राम: - तेन हि आनय, अहमेव शुश्रूषयिष्ये ।
रावण: - अयि छायां परिहृत्य शरीरं न लङ्घयामि। वाचानुवृत्ति: खल्वतिथिसत्कार:। पूजितोऽस्मि। आस्याताम् ।
राम: - बाढम्। (उपविशति।) ।
रावण: - (आत्मगतम्।) यावदहमपि ब्राह्मणसमुदाचारमनुष्ठास्यामि। (प्रकाशम्) भो:! काश्यपगोत्रोऽस्मि। साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्मशास्त्रं, ।
माहेश्वरं योगशास्त्रं, बार्हस्पत्यमर्थशास्त्रं, मेधातिथेन्र्यायशास्त्रं, प्रचेतसं श्राद्धकल्पं च ।
राम: - कथं कथं श्राद्धकल्पमिति ।
रावण: - सर्वा: श्रुतीरतिक्रम्य श्राद्धकल्पे स्पृहा दर्शिता। किमेतत् ।
राम: - भगवन्! भ्रष्टायां पितृमत्तायामागम इदनीमेष: ।
रावण: - अलं परिहृत्य। पृच्छतु भवान् ।
राम: - भगवन्! निवपनक्रियाकाले केन पितृंस्तर्पयामि ।
रावण: - सर्वं श्रद्धया दत्तं श्राद्धम् ।
राम: - भगवन्! अनादरत: परित्यक्तं भवति। विशेषार्थं पृच्छामि ।
रावण: - श्रूयताम्। विरूढेषु दर्भा:, ओषधीषु तिला:, कलायं शाकेषु, मत्स्येषु महाशफर:, पक्षिषु वाध्र्राणस:, पशुषु गौ: खङ्गो वा, इत्येते मानुषाणां ।
विहिता: ।
राम: - भगवन् ! वाशब्देनावगतमन्यदप्यस्तीति ।
रावण: - अस्ति प्रभावसम्पाद्यम् ।
राम: - भगवन्! एष एव मे निश्चय: ।
उभयस्यास्ति सान्निध्यं यद्येतत् साधयिष्यति ।
धनुर्वा तपसि श्रान्ते श्रान्तेधनुषि वा तप: ॥ ९ ॥
rāma: - tena hi ānaya, ahameva śuśrūṣayiṣye |
rāvaṇa: - ayi chāyāṃ parihṛtya śarīraṃ na laṅghayāmi| vācānuvṛtti: khalvatithisatkāra:| pūjito'smi| āsyātām |
rāma: - bāḍham| (upaviśati|) |
rāvaṇa: - (ātmagatam|) yāvadahamapi brāhmaṇasamudācāramanuṣṭhāsyāmi| (prakāśam) bho:! kāśyapagotro'smi| sāṅgopāṅgaṃ vedamadhīye, mānavīyaṃ dharmaśāstraṃ, |
māheśvaraṃ yogaśāstraṃ, bārhaspatyamarthaśāstraṃ, medhātithenryāyaśāstraṃ, pracetasaṃ śrāddhakalpaṃ ca |
rāma: - kathaṃ kathaṃ śrāddhakalpamiti |
rāvaṇa: - sarvā: śrutīratikramya śrāddhakalpe spṛhā darśitā| kimetat |
rāma: - bhagavan! bhraṣṭāyāṃ pitṛmattāyāmāgama idanīmeṣa: |
rāvaṇa: - alaṃ parihṛtya| pṛcchatu bhavān |
rāma: - bhagavan! nivapanakriyākāle kena pitṛṃstarpayāmi |
rāvaṇa: - sarvaṃ śraddhayā dattaṃ śrāddham |
rāma: - bhagavan! anādarata: parityaktaṃ bhavati| viśeṣārthaṃ pṛcchāmi |
rāvaṇa: - śrūyatām| virūḍheṣu darbhā:, oṣadhīṣu tilā:, kalāyaṃ śākeṣu, matsyeṣu mahāśaphara:, pakṣiṣu vādhrrāṇasa:, paśuṣu gau: khaṅgo vā, ityete mānuṣāṇāṃ |
vihitā: |
rāma: - bhagavan ! vāśabdenāvagatamanyadapyastīti |
rāvaṇa: - asti prabhāvasampādyam |
rāma: - bhagavan! eṣa eva me niścaya: |
ubhayasyāsti sānnidhyaṃ yadyetat sādhayiṣyati |
dhanurvā tapasi śrānte śrāntedhanuṣi vā tapa: || 9 ||