Skip to content

Mitakshara 2.252

इति, तद् अपि पित्रा सह पूर्वतरैस् त्रिभिर् इति योज्यम् । तत्रापि "क्रमात् त्रिपुरुषागतम्" इत्य् अस्मार्तकालोपभोगलक्षणम् । त्रिपुरुषविवक्षायाम् एकवर्षाभ्यन्तरे ऽपि पुरुषत्रयातिक्रमसंभवात्, द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसण्गः । तथा सति, स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते । इति स्मृतिविरोधः । "अन्यायेनापि यद् भुक्तम्" इत्य् एतच् चान्यायेनापि भुक्तम् अपहर्तुं न शक्यं किं पुनर् अन्यायानिश्चये इत् व्याख्येयम्, अपिशब्दश्रवणात् । यच् चोक्तं हारीतेन । यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् । न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

iti, tad api pitrā saha pūrvatarais tribhir iti yojyam | tatrāpi "kramāt tripuruṣāgatam" ity asmārtakālopabhogalakṣaṇam | tripuruṣavivakṣāyām ekavarṣābhyantare 'pi puruṣatrayātikramasaṃbhavāt, dvitīye varṣe nirāgamasya bhogasya prāmāṇyaprasaṇgaḥ | tathā sati, smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate | iti smṛtivirodhaḥ | "anyāyenāpi yad bhuktam" ity etac cānyāyenāpi bhuktam apahartuṃ na śakyaṃ kiṃ punar anyāyāniścaye it vyākhyeyam, apiśabdaśravaṇāt | yac coktaṃ hārītena | yad vināgamam atyantaṃ bhuktaṃ pūrvais tribhir bhavet | na tac chakyam apāhartuṃ kramāt tripuruṣāgatam ||

Report an error