विहङ्गराजमानं च लक्षणं वक्ष्यतेऽधुना । मूलबेरसेमोत्तुङ्गं त्रिपादमर्धमेव वा ॥ १ ॥
vihaṅgarājamānaṃ ca lakṣaṇaṃ vakṣyate'dhunā | mūlaberasemottuṅgaṃ tripādamardhameva vā || 1 ||
अध्यायः ५९ · गरुडलक्षणम्
garuḍalakṣaṇam
A chapter of the Manasara.
57 versesSanskrit with transliteration
विहङ्गराजमानं च लक्षणं वक्ष्यतेऽधुना । मूलबेरसेमोत्तुङ्गं त्रिपादमर्धमेव वा ॥ १ ॥
vihaṅgarājamānaṃ ca lakṣaṇaṃ vakṣyate'dhunā | mūlaberasemottuṅgaṃ tripādamardhameva vā || 1 ||
उत्सवोच्चं समं वापि द्विगुणं त्रिगुणमेव वा । त्रिगुणार्धाधिकं वापि तच्चतुर्गुणमेव वा ॥ २ ॥
utsavoccaṃ samaṃ vāpi dviguṇaṃ triguṇameva vā | triguṇārdhādhikaṃ vāpi taccaturguṇameva vā || 2 ||
एवं नवोदयं प्रोक्तमुत्तमादि त्रयं त्रयम् । तत्तत्त्रिंशतिकं कृत्वा एकैकांशविवर्धनात् ॥ ३ ॥
evaṃ navodayaṃ proktamuttamādi trayaṃ trayam | tattattriṃśatikaṃ kṛtvā ekaikāṃśavivardhanāt || 3 ||
पञ्चविंशच्छतान्तं स्याद्यच्छुभायादिसंभवम् । अथवाङ्गुलमानेन कल्पयेद् गरुडोदयम् ॥ ४ ॥
pañcaviṃśacchatāntaṃ syādyacchubhāyādisaṃbhavam | athavāṅgulamānena kalpayed garuḍodayam || 4 ||
एकाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् । त्रयोविंशच्छतान्तं स्यान्मानायादिं कारयेत् ॥ ५ ॥
ekāṅgulaṃ samārabhya dvidvyaṅgulavivardhanāt | trayoviṃśacchatāntaṃ syānmānāyādiṃ kārayet || 5 ||
द्विजराजायं वापि मानयेद् गरुडोदयम् । पीठतारसमाध्यर्धं पादोनं द्विगुणं तु वा ॥ ६ ॥
dvijarājāyaṃ vāpi mānayed garuḍodayam | pīṭhatārasamādhyardhaṃ pādonaṃ dviguṇaṃ tu vā || 6 ||
द्विगुणात्पादमाधिक्यं द्विगुणार्धाधिकं तु वा । पादोनत्रिगुणं वापि त्रिगुणं पादमधिकम् ॥ ७ ॥
dviguṇātpādamādhikyaṃ dviguṇārdhādhikaṃ tu vā | pādonatriguṇaṃ vāpi triguṇaṃ pādamadhikam || 7 ||
एवं नवविधं मानं कन्यसादीनि कारयेत् । तदायामसमं वापि त्रिपादं चार्धमेव वा ॥ ८ ॥
evaṃ navavidhaṃ mānaṃ kanyasādīni kārayet | tadāyāmasamaṃ vāpi tripādaṃ cārdhameva vā || 8 ||
उत्तमादि त्रयं प्रोक्तं गरुडस्योदयं विदुः । न कुर्यात्षट्शुभायादि कुर्यात्तदंशमानतः ॥ ९ ॥
uttamādi trayaṃ proktaṃ garuḍasyodayaṃ viduḥ | na kuryātṣaṭśubhāyādi kuryāttadaṃśamānataḥ || 9 ||
स्थानकं चासनं चैव गमनं च यथाविधि । उष्णीषात्पादपर्यन्तं गृहितोत्तुङ्गं मानतः ॥ १० ॥
sthānakaṃ cāsanaṃ caiva gamanaṃ ca yathāvidhi | uṣṇīṣātpādaparyantaṃ gṛhitottuṅgaṃ mānataḥ || 10 ||
तत्तन्मानवशात्केचिन्मूलबेरवशान्न्यसेत् । उत्सवे चोत्सवं प्रोक्तमङ्गुलं मानविश्वतः ॥ ११ ॥
tattanmānavaśātkecinmūlaberavaśānnyaset | utsave cotsavaṃ proktamaṅgulaṃ mānaviśvataḥ || 11 ||
एवं मानं तु संग्राह्य यावत्प्रागुक्तवद् भवेत् । चलं वाप्यचलं वापि कारयेच्छिल्पवित्तमः ॥ १२ ॥
evaṃ mānaṃ tu saṃgrāhya yāvatprāguktavad bhavet | calaṃ vāpyacalaṃ vāpi kārayecchilpavittamaḥ || 12 ||
षड्वर्गायादिषु सुलक्षणं वक्ष्यतेऽधुना । सर्वेषां वाहनानां चायादांश्च यथा तथा ॥ १३ ॥
ṣaḍvargāyādiṣu sulakṣaṇaṃ vakṣyate'dhunā | sarveṣāṃ vāhanānāṃ cāyādāṃśca yathā tathā || 13 ||
यथावाहनतुङ्गे तु वृद्धिहान्या यथाक्रम । गरुडं चैव हंसं च वृषभं चैव सिंहके ॥ १४ ॥
yathāvāhanatuṅge tu vṛddhihānyā yathākrama | garuḍaṃ caiva haṃsaṃ ca vṛṣabhaṃ caiva siṃhake || 14 ||
आयमष्टाभिर्वृद्धिः स्याद् द्वादशाक्षयमेव च । पञ्चवेदैश्च वृद्धिः स्याद् व्ययं हत्वा दशमेव वा ॥ १५ ॥
āyamaṣṭābhirvṛddhiḥ syād dvādaśākṣayameva ca | pañcavedaiśca vṛddhiḥ syād vyayaṃ hatvā daśameva vā || 15 ||
योनिश्च त्रय वृद्धिः स्याद् धृदे चाष्टकमेव च । तदृक्षोऽष्टकवृद्धिः स्याद् गुप्तविंशक्षयो भवेत् ॥ १६ ॥
yoniśca traya vṛddhiḥ syād dhṛde cāṣṭakameva ca | tadṛkṣo'ṣṭakavṛddhiḥ syād guptaviṃśakṣayo bhavet || 16 ||
वारं ग्रहेण वृद्धिः स्यात्सप्तमी च क्षयो भवेत् । अंशं च चतुर्वृद्धिः च नवमी च क्षयो भवेत् ॥ १७ ॥
vāraṃ graheṇa vṛddhiḥ syātsaptamī ca kṣayo bhavet | aṃśaṃ ca caturvṛddhiḥ ca navamī ca kṣayo bhavet || 17 ||
तच्छेषं सर्वमायादि षड्वर्गं चैव कारयेत् । आयाधिक्यं व्ययं हीनं चोत्तरं तु व्ययाधिकम् ॥ १८ ॥
taccheṣaṃ sarvamāyādi ṣaḍvargaṃ caiva kārayet | āyādhikyaṃ vyayaṃ hīnaṃ cottaraṃ tu vyayādhikam || 18 ||
ध्वजो सिंहो वृषो हस्तो शुभयोनिरिति स्मृतम् । सिंहे च गजयोनिश्चेत् शुभं तस्माद्विना गजम् ॥ १९ ॥
dhvajo siṃho vṛṣo hasto śubhayoniriti smṛtam | siṃhe ca gajayoniścet śubhaṃ tasmādvinā gajam || 19 ||
विवत्प्रत्यरगोहस्ति हीनान्यानदिनं शुभम् । सौर्यार्काङ्गारवारं च वर्जयेच्छुभमन्यथा ॥ २० ॥
vivatpratyaragohasti hīnānyānadinaṃ śubham | sauryārkāṅgāravāraṃ ca varjayecchubhamanyathā || 20 ||
तस्करादि न षण्डं च प्रेष्यांशानि विवर्जयेत् । एवमायादिकं कुर्यादङ्गमानं प्रवक्ष्यते ॥ २१ ॥
taskarādi na ṣaṇḍaṃ ca preṣyāṃśāni vivarjayet | evamāyādikaṃ kuryādaṅgamānaṃ pravakṣyate || 21 ||
उवार चरणरविबन्धैः द्वादशार्कार्कभानु । द्वयरसगुणचतुष्कं बन्धकेशाननं च । गलधरमधरगुह्ये स्थाणुजान्वस्त्रिकं तत् । पदमिति गरुडतुङ्गं नन्दतालं क्रमेण ॥ २२ ॥
uvāra caraṇaravibandhaiḥ dvādaśārkārkabhānu | dvayarasaguṇacatuṣkaṃ bandhakeśānanaṃ ca | galadharamadharaguhye sthāṇujānvastrikaṃ tat | padamiti garuḍatuṅgaṃ nandatālaṃ krameṇa || 22 ||
अथ सिंहपदतलानां पञ्चादशदशांशम् ॥ २३ ॥
atha siṃhapadatalānāṃ pañcādaśadaśāṃśam || 23 ||
वदनं द्विगुणं बाह्यायतं कूर्पराक्षं प्रमुखकरैर्याष्टिपदम् । तलातलं तत्कथितमिति पुराणैः सुरिभिस्तत्र तन्त्रज्ञैः ॥ २४ ॥
vadanaṃ dviguṇaṃ bāhyāyataṃ kūrparākṣaṃ pramukhakarairyāṣṭipadam | talātalaṃ tatkathitamiti purāṇaiḥ suribhistatra tantrajñaiḥ || 24 ||
वनविपुलतालं कर्णमष्टांशतारम् । विस्तृतं शरयुगांशं कक्षयोरन्तरस्त्रम् । हृदयविस्तृतं चैकाधिक्यमष्टद्वयांशम् । उदरतति युगष्टं श्रोणितुल्यं च तारम् ॥ २५ ॥
vanavipulatālaṃ karṇamaṣṭāṃśatāram | vistṛtaṃ śarayugāṃśaṃ kakṣayorantarastram | hṛdayavistṛtaṃ caikādhikyamaṣṭadvayāṃśam | udaratati yugaṣṭaṃ śroṇitulyaṃ ca tāram || 25 ||
तस्याधः कटिविशालं सप्तपङ्क्त्यंशं चोरुः । वृत्तं तत्समविशालं मूलपिण्डाष्टभागम् । तत्र जैनन जङ्घामूलविस्तारमध्ये । विस्तृतचर युगांशं गुल्फविस्तारमेव ॥ २६ ॥
tasyādhaḥ kaṭiviśālaṃ saptapaṅktyaṃśaṃ coruḥ | vṛttaṃ tatsamaviśālaṃ mūlapiṇḍāṣṭabhāgam | tatra jainana jaṅghāmūlavistāramadhye | vistṛtacara yugāṃśaṃ gulphavistārameva || 26 ||
पदमिति विपुल भूताङ्गुष्ठदीर्घं गुणांशम् । तदपि च सम विमूह्यातर्जनीदीर्घमुक्तम् । नवपदसदृशमन्यैरङ्गुली चान्यतुर्यम् । नराभिमानं शिल्पिविद्वद्भिरेव ॥ २७ ॥
padamiti vipula bhūtāṅguṣṭhadīrghaṃ guṇāṃśam | tadapi ca sama vimūhyātarjanīdīrghamuktam | navapadasadṛśamanyairaṅgulī cānyaturyam | narābhimānaṃ śilpividvadbhireva || 27 ||
मुनिरसशरयुगंशं बाहुसन्धिप्रदेशे । प्रमुखरविबिशालैर्मध्यमाग्रक्रमेण । अनलमणिविशालां तत्तदायामषड्भिः । प्रसृतरसयुगांशं मध्यमात्रायतं च ॥ २८ ॥
munirasaśarayugaṃśaṃ bāhusandhipradeśe | pramukharavibiśālairmadhyamāgrakrameṇa | analamaṇiviśālāṃ tattadāyāmaṣaḍbhiḥ | prasṛtarasayugāṃśaṃ madhyamātrāyataṃ ca || 28 ||
शरयुगयवाधिकांशानामिका तर्जनीयौ । गुणमलं कनिष्ठदीर्घाङ्गुष्ठकायाममेतत् । त्रयकृतमुखविधिज्ञैः स्मायते चाक्षिकान्तम् । स्फुटमिति मतिः वेन्द्रै श्च सदृक् तारम् ॥ २९ ॥
śarayugayavādhikāṃśānāmikā tarjanīyau | guṇamalaṃ kaniṣṭhadīrghāṅguṣṭhakāyāmametat | trayakṛtamukhavidhijñaiḥ smāyate cākṣikāntam | sphuṭamiti matiḥ vendrai śca sadṛk tāram || 29 ||
भ्रुवयुतनयनकेशान्तयोर्मध्यदेशे । गुणयुतनयनमेवं तत्पुटान्तयोस्तत् । युग यवविहृतदीर्घं तद्गोजिमूलात्तु नाभि । तदुदयविपरीतमंशं विहृतस्याग्रमंशम् ॥ ३० ॥
bhruvayutanayanakeśāntayormadhyadeśe | guṇayutanayanamevaṃ tatpuṭāntayostat | yuga yavavihṛtadīrghaṃ tadgojimūlāttu nābhi | tadudayaviparītamaṃśaṃ vihṛtasyāgramaṃśam || 30 ||
विशालाधिकगोजिकाग्र चोत्तरमष्टार्धमात्रम् । विस्तृततमिव तदुच्चं वेदमात्रायतं च । अधरविहृतपादत्रितुङ्गश्रायतान्तम् । विस्तृतदीर्घशेषमन्तं तु युक्त्या ॥ ३१ ॥
viśālādhikagojikāgra cottaramaṣṭārdhamātram | vistṛtatamiva taduccaṃ vedamātrāyataṃ ca | adharavihṛtapādatrituṅgaśrāyatāntam | vistṛtadīrghaśeṣamantaṃ tu yuktyā || 31 ||
वक्त्रायामं तत्समं नासिकाग्रम् । युक्त्या मानं कर्णरन्ध्रावसानम् । हन्वंशं तं श्रोत्रतुङ्गं तदर्धम् । तदर्धं विस्तारं नालमेवं तथैव ॥ ३२ ॥
vaktrāyāmaṃ tatsamaṃ nāsikāgram | yuktyā mānaṃ karṇarandhrāvasānam | hanvaṃśaṃ taṃ śrotratuṅgaṃ tadardham | tadardhaṃ vistāraṃ nālamevaṃ tathaiva || 32 ||
एवं प्रोक्तानुक्तमानं तु सर्वम् । मानं कुर्यात्पङ्क्तितालोक्तवत् । हावं यावत्कूर्परबन्धकान्तम् । बाहुपक्षौ चाङ्गुलं कञ्चुकेन ॥ ३३ ॥
evaṃ proktānuktamānaṃ tu sarvam | mānaṃ kuryātpaṅktitāloktavat | hāvaṃ yāvatkūrparabandhakāntam | bāhupakṣau cāṅgulaṃ kañcukena || 33 ||
नासिका शुकतुण्डं पदाग्रे । हंसकास्यदंष्ट्रवत्कुर्यात् । श्वेतवर्णनखैरपि वक्त्रयुक् । श्यामवर्णमतितुण्डाग्रके ॥ ३४ ॥
nāsikā śukatuṇḍaṃ padāgre | haṃsakāsyadaṃṣṭravatkuryāt | śvetavarṇanakhairapi vaktrayuk | śyāmavarṇamatituṇḍāgrake || 34 ||
अष्टनागविभूषणपक्षिवत्पक्षयुक् । उग्रदृक् मकुटं सकरण्डकम् । वर्णनीलसमरत्नमण्डलं कृतम् । तप्तहेमनिभं गरुडं भवेत् ॥ ३५ ॥
aṣṭanāgavibhūṣaṇapakṣivatpakṣayuk | ugradṛk makuṭaṃ sakaraṇḍakam | varṇanīlasamaratnamaṇḍalaṃ kṛtam | taptahemanibhaṃ garuḍaṃ bhavet || 35 ||
पञ्चवर्णसमन्त्रितपक्षयुक् । अङ्कुरवत्कर्णशिरावृतम् । कुञ्चितः सहितगमनेऽपि च । सञ्चितस्थितभावमिति स्मृतम् ॥ ३६ ॥
pañcavarṇasamantritapakṣayuk | aṅkuravatkarṇaśirāvṛtam | kuñcitaḥ sahitagamane'pi ca | sañcitasthitabhāvamiti smṛtam || 36 ||
मूर्ध्नि शङ्खं क्षीरवर्णावृतं च । वामे कर्णे पद्मवर्णाभपद्मा । सव्ये कर्णे तन्महापद्ममेव । धुम्रवर्णं हारकार्कोटकं च ॥ ३७ ॥
mūrdhni śaṅkhaṃ kṣīravarṇāvṛtaṃ ca | vāme karṇe padmavarṇābhapadmā | savye karṇe tanmahāpadmameva | dhumravarṇaṃ hārakārkoṭakaṃ ca || 37 ||
गुलिकस्कन्धौ लम्बयेत्कृष्णवर्णम् । व्याधृक्वर्णं वा सङ्गिवक्त्रसूत्रम् । अन्तन्तं शुक्लवर्णाभं वामप्रकोष्ठे । हिरण्यवर्णं तार्क्ष्यकस्य कटकम् ॥ ३८ ॥
gulikaskandhau lambayetkṛṣṇavarṇam | vyādhṛkvarṇaṃ vā saṅgivaktrasūtram | antantaṃ śuklavarṇābhaṃ vāmaprakoṣṭhe | hiraṇyavarṇaṃ tārkṣyakasya kaṭakam || 38 ||
केचित्तच्छ्रयार्थं तु तार्क्ष्ये वर्णं विशेषतः । केशान्तात्कर्णसीमान्तं श्यामनीलाग्रसीमकम् ॥ ३९ ॥
kecittacchrayārthaṃ tu tārkṣye varṇaṃ viśeṣataḥ | keśāntātkarṇasīmāntaṃ śyāmanīlāgrasīmakam || 39 ||
भित्तिकाद्धृदयान्तं च तद्द्वयो कूर्परान्तकौ । पञ्चवर्णसमं श्रितपक्षकांशुककञ्चुकी ॥ ४० ॥
bhittikāddhṛdayāntaṃ ca taddvayo kūrparāntakau | pañcavarṇasamaṃ śritapakṣakāṃśukakañcukī || 40 ||
हृदयात्कटिसूत्रान्तं प्रकोष्ठादिकराग्रयोः । पीतवर्णमिति प्रोक्तं तस्माद् जानुकान्तकम् ॥ ४१ ॥
hṛdayātkaṭisūtrāntaṃ prakoṣṭhādikarāgrayoḥ | pītavarṇamiti proktaṃ tasmād jānukāntakam || 41 ||
रक्तवर्णं तु पादान्तं श्वेतवर्णनिभं भवेत् । द्विभुजाग्रं च वक्त्रं च द्विपादौ कुञ्चितौ भवेत् ॥ ४२ ॥
raktavarṇaṃ tu pādāntaṃ śvetavarṇanibhaṃ bhavet | dvibhujāgraṃ ca vaktraṃ ca dvipādau kuñcitau bhavet || 42 ||
स्थानकं चासनं वापि विष्णुं ध्यात्वा कृताञ्जलिः । सर्वालङ्कारसंयुक्तं ग्रामे स्थाप्यं स्वतन्त्रकम् ॥ ४३ ॥
sthānakaṃ cāsanaṃ vāpi viṣṇuṃ dhyātvā kṛtāñjaliḥ | sarvālaṅkārasaṃyuktaṃ grāme sthāpyaṃ svatantrakam || 43 ||
एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीः । अभिचारादिकाम्यर्थं तार्क्ष्यरूपं विशेषतः ॥ ४४ ॥
evamaiśvaryasiddhiḥ syāttanmātrairarcayetsudhīḥ | abhicārādikāmyarthaṃ tārkṣyarūpaṃ viśeṣataḥ || 44 ||
पाद स्थानकं कुर्याद् वक्त्रं चासनं भागतः । सर्वाङ्गं स्वर्णवर्णं स्यात्पक्षकञ्चुकिपूर्वकम् ॥ ४५ ॥
pāda sthānakaṃ kuryād vaktraṃ cāsanaṃ bhāgataḥ | sarvāṅgaṃ svarṇavarṇaṃ syātpakṣakañcukipūrvakam || 45 ||
वपुषं तु निर्वाणमधोहस्तौ कृताञ्जलिम् । शीर्षं च सिंहपत्रैश्च संयुक्तं पञ्चवर्णयुक् ॥ ४६ ॥
vapuṣaṃ tu nirvāṇamadhohastau kṛtāñjalim | śīrṣaṃ ca siṃhapatraiśca saṃyuktaṃ pañcavarṇayuk || 46 ||
नाभिषेकं शिरोर्ध्वे तु कुक्कुटस्य शिरोऽग्रवत् । रक्तवर्णं तु पुच्छाग्रं पञ्चमान्तं तदायतम् ॥ ४७ ॥
nābhiṣekaṃ śirordhve tu kukkuṭasya śiro'gravat | raktavarṇaṃ tu pucchāgraṃ pañcamāntaṃ tadāyatam || 47 ||
घनं चोर्ध्ववक्त्रं च न प्रच्छादनमास्यकम् । सप्ताष्टपूर्ववत्साङ्गेर्वर्णवैपर्यं विश्वतः ॥ ४८ ॥
ghanaṃ cordhvavaktraṃ ca na pracchādanamāsyakam | saptāṣṭapūrvavatsāṅgervarṇavaiparyaṃ viśvataḥ || 48 ||
सौग्रामे क्षेत्रसीमान्ते चान्यग्र निरीक्षणम् । क्षणिकालयं संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥ ४९ ॥
saugrāme kṣetrasīmānte cānyagra nirīkṣaṇam | kṣaṇikālayaṃ saṃsthāpya pūjayettantravittamaḥ || 49 ||
त्रिनाडि त्रिदिने वापि त्रिपक्षे वा त्रिमासके । नित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥ ५० ॥
trināḍi tridine vāpi tripakṣe vā trimāsake | nityaṃ trikālaṃ saṃpūjya śatrunāśaṃ na saṃśayaḥ || 50 ||
रिपुसंग्रहणार्थं चेद्धस्तौ रात्रौ च कारयेत् । युद्धकाले रिपुसंभं स्तम्भं हस्तौ च बन्धनम् ॥ ५१ ॥
ripusaṃgrahaṇārthaṃ ceddhastau rātrau ca kārayet | yuddhakāle ripusaṃbhaṃ stambhaṃ hastau ca bandhanam || 51 ||
शिलामृण्मये वापि दारुजे कटिशर्करा । एतेषां वैनतेयं च वर्णसंस्कारमेव च ॥ ५२ ॥
śilāmṛṇmaye vāpi dāruje kaṭiśarkarā | eteṣāṃ vainateyaṃ ca varṇasaṃskārameva ca || 52 ||
त्रिंशत्यंशमग्रपक्षम् । तस्मादूके पक्षकैकांशहीनम् । तद्वदग्रे मूलतारं शरांशम् । पक्षैः सर्वैश्चाग्रतारं यथेष्टम् ॥ ५३ ॥
triṃśatyaṃśamagrapakṣam | tasmādūke pakṣakaikāṃśahīnam | tadvadagre mūlatāraṃ śarāṃśam | pakṣaiḥ sarvaiścāgratāraṃ yatheṣṭam || 53 ||
बाह्याबाह्ये पक्षसंयुक्तमेतत् । बाह्योश्चाग्रे संयुक्तं चाग्रपत्रम् । मानं कृत्वा पञ्चपक्षैः प्रधानम् । मानानुक्तं कन्यसा शोभनार्थम् ॥ ५४ ॥
bāhyābāhye pakṣasaṃyuktametat | bāhyoścāgre saṃyuktaṃ cāgrapatram | mānaṃ kṛtvā pañcapakṣaiḥ pradhānam | mānānuktaṃ kanyasā śobhanārtham || 54 ||
पीतं श्वेतं श्यामरक्तं च कृष्णम् । मूलाग्रान्तं पञ्चवर्णं क्रमेण ॥ ५५ ॥
pītaṃ śvetaṃ śyāmaraktaṃ ca kṛṣṇam | mūlāgrāntaṃ pañcavarṇaṃ krameṇa || 55 ||
मालावर्धांशवत् कर्णसंयुक्तम् । श्रोण्यां च पक्षैः पङ्क्तितः पक्षधा स्यात् । वक्त्रं तुङ्गं विस्तृतं विहीनके । कर्तुर्मरणं न संशयः ॥ ५६ ॥
mālāvardhāṃśavat karṇasaṃyuktam | śroṇyāṃ ca pakṣaiḥ paṅktitaḥ pakṣadhā syāt | vaktraṃ tuṅgaṃ vistṛtaṃ vihīnake | karturmaraṇaṃ na saṃśayaḥ || 56 ||
यत्र मानं विधिवत्प्रकारयेत्पुत्रवृद्धिः ॥ ५७ ॥
yatra mānaṃ vidhivatprakārayetputravṛddhiḥ || 57 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).