मार्कण्डेय उवाच - । ततः क्रोशान्तरे पार्थ तीर्थं कोटीश्वरं परम् । यत्र स्नानं च दानं च जपहोमार्चनादिकम् । भक्त्या कृतं नरैस्तत्र सर्वं कोटिगुणं भवेत् ॥ १ ॥
mārkaṇḍeya uvāca - | tataḥ krośāntare pārtha tīrthaṃ koṭīśvaraṃ param | yatra snānaṃ ca dānaṃ ca japahomārcanādikam | bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet || 1 ||