सं॑ स्रवन्तु मरु॑तस् स॑म् अ॑श्वास् स॑म् उ पू॑रुषाः । स॑न् धान्य॑स्य या॑ स्फाति॑स् संस्रा॑व्येण हवि॑षा जुहोमि ।
sáṃ sravantu marútas sám áśvās sám u pū́ruṣāḥ | sán dhānyásya yā́ sphātís saṃsrā́vyeṇa havíṣā juhomi |
अध्यायः २ • खिलसूक्तम् ९
Sanskrit from the selected Khilani edition, with IAST and source accents.
5 passagesSanskrit with transliteration
सं॑ स्रवन्तु मरु॑तस् स॑म् अ॑श्वास् स॑म् उ पू॑रुषाः । स॑न् धान्य॑स्य या॑ स्फाति॑स् संस्रा॑व्येण हवि॑षा जुहोमि ।
sáṃ sravantu marútas sám áśvās sám u pū́ruṣāḥ | sán dhānyásya yā́ sphātís saṃsrā́vyeṇa havíṣā juhomi |
ए॑ह॑ यन्ति पश॑वो ये॑ प॑रेयुर् वायु॑र् ये॑षां स॑हचारं॑ जुजो॑ष । त्व॑ष्टा ये॑षां रूपधे॑यानि वे॑दास्मिं॑स् तां॑ ल्लोके॑ सविता॑भि॑ रक्षतु ।
éhá yanti paśávo yé páreyur vāyúr yéṣāṃ sáhacāráṃ jujóṣa | tváṣṭā yéṣāṃ rūpadhéyāni védāsmíṃs tā́ṃ lloké savitā́bhí rakṣatu |
इमं॑ गोष्ठं॑ पश॑वस् सं॑ स्रवन्तु बॄहस्प॑तिर् आ॑ नयतु प्रजान॑न् । सिनीवाली॑ नयत्य् अ॑ग्र एषाम् आ॑ जग्मु॑षोनुमते नि॑ यच्छ ।
imáṃ goṣṭháṃ paśávas sáṃ sravantu bṝhaspátir ā́ nayatu prajānán | sinīvālī́ nayaty ágra eṣām ā́ jagmúṣonumate ní yaccha |
सं॑ सिञ्चामि ग॑वाङ् क्षीरं॑ स॑म् आ॑ज्येन ब॑लं र॑सम् । सं॑सिक्ता अस्मा॑कं व्वीरा॑ ध्रुवा॑ गा॑वस् सन्तु गो॑पतौ ।
sáṃ siñcāmi gávāṅ kṣīráṃ sám ā́jyena bálaṃ rásam | sáṃsiktā asmā́kaṃ vvīrā́ dhruvā́ gā́vas santu gópatau |
आ॑ हरामि ग॑वाङ् क्षीर॑म् आ॑ हरामि धान्य३ं र॑सम् । आ॑हृता अस्मा॑कं व्वीरा॑ आ॑ प॑त्नीर् इद॑म् अ॑स्तकम् ॥ १२ ॥
ā́ harāmi gávāṅ kṣīrám ā́ harāmi dhānya3ṃ rásam | ā́hṛtā asmā́kaṃ vvīrā́ ā́ pátnīr idám ástakam || 12 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).