राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ॥ १ ॥
rājānaṃ utthitaṃ anūttiṣṭhante bhṛtyāḥ || 1 ||
अधिकरणम् १ · अध्यायः १९
A chapter of the Arthashastra.
29 versesSanskrit with transliteration
राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ॥ १ ॥
rājānaṃ utthitaṃ anūttiṣṭhante bhṛtyāḥ || 1 ||
नालिकाभिरहरष्टधा रात्रिं च विभजेत् । छाया-प्रमाणेन वा ॥ ६ ॥
nālikābhiraharaṣṭadhā rātriṃ ca vibhajet | chāyā-pramāṇena vā || 6 ||
त्रिपौरुषी पौरुषी चतुर्-अङ्गुला नष्टच्-छायो मध्य-अह्नैति चत्वारः पूर्वे दिवसस्याष्ट-भागाः ॥ ७ ॥
tripauruṣī pauruṣī catur-aṅgulā naṣṭac-chāyo madhya-ahnaiti catvāraḥ pūrve divasasyāṣṭa-bhāgāḥ || 7 ||
तत्र पूर्वे दिवसस्याष्ट-भागे रक्षा-विधानं आय-व्ययौ च शृणुयात् ॥ ९ ॥
tatra pūrve divasasyāṣṭa-bhāge rakṣā-vidhānaṃ āya-vyayau ca śṛṇuyāt || 9 ||
द्वितीये पौर-जानपदानां कार्याणि पश्येत् ॥ १० ॥
dvitīye paura-jānapadānāṃ kāryāṇi paśyet || 10 ||
तृतीये स्नान-भोजनं सेवेत । स्वाध्यायं च कुर्वीत ॥ ११ ॥
tṛtīye snāna-bhojanaṃ seveta | svādhyāyaṃ ca kurvīta || 11 ||
चतुर्थे हिरण्य-प्रतिग्रहं अध्यक्षांश्च कुर्वीत ॥ १२ ॥
caturthe hiraṇya-pratigrahaṃ adhyakṣāṃśca kurvīta || 12 ||
पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ॥ १३ ॥
pañcame mantri-pariṣadā pattra-sampreṣaṇena mantrayeta | cāra-guhya-bodhanīyāni ca budhyeta || 13 ||
षष्ठे स्वैर-विहारं मन्त्रं वा सेवेत ॥ १४ ॥
ṣaṣṭhe svaira-vihāraṃ mantraṃ vā seveta || 14 ||
सप्तमे हस्त्य्-अश्व-रथ-आयुधीयान्पश्येत् ॥ १५ ॥
saptame hasty-aśva-ratha-āyudhīyānpaśyet || 15 ||
अष्टमे सेना-पति-सखो विक्रमं चिन्तयेत् ॥ १६ ॥
aṣṭame senā-pati-sakho vikramaṃ cintayet || 16 ||
प्रथमे रात्रि-भागे गूढ-पुरुषान्पश्येत् ॥ १८ ॥
prathame rātri-bhāge gūḍha-puruṣānpaśyet || 18 ||
द्वितीये स्नान-भोजनं कुर्वीत । स्वाध्यायं च ॥ १९ ॥
dvitīye snāna-bhojanaṃ kurvīta | svādhyāyaṃ ca || 19 ||
तृतीये तूर्य-घोषेण संविष्टश्चतुर्थ-पञ्चमौ शयीत ॥ २० ॥
tṛtīye tūrya-ghoṣeṇa saṃviṣṭaścaturtha-pañcamau śayīta || 20 ||
षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत् ॥ २१ ॥
ṣaṣṭhe tūrya-ghoṣeṇa pratibuddhaḥ śāstraṃ itikartavyatāṃ ca cintayet || 21 ||
सप्तमे मन्त्रं अध्यासीत । गूढ-पुरुषांश्च प्रेषयेत् ॥ २२ ॥
saptame mantraṃ adhyāsīta | gūḍha-puruṣāṃśca preṣayet || 22 ||
अष्टमे ऋत्विग्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकांश्च पश्येत् ॥ २३ ॥
aṣṭame ṛtvig-ācārya-purohita-svastyayanāni pratigṛhṇīyāt | cikitsaka-māhānasika-mauhūrtikāṃśca paśyet || 23 ||
सवस्तां धेनुं वृषभं च प्रदक्षिणी-कृत्यौपस्थानं गच्छेत् ॥ २४ ॥
savastāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇī-kṛtyaupasthānaṃ gacchet || 24 ||
आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान्प्रविभज्य कार्याणि सेवेत ॥ २५ ॥
ātma-bala-ānukūlyena vā niśā-ahar-bhāgānpravibhajya kāryāṇi seveta || 25 ||
उपस्थान-गतः कार्य-अर्थिनां अद्वार-आसङ्गं कारयेत् ॥ २६ ॥
upasthāna-gataḥ kārya-arthināṃ advāra-āsaṅgaṃ kārayet || 26 ||
दुर्दर्शो हि राजा कार्य-अकार्य-विपर्यासं आसन्नैः कार्यते ॥ २७ ॥
durdarśo hi rājā kārya-akārya-viparyāsaṃ āsannaiḥ kāryate || 27 ||
तेन प्रकृति-कोपं अरि-वशं वा गच्छेत् ॥ २८ ॥
tena prakṛti-kopaṃ ari-vaśaṃ vā gacchet || 28 ||
तस्माद्देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानां बाल-वृद्ध-व्याधित-व्यसन्य्-अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्य-गौरवादात्ययिक-वशेन वा ॥ २९ ॥
tasmāddevatā-āśrama-pāṣaṇḍa-śrotriya-paśu-puṇya-sthānānāṃ bāla-vṛddha-vyādhita-vyasany-anāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet | kārya-gauravādātyayika-vaśena vā || 29 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).