अध्यायः १ • खिलसूक्तम् ४
Adhyaya I · hymn 4
॥
Sanskrit from the selected Khilani edition, with IAST and source accents.
10 passages·Sanskrit with transliteration
ज्यो॑तिष्मन्तं केतुम॑न्तन् त्रिचक्रं॑ सुखं॑ र॑थं सुष॑दं भू॑रिमायम् ।
चित्त्रा॑मघा य॑स्य यो॑गे धि जज्ञे तं॑ वां हुवे॑ अ॑ति रिक्तं पि॑बध्यै ।
jyótiṣmantaṃ ketumántan tricakráṃ sukháṃ ráthaṃ suṣádaṃ bhū́rimāyam |
cittrā́maghā yásya yóge dhi jajñe táṃ vāṃ huvé áti riktaṃ píbadhyai |
युव॑न् देवा॑ क्र॑तुना पूर्व्ये॑ण युक्ता॑ र॑थेन तविषं॑ यजत्रा ।
आ॑ गच्छतन् नासत्या श॑चीभिर् इदं॑ तृती॑यं स॑वनं पि॑बाथः ।
yuván devā́ krátunā pūrvyéṇa yuktā́ ráthena taviṣáṃ yajatrā |
ā́ gacchatan nāsatyā śácībhir idáṃ tṛtī́yaṃ sávanaṃ píbāthaḥ |
युवा॑न् देवा॑स् त्र॑य एकादशा॑सस् सत्या॑ सत्य॑स्य दधिरे पुर॑स्तात् ।
अस्मा॑कं य्यज्ञं॑ स॑वनञ् जुषाणा॑ पातं॑ सो॑मम् अश्विना दी॑द्यग्नी ।
yuvā́n devā́s tráya ekādaśā́sas satyā́ satyásya dadhire purástāt |
asmā́kaṃ yyajñáṃ sávanañ juṣāṇā́ pātáṃ sómam aśvinā dī́dyagnī |
पना॑य्यं त॑द् अश्विनाकृतं॑ व्वां वृषभो॑ दिवो॑ र॑जसᳵ पृथिव्याः॑ ।
सह॑स्रं शं॑सा उत॑ ये॑ ग॑विष्ठौ स॑र्वां इ॑त् तां॑ उ॑प यातं पि॑बध्यै ।
panā́yyaṃ tád aśvinākṛtáṃ vvāṃ vṛṣabhó divó rájasah̬ pṛthivyā́ḥ |
sahásraṃ śáṃsā utá yé gáviṣṭhau sárvāṃ ít tā́ṃ úpa yātaṃ píbadhyai |
अयं॑ व्वां भागो॑ नि॑हितो य॑जत्रेमा॑ गि॑रो नासत्यो॑प यातम् ।
पि॑बतं सो॑मं म॑धुमन्तम् अश्विना प्र॑ दाश्वां॑सम् अवतं श॑चीभिः ॥ ६ ॥
ayáṃ vvāṃ bhāgó níhito yájatremā́ gíro nāsatyópa yātam |
píbataṃ sómaṃ mádhumantam aśvinā prá dāśvā́ṃsam avataṃ śácībhiḥ || 6 ||
ज्यो॑तिष्मन्तं सुप्र॑तीकम् अ॑जस्रेण भानु॑ना दी॑द्यग्नी ।
शिवं॑ प्रजा॑नां कृणुष्व मा॑ हिंसीᳵ पु॑रुषं ज॑गत् ।
jyótiṣmantaṃ suprátīkam ájasreṇa bhānúnā dī́dyagnī |
śiváṃ prajā́nāṃ kṛṇuṣva mā́ hiṃsīh̬ púruṣaṃ jágat |
धाता॑ राति॑स् सविते॑द॑ञ् जुषन्तां त्व॑ष्टा य॑द् दू॑तो अ॑भवद् विव॑स्वतः ।
सं॑ व्वाम् अश्वि॑भ्याम् उष॑सा सजू॑स् त॑म् ऊर्वं॑ ग॑व्यं म॑हि गृणान॑ इन्द्र ।
dhātā́ rātís savitédáñ juṣantāṃ tváṣṭā yád dū́to ábhavad vivásvataḥ |
sáṃ vvām aśvíbhyām uṣásā sajū́s tám ūrváṃ gávyaṃ máhi gṛṇāná indra |
भर॑द्वाजस्य सुन्व॑तो यविष्ठा॑ याह्य् अग्ने म॑धुमत्तमस् सुतः॑ ।
सोम॑स्य मा तव॑सो दी॑ध्याना अ॑च्छा को॑शं जन॑यित्वा॑वतो भुवत् ।
bharádvājasya sunváto yaviṣṭhā́ yāhy agne mádhumattamas sutáḥ |
somásya mā taváso dī́dhyānā ácchā kóśaṃ janáyitvā́vato bhuvat |
अग्नि॑ᳵ पृथु॑र् ब्र॑ह्मणस्प॑तिस् सो॑मो देवे॑ष्व् आ॑ यमत् ।
इ॑न्द्रस्या॑धिपत्य मे बॄहस्पते ह॑वींषि ते ।
agníh̬ pṛthúr bráhmaṇaspátis sómo devéṣv ā́ yamat |
índrasyā́dhipatya me bṝhaspate hávīṃṣi te |
रुचं॑ ब्रा॑ह्म्यं जन॑यन्तो देवा॑ अग्रे॑ य॑द् अ॑ब्रुवन् ।
य॑स् त्वेद॑म् ब्राह्मणो॑ विद्या॑त् त॑स्य देवा॑ असन् व॑शे ॥ ७ ॥
rucáṃ brā́hmyaṃ janáyanto devā́ agré yád ábruvan |
yás tvedám brāhmaṇó vidyā́t tásya devā́ asan váśe || 7 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).