Natya Shastra 2.12
(प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥ । प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ । कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥) । प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा । प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ १२ ॥
(prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam | tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet || | prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ | vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ || | kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam | jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ ||) | pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā | prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata || 12 ||