कन्यकादिधनरत्नसंग्रहा । शालिभूमिगृहदासवाहनम् । शिल्पिनां च गुरवे निवेदयेत् । कर्तृपत्र वरहस्ततो बहुः ॥ १ ॥
kanyakādidhanaratnasaṃgrahā | śālibhūmigṛhadāsavāhanam | śilpināṃ ca gurave nivedayet | kartṛpatra varahastato bahuḥ || 1 ||
अध्यायः ४७ · मौलिलक्षणम्
maulilakṣaṇam
A chapter of the Manasara.
110 versesSanskrit with transliteration
कन्यकादिधनरत्नसंग्रहा । शालिभूमिगृहदासवाहनम् । शिल्पिनां च गुरवे निवेदयेत् । कर्तृपत्र वरहस्ततो बहुः ॥ १ ॥
kanyakādidhanaratnasaṃgrahā | śālibhūmigṛhadāsavāhanam | śilpināṃ ca gurave nivedayet | kartṛpatra varahastato bahuḥ || 1 ||
योगात्कुर्याद्युक्तसंमानहीनम् । कर्ता यावद् भूमिचन्द्रं पतेत्सः । तस्मात्कर्ता चोक्तसंमानं राजा । सर्वैश्वर्यं काम्यसिद्धिं लभेत ॥ २ ॥
yogātkuryādyuktasaṃmānahīnam | kartā yāvad bhūmicandraṃ patetsaḥ | tasmātkartā coktasaṃmānaṃ rājā | sarvaiśvaryaṃ kāmyasiddhiṃ labheta || 2 ||
शिल्पिचित्तं प्रसन्नं चेद्यजमानेष्टदं फलम् । शिल्पिनस्त्वप्रसन्नं चेत्सर्वसम्पद्विनाशनम् ॥ ३ ॥
śilpicittaṃ prasannaṃ cedyajamāneṣṭadaṃ phalam | śilpinastvaprasannaṃ cetsarvasampadvināśanam || 3 ||
तस्मात्सर्वथा कर्ता शिल्पाचार्यमुपाचरेत् । देवानां भूपतीनां च मौलिलक्षणमुच्यते ॥ ४ ॥
tasmātsarvathā kartā śilpācāryamupācaret | devānāṃ bhūpatīnāṃ ca maulilakṣaṇamucyate || 4 ||
जटामौलिकिरीटं च करण्डं च शिरस्त्रकम् । कुन्तलं केशबन्धं च धम्मिल्लालकचूलकम् ॥ ५ ॥
jaṭāmaulikirīṭaṃ ca karaṇḍaṃ ca śirastrakam | kuntalaṃ keśabandhaṃ ca dhammillālakacūlakam || 5 ||
मकुटं च मिति ख्यातं तत्तदाधारमानतः । पद्मपट्टं रत्नपट्टं पुष्पपट्टं त्रिधा मतम् ॥ ६ ॥
makuṭaṃ ca miti khyātaṃ tattadādhāramānataḥ | padmapaṭṭaṃ ratnapaṭṭaṃ puṣpapaṭṭaṃ tridhā matam || 6 ||
पितामहस्य रुद्र स्य जटामकुटं योग्यकम् । किरीटमकुटं चैव नारायणस्य योग्यकम् ॥ ७–९ ॥
pitāmahasya rudra sya jaṭāmakuṭaṃ yogyakam | kirīṭamakuṭaṃ caiva nārāyaṇasya yogyakam || 7–9 ||
कन्यसा देवतानां च करण्डमकुटान्वितम् । जटामौलि मनोन्मन्या मण्डला कुण्डलं तथा ॥ १० ॥
kanyasā devatānāṃ ca karaṇḍamakuṭānvitam | jaṭāmauli manonmanyā maṇḍalā kuṇḍalaṃ tathā || 10 ||
सरस्वत्याश्च सावित्र्! याः केशबन्धं च कुण्डलम् । अथवा सर्वशक्तीनां करण्डमकुटान्वितम् ॥ ११ ॥
sarasvatyāśca sāvitr! yāḥ keśabandhaṃ ca kuṇḍalam | athavā sarvaśaktīnāṃ karaṇḍamakuṭānvitam || 11 ||
किरीटं सार्वभौमस्य चाधिराजस्य योग्यकम् । नरेन्द्र स्य करण्डं स्यत्पार्ष्णिकस्य शिरस्त्रकम् ॥ १२ ॥
kirīṭaṃ sārvabhaumasya cādhirājasya yogyakam | narendra sya karaṇḍaṃ syatpārṣṇikasya śirastrakam || 12 ||
चक्रवर्त्यादिभूपस्य करण्डमकुटं तु वा । पत्रपट्टं पट्टधरो रत्नपट्टं च पार्ष्णिके ॥ १३ ॥
cakravartyādibhūpasya karaṇḍamakuṭaṃ tu vā | patrapaṭṭaṃ paṭṭadharo ratnapaṭṭaṃ ca pārṣṇike || 13 ||
पट्टभाक् पुष्पपट्टं च चोक्तमेवं पुरातनैः । प्राहारकास्त्रग्राहौ च पुष्पमाल्यं प्रकीर्तितम् ॥ १४ ॥
paṭṭabhāk puṣpapaṭṭaṃ ca coktamevaṃ purātanaiḥ | prāhārakāstragrāhau ca puṣpamālyaṃ prakīrtitam || 14 ||
चक्रवर्तिमहिष्याश्च कुड्मलं मकुटं भवेत् । अधिराज नरेन्द्र स्य महिष्याः केशबन्धनम् ॥ १५ ॥
cakravartimahiṣyāśca kuḍmalaṃ makuṭaṃ bhavet | adhirāja narendra sya mahiṣyāḥ keśabandhanam || 15 ||
पार्ष्णिकं पट्टकरोमण्डलेशस्य पट्टभाक् । एतेषां महिषीभ्यां च धम्मिल्लमकुटाहृतम् ॥ १६ ॥
pārṣṇikaṃ paṭṭakaromaṇḍaleśasya paṭṭabhāk | eteṣāṃ mahiṣībhyāṃ ca dhammillamakuṭāhṛtam || 16 ||
प्राहारकास्त्रग्राहाभ्यां महिष्यालकचूडकम् । वक्त्रायामत्रिधायामं द्वयं वा मकुटोदयम् ॥ १७ ॥
prāhārakāstragrāhābhyāṃ mahiṣyālakacūḍakam | vaktrāyāmatridhāyāmaṃ dvayaṃ vā makuṭodayam || 17 ||
पितामहस्य रुद्र स्य पादोनद्वयमेव च । अन्यथा देवतानां च चालपादोनमेव च ॥ १८ ॥
pitāmahasya rudra sya pādonadvayameva ca | anyathā devatānāṃ ca cālapādonameva ca || 18 ||
किन्नरयक्षकाणां च अध्यर्धं वा समन्तकम् । सर्वेषामपि शक्तीनां मुखायामद्वयं भवेत् ॥ १९ ॥
kinnarayakṣakāṇāṃ ca adhyardhaṃ vā samantakam | sarveṣāmapi śaktīnāṃ mukhāyāmadvayaṃ bhavet || 19 ||
केशान्तात्कुड्मलान्तं स्यात्सर्वेषां मकुटायतम् । मुखायामसमं मूलविस्तारं भूषणान्यपि ॥ २० ॥
keśāntātkuḍmalāntaṃ syātsarveṣāṃ makuṭāyatam | mukhāyāmasamaṃ mūlavistāraṃ bhūṣaṇānyapi || 20 ||
तदष्टांशेन हीनं वा षोडशांशोनमेव वा । मकुटाग्रविशालं स्याच्छिखायाममध्यादिदेशिकम् ॥ २१ ॥
tadaṣṭāṃśena hīnaṃ vā ṣoḍaśāṃśonameva vā | makuṭāgraviśālaṃ syācchikhāyāmamadhyādideśikam || 21 ||
मूलतारार्धभागं वा त्रिभागैकांशमेव च । एवं करण्डमौल्याग्रे विस्तारं परिकीर्तितम् ॥ २२ ॥
mūlatārārdhabhāgaṃ vā tribhāgaikāṃśameva ca | evaṃ karaṇḍamaulyāgre vistāraṃ parikīrtitam || 22 ||
सर्वेषां मकुटानां तु चामूलाग्रक्षयं क्रमात् । भूपानां च शिरोबाहुतुल्यं तन्मकुटोदयम् ॥ २३ ॥
sarveṣāṃ makuṭānāṃ tu cāmūlāgrakṣayaṃ kramāt | bhūpānāṃ ca śirobāhutulyaṃ tanmakuṭodayam || 23 ||
तत्तुङ्गे षोडशांशं स्यान्महाराजस्य हीनकम् । तत्तुङ्गे द्व्यंशहीनोच्चं नरेन्द्रा ख्यस्य भूपतेः ॥ २४ ॥
tattuṅge ṣoḍaśāṃśaṃ syānmahārājasya hīnakam | tattuṅge dvyaṃśahīnoccaṃ narendrā khyasya bhūpateḥ || 24 ||
अर्धं पार्ष्णिकभूपस्य शिरस्त्रोदयमीरितम् । शिरोनाहसमं दीर्घे तत्त्रिभागं द्विभागिकम् ॥ २५ ॥
ardhaṃ pārṣṇikabhūpasya śirastrodayamīritam | śironāhasamaṃ dīrghe tattribhāgaṃ dvibhāgikam || 25 ||
चक्रवर्त्यादि राजस्य महिषीमकुटोदयम् । अन्यत्सर्वं महिषीणां मुखायामसमं बुधैः ॥ २६ ॥
cakravartyādi rājasya mahiṣīmakuṭodayam | anyatsarvaṃ mahiṣīṇāṃ mukhāyāmasamaṃ budhaiḥ || 26 ||
पादोनं च तदर्धं वा धम्मिल्लाकादिकोदयम् । शेषं प्रागुक्तवन्मानं कुर्यात्तत्र विचक्षणः ॥ २७ ॥
pādonaṃ ca tadardhaṃ vā dhammillākādikodayam | śeṣaṃ prāguktavanmānaṃ kuryāttatra vicakṣaṇaḥ || 27 ||
शिरोनाहं त्रिभागैकं पट्टस्त्रीदयमेव च । एवं पट्टधरं प्रोक्तं पट्टमेवं शिरोवृतम् ॥ २८ ॥
śironāhaṃ tribhāgaikaṃ paṭṭastrīdayameva ca | evaṃ paṭṭadharaṃ proktaṃ paṭṭamevaṃ śirovṛtam || 28 ||
चतुर्भागैकपट्टं स्यात्तुङ्गानां मण्डलेश्वरम् । पट्टमेवं शिरोनाहे षड्भागे चैकभागिकम् ॥ २९ ॥
caturbhāgaikapaṭṭaṃ syāttuṅgānāṃ maṇḍaleśvaram | paṭṭamevaṃ śironāhe ṣaḍbhāge caikabhāgikam || 29 ||
पट्टभागाख्यभूपस्य पट्टतुङ्गमथैव च । सर्वानां चेति प्रोक्तमलङ्कारमिहोच्यते ॥ ३० ॥
paṭṭabhāgākhyabhūpasya paṭṭatuṅgamathaiva ca | sarvānāṃ ceti proktamalaṅkāramihocyate || 30 ||
दशपर्णैश्च हेमादिभिर्माल्यादीनां प्रकल्पयेत् । पञ्चशत सहस्रं च निष्कं च द्विसहस्रकम् ॥ ३१ ॥
daśaparṇaiśca hemādibhirmālyādīnāṃ prakalpayet | pañcaśata sahasraṃ ca niṣkaṃ ca dvisahasrakam || 31 ||
अथवा पञ्चशताधिक्यं निष्कान्तं द्विसहस्रकम् । कन्यस्यादुत्तमान्तं स्यात्स्वर्णसंख्यात्रयोदिते ॥ ३२ ॥
athavā pañcaśatādhikyaṃ niṣkāntaṃ dvisahasrakam | kanyasyāduttamāntaṃ syātsvarṇasaṃkhyātrayodite || 32 ||
प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा । चतुर्विधाभिषेकस्य चक्रवर्तेश्च कथ्यते ॥ ३३ ॥
prāptaṃ ca maṅgalaṃ caiva vīraṃ ca vijayaṃ tathā | caturvidhābhiṣekasya cakravarteśca kathyate || 33 ||
तदर्धं चावरोधस्य हिरण्य मकुटस्य वा । द्विसहस्रान्तमुक्तादित्रयसमं तथा ॥ ३४ ॥
tadardhaṃ cāvarodhasya hiraṇya makuṭasya vā | dvisahasrāntamuktāditrayasamaṃ tathā || 34 ||
अधिराजस्य मकुटे स्वर्णसंख्याप्रकीर्तितम् । पञ्चशतनिष्कमारभ्य पञ्चशतविवर्धनात् ॥ ३५ ॥
adhirājasya makuṭe svarṇasaṃkhyāprakīrtitam | pañcaśataniṣkamārabhya pañcaśatavivardhanāt || 35 ||
पञ्चाशतसहस्रादि कन्यसादुत्तमान्तकम् । पट्टयुक्तं तथाबेरे भूपानां च विशेषतः ॥ ३६ ॥
pañcāśatasahasrādi kanyasāduttamāntakam | paṭṭayuktaṃ tathābere bhūpānāṃ ca viśeṣataḥ || 36 ||
एवं नरेन्द्र भूपस्य हेम स्यान्मकुटस्य च । चतुःशतनिष्कमादौ चतुःशतविवर्धनात् ॥ ३७ ॥
evaṃ narendra bhūpasya hema syānmakuṭasya ca | catuḥśataniṣkamādau catuḥśatavivardhanāt || 37 ||
शतद्वादशनिष्कान्तं कन्यसादि त्रयं त्रयम् । पार्ष्णिकस्य शिरस्त्रस्य हेमं तत्परिकीर्तितम् ॥ ३८ ॥
śatadvādaśaniṣkāntaṃ kanyasādi trayaṃ trayam | pārṣṇikasya śirastrasya hemaṃ tatparikīrtitam || 38 ||
त्रिशतनिष्कमारभ्य त्रिशतनिष्कविवर्धनात् । निष्कं नवशतान्तं स्यात्कन्यसादुत्तमान्तकम् ॥ ३९ ॥
triśataniṣkamārabhya triśataniṣkavivardhanāt | niṣkaṃ navaśatāntaṃ syātkanyasāduttamāntakam || 39 ||
पट्टधृक् भूपतेश्चैव हेम पट्टस्य कीर्तितम् । द्विशतं निष्कमारभ्य निष्कद्विशतवर्धनात् ॥ ४० ॥
paṭṭadhṛk bhūpateścaiva hema paṭṭasya kīrtitam | dviśataṃ niṣkamārabhya niṣkadviśatavardhanāt || 40 ||
सप्तशतनिष्कान्तं स्यादुत्तमान्तं त्रयोदितम् । मण्डलेशस्य पट्टस्य हेमसंख्या प्रकथ्यते ॥ ४१ ॥
saptaśataniṣkāntaṃ syāduttamāntaṃ trayoditam | maṇḍaleśasya paṭṭasya hemasaṃkhyā prakathyate || 41 ||
स्वर्णनिष्कशतमारभ्य शतनिष्कविवर्धनात् । त्रिशतनिष्कपर्यन्तं कन्यसादुत्तमान्तकम् ॥ ४२ ॥
svarṇaniṣkaśatamārabhya śataniṣkavivardhanāt | triśataniṣkaparyantaṃ kanyasāduttamāntakam || 42 ||
पट्टभाक् भूपपट्टस्य संयुक्तं हेममेव च । भूपानां मकुटाग्रान्तं केशान्तं मकुटोदयम् ॥ ४३ ॥
paṭṭabhāk bhūpapaṭṭasya saṃyuktaṃ hemameva ca | bhūpānāṃ makuṭāgrāntaṃ keśāntaṃ makuṭodayam || 43 ||
तदूर्ध्वे चाधिकं कुर्यात्तच्छिखामणितुङ्गकम् । जटामकुटकेशबन्धं च धवला त्रिपुषा कृतिः ॥ ४४ ॥
tadūrdhve cādhikaṃ kuryāttacchikhāmaṇituṅgakam | jaṭāmakuṭakeśabandhaṃ ca dhavalā tripuṣā kṛtiḥ || 44 ||
किरीटं वेणुकर्णाभं करण्डं शिखितुण्डवत् । शिरस्त्रं बुद्वुदाकारं धम्मिल्लं वल्लिकाकृतिः ॥ ४५ ॥
kirīṭaṃ veṇukarṇābhaṃ karaṇḍaṃ śikhituṇḍavat | śirastraṃ budvudākāraṃ dhammillaṃ vallikākṛtiḥ || 45 ||
केशान्तादलकाचूडं कुर्यात्तु मकुटानि वै । भूपानां मकुटोत्सेधं षड्विंशं तु विभाजिते ॥ ४६ ॥
keśāntādalakācūḍaṃ kuryāttu makuṭāni vai | bhūpānāṃ makuṭotsedhaṃ ṣaḍviṃśaṃ tu vibhājite || 46 ||
फालपट्टोदयं पञ्चभागं चूडं तदर्धकम् । पुरमुत्सेधं पञ्चांशं मूलतारं षडंशकम् ॥ ४७ ॥
phālapaṭṭodayaṃ pañcabhāgaṃ cūḍaṃ tadardhakam | puramutsedhaṃ pañcāṃśaṃ mūlatāraṃ ṣaḍaṃśakam || 47 ||
देवानां मकुटोच्चं तु नव विंशति भाजिते । पार्श्वपूरितं नन्दाशं तुङ्गतारं षडंशकम् ॥ ४८ ॥
devānāṃ makuṭoccaṃ tu nava viṃśati bhājite | pārśvapūritaṃ nandāśaṃ tuṅgatāraṃ ṣaḍaṃśakam || 48 ||
अध्यर्धांशाग्रपट्टं स्यात्त्रिपादांशेन वेत्रकम् । पट्टार्धे चोर्ध्वदेशे तत्पादांशेन त्रिवेत्रकम् ॥ ४९ ॥
adhyardhāṃśāgrapaṭṭaṃ syāttripādāṃśena vetrakam | paṭṭārdhe cordhvadeśe tatpādāṃśena trivetrakam || 49 ||
तदूर्ध्वे पद्ममेकेन द्व्यंशेन कुड्मलोदयम् । मकुटान्तात्पट्तिकान्तं स्यात्तदूर्ध्वे तु शिखामणिः ॥ ५० ॥
tadūrdhve padmamekena dvyaṃśena kuḍmalodayam | makuṭāntātpaṭtikāntaṃ syāttadūrdhve tu śikhāmaṇiḥ || 50 ||
वेत्रादिकुड्मलान्तं स्याच्छिखामण्युदयमीरितम् । अधोवेत्रोदयदेशे रत्नदामावृतांशकम् ॥ ५१ ॥
vetrādikuḍmalāntaṃ syācchikhāmaṇyudayamīritam | adhovetrodayadeśe ratnadāmāvṛtāṃśakam || 51 ||
वृत्ताकारं तु सर्वाङ्गं युक्त्या तत्रैव योजयेत् । अन्यत्र सर्वदेशे तु तरङ्गाकृति योजयेत् ॥ ५२ ॥
vṛttākāraṃ tu sarvāṅgaṃ yuktyā tatraiva yojayet | anyatra sarvadeśe tu taraṅgākṛti yojayet || 52 ||
तरङ्गाकारमध्ये तु पुष्परत्नैश्च विभूषितम् । पूरितं च द्विभागं च मकरैश्च विभूषितम् ॥ ५३ ॥
taraṅgākāramadhye tu puṣparatnaiśca vibhūṣitam | pūritaṃ ca dvibhāgaṃ ca makaraiśca vibhūṣitam || 53 ||
तन्मध्ये रत्नबन्धं स्यात्तस्यावृतसपत्रयुक् । अग्रे च रत्नबन्धं स्याद्बाह्ये तु वल्लिकावृतम् ॥ ५४ ॥
tanmadhye ratnabandhaṃ syāttasyāvṛtasapatrayuk | agre ca ratnabandhaṃ syādbāhye tu vallikāvṛtam || 54 ||
मकरस्यास्य देशे तु वल्लिदामं च निर्गमम् । पुरतः पृष्ठतश्चैव मकरान्मकरान्तकम् ॥ ५५ ॥
makarasyāsya deśe tu vallidāmaṃ ca nirgamam | purataḥ pṛṣṭhataścaiva makarānmakarāntakam || 55 ||
मौलिबन्धेन बल्ल्येव मुक्तादामैरलङ्कृतम् । ललाटपट्टतुङ्गं तच्चतुर्भाग विभजिते ॥ ५६ ॥
maulibandhena ballyeva muktādāmairalaṅkṛtam | lalāṭapaṭṭatuṅgaṃ taccaturbhāga vibhajite || 56 ||
एकांशं पट्टबन्धं स्यात्सर्वरत्नैरलङ्कृतम् । तस्याधो रत्नदामैश्चललाटोर्ध्वेऽर्धचन्द्र वत् ॥ ५७ ॥
ekāṃśaṃ paṭṭabandhaṃ syātsarvaratnairalaṅkṛtam | tasyādho ratnadāmaiścalalāṭordhve'rdhacandra vat || 57 ||
कर्णपत्रसमायुक्तं श्रोत्रोर्ध्वे कर्णपुष्पयुक् । तस्मात्तु लम्बनं दाम सर्वरत्नैरलङ्कृतम् ॥ ५८ ॥
karṇapatrasamāyuktaṃ śrotrordhve karṇapuṣpayuk | tasmāttu lambanaṃ dāma sarvaratnairalaṅkṛtam || 58 ||
पूरिमध्यादधोदेशे चूलरत्नानि विन्यसेत् । चतुष्पूरी संयुक्तं कर्णोर्ध्वे पार्श्वपूरितम् ॥ ५९ ॥
pūrimadhyādadhodeśe cūlaratnāni vinyaset | catuṣpūrī saṃyuktaṃ karṇordhve pārśvapūritam || 59 ||
शिरःपृष्ठोर्ध्वदेशे तु पृष्ठपूरिसंयुतम् । पृष्टस्याधश्च मध्ये तु शिरःशक्रं तु सम्युतम् ॥ ६० ॥
śiraḥpṛṣṭhordhvadeśe tu pṛṣṭhapūrisaṃyutam | pṛṣṭasyādhaśca madhye tu śiraḥśakraṃ tu samyutam || 60 ||
शिरोनाहत्रिभागैकं शिरःशक्रविशालकम् । चक्राकारं तु संयुक्तं सर्वरत्नानि विन्यसेत् ॥ ६१ ॥
śironāhatribhāgaikaṃ śiraḥśakraviśālakam | cakrākāraṃ tu saṃyuktaṃ sarvaratnāni vinyaset || 61 ||
एतत्किरीट मकुटं सर्वालङ्कारसंयुतम् । जटाचूडोर्ध्वबन्धं स्यादग्रे पट्टादिकान्वितम् ॥ ६२ ॥
etatkirīṭa makuṭaṃ sarvālaṅkārasaṃyutam | jaṭācūḍordhvabandhaṃ syādagre paṭṭādikānvitam || 62 ||
मध्ये शिखामणिं कुर्यात्तत्पार्श्वे दामलम्बनम् । जटान्तरालैः पुष्पैश्च शेषं पूर्ववदाचरेत् ॥ ६३ ॥
madhye śikhāmaṇiṃ kuryāttatpārśve dāmalambanam | jaṭāntarālaiḥ puṣpaiśca śeṣaṃ pūrvavadācaret || 63 ||
तदेव केशबन्धं स्यान्मौलिमध्ये सुबन्धनम् । तदूर्ध्वे चालकापङ्क्तिः कुर्यात्तद्भ्रमराकृतिः ॥ ६४ ॥
tadeva keśabandhaṃ syānmaulimadhye subandhanam | tadūrdhve cālakāpaṅktiḥ kuryāttadbhramarākṛtiḥ || 64 ||
शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम् । तदेव कुन्तलं कुर्यान्मध्यबन्धेन योजयेत् ॥ ६५ ॥
śeṣaṃ tu pūrvavatkuryātsarvālaṅkārasaṃyutam | tadeva kuntalaṃ kuryānmadhyabandhena yojayet || 65 ||
सर्वाङ्गे भ्रमरं कुर्यात्तद्विशेषं तु पूर्ववत् । शिरस्योर्ध्वे शिखारत्नं तन्मध्ये कुड्मलोदयम् ॥ ६६ ॥
sarvāṅge bhramaraṃ kuryāttadviśeṣaṃ tu pūrvavat | śirasyordhve śikhāratnaṃ tanmadhye kuḍmalodayam || 66 ||
अग्रतारत्रिभागैकं सर्वकुड्मलविस्तृतम् । विनाकृतिना सर्व तच्छेसं पूर्ववद् भवेत् ॥ ६७ ॥
agratāratribhāgaikaṃ sarvakuḍmalavistṛtam | vinākṛtinā sarva tacchesaṃ pūrvavad bhavet || 67 ||
त्रिचतुष्पञ्चवलयं च तारे वेत्रपद्मयुक् । उक्तवच्चाग्रदेशे तु कुड्मला स्यान्न दामकम् ॥ ६८ ॥
tricatuṣpañcavalayaṃ ca tāre vetrapadmayuk | uktavaccāgradeśe tu kuḍmalā syānna dāmakam || 68 ||
शेषं प्रागुक्तवत्प्रोक्तं करण्डमकुटान्वितम् । शिरोनाहत्रिभागैकं धम्मिल्लाग्रिवशालकम् ॥ ६९ ॥
śeṣaṃ prāguktavatproktaṃ karaṇḍamakuṭānvitam | śironāhatribhāgaikaṃ dhammillāgrivaśālakam || 69 ||
पञ्चत्रिंशेन तन्मूलं तत्र संविस्तृतं भवेत् । कुर्यात्त्रिवलयोपेतं न कुर्यात्तु शिखामणिम् ॥ ७० ॥
pañcatriṃśena tanmūlaṃ tatra saṃvistṛtaṃ bhavet | kuryāttrivalayopetaṃ na kuryāttu śikhāmaṇim || 70 ||
सर्वरत्नानि विन्यस्य विना च कर्णपूरकम् । शिरश्चूलं तु संयुक्तं शेषं तत्पूर्ववद् भवेत् ॥ ७१ ॥
sarvaratnāni vinyasya vinā ca karṇapūrakam | śiraścūlaṃ tu saṃyuktaṃ śeṣaṃ tatpūrvavad bhavet || 71 ||
तदेवकलचूडे तु मूले तु रत्नबन्धनम् । मूलमग्रसमं तारं मध्ये चोक्तविशालकम् ॥ ७२ ॥
tadevakalacūḍe tu mūle tu ratnabandhanam | mūlamagrasamaṃ tāraṃ madhye coktaviśālakam || 72 ||
तद्विस्तारत्रिभागैकं तदूर्ध्वोदयविस्तृतम् । नवरत्नैश्च संयुक्तं शेषं पूर्ववदाचरेत् ॥ ७३ ॥
tadvistāratribhāgaikaṃ tadūrdhvodayavistṛtam | navaratnaiśca saṃyuktaṃ śeṣaṃ pūrvavadācaret || 73 ||
फालपट्टाभवत्कुर्यात्पट्टैः सर्वाकृतिस्तथा । पत्ररत्नादिसंयुक्तं पत्रपट्टमिति स्मृतम् ॥ ७४ ॥
phālapaṭṭābhavatkuryātpaṭṭaiḥ sarvākṛtistathā | patraratnādisaṃyuktaṃ patrapaṭṭamiti smṛtam || 74 ||
नवरत्नैश्च संयुक्तं कुर्यात्तद्र त्नपट्टकम् । नानापुष्पैश्च संयुक्तं पुष्पपट्टमिति स्मृतम् ॥ ७५ ॥
navaratnaiśca saṃyuktaṃ kuryāttadra tnapaṭṭakam | nānāpuṣpaiśca saṃyuktaṃ puṣpapaṭṭamiti smṛtam || 75 ||
सर्वेषां मौलिदेशे तु चाष्टमङ्गलसंयुतम् । श्रीवत्सं मध्यम कुर्यात्तस्याधः पूर्णकुम्भकम् ॥ ७६ ॥
sarveṣāṃ maulideśe tu cāṣṭamaṅgalasaṃyutam | śrīvatsaṃ madhyama kuryāttasyādhaḥ pūrṇakumbhakam || 76 ||
तत्पार्श्वे चामरं दीपं चोर्ध्वे च छत्रसंयुतम् । दक्षिणे दर्पणं वामे स्वस्तिकं शङ्खमेव च ॥ ७७ ॥
tatpārśve cāmaraṃ dīpaṃ cordhve ca chatrasaṃyutam | dakṣiṇe darpaṇaṃ vāme svastikaṃ śaṅkhameva ca || 77 ||
एवं तु नृपमध्ये तु गलपट्टोपरि न्यसेत् । सर्वेषां भूपतीनां च महिषीणां च योग्यकम् ॥ ७८ ॥
evaṃ tu nṛpamadhye tu galapaṭṭopari nyaset | sarveṣāṃ bhūpatīnāṃ ca mahiṣīṇāṃ ca yogyakam || 78 ||
सर्वेषां मकुटानां च सर्वालङ्कारसंयुतम् । सर्वेषां पुष्पमकुटं शिरोनासहमोदयम् ॥ ७९ ॥
sarveṣāṃ makuṭānāṃ ca sarvālaṅkārasaṃyutam | sarveṣāṃ puṣpamakuṭaṃ śironāsahamodayam || 79 ||
त्रिपादं चार्धमेवं वा सर्वपुष्पैरलङ्कृतम् । चतुरश्रं चतुर्दिक्षु चाथवा वृत्तमेव च ॥ ८० ॥
tripādaṃ cārdhamevaṃ vā sarvapuṣpairalaṅkṛtam | caturaśraṃ caturdikṣu cāthavā vṛttameva ca || 80 ||
मकुटाकारसंयुक्तं करण्डं वा किरीटकम् । वेमं विना तु कुसुमैर्मकुटं कुर्याद्यथाविधि ॥ ८१ ॥
makuṭākārasaṃyuktaṃ karaṇḍaṃ vā kirīṭakam | vemaṃ vinā tu kusumairmakuṭaṃ kuryādyathāvidhi || 81 ||
पट्टबन्धस्य नृपतेः पुष्पपट्टं तदर्धकैः । अन्येषां भूपतीनां च मूर्ध्नि मालां च बन्धयेत् ॥ ८२ ॥
paṭṭabandhasya nṛpateḥ puṣpapaṭṭaṃ tadardhakaiḥ | anyeṣāṃ bhūpatīnāṃ ca mūrdhni mālāṃ ca bandhayet || 82 ||
प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा । चतुर्विधाभिषेकस्य चक्रवर्तेश्च कथ्यते ॥ ८३ ॥
prāptaṃ ca maṅgalaṃ caiva vīraṃ ca vijayaṃ tathā | caturvidhābhiṣekasya cakravarteśca kathyate || 83 ||
मौलिनां च त्रिपुत्राणामाद्याभिषेकपूर्वकैः । उक्तवच्छास्त्रमार्गे तु कुर्यात्पुष्पाभिषेककम् ॥ ८४ ॥
maulināṃ ca triputrāṇāmādyābhiṣekapūrvakaiḥ | uktavacchāstramārge tu kuryātpuṣpābhiṣekakam || 84 ||
भूपानां चाभिषेकाख्यं कर्मकाले विशेषतः । स्थपतिः स्थापकैर्विप्रैः स्थापित स्वङ्कुरार्पणम् ॥ ८५ ॥
bhūpānāṃ cābhiṣekākhyaṃ karmakāle viśeṣataḥ | sthapatiḥ sthāpakairvipraiḥ sthāpita svaṅkurārpaṇam || 85 ||
अधिवासादिपर्यन्तं कर्मकुर्याद्बुधैः सह । उक्ताधिवासात्कुम्भानां जलपूर्णान्समारभेत् ॥ ८६ ॥
adhivāsādiparyantaṃ karmakuryādbudhaiḥ saha | uktādhivāsātkumbhānāṃ jalapūrṇānsamārabhet || 86 ||
यागमण्डपसौम्ये तु सिंहासनस्य चोपरि । नृपालस्तत्र संकल्प्य अभिषेकं समारभेत् ॥ ८७ ॥
yāgamaṇḍapasaumye tu siṃhāsanasya copari | nṛpālastatra saṃkalpya abhiṣekaṃ samārabhet || 87 ||
सरित्समुद्र सलिलं कुम्भैः पूर्णा दधिमयैः । अथर्वसामगीतैश्च चान्यैश्चागमन्त्रकैः ॥ ८८ ॥
saritsamudra salilaṃ kumbhaiḥ pūrṇā dadhimayaiḥ | atharvasāmagītaiśca cānyaiścāgamantrakaiḥ || 88 ||
जलाभिषेक संपूर्णं कुर्यात् स्थपतिर्गुरौ । पश्चात्तु होमशिष्टा च दर्भं दत्वा त्रिपुण्ड्रकम् ॥ ८९ ॥
jalābhiṣeka saṃpūrṇaṃ kuryāt sthapatirgurau | paścāttu homaśiṣṭā ca darbhaṃ datvā tripuṇḍrakam || 89 ||
ललाटे धारणं कुर्याद् भूपतेस्तु यथाविधि । हंसश्चि ह्नदुकूलं च धारयेत्तदनन्तरम् ॥ ९० ॥
lalāṭe dhāraṇaṃ kuryād bhūpatestu yathāvidhi | haṃsaści hnadukūlaṃ ca dhārayettadanantaram || 90 ||
श्रीचन्दनं च कस्तूरीकुङ्कुमं चानुलेपयेत् । यज्ञसूत्रोत्तरीयं च सर्वाभरणभूषितम् ॥ ९१ ॥
śrīcandanaṃ ca kastūrīkuṅkumaṃ cānulepayet | yajñasūtrottarīyaṃ ca sarvābharaṇabhūṣitam || 91 ||
सर्वालङ्कारसंयुक्तमभिषेकाख्यमण्डपम् । आनयेन्मकुटं सिंहं पीठं च स्थपतिर्गुरुः ॥ ९२ ॥
sarvālaṅkārasaṃyuktamabhiṣekākhyamaṇḍapam | ānayenmakuṭaṃ siṃhaṃ pīṭhaṃ ca sthapatirguruḥ || 92 ||
प्रोक्षयेत्पञ्चगव्यादि मध्यरङ्गे तु विन्यसेत् । पुरोहितपुरगाश्च मकुटं धारयेत्ततः ॥ ९३ ॥
prokṣayetpañcagavyādi madhyaraṅge tu vinyaset | purohitapuragāśca makuṭaṃ dhārayettataḥ || 93 ||
पश्चात्सिंहासनाद्यैश्च कल्पवृक्षं च तोरणम् । निर्यूहाद्यैरलङ्कृत्य नृपालं तत्र वेशयेत् ॥ ९४ ॥
paścātsiṃhāsanādyaiśca kalpavṛkṣaṃ ca toraṇam | niryūhādyairalaṅkṛtya nṛpālaṃ tatra veśayet || 94 ||
होपवेशनं कुर्यान्महिषीं सव्यपार्श्वके । सुमुहूर्ते सुलग्ने च स्थपतिस्थापकावुभौ ॥ ९५ ॥
hopaveśanaṃ kuryānmahiṣīṃ savyapārśvake | sumuhūrte sulagne ca sthapatisthāpakāvubhau || 95 ||
रत्नसंदष्टमकुटं मूर्ध्नि राजोपयोजयेत् । सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम् ॥ ९६ ॥
ratnasaṃdaṣṭamakuṭaṃ mūrdhni rājopayojayet | sarvamaṅgalaghoṣaiśca svastivācanapūrvakam || 96 ||
दूर्वां मधूकमालाश्च दधिविन्दु ललाटके । वक्षस्थले बाहुमाला नयनाञ्जनरञ्जनः ॥ ९७ ॥
dūrvāṃ madhūkamālāśca dadhivindu lalāṭake | vakṣasthale bāhumālā nayanāñjanarañjanaḥ || 97 ||
दूपदीपं दधेत् पश्चात्परमाङ्गं प्रदर्शयेत् । यवाङ्कुरं च दूर्बा च प्लक्षत्वक् भाजनोपरि ॥ ९८ ॥
dūpadīpaṃ dadhet paścātparamāṅgaṃ pradarśayet | yavāṅkuraṃ ca dūrbā ca plakṣatvak bhājanopari || 98 ||
ज्ञानवृद्धैरमात्यैश्व कुर्यान् नीराञ्जलाविधैः । वृद्धैः सुमङ्गलीभिस्तैराशीर्वचनपूर्वकम् ॥ ९९ ॥
jñānavṛddhairamātyaiśva kuryān nīrāñjalāvidhaiḥ | vṛddhaiḥ sumaṅgalībhistairāśīrvacanapūrvakam || 99 ||
आद्रा र्ह!रिद्रा संमिलितान् साक्षतान्प्रोक्षयेद् द्विजैः । कुर्यादारोहणं पश्चाद्रा जा त्वैरावतोपरि ॥ १०० ॥
ādrā rha!ridrā saṃmilitān sākṣatānprokṣayed dvijaiḥ | kuryādārohaṇaṃ paścādrā jā tvairāvatopari || 100 ||
ऐरावतारूढनृपाल मौलि । मुक्तान्यकान्वादयदीप्यमान् । ललाटपट्टस्य मुखेन्दुकात्य । दिङ्मण्डलं भास्वस्य श्च तस्तम् ॥ १०१ ॥
airāvatārūḍhanṛpāla mauli | muktānyakānvādayadīpyamān | lalāṭapaṭṭasya mukhendukātya | diṅmaṇḍalaṃ bhāsvasya śca tastam || 101 ||
इतस्ततश्चामरवीज्यमाने । रूपाङ्गनाभिः परितो निषेव्यः । सपल्लवैश्छत्रचतुष्टयैश्च । विराजमानं मणिदर्पणादिभिः ॥ १०२ ॥
itastataścāmaravījyamāne | rūpāṅganābhiḥ parito niṣevyaḥ | sapallavaiśchatracatuṣṭayaiśca | virājamānaṃ maṇidarpaṇādibhiḥ || 102 ||
कलशं च सुवर्णनिर्मितम् । ध्वजसंपातपताकयावृतम् । नगरस्य ततः प्रदक्षिणम् । कुरुतां नृत्तसंगीतवाद्यकैः ॥ १०३ ॥
kalaśaṃ ca suvarṇanirmitam | dhvajasaṃpātapatākayāvṛtam | nagarasya tataḥ pradakṣiṇam | kurutāṃ nṛttasaṃgītavādyakaiḥ || 103 ||
नगरं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषणैः । गृहप्रवेशसमये नेत्रबन्धं च कारयेत् ॥ १०४ ॥
nagaraṃ pradakṣiṇaṃ kuryātsarvamaṅgalaghoṣaṇaiḥ | gṛhapraveśasamaye netrabandhaṃ ca kārayet || 104 ||
धान्यादिपायसक्षीरसवस्त्रादिधरादिकम् । मङ्गलद्र व्यमाङ्गल्यमखिलं निक्षिपेद्बुधः ॥ १०५ ॥
dhānyādipāyasakṣīrasavastrādidharādikam | maṅgaladra vyamāṅgalyamakhilaṃ nikṣipedbudhaḥ || 105 ||
स्वयमागत्य तद्द्रव्यं राजा हस्तेनोपस्पृशेत् । दुर्भिक्षं च सुभिक्षं च विद्वान् पश्चाद् विनिर्दिशेत् ॥ १०६ ॥
svayamāgatya taddravyaṃ rājā hastenopaspṛśet | durbhikṣaṃ ca subhikṣaṃ ca vidvān paścād vinirdiśet || 106 ||
वीर्यं च विजयं चापि कीर्तिं लक्ष्मीं च निर्दिशेत् । पायसाद्यन्नसंस्पर्शे चान्नवृद्धिः सदा भवेत् ॥ १०७ ॥
vīryaṃ ca vijayaṃ cāpi kīrtiṃ lakṣmīṃ ca nirdiśet | pāyasādyannasaṃsparśe cānnavṛddhiḥ sadā bhavet || 107 ||
ढान्यराशिं करेणैव स्पर्शद्र व्या सुभिक्षकम् । स्वर्णादिलौहरत्नं च प्रजानां श्रीकरं भवेत् ॥ १०८ ॥
ḍhānyarāśiṃ kareṇaiva sparśadra vyā subhikṣakam | svarṇādilauharatnaṃ ca prajānāṃ śrīkaraṃ bhavet || 108 ||
खङ्गाद्यस्त्रं स्पृशेद्वापि शौर्यं तस्य विनिर्दिशेत् । दुद्र व्यस्पर्शनान्तस्य राज्यस्य स्यात्त्वमङ्गलम् ॥ १०९ ॥
khaṅgādyastraṃ spṛśedvāpi śauryaṃ tasya vinirdiśet | dudra vyasparśanāntasya rājyasya syāttvamaṅgalam || 109 ||
द्र व्यादीनां तत्सर्वं रौप्यादिस्पर्शने भवेत् । प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा ॥ ११० ॥
dra vyādīnāṃ tatsarvaṃ raupyādisparśane bhavet | prāptaṃ ca maṅgalaṃ caiva vīraṃ ca vijayaṃ tathā || 110 ||
एते चतुर्विधाः प्रोक्ता चाभिषेका यथोक्तवत् ॥ १११ ॥
ete caturvidhāḥ proktā cābhiṣekā yathoktavat || 111 ||
उक्ताः सर्वाभिषेकाः सकलनृपतिभिः काम्यनित्याख्यकं च । अन्यैर्नैर्मित्तिकाद्यैरपि च यदुचितं तत्तदेवाभिषेकः । इत्थं वेदैः पुराणैः सकलमुनिवरैर्मानसारादिमुख्यैः । विद्वद्भिद्वः शिल्पशास्त्रैरपि च यदुदितं शास्त्रतन्त्रं प्रकुर्यात् ॥ ११२ ॥
uktāḥ sarvābhiṣekāḥ sakalanṛpatibhiḥ kāmyanityākhyakaṃ ca | anyairnairmittikādyairapi ca yaducitaṃ tattadevābhiṣekaḥ | itthaṃ vedaiḥ purāṇaiḥ sakalamunivarairmānasārādimukhyaiḥ | vidvadbhidvaḥ śilpaśāstrairapi ca yaduditaṃ śāstratantraṃ prakuryāt || 112 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).