Mitakshara 2.185
इत्य् आत्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायां च"आततायिनम् अकूटशस्त्रेण घ्नन् न दण्डभाक्" इत्य् उक्त्वा तस्यार्थवादार्थम् इदम् उच्यते, "गुरुं वा बालवृद्धौ वा" इत्यादि । गुर्वादीन् अत्यन्तावध्यान् अप्य् आततायिनो हन्यात् किम् उतान्यान् इति । वाशब्दश्रवणाद् अपि वेदान्तगम् इत्य् अत्र अपिशब्दश्रवणान् न गुर्वादीनां वध्यत्वप्रतीतिः, नाततायिवधे दोषो ऽन्यत्र गोब्राह्मणवधात् । इति सुमन्तुवचनाच् च, आचार्यं च प्रवक्तारं मातरं पितरं गुरुम् । न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥
ity ātmarakṣaṇe dakṣiṇādīnāṃ yajñopakaraṇānāṃ ca rakṣaṇe yuddhe ca strībrāhmaṇahiṃsāyāṃ ca"ātatāyinam akūṭaśastreṇa ghnan na daṇḍabhāk" ity uktvā tasyārthavādārtham idam ucyate, "guruṃ vā bālavṛddhau vā" ityādi | gurvādīn atyantāvadhyān apy ātatāyino hanyāt kim utānyān iti | vāśabdaśravaṇād api vedāntagam ity atra apiśabdaśravaṇān na gurvādīnāṃ vadhyatvapratītiḥ, nātatāyivadhe doṣo 'nyatra gobrāhmaṇavadhāt | iti sumantuvacanāc ca, ācāryaṃ ca pravaktāraṃ mātaraṃ pitaraṃ gurum | na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ ||