Skip to content

Mricchakatika 3.7

विदूषकः----भो, एदं अम्हाणं गेहू । वड्ढमाणअ, वड्ढमाणअ ! । उग्घाटेहि दुआरअं । [ भोः, इदमस्माकं गेहम् । वर्धमानक, वर्धमानक ! उद्धादय द्वारम् ।] । चेटः-अज्जामित्तेअस्स शुलशंजोए शुणीअदि । आगदे अज्जचालुदते । ता जाव दुआलअं शे उग्घाटेमि । ( तथा कृत्वा ) अज्ज ! । वंदामि । मित्तेअ ! तुम पि वदामि । एत्थ वित्थिण्णे आशणे णिशी- । ददु अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्यचारुदत्तः । तद्यावद्द्वारमस्योद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! त्वामपि वन्दे । अत्र । विस्तीर्णआसने निषीदतमार्यौ । (उभौ नाट्येन प्रविश्योपविशतः ) । विदूषकः--वड्ढमाणअ ! रआणिअं सद्दावेहि पादाइं धोइदुं । [ वर्धमानक ! रदनिकामाकारय पादौ धावितुम् ।] । चारुदत्तः---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् । चेटः---अज्जमित्तेअ ! अहं पाणिअं गेण्हे । तुमं पादाइं धोवेहि । [ अर्यमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव । विदूषकः—(सक्रोधम् ) भो वअस्स ! एसो दाणिं दासीए पुत्तो । भविअ पाणिअं गेण्हेदि । मं उण बम्हणं पादाइं धोवावेदि । [ भो । वयस्य ! एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं । पादौ धावयति ।] । चारुदत्तः---- वयस्य मैत्रेय ! त्वमुदकं गृहाण । वर्धमानकः पादौ । प्रक्षालयतु । चेटः-- अज्ज़मित्तेअ ! देहि उदअं । [ आर्यमैत्रेय ! देह्युदकम् ।] । ( विदूषकस्तथा करोति, चेटश्चारुदत्तस्य पादों प्रक्षाल्यापसरति ) । चारुदत्तः-- दीयतां ब्राह्मणस्य पादोदकम् । विदूषकः-किं मम पादोदएहिं ।। भूमीए ज्जेव्व मए । ताडिदगद्दहेण विअ पुणो वि लोट्ठिदव्यं । [ किं मम पादोदकैः ? । भूम्यामेव मया । ताडितगर्दभेनेव पुनरपि लोठितव्यम् । चेटः--- अज्जमित्तेअ ! बम्हणे खु तुमं । [ आर्यमैत्रेय ! ब्राह्मणः । खलु त्वम् ।] । विदूषकः---- जधा सव्वणगाणं मज्झे डुंडुहो, तधा सव्वबम्हणाणं । मज्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्राह्मणः । चेटः- अज्जमित्तेअ ! तधा वि धोइश्शं । ( तथा कृत्वा) अज्जमित्तेअ! एदं तं शुवण्णभंडअं मम दिवा, तुह लत्तिं च । ता गेण्ह । [ आर्यमैत्रेय ! तथापि धाविष्यामि । आर्यमैत्रेय ! एतत्तत्सुवर्णभाण्डं मम । दिवा, तव रात्रौ च, तद्गृहाण । ] ( इति दत्त्वा निष्क्रान्तः ) । विदूषकः-( गृहीत्वा ) अज्ज वि एवं चिट्ठदि । किं एत्थ उज्जइणीए चोरो वि णत्थि, जो एदं दासीए पुत्तं णिद्दाचोरं ण अवहरदि । भो वअस्स ! अव्भंतरचतुस्सालअं पवेसआमि णं । [ अद्याप्येतत्तिष्ठति । किमत्रोज्जयिन्यां चौरोऽपि नास्ति, य एतं दास्याःपुत्रं निद्राचौरं नापहरति । भो वयस्य ! अभ्यन्तरचतुःशालकं प्रवेशयाम्येनम् । चारुदत्तः- । अलं चतुःशालमिमं प्रवेश्य प्रकाशनारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ! तावद्यावन्न तस्याः खलु भोः समर्प्यते ॥ ७ ॥

vidūṣakaḥ----bho, edaṃ amhāṇaṃ gehū | vaḍḍhamāṇaa, vaḍḍhamāṇaa ! | ugghāṭehi duāraaṃ | [ bhoḥ, idamasmākaṃ geham | vardhamānaka, vardhamānaka ! uddhādaya dvāram |] | ceṭaḥ-ajjāmitteassa śulaśaṃjoe śuṇīadi | āgade ajjacāludate | tā jāva duālaaṃ śe ugghāṭemi | ( tathā kṛtvā ) ajja ! | vaṃdāmi | mittea ! tuma pi vadāmi | ettha vitthiṇṇe āśaṇe ṇiśī- | dadu ajjā | [ āryamaitreyasya svarasaṃyogaḥ śrūyate | āgata āryacārudattaḥ | tadyāvaddvāramasyoddhāṭayāmi | ārya ! vande | maitreya ! tvāmapi vande | atra | vistīrṇaāsane niṣīdatamāryau | (ubhau nāṭyena praviśyopaviśataḥ ) | vidūṣakaḥ--vaḍḍhamāṇaa ! raāṇiaṃ saddāvehi pādāiṃ dhoiduṃ | [ vardhamānaka ! radanikāmākāraya pādau dhāvitum |] | cārudattaḥ---( sānukampam ) alaṃ suptajanaṃ prabodhayitum | ceṭaḥ---ajjamittea ! ahaṃ pāṇiaṃ geṇhe | tumaṃ pādāiṃ dhovehi | [ aryamaitreya ! ahaṃ pānīyaṃ gṛhṇāmi | tvaṃ pādau dhāva | vidūṣakaḥ—(sakrodham ) bho vaassa ! eso dāṇiṃ dāsīe putto | bhavia pāṇiaṃ geṇhedi | maṃ uṇa bamhaṇaṃ pādāiṃ dhovāvedi | [ bho | vayasya ! eṣa idānīṃ dāsyāḥ putro bhūtvā pānīyaṃ gṛhṇāti | māṃ punarbrāhmaṇaṃ | pādau dhāvayati |] | cārudattaḥ---- vayasya maitreya ! tvamudakaṃ gṛhāṇa | vardhamānakaḥ pādau | prakṣālayatu | ceṭaḥ-- ajja़mittea ! dehi udaaṃ | [ āryamaitreya ! dehyudakam |] | ( vidūṣakastathā karoti, ceṭaścārudattasya pādoṃ prakṣālyāpasarati ) | cārudattaḥ-- dīyatāṃ brāhmaṇasya pādodakam | vidūṣakaḥ-kiṃ mama pādodaehiṃ || bhūmīe jjevva mae | tāḍidagaddaheṇa via puṇo vi loṭṭhidavyaṃ | [ kiṃ mama pādodakaiḥ ? | bhūmyāmeva mayā | tāḍitagardabheneva punarapi loṭhitavyam | ceṭaḥ--- ajjamittea ! bamhaṇe khu tumaṃ | [ āryamaitreya ! brāhmaṇaḥ | khalu tvam |] | vidūṣakaḥ---- jadhā savvaṇagāṇaṃ majjhe ḍuṃḍuho, tadhā savvabamhaṇāṇaṃ | majjhe ahaṃ bamhaṇo | [yathā sarvanāgānāṃ madhye ḍuṇḍubhaḥ, tathā sarvabrāhmaṇānāṃ madhye'haṃ brāhmaṇaḥ | ceṭaḥ- ajjamittea ! tadhā vi dhoiśśaṃ | ( tathā kṛtvā) ajjamittea! edaṃ taṃ śuvaṇṇabhaṃḍaaṃ mama divā, tuha lattiṃ ca | tā geṇha | [ āryamaitreya ! tathāpi dhāviṣyāmi | āryamaitreya ! etattatsuvarṇabhāṇḍaṃ mama | divā, tava rātrau ca, tadgṛhāṇa | ] ( iti dattvā niṣkrāntaḥ ) | vidūṣakaḥ-( gṛhītvā ) ajja vi evaṃ ciṭṭhadi | kiṃ ettha ujjaiṇīe coro vi ṇatthi, jo edaṃ dāsīe puttaṃ ṇiddācoraṃ ṇa avaharadi | bho vaassa ! avbhaṃtaracatussālaaṃ pavesaāmi ṇaṃ | [ adyāpyetattiṣṭhati | kimatrojjayinyāṃ cauro'pi nāsti, ya etaṃ dāsyāḥputraṃ nidrācauraṃ nāpaharati | bho vayasya ! abhyantaracatuḥśālakaṃ praveśayāmyenam | cārudattaḥ- | alaṃ catuḥśālamimaṃ praveśya prakāśanārīdhṛta eṣa yasmāt | tasmātsvayaṃ dhāraya vipra ! tāvadyāvanna tasyāḥ khalu bhoḥ samarpyate || 7 ||

Report an error