ओं संज्ञा॑नम् उश॑नावदत् संज्ञा॑नं व्व॑रुणो वदत् । संज्ञा॑नम् इ॑न्द्रश् चाग्नि॑श् च संज्ञा॑नं सविता॑ वदत् ।
oṃ saṃjñā́nam uśánāvadat saṃjñā́naṃ vváruṇo vadat | saṃjñā́nam índraś cāgníś ca saṃjñā́naṃ savitā́ vadat |
अध्यायः ५ • खिलसूक्तम् १
Sanskrit from the selected Khilani edition, with IAST and source accents.
5 passagesSanskrit with transliteration
ओं संज्ञा॑नम् उश॑नावदत् संज्ञा॑नं व्व॑रुणो वदत् । संज्ञा॑नम् इ॑न्द्रश् चाग्नि॑श् च संज्ञा॑नं सविता॑ वदत् ।
oṃ saṃjñā́nam uśánāvadat saṃjñā́naṃ vváruṇo vadat | saṃjñā́nam índraś cāgníś ca saṃjñā́naṃ savitā́ vadat |
संज्ञा॑नम् नस् स्वे॑भ्यस् संज्ञा॑नं अ॑रणेभ्यः । संज्ञा॑नम् अश्वि॑ना युव॑म् इहा॑स्मा॑सु नि॑ यच्छताम् ।
saṃjñā́nam nas svébhyas saṃjñā́naṃ áraṇebhyaḥ | saṃjñā́nam aśvínā yuvám ihā́smā́su ní yacchatām |
य॑त् कक्षी॑वान् संव्व॑नं पुत्रो॑ अ॑ङ्गिरसाम् अ॑वेत् । ते॑न नोद्य वि॑श्वे देवा॑स् स॑म् प्रियां॑ स॑म् अवीवनन् ।
yát kakṣī́vān saṃvvánaṃ putró áṅgirasām ávet | téna nodya víśve devā́s sám priyā́ṃ sám avīvanan |
सं॑ व्वो म॑नां॑सि जानतां स॑म् आ॑कूतिम् मनामसि । असउ॑ यो॑ वि॑मना ज॑नस् तं॑ समा॑वर्तयामसि ।
sáṃ vvo mánā́ṃsi jānatāṃ sám ā́kūtim manāmasi | asaú yó vímanā jánas táṃ samā́vartayāmasi |
तच् छं⟦य्यो॑र् आ॑ वृणीम⟧हे गातुं॑ यज्ञाय गातुं॑ यज्ञ॑पतये दइ॑वी स्वस्ति॑र् अस्तु नस् स्वस्ति॑र् मा॑नुषेभ्यः । ऊर्ध्वं॑ जिगातु ⟦भेषजं॑ श॑न्⟧ नो अस्तु द्विप॑दे श॑ञ् च॑तुष्पदे ॥ १ ॥
tac chaṃ⟦yyór ā́ vṛṇīma⟧he gātúṃ yajñāya gātúṃ yajñápataye daívī svastír astu nas svastír mā́nuṣebhyaḥ | ūrdhváṃ jigātu ⟦bheṣajáṃ śán⟧ no astu dvipáde śáñ cátuṣpade || 1 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).