Mitakshara 2.85
तच् च चतुर्विधम्: संप्रतिपत्तिर् मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश् चेति । तथाह कात्यायनः: सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वन्यायविधिश् चैवम् उत्तरं स्याच् चतुर्विधम् ॥
tac ca caturvidham: saṃpratipattir mithyā pratyavaskandanaṃ pūrvanyāyaś ceti | tathāha kātyāyanaḥ: satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā | pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham ||