Mitakshara 2.83
श्रुतो भाषार्थो येन प्रत्यर्थिना ऽसौ श्रुतार्थः तस्योत्तरं पूर्वपक्षाद् उत्तररत्र भवतीत्य् उत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत् पूर्वोक्तस्य निराकरणं तद् उच्यते । यथाह । पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् । अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥
śruto bhāṣārtho yena pratyarthinā 'sau śrutārthaḥ tasyottaraṃ pūrvapakṣād uttararatra bhavatīty uttaraṃ lekhyaṃ lekhanīyam | pūrvāvedakasyārthinaḥ saṃnidhau samīpe uttaraṃ ca yat pūrvoktasya nirākaraṇaṃ tad ucyate | yathāha | pakṣasya vyāpakaṃ sāram asaṃdigdham anākulam | avyākhyāgamyam ity etad uttaraṃ tadvido viduḥ ||