Skip to content

Natya Shastra 7.109

[ अत्र श्लोकाः - । शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ । रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ । विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ । क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ । त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥] । आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसन्ज्ञया ॥ १०९ ॥

[ atra ślokāḥ - | śaṅkāvyādhistathāglāniścintāsūyā bhayaṃ tathā | vismayaśca vitarkaśca stambhaścapalatā tathā || | romāñcaharṣau nidrā ca tathonmādamadāvapi | svedaścaivāvahitthaṃ ca pralayo vepathustathā || | viṣādaśramanirvedā garvāvegau dhṛtiḥ smṛtiḥ | matirmoho vibodhaśca suptamautsukyavarjite || | krodhāmarṣau ca hāsaśca śoko'pasmāra eva ca | dainyaṃ ca maraṇaṃ caiva ratirutsāhasaṃyutā || | trāsavaivarṇyaruditaiḥ svarabhedaḥ śamo'pi ca | jaḍatā ca tathā ṣaṭ ca catvāriṃśatprakīrtitāḥ ||] | ālasyaugryajugupsākhyairevaṃ bhāvaistu varjitāḥ | udbhāvayanti śṛṅgāraṃ sarve bhāvāḥ svasanjñayā || 109 ||

Report an error