( समन्तादवलोक्य ) अये ! कथं मृदङ्गः, अयं दर्दुरः, अयं पणवः, ।
इयमपि वीणा, एते वंशाः, अमी पुस्तकाः; कथं नाट्याचार्यस्य ।
गृहमिदम् । अथवा भवनप्रत्ययात्प्रविष्टोऽस्मि । तत्किं परमार्थदरिद्रोऽयम् , ।
उत राजभयाचौरभयाद्वा भूमिष्ठं द्रव्यं धारयति । तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् । भवतु बीज प्रक्षिपामि । ( तथा कृत्वा ) ।
निक्षिप्तं बीजं न क्वचित्स्फारीभवति । अये, परमार्थदरिद्रोऽयम् ।
भवतु गच्छामि ।
विदूषकः--( उत्स्वप्नायते ) भो वअस्स ! संधी विअ दिज्जदि, ।
चोरं विअ पेक्खामि, ता गेण्हदु भवं एवं सुवण्णभंडअं । [ भो वयस्य ! ।
संधिरिव दृश्यते, चौरमिव पश्यामि, तद्गृह्णातु भवानिदं सुवर्ण ।
भाण्डम् ।] ।
शर्विलकः--किं न खल्वयमिह मां प्रविष्ठं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति ? । तर्कि व्यापादयामि उत लधुत्वादुत्त्स्वप्नायते ? । ( दृष्ट्वा ) ।
अये, जर्जरस्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलंकरणभाएडम् ।
भवतु, गृह्णामि । अथवा ने युक्तं तुल्यावस्थं कुलपुत्रजनं ।
पीडयितुम् , तद्गच्छामि ।
विदुषकः --भो वअस्स ! साविदोसि गोबम्हणकामाए, जइ एदं ।
सुवण्णभडअं ण गेण्हसि । [ भो वयस्य ! शापितोऽसि गोब्राह्मणकाम्यया, ।
यद्येतरसुवर्णभाण्डं न गृह्णासि ।] ।
शर्विलकः----अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या ।
च तद्गगृह्णामि । अथवा ज्वलति प्रदीपः । अस्ति च मया प्रदीपनिर्वाप- ।
णार्थमाग्नेयः कीटो धार्यते । तं तावन्प्रवेशयामि । तस्यायं देशकालः ।
एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैविंचरितुम् ।
एष पक्षद्वयानिलेन निर्वापितो भद्रपीठेन धिक्कृतमन्धकारम् । अथवा ।
मयाप्यस्मद्ब्राह्मणकुलेन धिक्कृतमन्धकारम् । अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणो गणिकामदनिकार्थमकार्यमनुतिष्टामि ।
इदानीं करोति ब्राह्मणस्य प्रणयम् । ( इति जिघृक्षति ।
विदूषकः - भो वअस्स ! सीदलो दे अग्गहत्थो। [भो वयस्य ! ।
शीतलस्तेऽग्रहस्तः ।] ।
शर्विलकः-धिक्प्रमादः । सलिलसंपर्काच्छीतलो मेऽग्रहस्तः ।
भवतु, कक्षयोर्हस्तं प्रक्षिपामि । ( नाट्येन सव्यहस्तमुष्णीकृत्य गृह्णाति ) ।
विदूषकः--गहिदं । [गृहीतम् ।] ।
शर्विलकः-अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गृहीतम् ।
विदषकः--दाणिं विक्किणिदपण्णो विअ वाणिओ, अहं सुहंं ।
सुविसं । [ इदानीं विक्रीतपण्य इव वणिक्, अहं सुखं स्वप्स्यामि ।] ।
शर्विलकः-महाबाह्मण ! स्वपिहि वर्षशतम् । कष्टमेवं मदनिकागणिकार्थे ब्राह्मणकुलं तमसि पातितम् , अथवा आत्मा पातितः ? ।
धिगस्तु खलु दारिद्यमनिर्वेदितपौरुषम् ।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥ १९ ॥
( samantādavalokya ) aye ! kathaṃ mṛdaṅgaḥ, ayaṃ darduraḥ, ayaṃ paṇavaḥ, |
iyamapi vīṇā, ete vaṃśāḥ, amī pustakāḥ; kathaṃ nāṭyācāryasya |
gṛhamidam | athavā bhavanapratyayātpraviṣṭo'smi | tatkiṃ paramārthadaridro'yam , |
uta rājabhayācaurabhayādvā bhūmiṣṭhaṃ dravyaṃ dhārayati | tanmamāpi nāma śarvilakasya bhūmiṣṭhaṃ dravyam | bhavatu bīja prakṣipāmi | ( tathā kṛtvā ) |
nikṣiptaṃ bījaṃ na kvacitsphārībhavati | aye, paramārthadaridro'yam |
bhavatu gacchāmi |
vidūṣakaḥ--( utsvapnāyate ) bho vaassa ! saṃdhī via dijjadi, |
coraṃ via pekkhāmi, tā geṇhadu bhavaṃ evaṃ suvaṇṇabhaṃḍaaṃ | [ bho vayasya ! |
saṃdhiriva dṛśyate, cauramiva paśyāmi, tadgṛhṇātu bhavānidaṃ suvarṇa |
bhāṇḍam |] |
śarvilakaḥ--kiṃ na khalvayamiha māṃ praviṣṭhaṃ jñātvā daridro'smītyupahasati ? | tarki vyāpādayāmi uta ladhutvāduttsvapnāyate ? | ( dṛṣṭvā ) |
aye, jarjarasnānaśāṭīnibaddhaṃ dīpaprabhayoddīpitaṃ satyamevaitadalaṃkaraṇabhāeḍam |
bhavatu, gṛhṇāmi | athavā ne yuktaṃ tulyāvasthaṃ kulaputrajanaṃ |
pīḍayitum , tadgacchāmi |
viduṣakaḥ --bho vaassa ! sāvidosi gobamhaṇakāmāe, jai edaṃ |
suvaṇṇabhaḍaaṃ ṇa geṇhasi | [ bho vayasya ! śāpito'si gobrāhmaṇakāmyayā, |
yadyetarasuvarṇabhāṇḍaṃ na gṛhṇāsi |] |
śarvilakaḥ----anatikramaṇīyā bhagavatī gokāmyā brāhmaṇakāmyā |
ca tadgagṛhṇāmi | athavā jvalati pradīpaḥ | asti ca mayā pradīpanirvāpa- |
ṇārthamāgneyaḥ kīṭo dhāryate | taṃ tāvanpraveśayāmi | tasyāyaṃ deśakālaḥ |
eṣa mukto mayā kīṭo yātvevāsya dīpasyopari maṇḍalairvicitraiviṃcaritum |
eṣa pakṣadvayānilena nirvāpito bhadrapīṭhena dhikkṛtamandhakāram | athavā |
mayāpyasmadbrāhmaṇakulena dhikkṛtamandhakāram | ahaṃ hi caturvedavido'pratigrāhakasya putraḥ śarvilako nāma brāhmaṇo gaṇikāmadanikārthamakāryamanutiṣṭāmi |
idānīṃ karoti brāhmaṇasya praṇayam | ( iti jighṛkṣati |
vidūṣakaḥ - bho vaassa ! sīdalo de aggahattho| [bho vayasya ! |
śītalaste'grahastaḥ |] |
śarvilakaḥ-dhikpramādaḥ | salilasaṃparkācchītalo me'grahastaḥ |
bhavatu, kakṣayorhastaṃ prakṣipāmi | ( nāṭyena savyahastamuṣṇīkṛtya gṛhṇāti ) |
vidūṣakaḥ--gahidaṃ | [gṛhītam |] |
śarvilakaḥ-anatikramaṇīyo'yaṃ brāhmaṇapraṇayaḥ, tadgṛhītam |
vidaṣakaḥ--dāṇiṃ vikkiṇidapaṇṇo via vāṇio, ahaṃ suhaṃṃ |
suvisaṃ | [ idānīṃ vikrītapaṇya iva vaṇik, ahaṃ sukhaṃ svapsyāmi |] |
śarvilakaḥ-mahābāhmaṇa ! svapihi varṣaśatam | kaṣṭamevaṃ madanikāgaṇikārthe brāhmaṇakulaṃ tamasi pātitam , athavā ātmā pātitaḥ ? |
dhigastu khalu dāridyamanirveditapauruṣam |
yadetadgarhitaṃ karma nindāmi ca karomi ca || 19 ||