Skip to content

अङ्कः ५

Ālokitaṃ gṛhaśikhaṇḍibhirutkalāpai-

An act of the Mricchakatika.

52 versesSanskrit with transliteration

A little clay toy cart, filled with a courtesan's golden ornaments.

आलोकितं गृहशिखण्डिभिरुत्कलापै- । हंसैर्यियासुभिरपाकृतमुन्मनस्कः । आकालिकं सपदि दुर्दिनमन्तरीक्ष- । मुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ १ ॥

ālokitaṃ gṛhaśikhaṇḍibhirutkalāpai- | haṃsairyiyāsubhirapākṛtamunmanaskaḥ | ākālikaṃ sapadi durdinamantarīkṣa- | mutkaṇṭhitasya hṛdayaṃ ca samaṃ ruṇaddhi || 1 ||

Report an error

अपि च,- । मेघो जलार्द्रमहिषोदरभृङ्गनीलो । विद्युत्प्रभाररचितपीतपटोत्तरीयः । आभाति संहृतबलाकगृहीतशङ्खः । खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥

api ca,- | megho jalārdramahiṣodarabhṛṅganīlo | vidyutprabhāraracitapītapaṭottarīyaḥ | ābhāti saṃhṛtabalākagṛhītaśaṅkhaḥ | khaṃ keśavo'para ivākramituṃ pravṛttaḥ || 2 ||

Report an error

अपि च,-- । केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः । विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥

api ca,-- | keśavagātraśyāmaḥ kuṭilabalākāvalīracitaśaṅkhaḥ | vidyudguṇakauśeyaścakradhara ivonnato meghaḥ || 3 ||

Report an error

एता निषिक्तरजतद्रवसंनिकाशा । धारा जवेन पतिता जलदोदरेभ्यः । विद्युत्प्रदीपशिखया क्षणनष्टद्दष्टा- । श्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥ ४ ॥

etā niṣiktarajatadravasaṃnikāśā | dhārā javena patitā jaladodarebhyaḥ | vidyutpradīpaśikhayā kṣaṇanaṣṭaddaṣṭā- | śchinnā ivāmbarapaṭasya daśāḥ patanti || 4 ||

Report an error

संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव । व्याविद्धैरिव मीनचक्रमकरैर्हर्म्यैरिव प्रोञ्छितैः । तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः । पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥ ५ ॥

saṃsaktairiva cakravākamithunairhaṃsaiḥ praḍīnairiva | vyāviddhairiva mīnacakramakarairharmyairiva proñchitaiḥ | taistairākṛtivistarairanugatairmeghaiḥ samabhyunnataiḥ | patracchedyamiveha bhāti gaganaṃ viśleṣitairvāyunā || 5 ||

Report an error

एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो । हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी । अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो । हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥ ६ ॥

etat tad dhṛtarāṣṭravaktrasadṛśaṃ meghāndhakāraṃ nabho | hṛṣṭo garjati cātidarpitabalo duryodhano vā śikhī | akṣadyūtajito yudhiṣṭhira ivādhvānaṃ gataḥ kokilo | haṃsāḥ saṃprati pāṇḍavā iva vanādajñātacaryāṃ gatāḥ || 6 ||

Report an error

विदुषकः---भो ! कधं ण विणट्टं ? जं अभुत्तपीदस्स चोरेहि । अवहिदस्स अप्पमुल्लस्य सुवण्णभंडअस्स कारणोदो चतुस्समुदृसारभूदा । रअणमाला हारिदा । [ भोः ! कथं न विनष्टम् ? यदभुक्तपीतस्य चौरैरप- । हृत्स्याल्पमूल्यस्य सुवर्णभाण्डस्य कारणाश्चतुःसमुद्रसारभूता रत्नमाला । हारिता ।] । चारुदत्त---वयस्य ! मा मैवम्; । यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः । तस्यैतन्महतो मूल्यं प्रत्ययस्यैष दीयते ॥ ७ ॥

viduṣakaḥ---bho ! kadhaṃ ṇa viṇaṭṭaṃ ? jaṃ abhuttapīdassa corehi | avahidassa appamullasya suvaṇṇabhaṃḍaassa kāraṇodo catussamudṛsārabhūdā | raaṇamālā hāridā | [ bhoḥ ! kathaṃ na vinaṣṭam ? yadabhuktapītasya caurairapa- | hṛtsyālpamūlyasya suvarṇabhāṇḍasya kāraṇāścatuḥsamudrasārabhūtā ratnamālā | hāritā |] | cārudatta---vayasya ! mā maivam; | yaṃ samālambya viśvāsaṃ nyāso'smāsu tayā kṛtaḥ | tasyaitanmahato mūlyaṃ pratyayasyaiṣa dīyate || 7 ||

Report an error

विदूषकः--भो वअस्स ! एदं पि मे दुदिनं संदावकारणं जं । सहीअणदिण्णसण्णाए पडंतोवारिदं मुहं कदुअ अहं उवहसिदो । ता । अहं बम्हणो भविअ दाणिं भवंतं 'सीसेण पडिअ विण्णवेमि---णिव- । तीअदु अप्पा इमादो बहुपञ्चवाआदो गणिआपसंगादो' । गणिआ । णाम पादुअंतरप्पविट्ठा विअ लेट्टुआ दुक्खेण उण णिराकरीअदि । अवि अ, भो वअस्स ! गणिआ हृत्थी काअत्थओ मिक्खु चाटो रासहो । अ जहिं एदे णिवसंति तहिं दुट्टा वि ण जाअंति। [ भो वयस्य ! एतदपि । मे द्वितीयं संतापकारणं यसखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वाऽह- । मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं शीर्षेण पतित्वा विज्ञापयामि । निवर्यतामात्मास्माद्वहुप्रत्यवायाद्वणिकाप्रसङ्गात्' । गणिका नाम पादुका- । न्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । अपि ध, भो वयस्य ! गणिका, । हस्ती, कायस्थो भिक्षुः, चाटो रासभश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न । जायन्ते । चारुदत्तः-वयस्य ! अलमिदानीं सर्वं परिवादमुक्त्वा । अवस्थयैवास्मि निवारितः । पश्य । वेगं करोति तुरगस्त्वरितं प्रयातुं । प्राणव्ययान्न चरणास्तु तथा वहन्ति । सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः । खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८ ॥

vidūṣakaḥ--bho vaassa ! edaṃ pi me dudinaṃ saṃdāvakāraṇaṃ jaṃ | sahīaṇadiṇṇasaṇṇāe paḍaṃtovāridaṃ muhaṃ kadua ahaṃ uvahasido | tā | ahaṃ bamhaṇo bhavia dāṇiṃ bhavaṃtaṃ 'sīseṇa paḍia viṇṇavemi---ṇiva- | tīadu appā imādo bahupañcavāādo gaṇiāpasaṃgādo' | gaṇiā | ṇāma pāduaṃtarappaviṭṭhā via leṭṭuā dukkheṇa uṇa ṇirākarīadi | avi a, bho vaassa ! gaṇiā hṛtthī kāatthao mikkhu cāṭo rāsaho | a jahiṃ ede ṇivasaṃti tahiṃ duṭṭā vi ṇa jāaṃti| [ bho vayasya ! etadapi | me dvitīyaṃ saṃtāpakāraṇaṃ yasakhījanadattasaṃjñayā paṭāntāpavāritaṃ mukhaṃ kṛtvā'ha- | mupahasitaḥ | tadahaṃ brāhmaṇo bhūtvedānīṃ bhavantaṃ śīrṣeṇa patitvā vijñāpayāmi | nivaryatāmātmāsmādvahupratyavāyādvaṇikāprasaṅgāt' | gaṇikā nāma pādukā- | ntarapraviṣṭeva leṣṭukā duḥkhena punarnirākriyate | api dha, bho vayasya ! gaṇikā, | hastī, kāyastho bhikṣuḥ, cāṭo rāsabhaśca yatraite nivasanti tatra duṣṭā api na | jāyante | cārudattaḥ-vayasya ! alamidānīṃ sarvaṃ parivādamuktvā | avasthayaivāsmi nivāritaḥ | paśya | vegaṃ karoti turagastvaritaṃ prayātuṃ | prāṇavyayānna caraṇāstu tathā vahanti | sarvatra yānti puruṣasya calāḥ svabhāvāḥ | khinnāstato hṛdayameva punarviśanti || 8 ||

Report an error

अपि च, वयस्य । यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः । (स्वगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् ) । वयमर्थैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥

api ca, vayasya | yasyārthāstasya sā kāntā dhanahāryo hyasau janaḥ | (svagatam ) na guṇahāryo hyasau janaḥ | (prakāśam ) | vayamarthaiḥ parityaktā nanu tyaktaiva sā mayā || 9 ||

Report an error

विदूषकः--(अधोऽवलोक्य, स्वगतम् ) जधा एसो उद्धं पेक्खिअ । दीहं णिस्ससदि, तधा तक्केमि मए विणिवारिअंतस्स अधिअदरं वड्ढिदा । से उक्कंठा। ता सुठ्टु खु एवं वुच्चदि--'कामो वामो' त्ति । ( प्रकाशम् ) । भो वअस्स ! भणिदं अ ताए---‘भणेहि चारुदत्तं----अज्ज पओसे । मए एत्थ आअंतव्व' त्ति । तो तक्केमि रअणावलीए अपरितुट्टा अवरं । मग्गिदुं आअमिस्सदि त्ति । [ यथैष ऊर्ध्व प्रेक्ष्य दीर्घं निःश्वसिति, तथा । तर्कयामि मया विनिवार्षमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सुष्ठु खल्वेवमुच्यते-“कामो वामः' इति । भो वयस्य ! भणितं च तया-‘भण चारुदत्तम् । –अद्य प्रदोषे मयात्रागन्तव्यम्' इति । तत्तर्कयामि रत्नावल्या अपरितुष्टाऽपरं । याचितुमागमिष्यतीति ।] । चारुदत्तः--वयस्य । आगच्छतु, परितुष्टा यास्यति । चेटः----( प्रविश्य ) अवेध माणहे । जधा जधा वश्शदि अब्भखंडे तधा तधा तिम्मदि पुठिचम्मे । जधा जधा लग्गदि शीदवादे तधा तधा वेवदि मे हलक्के ॥ १० ॥

vidūṣakaḥ--(adho'valokya, svagatam ) jadhā eso uddhaṃ pekkhia | dīhaṃ ṇissasadi, tadhā takkemi mae viṇivāriaṃtassa adhiadaraṃ vaḍḍhidā | se ukkaṃṭhā| tā suṭhṭu khu evaṃ vuccadi--'kāmo vāmo' tti | ( prakāśam ) | bho vaassa ! bhaṇidaṃ a tāe---‘bhaṇehi cārudattaṃ----ajja paose | mae ettha āaṃtavva' tti | to takkemi raaṇāvalīe aparituṭṭā avaraṃ | maggiduṃ āamissadi tti | [ yathaiṣa ūrdhva prekṣya dīrghaṃ niḥśvasiti, tathā | tarkayāmi mayā vinivārṣamāṇasyādhikataraṃ vṛddhāsyotkaṇṭhā | tatsuṣṭhu khalvevamucyate-“kāmo vāmaḥ' iti | bho vayasya ! bhaṇitaṃ ca tayā-‘bhaṇa cārudattam | –adya pradoṣe mayātrāgantavyam' iti | tattarkayāmi ratnāvalyā aparituṣṭā'paraṃ | yācitumāgamiṣyatīti |] | cārudattaḥ--vayasya | āgacchatu, parituṣṭā yāsyati | ceṭaḥ----( praviśya ) avedha māṇahe | jadhā jadhā vaśśadi abbhakhaṃḍe tadhā tadhā timmadi puṭhicamme | jadhā jadhā laggadi śīdavāde tadhā tadhā vevadi me halakke || 10 ||

Report an error

(अहस्य) । वंशं वाए शतच्छिदं शुशद्दं वीण वाए शत्ततंति णदंति । गीअं गाए गद्दद्दश्शाणुलूअं के मे गाणे तुंबुलू णालदे वा ॥ ११ ॥

(ahasya) | vaṃśaṃ vāe śatacchidaṃ śuśaddaṃ vīṇa vāe śattataṃti ṇadaṃti | gīaṃ gāe gaddaddaśśāṇulūaṃ ke me gāṇe tuṃbulū ṇālade vā || 11 ||

Report an error

आणात्तम्हि अज्जआए वशंतशेणाए---कुंभीलआ ! गच्छ तुमं, मम । आगमणं अज्जचारुदत्तश्श णिवेदेहि त्ति। ता जाव अज्जचारुदत्तश्श गेहं । गच्छामि । ( परिक्रम्य, प्रविष्टकेन दृष्ट्वा ) एशे चालुदत्ते रुक्खाडिआए । चिट्ठदि । एशे वि शे दुट्टवडुके; ता जाव उवशप्पेमि । कुधं ढक्किदे । दुवाले रुक्खवाडिआए ? । भोदु, एदश्श दुट्टवडुकश्श शण्णं देमि । ( इति लोष्टगुटिकाः क्षिपति ) । [अवेत मानवाः । यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति पृष्ठचर्म । यथा यथा लगति शीतवातस्तथा तथा वेपते मे हृदयम् ॥ । वंशं वादयामि सप्तच्छिदं सुशब्दं वीणां वादयामि सप्तताश्रीं नदन्तीम् । गीतं गायामि गर्दभस्यानुरूपं को मे गाने तुम्बुरुर्नारदो वा । आज्ञप्तोऽस्म्भार्यया वसन्तसेनया---'कुम्भीलक! गच्छ त्वम् । ममागमन- । मार्यचारुदत्तस्य निवेदय' इति । तद्यावदार्यवारुदत्तस्य गेहं गच्छामि । एष । चारुदत्तो वृक्षवाटिकायां तिष्ठति । एषोऽपि स दुष्टबटुकः तावदुपसर्पामि । कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु, एतस्य दुष्टबटुकस्य संज्ञां । ददामि ।] । विदूषकः--अए, को दाणिं एसो पारवेट्टिदं विअ कइत्थं मं । लोट्टकेहिं ताडेदि १ । [ अये ! क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां । लोष्टकैस्ताडयति ? ।] । चारुदत्तः---आरामप्रसादवेदिकायां क्रीडद्भिः पारावतैः पातितं । भवेत् । विदूषकः–दासीर पुत्त दुट्टपाररावअ ! चिट्ट चिट्ठ । जाव एदिणा । दंडकट्ठेण सुपक्कं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सं । [दास्याःपुत्र दुष्टपारावत! तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेने सुपक्वमिव चूत- । फलमस्मात्प्रासादात्भूमौ पातयिष्यामि । ] ( इति दण्डकाष्ठमुद्यम्य धावति ) । चारुदत्तः—( यज्ञोपवीतं आकृष्य ) वयस्य ! उपविश । किम- । नेन ? । तिष्ठतु दयितासहितस्तपस्वी पारावतः । चैट-कधं पारावदं पेक्खदि,मं ण पैक्खदि ? । भोदु, अव- । राए लोट्टगुडिकाए पुणो वि ताडइस्सं । [ कथं पारावतं पश्यति, मां । न पश्यति ? । भवतु, अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि ।] ( तथा । करोति ) । विदूषकः---( दिशोऽवलोक्य ) कधं कुंभीलओ ? । ता जाव । उवसप्पामि। ( उपसृत्य, द्वारमुद्घाट्य ) अरे कुंभीलअ !पविश ; साअदं । दे। [कथं कुम्भीलकः १ तद्यावदुपसर्पामि । अरे कुम्भीलक ! प्रविश; । स्वागतं ते ।] । चेटः–(प्रविश्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।] । विदूषकः---अरे, कहिं तुम ईदिसे दुद्दिणे अंधारे आअदो ! । [ अरे, कुत्र त्वमीदृशे दुर्दिनेऽन्धकार आगतः १ }] । चेटः-----अले, एशा शा। [ अरे, एषा सा । ] । विदूषकः---का एसा का ? । [कैषा का ? ] । चेटः--एशा शा । [एषा सा।] । विदूषकः-—किं दाणि दासीए पुत्ता ! दुन्भिक्खकाले वुड्ढरंको । विअ उद्धकं सासाअसि--‘एसा सा से” त्ति ! । [ किमिदानीं दास्याः- । पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इवोर्ध्वकं श्वासायसे–'एषा सा सा' इति ?] । चेटः---अले, तुम पि दाणि इंदमहकामुको विअ सुट्ठु किं काका- । असि---‘का के त्ति । [ अरे स्वमपीदानीमिन्द्रमहकामुक इव सुष्टु किं । काकायसे--का का' इति ?।] । विदूषकः-–ता कहेहि । [ तत्कथय ।] । चेटः---( स्वगतम् ) भोदु एवं भणिशं । (प्रकाशम् ) अले, पण्हं । दे दइश्शं । [भवतु, एवं भणिष्यामि । अरे, प्रश्न ते दास्यामि ।] । विदूषकः----अहं दे मुंडे गोड्ढ दइस्सं । [ अहं ते मस्तके पादं । दास्यामि ।] । चेटः–अले, जाणाहि दाव, तेण हि कश्शिं काले चूआ । मोलेंति । [ अरे, जानीहि तावत् तेन हि कस्मिन्काले मुकुलिता । भवन्ति ।] । विदूषकः-अरे दासीए पुत्ता ! गिम्हे । [अरे दास्याःपुत्र! ग्रीष्मे ।] । चेटः--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।] । विदूषकः---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य ) । भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ) भो वअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ । मोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या- । मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता । मुकुलिता भवन्ति ? । चारुदत्तः–मूर्ख ! ! वसन्ते । विदूषकः-(चेटमुपगम्य ) मुक्ख ! वसंते । [मूर्ख ! वसन्ते । ] । चेटः---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का । लक्खों कलेदि । [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम् । का रक्षां करोति ? ।] । विदूषकः--अरे, रच्छा । [ अरे, रथ्या । चेटः-- (सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।] । विदूषकः---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु, । चारुदत्तं पुणो वि पुछिस्सं । ( पुनर्निवृत्य चारुदत्तं तथैवोदाहरति ) । { भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि।] । चारुदत्तः——वयस्य ! सेना । विदूषकः-( चेटमुपगम्य ) अरे दासीए पुत्ता 1 सेणा । [अरे । दास्याःपुत्र ! सेना ।] । चेटः---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भणाहि । [ अरे, द्वे । अप्येकस्मिन् कृत्वा शीघ्रं भण।] । विदूषकः–सेणावसंते । [ सेनावसन्ते ।] । चेटः–णं पलिवत्तिअ भणीहि । [ ननु परिवर्त्य भण।] । विदूषकः----( कायेन परिवृत्य ) सेणावसंते । [ सेनावसन्ते । चेटः----अले मुक्ख बडुका ! पदाई पलिवत्तावेहि । [अरे मूर्ख । बटुक! पदे परिवर्तय !! । विदूषकः--( पादौ परिवर्त्य ) सेणावसंते । [ सेनावसन्ते । चेटः-अले मुक्ख ! अक्खलपदाई पलिवतावेहि । [अरे मूर्ख ! । अक्षरपदे परिवर्तय ।] । विदूषकः—( विचिन्त्य) वसंतसेणा । | वसन्तसेना ।] । चेटः--एशा शा आअदा । [एषा सागता।] । विदूषकः–ता जाव चारुदत्तस्स णिवेदेमि । ( उपसृत्य ) भो । चारुदत्त ! धणिओ दे आअदो । तद्यावश्चारुदत्तस्य निवेदयामि । भो । चारुदत्त ! धनिकस्त आगतः ।] । चारुदत्तः-कुतोऽस्मत्कुले धनिकः । विदूषकः--जइ कुले णत्थि, ता दुवारे अत्थि; एसा वसंतसेणा । आअदा । [यदि कुले नास्ति, तद्वारेऽस्ति; एषा वसन्तसेनागता । । चारुदत्तः--वयस्य! किं मां प्रतारयसि ? । । विदूषकः–जइ मे वअणे ण पत्तिआअसि, ता एवं कुंभीलअं । पुच्छ । अरे दासीए पुत्ता कुंभीलअ ! उवसप्प । [यदि मे वचने न । प्रत्ययसे, तदिमं कुम्भीलकं पृच्छ । अरे दास्याः पुत्र कुम्भीलक! उपसर्प ।] । चेदः—(उपसृत्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।] । चारुदत्तः---भद्र ! स्वागतम् ; कथय सत्यं प्राप्ता वसन्तसेना ? । चेटः--एशा शा अदा वशंतशेणा । [एषा सागता वसन्त- । सेना ।] । चारुदत्तः--( सहर्षम् ) भद्र ! न कदाचित्प्रियवचनं निष्फली- । कृतं मया, तद्गृह्यतां पारितोषिकम् । ( इत्युत्तरीयं प्रयच्छति ) । चेट:-( गृहीत्वा प्रणम्य, सपरितोषम् ) जाव अज्जआए णिवेदेमि । [यावदार्याया निवेदयामि । ] ( इति निष्क्रान्तः ) । विदूषकः--भो ! अवि जाणासि, किंणिमित्तं ईदिसे दुद्दिणे । आअदे त्ति है। भो ! अपि जानासि, किंनिमित्तमीडशे दुर्दिन आगतेति ? ।] । चारुदत्तः–वयस्य ! न सम्यगवधारयामि । विदूषकः-मए जाणिदं । अप्पमुल्ला रअणावली, बहुमुल्लं सुव- । एणभंडअं त्ति ण परितुट्टा अवरं मग्गिदुं आअदा । [मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डमिति न परितुष्टाऽपरं याचितु- । मागता।] । चारुदत्तः---( स्वगतम्) परितुष्टा यास्यति । (ततः प्रविशत्युज्ज्ववलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा । छत्रधारिणी, विटश्च ) । विटः--(वसन्तसेनामुद्दिश्य ) । अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं । कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् । सलीलं गच्छन्ती रतिसमयलज्जा प्रणयिनी । रतिक्षेत्रे रङ्गे प्रियपथिकसार्थैरनुगता ॥ १२ ॥

āṇāttamhi ajjaāe vaśaṃtaśeṇāe---kuṃbhīlaā ! gaccha tumaṃ, mama | āgamaṇaṃ ajjacārudattaśśa ṇivedehi tti| tā jāva ajjacārudattaśśa gehaṃ | gacchāmi | ( parikramya, praviṣṭakena dṛṣṭvā ) eśe cāludatte rukkhāḍiāe | ciṭṭhadi | eśe vi śe duṭṭavaḍuke; tā jāva uvaśappemi | kudhaṃ ḍhakkide | duvāle rukkhavāḍiāe ? | bhodu, edaśśa duṭṭavaḍukaśśa śaṇṇaṃ demi | ( iti loṣṭaguṭikāḥ kṣipati ) | [aveta mānavāḥ | yathā yathā varṣatyabhrakhaṇḍaṃ tathā tathā timyati pṛṣṭhacarma | yathā yathā lagati śītavātastathā tathā vepate me hṛdayam || | vaṃśaṃ vādayāmi saptacchidaṃ suśabdaṃ vīṇāṃ vādayāmi saptatāśrīṃ nadantīm | gītaṃ gāyāmi gardabhasyānurūpaṃ ko me gāne tumbururnārado vā | ājñapto'smbhāryayā vasantasenayā---'kumbhīlaka! gaccha tvam | mamāgamana- | māryacārudattasya nivedaya' iti | tadyāvadāryavārudattasya gehaṃ gacchāmi | eṣa | cārudatto vṛkṣavāṭikāyāṃ tiṣṭhati | eṣo'pi sa duṣṭabaṭukaḥ tāvadupasarpāmi | kathamācchāditaṃ dvāraṃ vṛkṣavāṭikāyāḥ | bhavatu, etasya duṣṭabaṭukasya saṃjñāṃ | dadāmi |] | vidūṣakaḥ--ae, ko dāṇiṃ eso pāraveṭṭidaṃ via kaitthaṃ maṃ | loṭṭakehiṃ tāḍedi 1 | [ aye ! ka idānīmeṣa prākāraveṣṭitamiva kapitthaṃ māṃ | loṣṭakaistāḍayati ? |] | cārudattaḥ---ārāmaprasādavedikāyāṃ krīḍadbhiḥ pārāvataiḥ pātitaṃ | bhavet | vidūṣakaḥ–dāsīra putta duṭṭapārarāvaa ! ciṭṭa ciṭṭha | jāva ediṇā | daṃḍakaṭṭheṇa supakkaṃ via cūaphalaṃ imādo pāsādādo bhūmīe pāḍaissaṃ | [dāsyāḥputra duṣṭapārāvata! tiṣṭha tiṣṭha yāvadetena daṇḍakāṣṭhene supakvamiva cūta- | phalamasmātprāsādātbhūmau pātayiṣyāmi | ] ( iti daṇḍakāṣṭhamudyamya dhāvati ) | cārudattaḥ—( yajñopavītaṃ ākṛṣya ) vayasya ! upaviśa | kima- | nena ? | tiṣṭhatu dayitāsahitastapasvī pārāvataḥ | caiṭa-kadhaṃ pārāvadaṃ pekkhadi,maṃ ṇa paikkhadi ? | bhodu, ava- | rāe loṭṭaguḍikāe puṇo vi tāḍaissaṃ | [ kathaṃ pārāvataṃ paśyati, māṃ | na paśyati ? | bhavatu, aparayā loṣṭaguṭikayā punarapi tāḍayiṣyāmi |] ( tathā | karoti ) | vidūṣakaḥ---( diśo'valokya ) kadhaṃ kuṃbhīlao ? | tā jāva | uvasappāmi| ( upasṛtya, dvāramudghāṭya ) are kuṃbhīlaa !paviśa ; sāadaṃ | de| [kathaṃ kumbhīlakaḥ 1 tadyāvadupasarpāmi | are kumbhīlaka ! praviśa; | svāgataṃ te |] | ceṭaḥ–(praviśya ) ajja ! vaṃdāmi | [ ārya ! vande |] | vidūṣakaḥ---are, kahiṃ tuma īdise duddiṇe aṃdhāre āado ! | [ are, kutra tvamīdṛśe durdine'ndhakāra āgataḥ 1 }] | ceṭaḥ-----ale, eśā śā| [ are, eṣā sā | ] | vidūṣakaḥ---kā esā kā ? | [kaiṣā kā ? ] | ceṭaḥ--eśā śā | [eṣā sā|] | vidūṣakaḥ-—kiṃ dāṇi dāsīe puttā ! dunbhikkhakāle vuḍḍharaṃko | via uddhakaṃ sāsāasi--‘esā sā se” tti ! | [ kimidānīṃ dāsyāḥ- | putra ! durbhikṣakāle vṛddharaṅka ivordhvakaṃ śvāsāyase–'eṣā sā sā' iti ?] | ceṭaḥ---ale, tuma pi dāṇi iṃdamahakāmuko via suṭṭhu kiṃ kākā- | asi---‘kā ke tti | [ are svamapīdānīmindramahakāmuka iva suṣṭu kiṃ | kākāyase--kā kā' iti ?|] | vidūṣakaḥ-–tā kahehi | [ tatkathaya |] | ceṭaḥ---( svagatam ) bhodu evaṃ bhaṇiśaṃ | (prakāśam ) ale, paṇhaṃ | de daiśśaṃ | [bhavatu, evaṃ bhaṇiṣyāmi | are, praśna te dāsyāmi |] | vidūṣakaḥ----ahaṃ de muṃḍe goḍḍha daissaṃ | [ ahaṃ te mastake pādaṃ | dāsyāmi |] | ceṭaḥ–ale, jāṇāhi dāva, teṇa hi kaśśiṃ kāle cūā | moleṃti | [ are, jānīhi tāvat tena hi kasminkāle mukulitā | bhavanti |] | vidūṣakaḥ-are dāsīe puttā ! gimhe | [are dāsyāḥputra! grīṣme |] | ceṭaḥ--( sahāsam ) ale, ṇahi ṇahi | [ are, nahi nahi |] | vidūṣakaḥ---(svagatam ) kiṃ dāṇi ettha kahissaṃ 1 | ( vicintya ) | bhodu, cārudattaṃ gaduña pucchissaṃ | ( prakāśam ) are, muhuttaaṃ ciṭṭha | (cārudattamupasṛtya ) bho vaassa ! pucchissaṃ dāva, kassi kāle cūā | moleṃti ? [ kimidānīmatra kathayiṣyāmi || bhavatu, cārudataṃ gatvā prakṣyā- | mi| are, muhūrtakaṃ tiṣṭha | bho vayasya ! prakṣyāmi tāvat, kasminkāle cūtā | mukulitā bhavanti ? | cārudattaḥ–mūrkha ! ! vasante | vidūṣakaḥ-(ceṭamupagamya ) mukkha ! vasaṃte | [mūrkha ! vasante | ] | ceṭaḥ---dudiaṃ de paṇhaṃ daii | śuśamiddhāṇaṃ gāmāṇaṃ kā | lakkhoṃ kaledi | [dvitīyaṃ te praśnaṃ dāsyāmi | susamṛddhānāṃ grāmāṇām | kā rakṣāṃ karoti ? |] | vidūṣakaḥ--are, racchā | [ are, rathyā | ceṭaḥ-- (sahāsam ) ale, ṇahi ṇahi | [ are, nahi nahi |] | vidūṣakaḥ---bhodu, saṃsae paḍidamhi | ( vicintya ) bhodu, | cārudattaṃ puṇo vi puchissaṃ | ( punarnivṛtya cārudattaṃ tathaivodāharati ) | { bhavatu, saṃśaye patito'smi | bhavatu cārudattaṃ punarapi prakṣyāmi|] | cārudattaḥ——vayasya ! senā | vidūṣakaḥ-( ceṭamupagamya ) are dāsīe puttā 1 seṇā | [are | dāsyāḥputra ! senā |] | ceṭaḥ---ale duve vi ekkāśśiṃ kaḍua śigdhaṃ bhaṇāhi | [ are, dve | apyekasmin kṛtvā śīghraṃ bhaṇa|] | vidūṣakaḥ–seṇāvasaṃte | [ senāvasante |] | ceṭaḥ–ṇaṃ palivattia bhaṇīhi | [ nanu parivartya bhaṇa|] | vidūṣakaḥ----( kāyena parivṛtya ) seṇāvasaṃte | [ senāvasante | ceṭaḥ----ale mukkha baḍukā ! padāī palivattāvehi | [are mūrkha | baṭuka! pade parivartaya !! | vidūṣakaḥ--( pādau parivartya ) seṇāvasaṃte | [ senāvasante | ceṭaḥ-ale mukkha ! akkhalapadāī palivatāvehi | [are mūrkha ! | akṣarapade parivartaya |] | vidūṣakaḥ—( vicintya) vasaṃtaseṇā | | vasantasenā |] | ceṭaḥ--eśā śā āadā | [eṣā sāgatā|] | vidūṣakaḥ–tā jāva cārudattassa ṇivedemi | ( upasṛtya ) bho | cārudatta ! dhaṇio de āado | tadyāvaścārudattasya nivedayāmi | bho | cārudatta ! dhanikasta āgataḥ |] | cārudattaḥ-kuto'smatkule dhanikaḥ | vidūṣakaḥ--jai kule ṇatthi, tā duvāre atthi; esā vasaṃtaseṇā | āadā | [yadi kule nāsti, tadvāre'sti; eṣā vasantasenāgatā | | cārudattaḥ--vayasya! kiṃ māṃ pratārayasi ? | | vidūṣakaḥ–jai me vaaṇe ṇa pattiāasi, tā evaṃ kuṃbhīlaaṃ | puccha | are dāsīe puttā kuṃbhīlaa ! uvasappa | [yadi me vacane na | pratyayase, tadimaṃ kumbhīlakaṃ pṛccha | are dāsyāḥ putra kumbhīlaka! upasarpa |] | cedaḥ—(upasṛtya ) ajja ! vaṃdāmi | [ ārya ! vande |] | cārudattaḥ---bhadra ! svāgatam ; kathaya satyaṃ prāptā vasantasenā ? | ceṭaḥ--eśā śā adā vaśaṃtaśeṇā | [eṣā sāgatā vasanta- | senā |] | cārudattaḥ--( saharṣam ) bhadra ! na kadācitpriyavacanaṃ niṣphalī- | kṛtaṃ mayā, tadgṛhyatāṃ pāritoṣikam | ( ityuttarīyaṃ prayacchati ) | ceṭa:-( gṛhītvā praṇamya, saparitoṣam ) jāva ajjaāe ṇivedemi | [yāvadāryāyā nivedayāmi | ] ( iti niṣkrāntaḥ ) | vidūṣakaḥ--bho ! avi jāṇāsi, kiṃṇimittaṃ īdise duddiṇe | āade tti hai| bho ! api jānāsi, kiṃnimittamīḍaśe durdina āgateti ? |] | cārudattaḥ–vayasya ! na samyagavadhārayāmi | vidūṣakaḥ-mae jāṇidaṃ | appamullā raaṇāvalī, bahumullaṃ suva- | eṇabhaṃḍaaṃ tti ṇa parituṭṭā avaraṃ maggiduṃ āadā | [mayā jñātam | alpamūlyā ratnāvalī, bahumūlyaṃ suvarṇabhāṇḍamiti na parituṣṭā'paraṃ yācitu- | māgatā|] | cārudattaḥ---( svagatam) parituṣṭā yāsyati | (tataḥ praviśatyujjvavalābhisārikāveśena vasantasenā, sotkaṇṭhā | chatradhāriṇī, viṭaśca ) | viṭaḥ--(vasantasenāmuddiśya ) | apadmā śrīreṣā praharaṇamanaṅgasya lalitaṃ | kulastrīṇāṃ śoko madanavaravṛkṣasya kusumam | salīlaṃ gacchantī ratisamayalajjā praṇayinī | ratikṣetre raṅge priyapathikasārthairanugatā || 12 ||

Report an error

वसन्तसेने ! पश्य पश्य । गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा । मेघा वियुक्तवनिताहृदयानुकाराः । येषां रवेण सहसोत्पतितैर्मयूखैः । खं वीज्यते मणिमयैरिव तालवृन्तैः ॥ १३ ॥

vasantasene ! paśya paśya | garjanti śailaśikhareṣu vilambibimbā | meghā viyuktavanitāhṛdayānukārāḥ | yeṣāṃ raveṇa sahasotpatitairmayūkhaiḥ | khaṃ vījyate maṇimayairiva tālavṛntaiḥ || 13 ||

Report an error

अपि च,-- । पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः । कण्ठं मुञ्चति बर्हिणः समदनो नीपः प्रदीपायते । संन्यासः कुलदूषणैरिव जनैर्मेघैर्वृतश्चन्द्रमा । विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र संतिष्ठते । वसन्तसेना-भाव ! सुट्ठु दे भणिदं । [ भाव ! सुष्ठु ते भणि- । तम् । एषा हि । मूढे ! निरन्तरपयोधरया मयैव । कान्तः सहाभिरमते यदि किं तवात्र ॥ १४ ॥

api ca,-- | paṅkaklinnamukhāḥ pibanti salilaṃ dhārāhatā dardurāḥ | kaṇṭhaṃ muñcati barhiṇaḥ samadano nīpaḥ pradīpāyate | saṃnyāsaḥ kuladūṣaṇairiva janairmeghairvṛtaścandramā | vidyunnīcakulodgateva yuvatirnaikatra saṃtiṣṭhate | vasantasenā-bhāva ! suṭṭhu de bhaṇidaṃ | [ bhāva ! suṣṭhu te bhaṇi- | tam | eṣā hi | mūḍhe ! nirantarapayodharayā mayaiva | kāntaḥ sahābhiramate yadi kiṃ tavātra || 14 ||

Report an error

मां गर्जितैरपि मुहुर्विनिवारयन्ती । मार्गं रुणद्धि कुपितेव निशासपत्नी ॥ १५ ॥

māṃ garjitairapi muhurvinivārayantī | mārgaṃ ruṇaddhi kupiteva niśāsapatnī || 15 ||

Report an error

विटः—भवतु एवं तावत् ; उपालभ्यतां तावदियम् । वसन्तसेना-भाव ! किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया ? । पश्यतु भावः । मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥

viṭaḥ—bhavatu evaṃ tāvat ; upālabhyatāṃ tāvadiyam | vasantasenā-bhāva ! kimanayā strīsvabhāvadurvidagdhayopālabdhayā ? | paśyatu bhāvaḥ | meghā varṣantu garjantu muñcantvaśanimeva vā | gaṇayanti na śītoṣṇaṃ ramaṇābhimukhāḥ striyaḥ || 16 ||

Report an error

विटः---वसन्तसेने ! पश्य पश्य, अयमपरः । पवनचपलवेगः स्थूलघाराशरौघः । स्तनितपटहनादः स्पष्टविद्युत्पताकः । हरति करसमूहं खे शशाङ्कस्य मेघो । नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥

viṭaḥ---vasantasene ! paśya paśya, ayamaparaḥ | pavanacapalavegaḥ sthūlaghārāśaraughaḥ | stanitapaṭahanādaḥ spaṣṭavidyutpatākaḥ | harati karasamūhaṃ khe śaśāṅkasya megho | nṛpa iva puramadhye mandavīryasya śatroḥ || 17 ||

Report an error

वसन्तसेना---एवं एणेदं । ती कधं एसो अवरो ? । [एवं । न्विदम् । तत्कथमेषोऽपरः ?] । एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै- । र्गर्जद्भिः सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः । तत्किं प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः । प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥ १८ ॥

vasantasenā---evaṃ eṇedaṃ | tī kadhaṃ eso avaro ? | [evaṃ | nvidam | tatkathameṣo'paraḥ ?] | etaireva yadā gajendramalinairādhmātalambodarai- | rgarjadbhiḥ sataḍidbalākaśabalairmeghaiḥ saśalyaṃ manaḥ | tatkiṃ proṣitabhartṛvadhyapaṭaho hā hā hatāśo bakaḥ | prāvṛṭ prāvṛḍiti bravīti śaṭhadhīḥ kṣāraṃ kṣate prakṣipan || 18 ||

Report an error

विटः---वसन्तसेने । एवमेतत् । इदमपरं पश्य । बलाका पाण्डुरोष्णीषं विद्युत्क्षिप्तचामरम् । मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥

viṭaḥ---vasantasene | evametat | idamaparaṃ paśya | balākā pāṇḍuroṣṇīṣaṃ vidyutkṣiptacāmaram | mattavāraṇasārūpyaṃ kartukāmamivāmbaram || 19 ||

Report an error

वसन्तसेना-भाव ! पेक्ख पेक्ख । [ भाव ! पश्य पश्य ।] । एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो । वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः । विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी । ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हता ॥ २० ॥

vasantasenā-bhāva ! pekkha pekkha | [ bhāva ! paśya paśya |] | etairārdratamālapatramalinairāpītasūryaṃ nabho | valmīkāḥ śaratāḍitā iva gajāḥ sīdanti dhārāhatāḥ | vidyutkāñcanadīpikeva racitā prāsādasaṃcāriṇī | jyotsnā durbalabhartṛkeva vanitā protsārya meghairhatā || 20 ||

Report an error

विटः–वसन्तसेने ! पश्य पश्य । एते हि विध्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः । शक्राज्ञया वारिधराः सधारा गां रूप्यरज्जवेव समुद्धरन्ति ॥ २१ ॥

viṭaḥ–vasantasene ! paśya paśya | ete hi vidhyudguṇabaddhakakṣā gajā ivānyonyamabhidravantaḥ | śakrājñayā vāridharāḥ sadhārā gāṃ rūpyarajjaveva samuddharanti || 21 ||

Report an error

अपि च, पश्य । महावाताध्मातैर्महिषकुलनीलैर्जलधरै- । श्चलैर्विद्युत्पक्षैर्जलधिभिरिवान्तःप्रचलितैः । इयं गन्धोद्दामा नवहरितशष्पाकुरवती । धरा धारापातैर्मणिमयशरैर्भिद्यत इव ॥ २२ ॥

api ca, paśya | mahāvātādhmātairmahiṣakulanīlairjaladharai- | ścalairvidyutpakṣairjaladhibhirivāntaḥpracalitaiḥ | iyaṃ gandhoddāmā navaharitaśaṣpākuravatī | dharā dhārāpātairmaṇimayaśarairbhidyata iva || 22 ||

Report an error

वसन्तसेना----भाव ! एसो अवरो ! । [ भाव ! एषोऽपरः । एह्येति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः । प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः । हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः । कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ २३ ॥

vasantasenā----bhāva ! eso avaro ! | [ bhāva ! eṣo'paraḥ | ehyeti śikhaṇḍināṃ paṭutaraṃ kekābhirākranditaḥ | proḍḍīyeva balākayā sarabhasaṃ sotkaṇṭhamāliṅgitaḥ | haṃsairujjhitapaṅkajairatitarāṃ sodvegamudvīkṣitaḥ | kurvannañjanamecakā iva diśo meghaḥ samuttiṣṭhati || 23 ||

Report an error

विटः-एवमेतत्; तथा हि पश्य । निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं । विद्युद्भिः क्षणनष्ट दृष्टतिमिरं प्रच्छादिताशामुखम् । निश्चेष्टं स्वपितीव संप्रति पयोधारागृहान्तर्गतं । स्फीताम्भोधरधामनैकजलदच्छत्रापिधानं जगत् ॥ २४ ॥

viṭaḥ-evametat; tathā hi paśya | niṣpandīkṛtapadmaṣaṇḍanayanaṃ naṣṭakṣapāvāsaraṃ | vidyudbhiḥ kṣaṇanaṣṭa dṛṣṭatimiraṃ pracchāditāśāmukham | niśceṣṭaṃ svapitīva saṃprati payodhārāgṛhāntargataṃ | sphītāmbhodharadhāmanaikajaladacchatrāpidhānaṃ jagat || 24 ||

Report an error

वसन्तसेना-भाव एव्वं ण्णेदं । ता पेक्ख पेक्ख । [भाव! एवं । न्विदम्; तत्पश्य पश्य ।] । गता नाशं तारा उपकृतमसाधाविव जने । वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः । प्रक्रामान्तस्तप्तं त्रि1दशपतिशस्त्रस्य शिखिना । द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥ २५ ॥

vasantasenā-bhāva evvaṃ ṇṇedaṃ | tā pekkha pekkha | [bhāva! evaṃ | nvidam; tatpaśya paśya |] | gatā nāśaṃ tārā upakṛtamasādhāviva jane | viyuktāḥ kāntena striya iva na rājanti kakubhaḥ | prakrāmāntastaptaṃ tri1daśapatiśastrasya śikhinā | dravībhūtaṃ manye patati jalarūpeṇa gaganam || 25 ||

Report an error

अपि च, पश्य । उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम् । प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि ॥ २६ ॥

api ca, paśya | unnamati namati varṣati garjati meghaḥ karoti timiraugham | prathamaśrīriva puruṣaḥ karoti rūpāṇyanekāni || 26 ||

Report an error

विटः----एवमेतत् । विद्युद्भिर्ज्वलतीव संविहसतीवोच्चैर्बलाकाशतै- । र्माहेन्द्रेण विव2ल्गतीव धनुषा धाराशरोद्गारिणा । विस्पष्टशनिनिस्वनेन रसतीवाघूर्णतीवानिलै- । र्नीलैःसान्द्रमिवाहिभिर्जलधरैर्धूपायतीवाम्बरम् ॥ २७ ॥

viṭaḥ----evametat | vidyudbhirjvalatīva saṃvihasatīvoccairbalākāśatai- | rmāhendreṇa viva2lgatīva dhanuṣā dhārāśarodgāriṇā | vispaṣṭaśaninisvanena rasatīvāghūrṇatīvānilai- | rnīlaiḥsāndramivāhibhirjaladharairdhūpāyatīvāmbaram || 27 ||

Report an error

वसन्तसेना-- । जलधर ! निर्लजस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् । स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ २८ ॥

vasantasenā-- | jaladhara ! nirlajastvaṃ yanmāṃ dayitasya veśma gacchantīm | stanitena bhīṣayitvā dhārāhastaiḥ parāmṛśasi || 28 ||

Report an error

भोः शक्र ! । किं ते ह्यहं पूर्वरतिप्रसक्ता यत्त्वं नदस्यम्बुद ! सिंहनादैः । न युक्तमेतत्प्रियकाङ्क्षिताया मार्गं निरोद्धुं मम वर्षपातैः ॥ २९ ॥

bhoḥ śakra ! | kiṃ te hyahaṃ pūrvaratiprasaktā yattvaṃ nadasyambuda ! siṃhanādaiḥ | na yuktametatpriyakāṅkṣitāyā mārgaṃ niroddhuṃ mama varṣapātaiḥ || 29 ||

Report an error

अपि च,- । यद्वदहल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति । तद्वन्ममापि दुःखं निरपेक्ष ! निवार्यतां जलदः ॥ ३० ॥

api ca,- | yadvadahalyāhetormṛṣā vadasi śakra ! gautamo'smīti | tadvanmamāpi duḥkhaṃ nirapekṣa ! nivāryatāṃ jaladaḥ || 30 ||

Report an error

अपि च,- । गर्ज वा वर्ष वा शक्र ! मुञ्च वा शतशोऽशनिम् । न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ ३१ ॥

api ca,- | garja vā varṣa vā śakra ! muñca vā śataśo'śanim | na śakyā hi striyo roddhuṃ prasthitā dayitaṃ prati || 31 ||

Report an error

यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः । अयि ! विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥ ३२ ॥

yadi garjati vāridharo garjatu tannāma niṣṭhurāḥ puruṣāḥ | ayi ! vidyutpramadānāṃ tvamapi ca duḥkhaṃ na jānāsi || 32 ||

Report an error

विटः-भवति । अलमलमुपालम्भेन । उपकारिणी तवेयम्,---- । ऐरावतोरसि चलेच सुवर्णरज्जुः । शैलस्य मूर्ध्नि निहितेव सिता पताका । आखण्डलस्य भवनोदरदीपिकेय- । माख्याति ते प्रियतमस्य हि संनिवेशम् । वसन्तसेना-भाव ! एवं ते ज्जेव एदं गेहं । [भाव । एवं । तदेवैतद्गेहम् ।।] । विटः--सकलकलाभिज्ञाया न किंचिदिह तवोपदेष्टव्यमस्ति । तथापि स्नेहः प्रलापयति । अत्र प्रविश्य कोपोऽयन्तं न कर्तव्यः । यदि कुप्यसि नास्ति रतिः, कोपेन विनाऽथवा कुतः कामः ॥ ३३ ॥

viṭaḥ-bhavati | alamalamupālambhena | upakāriṇī taveyam,---- | airāvatorasi caleca suvarṇarajjuḥ | śailasya mūrdhni nihiteva sitā patākā | ākhaṇḍalasya bhavanodaradīpikeya- | mākhyāti te priyatamasya hi saṃniveśam | vasantasenā-bhāva ! evaṃ te jjeva edaṃ gehaṃ | [bhāva | evaṃ | tadevaitadgeham ||] | viṭaḥ--sakalakalābhijñāyā na kiṃcidiha tavopadeṣṭavyamasti | tathāpi snehaḥ pralāpayati | atra praviśya kopo'yantaṃ na kartavyaḥ | yadi kupyasi nāsti ratiḥ, kopena vinā'thavā kutaḥ kāmaḥ || 33 ||

Report an error

कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ३४ ॥

kupya ca kopaya ca tvaṃ prasīda ca tvaṃ prasādaya ca kāntam || 34 ||

Report an error

भवतु एवं तावत् । भो भोः ! निवेद्यतामार्यचारुदत्ताय । एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते । कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका । विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी । पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ३५ ॥

bhavatu evaṃ tāvat | bho bhoḥ ! nivedyatāmāryacārudattāya | eṣā phullakadambanīpasurabhau kāle ghanodbhāsite | kāntasyālayamāgatā samadanā hṛṣṭā jalārdrālakā | vidyudvāridagarjitaiḥ sacakitā tvaddarśanākāṅkṣiṇī | pādau nūpuralagnakardamadharau prakṣālayantī sthitā || 35 ||

Report an error

चारुदत्तः--( आकर्ण्य ) वयस्य | ज्ञायतां किमेतदिति । विदूषकः-जं भवं आणवेदि । (वसन्तसेनामुपगम्य, सादरम्) । सोत्थि भोदीए । [ यद्भवानाज्ञापयति । स्वस्ति भवत्यै।] । वसन्तसेना-अज्ज ! वंदामि । साअदं अज्ञस्स । ( विटं प्रति ) । भाव ! एसा छत्तधारिआ भावस्स जेव्व भोदु। [आर्य! बन्दे । स्वागतमा । र्यस्य । भाव! एषा छत्रधारिका भावस्यैव भवतु । विटः---(स्वगतम्) अनेनोपायेन निपुणं प्रेषितोऽस्मि । ( प्रकाशम् ) एवं भवतु भवति वसन्तसेने ! । साटोपकूटपटानृतजन्मभूमेः । शाठ्यात्मकस्य रतिकेलिकृतालयस्य । वेश्यापणस्य सुरतोत्सवसंग्रहस्य । दाक्षिण्य1पण्यमुखनिष्क्रयसिद्धिरस्तु ॥ ३६ ॥

cārudattaḥ--( ākarṇya ) vayasya | jñāyatāṃ kimetaditi | vidūṣakaḥ-jaṃ bhavaṃ āṇavedi | (vasantasenāmupagamya, sādaram) | sotthi bhodīe | [ yadbhavānājñāpayati | svasti bhavatyai|] | vasantasenā-ajja ! vaṃdāmi | sāadaṃ ajñassa | ( viṭaṃ prati ) | bhāva ! esā chattadhāriā bhāvassa jevva bhodu| [ārya! bande | svāgatamā | ryasya | bhāva! eṣā chatradhārikā bhāvasyaiva bhavatu | viṭaḥ---(svagatam) anenopāyena nipuṇaṃ preṣito'smi | ( prakāśam ) evaṃ bhavatu bhavati vasantasene ! | sāṭopakūṭapaṭānṛtajanmabhūmeḥ | śāṭhyātmakasya ratikelikṛtālayasya | veśyāpaṇasya suratotsavasaṃgrahasya | dākṣiṇya1paṇyamukhaniṣkrayasiddhirastu || 36 ||

Report an error

( इति निष्कान्तो विटः ) । वसन्तसेना--अज मित्तेअ ! कहिं तुम्हाणं जूदिअरो ? । [ आर्य मैत्रेय ! कुत्र युष्माकं द्यूतकरः ? । विदूषकः---स्वगतम्) ही ही भो, जूदिअरो त्ति भणतीए अलंकिदो पिअबअस्सो । (प्रकाशम् ) भोदि ! एसो खु सुक्खरुखवाडिआए । [ आश्चर्य, भोः द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति ! । एष खलु शुष्कवृक्षवाटिकायाम् । वसन्तसेना-अज्ज ! का तुम्हाणं सुक्खरुक्खवाडिआ वुच्चदि ? । [ आर्य ! का युष्माकं शुष्कवृक्षवाटिकोच्यते ?।] । विदषकः----भोदि । जहिं ण खाईअदि, ण पीईअदि । [ भवति ! यत्र न खाद्यते, न पीयते ।] । ( वसन्तसेना स्मितं करोति ) । विदूषकः--ता पविसदु भोदी । [ तस्मात्प्रविशतु भवती ।] । वसन्तसेना----{ जनान्तिकम् ) एत्थ पविसिअ किं मए भणिदव्वं । [ अत्र प्रविश्य किं मया भणितव्यम् ?।] । चेटी---‘जूदिअर | अवि सुहो दे पदोसो ? ति ।[ द्यूतकर ! अपि । सुखस्ते प्रदोषः ?' इति । वसन्तसेना-अवि पारइस्सं ? । [ अपि पारयिष्यामि ? । } । चेटी–अवसरो जेव्व पारइस्सदि । [ अवसर एव पारयिष्यति ।] । विदूषकः--पविसदु भोदी । [प्रविशतु भवती ।] । वसन्तसेना—(प्रविश्योपसृत्य च, पुष्पैस्ताडयन्ती ) अइ जूदिअर ! । अवि सुहो दे पदोसो ? । [ अयि द्यूतकर ! अपि सुखस्ते प्रदोषः ? । ] । चारुदत्तः---( अवलोक्य ) अये, वसन्तसेना प्राप्ता । (सहर्षमुत्थाय ) । अयि प्रिये ! । सदा प्रदोषो मम याति जाग्रतः । सदा च मे निःश्वसतो गता निशा । त्वया समेतस्य विशाललोचने ! । ममाद्य शोकान्तकरः प्रदोषकः ॥ ३७ ॥

( iti niṣkānto viṭaḥ ) | vasantasenā--aja mittea ! kahiṃ tumhāṇaṃ jūdiaro ? | [ ārya maitreya ! kutra yuṣmākaṃ dyūtakaraḥ ? | vidūṣakaḥ---svagatam) hī hī bho, jūdiaro tti bhaṇatīe alaṃkido piabaasso | (prakāśam ) bhodi ! eso khu sukkharukhavāḍiāe | [ āścarya, bhoḥ dyūtakara iti bhaṇantyālaṃkṛtaḥ priyavayasyaḥ | bhavati ! | eṣa khalu śuṣkavṛkṣavāṭikāyām | vasantasenā-ajja ! kā tumhāṇaṃ sukkharukkhavāḍiā vuccadi ? | [ ārya ! kā yuṣmākaṃ śuṣkavṛkṣavāṭikocyate ?|] | vidaṣakaḥ----bhodi | jahiṃ ṇa khāīadi, ṇa pīīadi | [ bhavati ! yatra na khādyate, na pīyate |] | ( vasantasenā smitaṃ karoti ) | vidūṣakaḥ--tā pavisadu bhodī | [ tasmātpraviśatu bhavatī |] | vasantasenā----{ janāntikam ) ettha pavisia kiṃ mae bhaṇidavvaṃ | [ atra praviśya kiṃ mayā bhaṇitavyam ?|] | ceṭī---‘jūdiara | avi suho de padoso ? ti |[ dyūtakara ! api | sukhaste pradoṣaḥ ?' iti | vasantasenā-avi pāraissaṃ ? | [ api pārayiṣyāmi ? | } | ceṭī–avasaro jevva pāraissadi | [ avasara eva pārayiṣyati |] | vidūṣakaḥ--pavisadu bhodī | [praviśatu bhavatī |] | vasantasenā—(praviśyopasṛtya ca, puṣpaistāḍayantī ) ai jūdiara ! | avi suho de padoso ? | [ ayi dyūtakara ! api sukhaste pradoṣaḥ ? | ] | cārudattaḥ---( avalokya ) aye, vasantasenā prāptā | (saharṣamutthāya ) | ayi priye ! | sadā pradoṣo mama yāti jāgrataḥ | sadā ca me niḥśvasato gatā niśā | tvayā sametasya viśālalocane ! | mamādya śokāntakaraḥ pradoṣakaḥ || 37 ||

Report an error

तत्स्वागतं भवत्यै, इदमासनम् ; अत्रोपविश्यताम् । विदूषकः-इदं आसणं, उवविसदु भोदी । [ इदमासनम्, । उपदिशतु भवती । ( वसन्तसेना नाट्येनासीना, ततः सर्व उपविशन्ति) । चारुदत्तः--वयस्य ! पश्य पश्य । वर्षोंदकमुद्गिरता श्रवणान्तविलम्बिना कदम्बेन । एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः । तद्वयस्य ! क्लिन्ने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समु- । पनीयेतामिति । विदूषकः-जं भवं आणवेदि । [ यद्भवानाज्ञापयति ।] । चेटी–अज्ज मित्तेअ । चिट्ठ तुमं; अहं जेव्व अज्जअं सुस्सूसइस्सं । { तथा करोति ) [ आर्य मैत्रेय ! तिष्ठ त्वम् ; अहमेवार्यां शुश्रूषयिष्यामि ।] । विदूषकः-( अपवारितकेन ) भो वअस्स | पुच्छामि दाव तत्थ- । भोदि किं पि । [ भो वयस्य ! पृच्छामि तावत्तत्रभवतीं किमपि ।] । चारुदत्तः–एवं क्रियताम् । विदूषकः--( प्रकाशम् ) अध किंणिमित्तं उण ईदिसे पणट्ट- । चंदालोए दुद्दिणअंधआरे आअदा भोदी ? । [ अथ किंनिमित्तं पुनरीदृशे । प्रनष्टचन्द्रालोके दुर्दिनान्धकार आगता भवती ॥ ३८ ॥

tatsvāgataṃ bhavatyai, idamāsanam ; atropaviśyatām | vidūṣakaḥ-idaṃ āsaṇaṃ, uvavisadu bhodī | [ idamāsanam, | upadiśatu bhavatī | ( vasantasenā nāṭyenāsīnā, tataḥ sarva upaviśanti) | cārudattaḥ--vayasya ! paśya paśya | varṣoṃdakamudgiratā śravaṇāntavilambinā kadambena | ekaḥ stano'bhiṣikto nṛpasuta iva yauvarājyasthaḥ | tadvayasya ! klinne vāsasī vasantasenāyāḥ | anye pradhānavāsasī samu- | panīyetāmiti | vidūṣakaḥ-jaṃ bhavaṃ āṇavedi | [ yadbhavānājñāpayati |] | ceṭī–ajja mittea | ciṭṭha tumaṃ; ahaṃ jevva ajjaaṃ sussūsaissaṃ | { tathā karoti ) [ ārya maitreya ! tiṣṭha tvam ; ahamevāryāṃ śuśrūṣayiṣyāmi |] | vidūṣakaḥ-( apavāritakena ) bho vaassa | pucchāmi dāva tattha- | bhodi kiṃ pi | [ bho vayasya ! pṛcchāmi tāvattatrabhavatīṃ kimapi |] | cārudattaḥ–evaṃ kriyatām | vidūṣakaḥ--( prakāśam ) adha kiṃṇimittaṃ uṇa īdise paṇaṭṭa- | caṃdāloe duddiṇaaṃdhaāre āadā bhodī ? | [ atha kiṃnimittaṃ punarīdṛśe | pranaṣṭacandrāloke durdināndhakāra āgatā bhavatī || 38 ||

Report an error

चेटी--अज्जए | उजुओ बम्हणो । [आर्ये ! ऋजुको ब्राह्मणः ।] । वसन्तसेना–णं णिउणोत्ति भणाहि ।। ननु निपुण इति भण।] । चाटी-एसा खु अज्जआ एवं पुच्छिदुं आअदा---'केत्तिअं । ताए रअणावलीए मुल्लं त्ति । [ एषा खल्वार्या एवं प्रष्टुमागता–‘किय- । त्तस्या रत्नावल्या मूल्यम्' इति । ] । विदूषकः----( जनान्तिकम् ) भो ! भणिदं मए-जधा अप्पमुल्ला । रअणावली, बहुमुल्लं सुवण्णभंडअं । ण परितुट्टा अवरं मग्गिदुं । आअदा । [भोः! भणितं मया-यथाऽल्पमूल्या रत्नावली, बहुमूल्यं सुवर्ण- । भाण्डम् । न परितुष्टा, अपरं याचितुमागता ।] । चेटी-सा खु अज्ञआए अत्तणकेरकेत्ति भणिअ जूदे हारिदा । सो अ सहिओ राअवात्थहारी ण जाणीअदि कहिं गदो त्ति । [ सा खल्वार्यया आत्मीयेति भणित्वा द्यूते हारिता । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति ।] । विदूषकः----भोदि ! मंतिदं ज्जेव मंतीअदि । [ भवति ! मन्त्रितमेव । मन्त्रयते ।] । चेटी--जाव सो अण्णेसीअदि ताव एवं जेव्व गेण्ह सुवण्णभंडअं । [ यावत्सोऽन्विष्यते तावदिदमेव गृहाण सुवर्णभाण्डम् ।] ( इति । दर्शयति ) । ( विदूषको विचारयति ) । चेटी--अदिमेतं अज्जो णिज्झाअदि । ता किं दिट्टपुरुव्वो दे ? । [ अतिमात्रमार्यो नि1ध्यायति । तत्किं 2दृष्टपूर्वस्ते ? । विदूषकः----भोदि ! सिप्पकुसलदाए ओबंधेदि दिट्टि । [भवति ! । शिल्पकुशलतयावबध्नाति दृष्टिम् ।] । चेटी--अज्ज ! वंचिदोसि दिट्टीए । ते जेव्व एदं सुवण्णभंडअं । [ आर्य ! वञ्चितोऽसि दृष्ट्या । तदेवेदं सुवर्णभाण्डम् ।] । --- । टिप्प०-1 चिन्तयतीत्यर्थः । 2 अत्र 'अलंकार' इति पदं प्रक्रान्तमेव । विषकः--( सहर्षम् ) भो वअस्स ! तं जेव्व एदं सुवण्णभंडअं, । जं अम्हाणं गेहे चोरेहिं अवहिदं । [ भो वयस्य ! तदेवेदं तस्सुवर्णभाण्डम् , । यदस्माकं गृहे चौरैरपहृतम् । ] । चारुदत्तः–वयस्य ! । योऽस्मा1भिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् । स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना । विदूषकः--भो वअस्स ! सच्च सवामि बम्हण्णेण । [ भो वयस्य ! । सत्यं शपे ब्राह्मण्येन । चारुदत्तः---प्रियं नः प्रियम् । विदूषकः-( जनान्तिकम् ) भो ! पुच्छामि-णं कुदो एदं समा- । सादिदं त्ति । [भोः ! पृच्छामि-ननु कुत इदं समासादितमिति ।] । चारुदत्तः--को दोषः । विदूषकः---(चेट्याः कर्णे) एवं विअ । [एवमिव । ] । चेटी—( विदूषकस्य कर्णे ) एव्वं विअ । [एव2मिव ।] । चारुदत्तः--किमिदं कथ्यते ।। किं वयं बाह्याः ॥ ३९ ॥

ceṭī--ajjae | ujuo bamhaṇo | [ārye ! ṛjuko brāhmaṇaḥ |] | vasantasenā–ṇaṃ ṇiuṇotti bhaṇāhi || nanu nipuṇa iti bhaṇa|] | cāṭī-esā khu ajjaā evaṃ pucchiduṃ āadā---'kettiaṃ | tāe raaṇāvalīe mullaṃ tti | [ eṣā khalvāryā evaṃ praṣṭumāgatā–‘kiya- | ttasyā ratnāvalyā mūlyam' iti | ] | vidūṣakaḥ----( janāntikam ) bho ! bhaṇidaṃ mae-jadhā appamullā | raaṇāvalī, bahumullaṃ suvaṇṇabhaṃḍaaṃ | ṇa parituṭṭā avaraṃ maggiduṃ | āadā | [bhoḥ! bhaṇitaṃ mayā-yathā'lpamūlyā ratnāvalī, bahumūlyaṃ suvarṇa- | bhāṇḍam | na parituṣṭā, aparaṃ yācitumāgatā |] | ceṭī-sā khu ajñaāe attaṇakeraketti bhaṇia jūde hāridā | so a sahio rāavātthahārī ṇa jāṇīadi kahiṃ gado tti | [ sā khalvāryayā ātmīyeti bhaṇitvā dyūte hāritā | sa ca sabhiko rājavārtāhārī na jñāyate kutra gata iti |] | vidūṣakaḥ----bhodi ! maṃtidaṃ jjeva maṃtīadi | [ bhavati ! mantritameva | mantrayate |] | ceṭī--jāva so aṇṇesīadi tāva evaṃ jevva geṇha suvaṇṇabhaṃḍaaṃ | [ yāvatso'nviṣyate tāvadidameva gṛhāṇa suvarṇabhāṇḍam |] ( iti | darśayati ) | ( vidūṣako vicārayati ) | ceṭī--adimetaṃ ajjo ṇijjhāadi | tā kiṃ diṭṭapuruvvo de ? | [ atimātramāryo ni1dhyāyati | tatkiṃ 2dṛṣṭapūrvaste ? | vidūṣakaḥ----bhodi ! sippakusaladāe obaṃdhedi diṭṭi | [bhavati ! | śilpakuśalatayāvabadhnāti dṛṣṭim |] | ceṭī--ajja ! vaṃcidosi diṭṭīe | te jevva edaṃ suvaṇṇabhaṃḍaaṃ | [ ārya ! vañcito'si dṛṣṭyā | tadevedaṃ suvarṇabhāṇḍam |] | --- | ṭippa0-1 cintayatītyarthaḥ | 2 atra 'alaṃkāra' iti padaṃ prakrāntameva | viṣakaḥ--( saharṣam ) bho vaassa ! taṃ jevva edaṃ suvaṇṇabhaṃḍaaṃ, | jaṃ amhāṇaṃ gehe corehiṃ avahidaṃ | [ bho vayasya ! tadevedaṃ tassuvarṇabhāṇḍam , | yadasmākaṃ gṛhe caurairapahṛtam | ] | cārudattaḥ–vayasya ! | yo'smā1bhiścintito vyājaḥ kartuṃ nyāsapratikriyām | sa eva prastuto'smākaṃ kiṃtu satyaṃ viḍambanā | vidūṣakaḥ--bho vaassa ! sacca savāmi bamhaṇṇeṇa | [ bho vayasya ! | satyaṃ śape brāhmaṇyena | cārudattaḥ---priyaṃ naḥ priyam | vidūṣakaḥ-( janāntikam ) bho ! pucchāmi-ṇaṃ kudo edaṃ samā- | sādidaṃ tti | [bhoḥ ! pṛcchāmi-nanu kuta idaṃ samāsāditamiti |] | cārudattaḥ--ko doṣaḥ | vidūṣakaḥ---(ceṭyāḥ karṇe) evaṃ via | [evamiva | ] | ceṭī—( vidūṣakasya karṇe ) evvaṃ via | [eva2miva |] | cārudattaḥ--kimidaṃ kathyate || kiṃ vayaṃ bāhyāḥ || 39 ||

Report an error

विदूषकः---(चारुदत्तस्य कर्णे ) एवं विअ । [एव3मिव ।] । चारुदत्तः-- भद्रे ! सत्यं तदेवेदं सुवर्णभाण्डम् । चेटी--अज्ज ! अध इं । [ आर्य ! अथ किम्? ] । चारुदत्तः---भद्रे ! न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया । तद्गृह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य । लज्जां नाटयति ) । वसन्तसेना-( आत्मगतम् ) अदो जेव्व कामीअसि । [ अत एव । काम्यसे । चारुदत्तः--( जनान्तिकम् ) भोः ! कष्टम्; । धनैर्वियुक्त्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा वि1फलीभवन्ति ॥ ४० ॥

vidūṣakaḥ---(cārudattasya karṇe ) evaṃ via | [eva3miva |] | cārudattaḥ-- bhadre ! satyaṃ tadevedaṃ suvarṇabhāṇḍam | ceṭī--ajja ! adha iṃ | [ ārya ! atha kim? ] | cārudattaḥ---bhadre ! na kadācitpriyanivedanaṃ niṣphalīkṛtaṃ mayā | tadgṛhyatāṃ pāritoṣikamidamaṅgulīyakam | (ityanaṅgulīyakaṃ hastamavalokya | lajjāṃ nāṭayati ) | vasantasenā-( ātmagatam ) ado jevva kāmīasi | [ ata eva | kāmyase | cārudattaḥ--( janāntikam ) bhoḥ ! kaṣṭam; | dhanairviyukttasya narasya loke kiṃ jīvitenādita eva tāvat | yasya pratīkāranirarthakatvātkopaprasādā vi1phalībhavanti || 40 ||

Report an error

अपि च,--- । पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् । सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ४१ ॥

api ca,--- | pakṣavikalaśca pakṣī śuṣkaśca taruḥ saraśca jalahīnam | sarpaścoddhṛtadaṃṣṭrastulyaṃ loke daridraśca || 41 ||

Report an error

अपि च, । शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः । कूपैश्च तोयरहितैस्तरुभिश्च शीर्णैः । यद्दृष्टपूर्वजनसंगमवि2स्मृताना- । मेवं भवन्ति विफलाः परितोषकालाः ॥ ४२ ॥

api ca, | śūnyairgṛhaiḥ khalu samāḥ puruṣā daridrāḥ | kūpaiśca toyarahitaistarubhiśca śīrṇaiḥ | yaddṛṣṭapūrvajanasaṃgamavi2smṛtānā- | mevaṃ bhavanti viphalāḥ paritoṣakālāḥ || 42 ||

Report an error

विदूषकः--भो। अलं अदिमेत्तं संतप्पिदेण ।( प्रकाशं, सपरिहासम्) । भोदि ! समप्पीअदु ममकेरिआ ण्हाणसाडिआ । [भोः! अलमतिमात्रं । संतापितेन । भवति ! समप्यर्तां मम खानशाटिका।] । वसन्तसेना---अज्ज चारुदत्त ! जुत्तं1 ण्णेदं इमाए रअणावलीए । इमं जणं तुलइदुं । [आर्य चारुदत्त ! युक्तं नेदमनया रत्नावल्या इमं जनं । तुलयितुम् ।] । चारुदत्तः-- ( सविलक्षस्मितम् ) वसन्तसेने ! पश्य पश्य । कः श्रद्धास्यति भूतार्थ सर्वो मां तुलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्नि2ष्प्रतापा दरिद्रता ॥ ४३ ॥

vidūṣakaḥ--bho| alaṃ adimettaṃ saṃtappideṇa |( prakāśaṃ, saparihāsam) | bhodi ! samappīadu mamakeriā ṇhāṇasāḍiā | [bhoḥ! alamatimātraṃ | saṃtāpitena | bhavati ! samapyartāṃ mama khānaśāṭikā|] | vasantasenā---ajja cārudatta ! juttaṃ1 ṇṇedaṃ imāe raaṇāvalīe | imaṃ jaṇaṃ tulaiduṃ | [ārya cārudatta ! yuktaṃ nedamanayā ratnāvalyā imaṃ janaṃ | tulayitum |] | cārudattaḥ-- ( savilakṣasmitam ) vasantasene ! paśya paśya | kaḥ śraddhāsyati bhūtārtha sarvo māṃ tulayiṣyati | śaṅkanīyā hi loke'sminni2ṣpratāpā daridratā || 43 ||

Report an error

विदूषकः--हञ्जे ! किं भोदीए इध ज्जेव्व सुविदव्वं ?। [चेटि ! किं । भवत्या इहैव सुप्तव्यम् ? । चेटी-( विहस्य ) अज्ज मित्तेअ! अदिमेत्तं दाणिं उजुअं अत्ताणअं । दंसेसि । [आर्य मैत्रेय ! अतिमात्रमिदानीसृजुमात्मानं दर्शयसि । ] । विदूषकः–भो वअस्स ! एसो खु ओसारअंतो विअ सुहोवविट्टं । जणं पुणो वि वित्थारिवारिधाराहिं पविट्टो पज्जण्णो । [ भो वयस्य ! एष । खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः । पर्जन्यः।] । चारुदत्तः-----सम्यगाह भवान्,- । अमूर्हि भित्वा जलदान्तराणि पङ्कान्तराणीव मृणासूच्यः । पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥ ४४ ॥

vidūṣakaḥ--hañje ! kiṃ bhodīe idha jjevva suvidavvaṃ ?| [ceṭi ! kiṃ | bhavatyā ihaiva suptavyam ? | ceṭī-( vihasya ) ajja mittea! adimettaṃ dāṇiṃ ujuaṃ attāṇaaṃ | daṃsesi | [ārya maitreya ! atimātramidānīsṛjumātmānaṃ darśayasi | ] | vidūṣakaḥ–bho vaassa ! eso khu osāraaṃto via suhovaviṭṭaṃ | jaṇaṃ puṇo vi vitthārivāridhārāhiṃ paviṭṭo pajjaṇṇo | [ bho vayasya ! eṣa | khalvapasārayanniva sukhopaviṣṭaṃ janaṃ punarapi vistārivāridhārābhiḥ praviṣṭaḥ | parjanyaḥ|] | cārudattaḥ-----samyagāha bhavān,- | amūrhi bhitvā jaladāntarāṇi paṅkāntarāṇīva mṛṇāsūcyaḥ | patanti candravyasanādvimuktā divo'śrudhārā iva vāridhārāḥ || 44 ||

Report an error

अपि च, । धाराभिरार्यजनचित्तसुनिर्मलाभि- । श्चण्डाभिरर्जुनशरप्रति कर्कशाशभिः । मेघाः स्रवन्ति बलदेव1पटप्रकाशाः । शक्रस्य मैक्तिकनिधानमिवोद्गिरन्तः ॥ ४५ ॥

api ca, | dhārābhirāryajanacittasunirmalābhi- | ścaṇḍābhirarjunaśaraprati karkaśāśabhiḥ | meghāḥ sravanti baladeva1paṭaprakāśāḥ | śakrasya maiktikanidhānamivodgirantaḥ || 45 ||

Report an error

प्रिये ! पश्य पश्य । एतैः पिष्टत2मालवर्णकनिभैरालिप्तमम्भोधरैः । संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः । एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता । रक्ता कान्तमिवा3म्बरं प्रियतमा विद्युत्समालिङ्गति ॥ ४६ ॥

priye ! paśya paśya | etaiḥ piṣṭata2mālavarṇakanibhairāliptamambhodharaiḥ | saṃsaktairupavījitaṃ surabhibhiḥ śītaiḥ pradoṣānilaiḥ | eṣāmbhodasamāgamapraṇayinī svacchandamabhyāgatā | raktā kāntamivā3mbaraṃ priyatamā vidyutsamāliṅgati || 46 ||

Report an error

( वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति ) । चारुदत्तः–( स्पर्श नाटयन्प्रत्यालिङ्ग्य ) । भो मेघ ! गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे । संस्पर्शरोमाञ्चितज़ातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥ ४७ ॥

( vasantasenā śṛṅgārabhāvaṃ nāṭayantī cārudattamāliṅgati ) | cārudattaḥ–( sparśa nāṭayanpratyāliṅgya ) | bho megha ! gambhīrataraṃ nada tvaṃ tava prasādātsmarapīḍitaṃ me | saṃsparśaromāñcitaja़ātarāgaṃ kadambapuṣpatvamupaiti gātram || 47 ||

Report an error

विदूषकः----दासीए पुत्त दुद्दिण ! अणज्जो दाणिं सि तुमं, जे । अत्तभोदिं विजुआए भायावेसि । [ दास्याःपुत्र दुर्दिन ! अनार्य इदानीमसि । त्वम्, यदत्रभवतीं विद्युता भीषयसि । चारुदत्तः-वयस्य ! नार्हस्युपालब्धुम्,-- । वर्षशतमस्तु दुर्दिनमविरतधारं शतहृदा स्फुरतु । अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥ ४८ ॥

vidūṣakaḥ----dāsīe putta duddiṇa ! aṇajjo dāṇiṃ si tumaṃ, je | attabhodiṃ vijuāe bhāyāvesi | [ dāsyāḥputra durdina ! anārya idānīmasi | tvam, yadatrabhavatīṃ vidyutā bhīṣayasi | cārudattaḥ-vayasya ! nārhasyupālabdhum,-- | varṣaśatamastu durdinamaviratadhāraṃ śatahṛdā sphuratu | asmadvidhadurlabhayā yadahaṃ priyayā pariṣvaktaḥ || 48 ||

Report an error

अपि च, वयस्य । धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् । आर्द्राणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥ ४९ ॥

api ca, vayasya | dhanyāni teṣāṃ khalu jīvitāni ye kāminīnāṃ gṛhamāgatānām | ārdrāṇi meghodakaśītalāni gātrāṇi gātreṣu pariṣvajanti || 49 ||

Report an error

प्रिये वसन्तसेने ! । स्तम्भेषु प्रचलितवेदिसंचयान्तं । शीर्णत्वात्कथमपि धार्यते वितानम् । एषा च स्फुटितसुधाद्रवानुलेपा- । त्संक्लिन्ना सलिलभरेण चित्रभित्तिः ॥ ५० ॥

priye vasantasene ! | stambheṣu pracalitavedisaṃcayāntaṃ | śīrṇatvātkathamapi dhāryate vitānam | eṣā ca sphuṭitasudhādravānulepā- | tsaṃklinnā salilabhareṇa citrabhittiḥ || 50 ||

Report an error

(ऊर्ध्वमवलोक्य ) अये इन्द्रधनुः; प्रिये ! पश्य पश्य । विद्युजिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन । जलधरविवृद्धहनुना विजृम्भितमिवान्तरिक्षेण ॥ ५१ ॥

(ūrdhvamavalokya ) aye indradhanuḥ; priye ! paśya paśya | vidyujihvenedaṃ mahendracāpocchritāyatabhujena | jaladharavivṛddhahanunā vijṛmbhitamivāntarikṣeṇa || 51 ||

Report an error

तदेहि, अभ्यन्तरमेव प्रविशावः ( इत्युत्थाय परिक्रमति ) । 1तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् । संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ॥ ५२ ॥

tadehi, abhyantarameva praviśāvaḥ ( ityutthāya parikramati ) | 1tālīṣu tāraṃ viṭapeṣu mandraṃ śilāsu rukṣaṃ salileṣu caṇḍam | saṃgītavīṇā iva tāḍyamānāstālānusāreṇa patanti dhārāḥ || 52 ||

Report an error

Illustration: Verse & Place (Project-owned).