शं॑व्वतीᳵ पार॑यन्त्य् एते॑दं॑ पृच्छस्व व॑चो य॑था । अभ्या॑रन् तं॑ समा॑केतं य्य॑ एवे॑द॑म् इति ब्र॑वत् ।
śáṃvvatīh̬ pāráyanty etédáṃ pṛcchasva váco yáthā | abhyā́ran táṃ samā́ketaṃ yyá evédám iti brávat |
अध्यायः २ • खिलसूक्तम् १३
Sanskrit from the selected Khilani edition, with IAST and source accents.
6 passagesSanskrit with transliteration
शं॑व्वतीᳵ पार॑यन्त्य् एते॑दं॑ पृच्छस्व व॑चो य॑था । अभ्या॑रन् तं॑ समा॑केतं य्य॑ एवे॑द॑म् इति ब्र॑वत् ।
śáṃvvatīh̬ pāráyanty etédáṃ pṛcchasva váco yáthā | abhyā́ran táṃ samā́ketaṃ yyá evédám iti brávat |
जाया॑केतं प॑रिस्रुतम् भा॑रती ब्रह्मवा॑दिनी । सञ्जानाना॑ मही॑ जाता॑ य॑ एवे॑द॑म् इति ब्र॑वत् ।
jāyā́ketaṃ párisrutam bhā́ratī brahmavā́dinī | sañjānānā́ mahī́ jātā́ yá evédám iti brávat |
इ॑न्द्रस् तं॑ किं विभुं॑ प्रभुं॑ भानु॑ना यं॑ जु॑जोषति । ते॑न सू॑र्यम् अरोचयद् ये॑नेमे॑ रो॑दसी उभे॑ ।
índras táṃ kiṃ vibhúṃ prabhúṃ bhānúnā yáṃ jújoṣati | téna sū́ryam arocayad yénemé ródasī ubhé |
जुष॑स्वाग्ने अङ्गिरᳶ काण्व॑म् मे॑ध्यातिथिम् । मा॑ त्वा सो॑मस्य ब॑र्बृहत् सुत॑स्य म॑धुमत्तमः ।
juṣásvāgne aṅgiraẖ kāṇvám médhyātithim | mā́ tvā sómasya bárbṛhat sutásya mádhumattamaḥ |
त्वा॑म् अग्ने अङ्गिरश् शोचस्व देववी॑तमः । आ॑ शन्तम श॑न्तमाभिर् अभि॑ष्टिभिश् शान्तिं॑ स्वस्ति॑म् अकुर्वत ।
tvā́m agne aṅgiraś śocasva devavī́tamaḥ | ā́ śantama śántamābhir abhíṣṭibhiś śāntíṃ svastím akurvata |
श॑न् नᳶ कनिक्रदद् देव॑ᳵ पर्ज॑न्यो अभि॑ वर्षत्व् ओ॑षधयस् स॑म् प्रवर्धन्तम् । श॑न् नो द्या॑वापृथिवी॑ शं॑ प्रजा॑भ्यस् श॑न् नो अस्तु द्विप॑दे श॑ञ् च॑तुष्पदे । श॑न् न इन्द्राग्नी॑ भवताम् अ॑वोभिः ॥ १६ ॥
śán naẖ kanikradad deváh̬ parjányo abhí varṣatv óṣadhayas sám pravardhantam | śán no dyā́vāpṛthivī́ śáṃ prajā́bhyas śán no astu dvipáde śáñ cátuṣpade | śán na indrāgnī́ bhavatām ávobhiḥ || 16 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).