣṇidvyaṅguṣṭhasīmāntaṃ sārdhaṣoḍaśamātrakam || 38 ||
हिक्कासूत्रादधो बाहुदीर्घं पञ्चशराङ्गुलम् । कूर्परं च द्विमात्रं स्यात्प्रकोष्ठमेकोनविंशतिः ॥ ३९ ॥
hikkāsūtrādadho bāhudīrghaṃ pañcaśarāṅgulam | kūrparaṃ ca dvimātraṃ syātprakoṣṭhamekonaviṃśatiḥ || 39 ||
मध्याङ्गुल्यग्रसीमान्तं सार्धभान्वंशकं तलम् । सार्धरुद्रा शं! वक्त्रं च विस्तारं परिकीर्तितम् ॥ ४० ॥
madhyāṅgulyagrasīmāntaṃ sārdhabhānvaṃśakaṃ talam | sārdharudrā śaṃ! vaktraṃ ca vistāraṃ parikīrtitam || 40 ||
गलतारं सार्धमष्टांशं बाहुजानु च तत्समम् । षट्षट्सार्धैकभागं स्याद्बाहुपर्यन्तविस्तृतम् ॥ ४१ ॥
galatāraṃ sārdhamaṣṭāṃśaṃ bāhujānu ca tatsamam | ṣaṭṣaṭsārdhaikabhāgaṃ syādbāhuparyantavistṛtam || 41 ||
सार्धविंशतिमात्रं स्यात्कक्षान्तरमुदाहृतम् । सार्धपञ्चादशाङ्गुल्यं मध्योदरविशालकम् ॥ ४२ ॥
sārdhaviṃśatimātraṃ syātkakṣāntaramudāhṛtam | sārdhapañcādaśāṅgulyaṃ madhyodaraviśālakam || 42 ||
सार्धमष्टादशाङ्गुल्यं श्रोणिदेष विशालकम् । एकोनविंशतिभागं कटिविस्तारमिष्यते ॥ ४३ ॥
sārdhamaṣṭādaśāṅgulyaṃ śroṇideṣa viśālakam | ekonaviṃśatibhāgaṃ kaṭivistāramiṣyate || 43 ||
सार्धद्वादशमात्रं स्यादूरुमूलविशालकम् । जङ्घामध्ये तु विस्तारं सार्धषड्द्व्यङ्गुलं भवेत् ॥ ४४ ॥
sārdhadvādaśamātraṃ syādūrumūlaviśālakam | jaṅghāmadhye tu vistāraṃ sārdhaṣaḍdvyaṅgulaṃ bhavet || 44 ||
नलकान्तर युगाङ्गुलं गुल्फतारं शराङ्गुलम् । प्रपदं तु षडङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम् ॥ ४५ ॥
nalakāntara yugāṅgulaṃ gulphatāraṃ śarāṅgulam | prapadaṃ tu ṣaḍaṅgulyaṃ vedāṃśamaṅguṣṭhadīrghakam || 45 ||
तत्समं तर्जनीदीर्घमर्धाङ्गुलविहीनकम् । अन्याङ्गुली च दीर्घं स्याद् विस्तारं तत्समूह्यताम् ॥ ४६ ॥
tatsamaṃ tarjanīdīrghamardhāṅgulavihīnakam | anyāṅgulī ca dīrghaṃ syād vistāraṃ tatsamūhyatām || 46 ||
कूर्परस्य तु विस्तारं सार्धषट्द्व्यङ्गुलं भवेत् । प्रकोष्ठतारं शराङ्गुल्यं मणिबन्धं युगाङ्गुलम् ॥ ४७ ॥
kūrparasya tu vistāraṃ sārdhaṣaṭdvyaṅgulaṃ bhavet | prakoṣṭhatāraṃ śarāṅgulyaṃ maṇibandhaṃ yugāṅgulam || 47 ||
तलतारं शराङ्गुल्यं तलदीर्घं सप्तमात्रकम् । मध्याङ्गुलायतं सार्धपञ्चमात्रं प्रशस्यते ॥ ४८ ॥
talatāraṃ śarāṅgulyaṃ taladīrghaṃ saptamātrakam | madhyāṅgulāyataṃ sārdhapañcamātraṃ praśasyate || 48 ||
तर्जन्यायामदीर्घं स्याद्बाणांशं तत्प्रकल्पयेत् । सार्धवद्व्यङ्गुलं दीर्घम् कनिष्ठाङ्गुष्ठयोस्तथा ॥ ४९ ॥
tarjanyāyāmadīrghaṃ syādbāṇāṃśaṃ tatprakalpayet | sārdhavadvyaṅgulaṃ dīrgham kaniṣṭhāṅguṣṭhayostathā || 49 ||
श्रोत्रदीर्घं युगाङ्गुल्यं नालालम्बनं तत्समम् । अन्यान्यनुक्तसर्वाङ्गमत्तमं दशतालवत् ॥ ५० ॥
śrotradīrghaṃ yugāṅgulyaṃ nālālambanaṃ tatsamam | anyānyanuktasarvāṅgamattamaṃ daśatālavat || 50 ||
कारयेच्छिल्पिभिः कुर्यात्तत्र दोषो न विद्यते ॥ ५१ ॥
kārayecchilpibhiḥ kuryāttatra doṣo na vidyate || 51 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).