वृषभस्य लक्षणं सम्यग्वक्ष्यते विधिनाधुना । वायोरभिमुखं स्थाप्य पीठे वाथोत्सवेपि वा ॥ १ ॥
vṛṣabhasya lakṣaṇaṃ samyagvakṣyate vidhinādhunā | vāyorabhimukhaṃ sthāpya pīṭhe vāthotsavepi vā || 1 ||
अध्यायः ६० · वृषभलक्षणम्
vṛṣabhalakṣaṇam
A chapter of the Manasara.
35 versesSanskrit with transliteration
वृषभस्य लक्षणं सम्यग्वक्ष्यते विधिनाधुना । वायोरभिमुखं स्थाप्य पीठे वाथोत्सवेपि वा ॥ १ ॥
vṛṣabhasya lakṣaṇaṃ samyagvakṣyate vidhinādhunā | vāyorabhimukhaṃ sthāpya pīṭhe vāthotsavepi vā || 1 ||
विमाने मण्डपे वापि चारोपरि परिन्यसेत् । द्वारतुङ्गसमं श्रेष्ठं त्रिभागं मध्यमं भवेत् ॥ २ ॥
vimāne maṇḍape vāpi cāropari parinyaset | dvāratuṅgasamaṃ śreṣṭhaṃ tribhāgaṃ madhyamaṃ bhavet || 2 ||
कन्यसं द्विभागं स्यात्त्रिविधं वृषभोदयम् । एकहस्तं समारभ्य एकहस्तेन वर्धनात् ॥ ३ ॥
kanyasaṃ dvibhāgaṃ syāttrividhaṃ vṛṣabhodayam | ekahastaṃ samārabhya ekahastena vardhanāt || 3 ||
नवहस्तान्तमुत्सेधं कन्यसादि त्रयं त्रयम् । पञ्चविंशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ४ ॥
navahastāntamutsedhaṃ kanyasādi trayaṃ trayam | pañcaviṃśāṅgulamārabhya dvidvyaṅgulavivardhanāt || 4 ||
एकत्रिंशति मात्रान्तं यः शुभायादिसंभवम् । बेरोत्सेधसमं श्रेष्ठं कर्णान्तं मध्यमं भवेत् ॥ ५ ॥
ekatriṃśati mātrāntaṃ yaḥ śubhāyādisaṃbhavam | berotsedhasamaṃ śreṣṭhaṃ karṇāntaṃ madhyamaṃ bhavet || 5 ||
बाह्वन्तं कन्यसं प्रोक्तमुत्सवं वृषभोदयम् । पीठायामे त्रिभागैकं पीठतारसमं तु वा ॥ ६ ॥
bāhvantaṃ kanyasaṃ proktamutsavaṃ vṛṣabhodayam | pīṭhāyāme tribhāgaikaṃ pīṭhatārasamaṃ tu vā || 6 ||
पीठतारं त्रिपादं स्यात्त्रिविधं वृषभोदयम् । पादादुष्णीषसीमान्तं स्थानकं मानसंग्रहम् ॥ ७ ॥
pīṭhatāraṃ tripādaṃ syāttrividhaṃ vṛṣabhodayam | pādāduṣṇīṣasīmāntaṃ sthānakaṃ mānasaṃgraham || 7 ||
स्थानकं शयनं वापि लोहजे वा शिलेऽथवा । दार्वाभासरत्नेन सुधामृतकटशर्करा ॥ ८ ॥
sthānakaṃ śayanaṃ vāpi lohaje vā śile'thavā | dārvābhāsaratnena sudhāmṛtakaṭaśarkarā || 8 ||
घनं वाप्यघनं वापि कुर्यात्तु शिल्पिवित्तमः । एवं तु वृषभोत्सेधं पञ्चादशाङ्गुलं भवेत् ॥ ९ ॥
ghanaṃ vāpyaghanaṃ vāpi kuryāttu śilpivittamaḥ | evaṃ tu vṛṣabhotsedhaṃ pañcādaśāṅgulaṃ bhavet || 9 ||
उष्णीषात्तु गलाग्रान्तं दशमात्रं प्रशस्यते । तस्याधो वसुभागं स्याद् ग्रीवतुङ्गमिति स्मृतम् ॥ १० ॥
uṣṇīṣāttu galāgrāntaṃ daśamātraṃ praśasyate | tasyādho vasubhāgaṃ syād grīvatuṅgamiti smṛtam || 10 ||
तस्याधो चोरुमूलान्तं षोडशाङ्गुलमेव च । षडङ्गुलं चोरुदीर्घं द्विमात्रं जानुतुङ्गकम् ॥ ११ ॥
tasyādho corumūlāntaṃ ṣoḍaśāṅgulameva ca | ṣaḍaṅgulaṃ corudīrghaṃ dvimātraṃ jānutuṅgakam || 11 ||
जङ्घा चोरुसमं दीर्घं क्षुरोत्सेधं द्विमात्रकम् । ग्रीवात्तु पुच्छमूलान्तं चत्वारिंशाङ्गुलायतम् ॥ १२ ॥
jaṅghā corusamaṃ dīrghaṃ kṣurotsedhaṃ dvimātrakam | grīvāttu pucchamūlāntaṃ catvāriṃśāṅgulāyatam || 12 ||
शृङ्गायामं युगाङ्गुल्यं शृङ्गतारं त्रिमात्रकम् । तदष्टांशैकभागं स्यात् शृङ्गाग्रस्य विशालकम् ॥ १३ ॥
śṛṅgāyāmaṃ yugāṅgulyaṃ śṛṅgatāraṃ trimātrakam | tadaṣṭāṃśaikabhāgaṃ syāt śṛṅgāgrasya viśālakam || 13 ||
फालतारं नवाङ्गुल्यं मुखतारं शराङ्गुलम् । तत्समं चोच्छ्रयं कुर्यान्नेत्रायामं द्वयाङ्गुलम् ॥ १४ ॥
phālatāraṃ navāṅgulyaṃ mukhatāraṃ śarāṅgulam | tatsamaṃ cocchrayaṃ kuryānnetrāyāmaṃ dvayāṅgulam || 14 ||
अत्यर्धाङ्गुलमुत्सेधं निर्गमं सार्धमात्रकम् । नेत्रमध्ये मुखायाममष्टाङ्गुलमिति स्मृतम् ॥ १५ ॥
atyardhāṅgulamutsedhaṃ nirgamaṃ sārdhamātrakam | netramadhye mukhāyāmamaṣṭāṅgulamiti smṛtam || 15 ||
तस्मात्कृकरकान्तं स्यात्षण्मात्रं तदुदाहृतम् । शृङ्गमध्यं युगाङ्गुल्यं भालतुङ्गं तथैव च ॥ १६ ॥
tasmātkṛkarakāntaṃ syātṣaṇmātraṃ tadudāhṛtam | śṛṅgamadhyaṃ yugāṅgulyaṃ bhālatuṅgaṃ tathaiva ca || 16 ||
नेत्रान्मूलान्तं वेदमात्रान्तरं भवेत् । शरांशं श्रोत्रदीर्घं स्याच्छ्रोत्रमूलं द्विमात्रकम् ॥ १७ ॥
netrānmūlāntaṃ vedamātrāntaraṃ bhavet | śarāṃśaṃ śrotradīrghaṃ syācchrotramūlaṃ dvimātrakam || 17 ||
तत्समं विस्तृतं चैव मध्यतारं युगाङ्गुलम् । शिवाङ्गुलाग्रवितारं यथाहलमर्धाङ्गुलम् ॥ १८ ॥
tatsamaṃ vistṛtaṃ caiva madhyatāraṃ yugāṅgulam | śivāṅgulāgravitāraṃ yathāhalamardhāṅgulam || 18 ||
अत्यर्धाङ्गुलं संप्रोक्तं नासिकायाममेव च । अङ्गुलं सुरविस्तारं तत्समं नासिकाग्रकम् ॥ १९ ॥
atyardhāṅgulaṃ saṃproktaṃ nāsikāyāmameva ca | aṅgulaṃ suravistāraṃ tatsamaṃ nāsikāgrakam || 19 ||
पञ्चाङ्गुल स्यायतं स्यादुत्तरोष्ठं त्रिमात्रकम् । अधरोष्ठं त्रिमात्रं स्याज्जिह्वायामं गुणांशकम् ॥ २० ॥
pañcāṅgula syāyataṃ syāduttaroṣṭhaṃ trimātrakam | adharoṣṭhaṃ trimātraṃ syājjihvāyāmaṃ guṇāṃśakam || 20 ||
तद्विस्तारं द्विमात्रं स्यात्तदर्धं तद् घनं भवेत् । ग्रीवतारं तु पञ्चांशं मूलतारं त्रिमात्रकम् ॥ २१ ॥
tadvistāraṃ dvimātraṃ syāttadardhaṃ tad ghanaṃ bhavet | grīvatāraṃ tu pañcāṃśaṃ mūlatāraṃ trimātrakam || 21 ||
पृष्ठग्रीवस्य मूले तु घनमष्टाङ्गुलं भवेत् । अग्रं षडङ्गुलं चैव कुर्याद् वासं षडङ्गुलम् ॥ २२ ॥
pṛṣṭhagrīvasya mūle tu ghanamaṣṭāṅgulaṃ bhavet | agraṃ ṣaḍaṅgulaṃ caiva kuryād vāsaṃ ṣaḍaṅgulam || 22 ||
तदुत्सेधं चतुर्मात्रं ग्रीवात्वे लम्बनं बुधः । मूलमध्याग्रविस्तारं वेदबद्धकलाङ्गुलम् ॥ २३ ॥
tadutsedhaṃ caturmātraṃ grīvātve lambanaṃ budhaḥ | mūlamadhyāgravistāraṃ vedabaddhakalāṅgulam || 23 ||
घनमष्टाङ्गुलसंयुक्तं कुर्यात्तत्रैव योजयेत् । ग्रीवस्य पुरतो बिम्बं मूलव्यास द्वयाङ्गुलम् ॥ २४ ॥
ghanamaṣṭāṅgulasaṃyuktaṃ kuryāttatraiva yojayet | grīvasya purato bimbaṃ mūlavyāsa dvayāṅgulam || 24 ||
हृदयात्स्निग्धपर्यन्तं तत्रोच्चं द्विर्नवाङ्गुलम् । पृष्ठोच्चं मनुमात्रं स्यात्पृष्ठतारं चतुस्त्रयम् ॥ २५ ॥
hṛdayātsnigdhaparyantaṃ tatroccaṃ dvirnavāṅgulam | pṛṣṭhoccaṃ manumātraṃ syātpṛṣṭhatāraṃ catustrayam || 25 ||
पृष्ठोरुमूलविस्तारं दशमात्रं प्रशस्यते । मध्यमं चाष्टमात्रं स्यादग्रं तु चतुरङ्गुलम् ॥ २६ ॥
pṛṣṭhorumūlavistāraṃ daśamātraṃ praśasyate | madhyamaṃ cāṣṭamātraṃ syādagraṃ tu caturaṅgulam || 26 ||
शराङ्गुलं चोरुदीर्घं स्याज्जानुतुङ्गं कलाङ्गुलम् । जङ्गायामं शराङ्गुल्यं खुरतुङ्गं द्विमात्रकम् ॥ २७ ॥
śarāṅgulaṃ corudīrghaṃ syājjānutuṅgaṃ kalāṅgulam | jaṅgāyāmaṃ śarāṅgulyaṃ khuratuṅgaṃ dvimātrakam || 27 ||
सार्धवह्न्यङ्गुलं जानुविस्तारं परिकीर्तितम् । खुरायामं द्विमात्रं स्यात्पुच्छमूलं द्विमात्रकम् ॥ २८ ॥
sārdhavahnyaṅgulaṃ jānuvistāraṃ parikīrtitam | khurāyāmaṃ dvimātraṃ syātpucchamūlaṃ dvimātrakam || 28 ||
अपरोरुद्वयोर्मध्ये मुष्कशेषोदरान्वितम् । स्कन्धतारं षडङ्गुल्यं तस्याधो रुविशालकम् ॥ २९ ॥
aparorudvayormadhye muṣkaśeṣodarānvitam | skandhatāraṃ ṣaḍaṅgulyaṃ tasyādho ruviśālakam || 29 ||
मूलं वेदाङ्गुलं प्रोक्तमग्रस्यार्धगुणाङ्गुलम् । जानुतारं गुणाङ्गुल्यं तथो जङ्घाविशालकम् ॥ ३० ॥
mūlaṃ vedāṅgulaṃ proktamagrasyārdhaguṇāṅgulam | jānutāraṃ guṇāṅgulyaṃ tatho jaṅghāviśālakam || 30 ||
सार्ध द्व्यङ्गुलयोर्मध्ये तत्समं तत्खुरं भवेत् । शेषं युक्त्या च संयुक्तं श्वेतवर्णे शोभितम् ॥ ३१ ॥
sārdha dvyaṅgulayormadhye tatsamaṃ tatkhuraṃ bhavet | śeṣaṃ yuktyā ca saṃyuktaṃ śvetavarṇe śobhitam || 31 ||
श्वेतवर्णनिभं भद्र मग्रं हि कृष्णसधूमवत् ॥ ३२ ॥
śvetavarṇanibhaṃ bhadra magraṃ hi kṛṣṇasadhūmavat || 32 ||
वेदपादखुरैरपि कर्णयोः । श्वेतरक्तसमग्रमनोहरम् । शङ्खशत्यैः क्षणमरक्तं च माला । कर्णबन्धैः कर्णरुद्रा क्षमाला ॥ ३३ ॥
vedapādakhurairapi karṇayoḥ | śvetaraktasamagramanoharam | śaṅkhaśatyaiḥ kṣaṇamaraktaṃ ca mālā | karṇabandhaiḥ karṇarudrā kṣamālā || 33 ||
अन्यैर्युक्तं किंशुकपुष्पमालैः । वंशस्योर्ध्वे व्याघ्रचर्माभिरामम् । भृङ्गकोलकललाटपट्टधृक् । पत्रवल्लिबहुरत्नशोभितम् ॥ ३४ ॥
anyairyuktaṃ kiṃśukapuṣpamālaiḥ | vaṃśasyordhve vyāghracarmābhirāmam | bhṛṅgakolakalalāṭapaṭṭadhṛk | patravallibahuratnaśobhitam || 34 ||
कर्णयोर्वपुरपार्श्वचामरैः । पादनूपुरसभूषणान्वितम् ॥ ३५ ॥
karṇayorvapurapārśvacāmaraiḥ | pādanūpurasabhūṣaṇānvitam || 35 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).