Harivamsha 38.41
वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् । भेजे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् । मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये ॥ ४१ ॥
vāsudevastu nirjitya jāmbavantaṃ mahābalam | bheje jāmbavatīṃ kanyāmṛkṣarājasya sammatām | maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye || 41 ||