य॑स् स॑भेयो विदथ्य३स् सु॑त्वा य॑ज्वा च पू॑रुषः । सू॑र्यं चा॑मू रिशा॑दसं त॑द् देवा॑ᳵ प्रा॑ग् अकल्पयन् ।
yás sábheyo vidathya3s sútvā yájvā ca pū́ruṣaḥ | sū́ryaṃ cā́mū riśā́dasaṃ tád devā́h̬ prā́g akalpayan |
अध्यायः ५ • खिलसूक्तम् १२
Sanskrit from the selected Khilani edition, with IAST and source accents.
5 passagesSanskrit with transliteration
य॑स् स॑भेयो विदथ्य३स् सु॑त्वा य॑ज्वा च पू॑रुषः । सू॑र्यं चा॑मू रिशा॑दसं त॑द् देवा॑ᳵ प्रा॑ग् अकल्पयन् ।
yás sábheyo vidathya3s sútvā yájvā ca pū́ruṣaḥ | sū́ryaṃ cā́mū riśā́dasaṃ tád devā́h̬ prā́g akalpayan |
यो॑ जाम्या३ᳵ प्र॑त्य् अमदद् य॑स् स॑खायन् नि॑नित्सति । ज्ये॑ष्ठो य॑द् अ॑प्रचेतास् त॑द् आ॑हुर् अधराग् इ॑ति ।
yó jāmyā3h̬ práty amadad yás sákhāyan nínitsati | jyéṣṭho yád ápracetās tád ā́hur adharāg íti |
य॑द् भद्र॑स्य पु॑रुषस्य पुत्रो॑ भवति दा॑धृषिः । त॑द् वि॑प्रो अ॑ब्रवीद् उद॑ग् गन्धर्व॑ᳶ का॑म्यं व्व॑चः ।
yád bhadrásya púruṣasya putró bhavati dā́dhṛṣiḥ | tád vípro ábravīd udág gandharváẖ kā́myaṃ vvácaḥ |
य॑श् च पणि॑र् अभु॑जिष्यो३ य॑श् च रेवां॑ अ॑दाशुरिः । धी॑राणां शाश्वताम् अ॑हं त॑द् अपा॑ग् इ॑ति शुश्रव ।
yáś ca paṇír abhújiṣyo3 yáś ca revā́ṃ ádāśuriḥ | dhī́rāṇāṃ śāśvatām áhaṃ tád apā́g íti śuśrava |
ये॑ च देवा॑ अयजन्ता॑थो ये॑ च पराददुः॑ । सू॑र्यो दि॑वम् इव गत्वा॑य मघ॑वानो वि॑ रप्शते ॥ ३५ ॥
yé ca devā́ ayajantā́tho yé ca parādadúḥ | sū́ryo dívam iva gatvā́ya maghávāno ví rapśate || 35 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).