Skip to content

अध्याय १ · आचाराध्यायः

Achara: Conduct

Part 2 of 6: passages 258–514 of 1,541Sanskrit with transliteration

न च तस्यास् तर्हि दोषो नास्तीत्य् आशङ्कनीयम् इत्य् आह ।

na ca tasyās tarhi doṣo nāstīty āśaṅkanīyam ity āha |

Report an error

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते । १.७२

vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate | 1.72

Report an error

गर्भभर्तृवधादौ च तथा महति पातके ॥ १.७२ ॥

garbhabhartṛvadhādau ca tathā mahati pātake || 1.72 ||

Report an error

अप्रकाशितान् मनोव्यभिचारात् पुरुषान्तरसंभोगसंकल्पाद् यद् अपुण्यं तस्य ऋतौ रजोदर्शने शुद्धिः । शूद्रकृते तु गर्भे त्यागः, ब्राह्मणक्षत्रियविशां भार्याः शुद्रेण संगताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥

aprakāśitān manovyabhicārāt puruṣāntarasaṃbhogasaṃkalpād yad apuṇyaṃ tasya ṛtau rajodarśane śuddhiḥ | śūdrakṛte tu garbhe tyāgaḥ, brāhmaṇakṣatriyaviśāṃ bhāryāḥ śudreṇa saṃgatāḥ | aprajātā viśudhyanti prāyaścittena netarāḥ ||

Report an error

इति स्मरणात् । तथा गर्भवधे भर्तृवहे महापातके च ब्रह्महत्यादौ, आदिग्रहणाच् छिष्यादिगमने च त्यागः, चतस्रस् तु परित्यज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥

iti smaraṇāt | tathā garbhavadhe bhartṛvahe mahāpātake ca brahmahatyādau, ādigrahaṇāc chiṣyādigamane ca tyāgaḥ, catasras tu parityajyāḥ śiṣyagā gurugā ca yā | patighnī ca viśeṣeṇa juṅgitopagatā ca yā ||

Report an error

इति व्यासस्मरणात् । जुङ्गितः प्रतिलोमजश् चर्मकारादिः । त्यागश् चोपभोगधर्मकार्ययोः न तु निष्कासनं गृहात् तस्याः, "निरुन्ध्याद् एकवेश्मनि" इति नियमात् ।! १.७२ ॥

iti vyāsasmaraṇāt | juṅgitaḥ pratilomajaś carmakārādiḥ | tyāgaś copabhogadharmakāryayoḥ na tu niṣkāsanaṃ gṛhāt tasyāḥ, "nirundhyād ekaveśmani" iti niyamāt |! 1.72 ||

Report an error

द्वितीयपरिणयने हेतून् आह ।

dvitīyapariṇayane hetūn āha |

Report an error

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा । १.७३

surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā | 1.73

Report an error

स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३ ॥

strīprasūś cādhivettavyā puruṣadveṣiṇī tathā || 1.73 ||

Report an error

सुरां पिबतीति सुरापी शुद्रापि, पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थघ्न्य् अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषिणी । स्त्रीप्रसूः स्त्रीजननी । पुरुषद्वेषणी सर्वत्राहितकारणी । अधिवेत्तव्येति प्रत्येकम् अभिसंबध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ १.७३ ॥

surāṃ pibatīti surāpī śudrāpi, pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet | iti sāmānyena pratiṣedhāt | vyādhitā dīrgharogagrastā | dhūrtā visaṃvādinī | vandhyā niṣphalā | arthaghny arthanāśinī | apriyaṃvadā niṣṭhurabhāṣiṇī | strīprasūḥ strījananī | puruṣadveṣaṇī sarvatrāhitakāraṇī | adhivettavyeti pratyekam abhisaṃbadhyate | adhivedanaṃ bhāryāntaraparigrahaḥ || 1.73 ||

Report an error

किं च । अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् । १.७४

kiṃ ca | adhivinnā tu bhartavyā mahad eno 'nyathā bhavet | 1.74

Report an error

यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते ॥ १.७४ ॥

yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate || 1.74 ||

Report an error

सा अधिविन्ना पूर्ववद् एव दानमानसत्कारैः भर्तव्या । अन्यथाभरणे महद् अपुण्यं वक्षमाणो दण्डश् च । न च भरणे सति केवलम् अपुण्यपरिहारः । यतः यत्र दंपत्योर् आनुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनम् अभिवृद्धिश् च ॥ १.७४ ॥

sā adhivinnā pūrvavad eva dānamānasatkāraiḥ bhartavyā | anyathābharaṇe mahad apuṇyaṃ vakṣamāṇo daṇḍaś ca | na ca bharaṇe sati kevalam apuṇyaparihāraḥ | yataḥ yatra daṃpatyor ānukūlyaṃ cittaikyaṃ tatra dharmārthakāmānāṃ pratidinam abhivṛddhiś ca || 1.74 ||

Report an error

स्त्रियं प्रत्य् आह ।

striyaṃ praty āha |

Report an error

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति । १.७५

mṛte jīvati vā patyau yā nānyam upagacchati | 1.75

Report an error

सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥ १.७५ ॥

seha kīrtim avāpnoti modate comayā saha || 1.75 ||

Report an error

भर्तरि जीवति मृते वा या चापल्याद् अन्यं पुरुषं नोपगच्छति सेह लोके विपुलां कीर्तिम् अवाप्नोति । उमया च सह क्रीडति पुण्यप्रभावात् ॥ १.७५ ॥

bhartari jīvati mṛte vā yā cāpalyād anyaṃ puruṣaṃ nopagacchati seha loke vipulāṃ kīrtim avāpnoti | umayā ca saha krīḍati puṇyaprabhāvāt || 1.75 ||

Report an error

अधिवेदनकारणाभावे अधिवेत्तारं प्रत्य् आह ।

adhivedanakāraṇābhāve adhivettāraṃ praty āha |

Report an error

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । १.७६

ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm | 1.76

Report an error

त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ १.७६ ॥

tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ || 1.76 ||

Report an error

आज्ञासंपादिनीम् आदेशकारिणीम्, दक्षां शीघ्रकारिणीम्, वीरसूं पुत्रवतीम्, प्रियवादिनीं मधुरभाषिणीं यस् त्यजत्य् अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस् तु भरणं ग्रासाच्चादनादि दाप्यः ॥ १.७६ ॥

ājñāsaṃpādinīm ādeśakāriṇīm, dakṣāṃ śīghrakāriṇīm, vīrasūṃ putravatīm, priyavādinīṃ madhurabhāṣiṇīṃ yas tyajaty adhivindati sa rājñā svadhanasya tṛtīyāṃśaṃ dāpyaḥ | nirdhanas tu bharaṇaṃ grāsāccādanādi dāpyaḥ || 1.76 ||

Report an error

स्त्रीधर्मान् आह ।

strīdharmān āha |

Report an error

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ॥ १.७७

strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ || 1.77

Report an error

आ शुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ॥ १.७७ ॥

ā śuddheḥ saṃpradīkṣyo hi mahāpātakadūṣitaḥ || 1.77 ||

Report an error

स्त्रीभिः सदा भर्तृवचनं कार्यम् । यस्माद् अयम् एव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस् तदा आ शुद्धेः संप्रतीक्ष्यः । न तत्पारतन्त्र्यम् । उत्तरकालं तु पूर्ववद् एव तत्पारतन्त्र्यम् ॥ १.७७ ॥

strībhiḥ sadā bhartṛvacanaṃ kāryam | yasmād ayam eva para utkṛṣṭo dharmaḥ strīṇāṃ svargahetutvāt | yadā tu mahāpātakadūṣitas tadā ā śuddheḥ saṃpratīkṣyaḥ | na tatpāratantryam | uttarakālaṃ tu pūrvavad eva tatpāratantryam || 1.77 ||

Report an error

शास्त्रीयदारसंग्रहस्य फलम् आह ।

śāstrīyadārasaṃgrahasya phalam āha |

Report an error

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । १.७८

lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ | 1.78

Report an error

यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः ॥ १.७८ ॥

yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ || 1.78 ||

Report an error

लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश् च दारसंग्रहस्य प्रयोजनम् । कथम् इत्य् आह । पुत्रपौत्रप्रपौत्रकैः लोकानन्त्यम् अग्निहोत्रादिभिश् च स्वर्गप्राप्तिर् इत्य् अन्वयः । यस्मात् स्त्रीभ्य एतद् द्वयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षितव्याश् च धर्मर्थम् । तथा च अपस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योक्तं "धर्मप्रजासंपन्नेषु दारेषु नान्यां कुर्वीत" इति वदता । रतिफलं तु लौकिकम् एव ॥ १.७८ ॥

loke ānantyaṃ vaṃśasyāvicchedaḥ divaḥ prāptiś ca dārasaṃgrahasya prayojanam | katham ity āha | putrapautraprapautrakaiḥ lokānantyam agnihotrādibhiś ca svargaprāptir ity anvayaḥ | yasmāt strībhya etad dvayaṃ bhavati tasmāt striyaḥ sevyā upabhogyāḥ prajārtham | rakṣitavyāś ca dharmartham | tathā ca apastambena dharmaprajāsaṃpattiḥ prayojanaṃ dārasaṃgrahasyoktaṃ "dharmaprajāsaṃpanneṣu dāreṣu nānyāṃ kurvīta" iti vadatā | ratiphalaṃ tu laukikam eva || 1.78 ||

Report an error

पुत्रोत्पत्त्यर्थं स्त्रियः सेव्या इत्य् उक्तम् । तत्र विशेषणम् आह ।

putrotpattyarthaṃ striyaḥ sevyā ity uktam | tatra viśeṣaṇam āha |

Report an error

षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । १.७९

ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet | 1.79

Report an error

ब्रह्मचार्य् एव पर्वाण्य् आद्याः चतस्रस् तु वर्जयेत् ॥ १.७९ ॥

brahmacāry eva parvāṇy ādyāḥ catasras tu varjayet || 1.79 ||

Report an error

स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । स च रजोदर्शनदिवसाद् आरभ्य षोडशाहोरात्रः । तस्मिन् ऋतौ युज्मासु समासु रात्रिषु, रात्रिग्रहणाद् दिवसप्रतिषेधः, संविशेद् गच्छेत् पुत्रार्थम् । युग्मास्व् इति बहुवचनं समुच्चयार्थम् । अतश् चैकस्मिन्न् अपि ऋतौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन् ब्रह्मचार्य् एव भवति । अतो यत्र ब्रह्मचर्यं श्राद्धादौ चोदितं तत्र गच्छतो ऽपि न ब्रह्मचर्यस्खलनदोषो ऽस्ति । किंच पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत् । पर्वाणीति बहुवचनाद् आद्यार्थावगमाद् अष्टमीचतुर्दश्योर् ग्रहणम् । यथाह मनुः । अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीं । ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥

strīṇāṃ garbhadhāraṇayogyāvasthopalakṣitaḥ kāla ṛtuḥ | sa ca rajodarśanadivasād ārabhya ṣoḍaśāhorātraḥ | tasmin ṛtau yujmāsu samāsu rātriṣu, rātrigrahaṇād divasapratiṣedhaḥ, saṃviśed gacchet putrārtham | yugmāsv iti bahuvacanaṃ samuccayārtham | ataś caikasminn api ṛtau apratiṣiddhāsu yugmāsu sarvāsu rātriṣu gacchet | evaṃ gacchan brahmacāry eva bhavati | ato yatra brahmacaryaṃ śrāddhādau coditaṃ tatra gacchato 'pi na brahmacaryaskhalanadoṣo 'sti | kiṃca parvāṇy ādyāś catasras tu varjayet | parvāṇīti bahuvacanād ādyārthāvagamād aṣṭamīcaturdaśyor grahaṇam | yathāha manuḥ | amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīṃ | brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ ||

Report an error

इति । अतो ऽमावास्यादीनि रजोदर्शनाद् आरभ्य चतस्रो रात्रीश् च वर्जयेत् ॥ १

iti | ato 'māvāsyādīni rajodarśanād ārabhya catasro rātrīś ca varjayet || 1

Report an error

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । १.८०

evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet | 1.80

Report an error

सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥ १.८० ॥

sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān || 1.80 ||

Report an error

एवम् उक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन् कले रजस्वलाव्रतेनैव भवति । अथ चेन् न भवति तदा कर्तव्या क्षामता पुत्रोत्पत्त्यर्थम् अल्पास्निग्धभोजनादिना, पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियः । इति वचनात् । यदा युग्मायाम् अपि रात्रौ शोणिताधिक्यं तदा स्त्र्य् एव भवति पुरुषाकृतिः । अयुग्मायाम् अपि शुक्राधिक्ये पुमन् एव भवति स्त्र्याकृतिः । कालस्य निमित्तत्वात् । शुक्रशोणितयोश् चोपादानकारणत्वेण प्राबल्यात् । तस्मात् क्षामा कर्तव्या । मघामूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात् पुंनक्षत्रशुभयोगलग्नादिसंपत्तौ सकृद् एकस्यां रात्रौ न द्विस् त्रिर् वा । ततो लक्षणैर् युक्तं पुत्रं जनयति । पुमान् अप्रतिहतपुंस्त्वः ॥ १.८० ॥

evam uktena prakāreṇa striyaṃ gacchan kṣāmāṃ gacchet | kṣāmatā ca tasmin kale rajasvalāvratenaiva bhavati | atha cen na bhavati tadā kartavyā kṣāmatā putrotpattyartham alpāsnigdhabhojanādinā, pumān puṃso 'dhike śukre strī bhavaty adhike striyaḥ | iti vacanāt | yadā yugmāyām api rātrau śoṇitādhikyaṃ tadā stry eva bhavati puruṣākṛtiḥ | ayugmāyām api śukrādhikye puman eva bhavati stryākṛtiḥ | kālasya nimittatvāt | śukraśoṇitayoś copādānakāraṇatveṇa prābalyāt | tasmāt kṣāmā kartavyā | maghāmūlanakṣatre varjayet | candre caikādaśādiśubhasthānagate cakārāt puṃnakṣatraśubhayogalagnādisaṃpattau sakṛd ekasyāṃ rātrau na dvis trir vā | tato lakṣaṇair yuktaṃ putraṃ janayati | pumān apratihatapuṃstvaḥ || 1.80 ||

Report an error

एवम् ऋतौ नियमम् उक्त्वा इदानीम् अनृतौ नियमम् आह ।

evam ṛtau niyamam uktvā idānīm anṛtau niyamam āha |

Report an error

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् । १.८१

yathākāmī bhaved vāpi strīṇāṃ varam anusmaran | 1.81

Report an error

स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१ ॥

svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ || 1.81 ||

Report an error

भार्याया इच्छानतिक्रमेण प्रवृत्तिर् अस्यास्तीति यथाकामी भवेत् । वाशब्दो नियमान्तरपरिग्रहार्थो न पूर्वनियमनिवृत्त्यर्थः । स्त्रीणां वरम् इन्द्रदत्तम् अनुस्मरन्: "भवतीनां कामविहन्ता पातकी स्यात्" इति, यथा "ता अब्रुवन् वरं वृणीमहा ऋत्वियाप्रजां विन्दामहै कामम् आविजनितोः संभवाम इति तस्माद् ऋत्वियाः स्त्रियः प्रजां विन्दन्ते कामम् आ विजनतोः संभवन्ति वारे वृतं ह्य् आसाम्" इति । अपि च स्वदारेष्व् एव निरतः नितरां रतस् तन्मनस्कः, "भवेत्" इत्य् अनुषज्यते । एवकारेण स्त्र्यन्तरगमनं निवर्तयति प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनम् आह "स्त्रियो रक्ष्या यतः स्मृताः" इति । यस्मात् स्त्रियो रक्ष्याः स्मृता उक्ताः "कर्तव्याश् च सुरक्षिताः" इति । तच् च सुरक्षितत्वं यथाकामित्वेन स्त्र्यन्तरागमनेन च भवतीति । अत्राह "तस्मिन् युग्मासु संविशेद्" इति । किम् अयं विधिर् नियमः परिसंख्या वा । उच्यते । न तावद् विधिः प्राप्तार्थत्वात् । नापि परिसंख्या दोषत्रयसमासक्तेः । अतो नियमं प्रतिपेदिरे न्यायविदः । कः पुनर् एषां भेदः । अत्यन्ताप्राप्तप्रापणं विधिः, यथा "अग्निहोत्रं जुहुयात्," "अष्टकाः कर्तव्याः" इति ।

bhāryāyā icchānatikrameṇa pravṛttir asyāstīti yathākāmī bhavet | vāśabdo niyamāntaraparigrahārtho na pūrvaniyamanivṛttyarthaḥ | strīṇāṃ varam indradattam anusmaran: "bhavatīnāṃ kāmavihantā pātakī syāt" iti, yathā "tā abruvan varaṃ vṛṇīmahā ṛtviyāprajāṃ vindāmahai kāmam āvijanitoḥ saṃbhavāma iti tasmād ṛtviyāḥ striyaḥ prajāṃ vindante kāmam ā vijanatoḥ saṃbhavanti vāre vṛtaṃ hy āsām" iti | api ca svadāreṣv eva nirataḥ nitarāṃ ratas tanmanaskaḥ, "bhavet" ity anuṣajyate | evakāreṇa stryantaragamanaṃ nivartayati prāyaścittasmaraṇāt | ubhayatrāpi dṛṣṭaprayojanam āha "striyo rakṣyā yataḥ smṛtāḥ" iti | yasmāt striyo rakṣyāḥ smṛtā uktāḥ "kartavyāś ca surakṣitāḥ" iti | tac ca surakṣitatvaṃ yathākāmitvena stryantarāgamanena ca bhavatīti | atrāha "tasmin yugmāsu saṃviśed" iti | kim ayaṃ vidhir niyamaḥ parisaṃkhyā vā | ucyate | na tāvad vidhiḥ prāptārthatvāt | nāpi parisaṃkhyā doṣatrayasamāsakteḥ | ato niyamaṃ pratipedire nyāyavidaḥ | kaḥ punar eṣāṃ bhedaḥ | atyantāprāptaprāpaṇaṃ vidhiḥ, yathā "agnihotraṃ juhuyāt," "aṣṭakāḥ kartavyāḥ" iti |

Report an error

पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः, यथा "समे देशे यजेत," "दर्शपूर्णमासाभ्यां यजेत" इति यागः कर्तव्यतया विहितः । स च देशम् अन्तरेण कर्तुम् अशक्य इत्य् अर्थाद् देशः प्राप्तः । स च समो विषमश् चेति द्विविधः । यदा यजमानः समे यियक्षते तदा "समे यजेत" इति वचनम् उदास्ते, स्वार्थस्य प्राप्तत्वात् । यदा तु विषमे देशे यियक्षते तदा "समे यजेत" इति स्वार्थं विधत्ते, स्वार्थस्य तदानीम् अप्राप्तत्वात् । विषमदेशनिवृत्तिस् त्व् आर्थिकी । चोदितदेशेनैव यागनिष्पत्तेर्, अचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः स्याद् इति । तथा "प्राङ्मुखो ऽन्नानि भुञ्जीत" इति । इदम् अपि स्मार्तम् उदाहरणं पूर्वेण व्याख्यातम् । एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थम् एकत्र पुनर्वचनं परिसंख्या । तद् यथा "इमाम् अगृभ्णन् रशनामृतस्येत्य् अश्वाभिधानीम् आदत्ते" इत्य् अयं मन्त्रः स्वसामर्थ्याद् अश्वाभिधान्याः गर्दभाभिधान्याश् च रशनाया ग्रहणे विनियुक्तः, पुनर् अश्वाभिधानीम् आदत्त इत्य् अनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्याः निवर्तते ।

pakṣe prāptasyāprāptapakṣāntaraprāpaṇaṃ niyamaḥ, yathā "same deśe yajeta," "darśapūrṇamāsābhyāṃ yajeta" iti yāgaḥ kartavyatayā vihitaḥ | sa ca deśam antareṇa kartum aśakya ity arthād deśaḥ prāptaḥ | sa ca samo viṣamaś ceti dvividhaḥ | yadā yajamānaḥ same yiyakṣate tadā "same yajeta" iti vacanam udāste, svārthasya prāptatvāt | yadā tu viṣame deśe yiyakṣate tadā "same yajeta" iti svārthaṃ vidhatte, svārthasya tadānīm aprāptatvāt | viṣamadeśanivṛttis tv ārthikī | coditadeśenaiva yāganiṣpatter, acoditadeśopādānena yathāśāstraṃ yāgo nānuṣṭhitaḥ syād iti | tathā "prāṅmukho 'nnāni bhuñjīta" iti | idam api smārtam udāharaṇaṃ pūrveṇa vyākhyātam | ekasyānekatra prāptasyānyato nivṛttyartham ekatra punarvacanaṃ parisaṃkhyā | tad yathā "imām agṛbhṇan raśanāmṛtasyety aśvābhidhānīm ādatte" ity ayaṃ mantraḥ svasāmarthyād aśvābhidhānyāḥ gardabhābhidhānyāś ca raśanāyā grahaṇe viniyuktaḥ, punar aśvābhidhānīm ādatta ity anenāśvābhidhānyāṃ viniyujyamāno gardabhābhidhānyāḥ nivartate |

Report an error

यथा "पञ्च पञ्चनखा भक्ष्याः" इत्य् अत्र हि यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तं पुनः शशादिषु श्रूयमाणं श्वादिभ्यो निवर्तत इति । किं पुनर् अत्र युक्तम् । परिसंख्येत्य् आह । तथा हि कृतदारसंग्रहस्य स्वेच्छयैवर्तौ गमनं प्राप्तम् इति न विधेर् अयं विषयः । नापि नियमस्य, गृह्यस्मृतिविरोधात् । एवं हि स्मरन्ति गृह्यकाराः: "दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्" इति । तत्र द्वादशरात्रात् संवत्सराद् वा पूर्वम् एवर्तुसंभवे ऋतौ गच्छेद् एवेति नियमाद् ब्रह्मचर्यस्मरणं बाध्येत । अपि च प्राप्ते भावार्थे वचनं विशेषणपरं युक्तं, प्राप्तं चर्तौ भार्यागमनम् इच्छयैव, अतो यदि गच्छेद् ऋताव् एवेति वचनव्यक्तिर् युक्ता । किं च नैयमिकात् पुत्रोत्पत्तिविधेर् एव ऋतौ गमनं नित्यप्राप्तम् एवेति ऋतौ गच्छेद् एवेति नियमो ऽनर्थकः स्यात् । नियमे चादृष्टं कल्पनीयम् । किं च ऋतौ गन्तव्यम् एवेति नियमे असन्निहितस्य व्याध्यादिना असमर्थस्यानिच्छोश् चाशक्यो ऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश् च नियमे ।

yathā "pañca pañcanakhā bhakṣyāḥ" ity atra hi yadṛcchayā śaśādiṣu śvādiṣu ca bhakṣaṇaṃ prāptaṃ punaḥ śaśādiṣu śrūyamāṇaṃ śvādibhyo nivartata iti | kiṃ punar atra yuktam | parisaṃkhyety āha | tathā hi kṛtadārasaṃgrahasya svecchayaivartau gamanaṃ prāptam iti na vidher ayaṃ viṣayaḥ | nāpi niyamasya, gṛhyasmṛtivirodhāt | evaṃ hi smaranti gṛhyakārāḥ: "dārasaṃgrahānantaraṃ trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā brahmacārī syāt" iti | tatra dvādaśarātrāt saṃvatsarād vā pūrvam evartusaṃbhave ṛtau gacched eveti niyamād brahmacaryasmaraṇaṃ bādhyeta | api ca prāpte bhāvārthe vacanaṃ viśeṣaṇaparaṃ yuktaṃ, prāptaṃ cartau bhāryāgamanam icchayaiva, ato yadi gacched ṛtāv eveti vacanavyaktir yuktā | kiṃ ca naiyamikāt putrotpattividher eva ṛtau gamanaṃ nityaprāptam eveti ṛtau gacched eveti niyamo 'narthakaḥ syāt | niyame cādṛṣṭaṃ kalpanīyam | kiṃ ca ṛtau gantavyam eveti niyame asannihitasya vyādhyādinā asamarthasyānicchoś cāśakyo 'rtha upadiṣṭaḥ syāt | vidhyanuvādavirodhaś ca niyame |

Report an error

तथा हि एकः शब्दः सकृद् उच्चरितस् तम् एवार्थं पक्षे ऽनुवदति पक्षे तु विधत्ते चेति । तस्माद् ऋताव् एव गच्छेन् नान्यत्रेति परिसंख्यैव युक्ता । तद् इदं भारुचिविश्वरूपादयो नानुमन्यन्ते । अतो नियम एव युक्तः, पक्षे स्वार्थविधिसंभवात्, अगमने दोषश्रवणाच् च । ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥

tathā hi ekaḥ śabdaḥ sakṛd uccaritas tam evārthaṃ pakṣe 'nuvadati pakṣe tu vidhatte ceti | tasmād ṛtāv eva gacchen nānyatreti parisaṃkhyaiva yuktā | tad idaṃ bhāruciviśvarūpādayo nānumanyante | ato niyama eva yuktaḥ, pakṣe svārthavidhisaṃbhavāt, agamane doṣaśravaṇāc ca | ṛtusnātāṃ tu yo bhāryāṃ sannidhau nopagacchati | ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ ||

Report an error

इति । न च विध्यनुवादविरोधः, अनुवादाभावाद् विध्यर्थत्वाच् च वचनस्य । तत्र हि विध्यनुवादविरोधो यत्र विधेयावधितया तद् एवानुवदितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे "वाजपेयेन स्वाराज्यकामो यजेत" इति वाजपेयलक्षणगुणविधानावधित्वेन यागो ऽनुवदितव्यः, स एव स्वाराज्यलक्षणफलोद्देशेन विधातव्यश् चेति । न चानुवादेनेह कृत्यम् अस्ति । यद् तु नियमे ऽदृष्टम् कल्प्यम् इत्य् उक्तं तत् परिसंख्यायाम् अपि समानम् । अनृतौ गच्छतो दोषकल्पनात् । यत् तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्ते न नियम इति । तद् असत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान् मतम् "एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेत्" इति स्त्र्यभिगमनातिरिक्तः पुत्रोत्पादनविधिर् इति । तन् न । गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं गच्छन् लक्षण्यं पुत्रं जनयेद् इत्य् अनेन यथाग्निहोत्रं जुह्वन् स्वर्गं भावयेद् इति । न चासंनिहितादेर् अशक्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोर् एवोपदेशात् । ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।

iti | na ca vidhyanuvādavirodhaḥ, anuvādābhāvād vidhyarthatvāc ca vacanasya | tatra hi vidhyanuvādavirodho yatra vidheyāvadhitayā tad evānuvaditavyaṃ, aprāptatayānyoddeśena vidhātavyaṃ ca | yathā vājapeyādhikaraṇapūrvapakṣe "vājapeyena svārājyakāmo yajeta" iti vājapeyalakṣaṇaguṇavidhānāvadhitvena yāgo 'nuvaditavyaḥ, sa eva svārājyalakṣaṇaphaloddeśena vidhātavyaś ceti | na cānuvādeneha kṛtyam asti | yad tu niyame 'dṛṣṭam kalpyam ity uktaṃ tat parisaṃkhyāyām api samānam | anṛtau gacchato doṣakalpanāt | yat tu naiyamikaputrotpādanavidhyākṣepeṇaiva ṛtau nityagamanaprāpte na niyama iti | tad asat | sa evāyaṃ naiyamikaputrotpādanavidhiḥ | syān matam "evaṃ gacchan striyaṃ kṣāmāṃ lakṣaṇyaṃ putraṃ janayet" iti stryabhigamanātiriktaḥ putrotpādanavidhir iti | tan na | gamanakaraṇikāyā bhāvanāyā eva putrotpattikarmatā pradṛśyate | evaṃ gacchan lakṣaṇyaṃ putraṃ janayed ity anena yathāgnihotraṃ juhvan svargaṃ bhāvayed iti | na cāsaṃnihitāder aśakyārthavidhiprasaṅgaḥ | sannihitaśaktayor evopadeśāt | ṛtusnātāṃ tu yo bhāryāṃ sannidhau nopagacchati |

Report an error

यः स्वदारान् ऋतुस्नातान् स्वस्थः सन् नोपगच्छति । इति विशेषोपादानात् । अनिच्छनिवृत्तिस् तु नियमविधानाद् एव । न च विशेषणपरतापि, पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संवत्सरात् पूर्वम् एवर्तुदर्शने संविशतो न ब्रह्मचर्यस्खलनदोषो यथा श्रद्धादिषु । तस्मात् स्वार्थहानिपरार्थकल्पनाप्राप्तबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं "पञ्च पञ्चनखा भक्ष्याः" इत्य् अत्र यद्य् अपि शशादिषु भक्षणस्य पक्षे प्राप्तेर् नियमः शशादिषु श्वादिषु च प्राप्तेः परिसंख्येत्य् उभयसंभवस् तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैवाश्रिता । एतेन सायंप्रातर् द्विजातीनाम् अशनं स्मृतिनोदितम् । इत्य् अत्रापि नियमो व्याख्यातः । "नान्तरा भोजनं कुर्यात्" इति च पुनरुक्तं स्यात् परिसंख्यायाम् । एवं च नियमे सति ऋताव् ऋताव् इति वीप्सा लभ्यते, "निमित्तावृत्तौ नैमित्तिकम् अप्य् आवर्तते" इति न्यायात् । "यथाकामी भवेत्" इत्य् अयम् अपि नियम एव । अनृताव् अपि स्त्रीकामनायां सत्यां स्त्रियम् अभिरमयेद् एवेति ।

yaḥ svadārān ṛtusnātān svasthaḥ san nopagacchati | iti viśeṣopādānāt | anicchanivṛttis tu niyamavidhānād eva | na ca viśeṣaṇaparatāpi, pakṣe bhāvārthavidhisaṃbhavāt | nāpi gṛhyasmṛtivirodhaḥ | saṃvatsarāt pūrvam evartudarśane saṃviśato na brahmacaryaskhalanadoṣo yathā śraddhādiṣu | tasmāt svārthahāniparārthakalpanāprāptabādhalakṣaṇadoṣatrayavatī parisaṃkhyā na yuktā | evaṃ "pañca pañcanakhā bhakṣyāḥ" ity atra yady api śaśādiṣu bhakṣaṇasya pakṣe prāpter niyamaḥ śaśādiṣu śvādiṣu ca prāpteḥ parisaṃkhyety ubhayasaṃbhavas tathāpi niyamapakṣe śaśādyabhakṣaṇe doṣaprasaṅgaḥ, śvādibhakṣaṇe cādoṣaprasaṅgena prāyaścittasmṛtivirodha iti parisaṃkhyaivāśritā | etena sāyaṃprātar dvijātīnām aśanaṃ smṛtinoditam | ity atrāpi niyamo vyākhyātaḥ | "nāntarā bhojanaṃ kuryāt" iti ca punaruktaṃ syāt parisaṃkhyāyām | evaṃ ca niyame sati ṛtāv ṛtāv iti vīpsā labhyate, "nimittāvṛttau naimittikam apy āvartate" iti nyāyāt | "yathākāmī bhavet" ity ayam api niyama eva | anṛtāv api strīkāmanāyāṃ satyāṃ striyam abhiramayed eveti |

Report an error

"ऋताव् उपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्" इति एतद् अपि गौतमीयं सूत्रद्वयं नियमपरम् एव । ऋताव् उपेयाद् अनृताव् अपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जम् उपेयाद् एवेत्य् अलम् अतिप्रसङ्गेन ॥ १.८१ ॥

"ṛtāv upeyāt sarvatra vā pratiṣiddhavarjam" iti etad api gautamīyaṃ sūtradvayaṃ niyamaparam eva | ṛtāv upeyād anṛtāv api strīkāmanāyāṃ satyāṃ pratiṣiddhavarjam upeyād evety alam atiprasaṅgena || 1.81 ||

Report an error

किं च । भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः । १.८२

kiṃ ca | bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ | 1.82

Report an error

बन्धुभिश् च स्त्रियः पूज्याः भूषणाच्छादनाशनैः ॥ १.८२ ॥

bandhubhiś ca striyaḥ pūjyāḥ bhūṣaṇācchādanāśanaiḥ || 1.82 ||

Report an error

भर्तृप्रभृतिभिः पूर्वोक्ताः साध्व्यः स्त्रियः यथाशक्त्यलंकारवसनभोजनपुष्पादिभिः संमाननीयाः । यस्मात् ताः पूजिता धर्मार्थकामान् संवर्धयन्ति ॥ १.८२ ॥

bhartṛprabhṛtibhiḥ pūrvoktāḥ sādhvyaḥ striyaḥ yathāśaktyalaṃkāravasanabhojanapuṣpādibhiḥ saṃmānanīyāḥ | yasmāt tāḥ pūjitā dharmārthakāmān saṃvardhayanti || 1.82 ||

Report an error

तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यम् इत्य् अत आह ।

tayā punaḥ samarpitagṛhavyāpārayā kiṃbhūtayā bhavitavyam ity ata āha |

Report an error

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । १.८३

saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī | 1.83

Report an error

कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥ १.८३ ॥

kuryāc chvaśurayoḥ pādavandanaṃ bhartṛtatparā || 1.83 ||

Report an error

संयतः स्वस्थाननिवेशित उपस्करो गृहोपकरणवर्गो यथा सा तथोक्ता । यथोलूखलमुसलशूर्पादेः कण्डनस्थाने, दृषदुपलयोर् अवियोगेन पेषणस्थान इत्यादि । दक्षा गृहव्यापारकुशला । हृष्टा सदैव प्रहसितानना । व्ययपराङ्मुखी न व्ययशीला । स्याद् इति सर्वत्र शेषः । किं च । श्वश्रूश् च श्वशुरश् च श्वशुरौ । "श्वशुरः श्वश्र्वा" इत्य् एकशेषः । तयोः पादवन्दनं नित्यं कुर्यात् । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थं भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ १.८३ ॥

saṃyataḥ svasthānaniveśita upaskaro gṛhopakaraṇavargo yathā sā tathoktā | yatholūkhalamusalaśūrpādeḥ kaṇḍanasthāne, dṛṣadupalayor aviyogena peṣaṇasthāna ityādi | dakṣā gṛhavyāpārakuśalā | hṛṣṭā sadaiva prahasitānanā | vyayaparāṅmukhī na vyayaśīlā | syād iti sarvatra śeṣaḥ | kiṃ ca | śvaśrūś ca śvaśuraś ca śvaśurau | "śvaśuraḥ śvaśrvā" ity ekaśeṣaḥ | tayoḥ pādavandanaṃ nityaṃ kuryāt | śvaśuragrahaṇaṃ mānyāntaropalakṣaṇārthaṃ bhartṛtatparā bhartṛvaśavartinī satī pūrvoktaṃ kuryāt || 1.83 ||

Report an error

भर्तृसन्निधाव् उक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यम् इत्य् अत आह ।

bhartṛsannidhāv uktam, proṣite bhartari tayā kiṃ kartavyam ity ata āha |

Report an error

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । १.८४

krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam | 1.84

Report an error

हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ १.८४ ॥

hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā || 1.84 ||

Report an error

देशान्तरगतभर्तृका क्रीडां कन्दुकादिभिः, शरीरसंस्कारम् उद्वर्तनादिभिः, समाजो जनसमूहः, उत्सवो विवाहादिः, तयोः दर्शनम्, हास्यं विजृम्भणम्, परगृहे गमनम् । त्यजेद् इति प्रत्येकं संबध्यते ॥ १.८४ ॥

deśāntaragatabhartṛkā krīḍāṃ kandukādibhiḥ, śarīrasaṃskāram udvartanādibhiḥ, samājo janasamūhaḥ, utsavo vivāhādiḥ, tayoḥ darśanam, hāsyaṃ vijṛmbhaṇam, paragṛhe gamanam | tyajed iti pratyekaṃ saṃbadhyate || 1.84 ||

Report an error

किं च । रक्षेत् कन्यां पित विन्नां पतिः पुत्राश् च वार्धके । १.८५

kiṃ ca | rakṣet kanyāṃ pita vinnāṃ patiḥ putrāś ca vārdhake | 1.85

Report an error

अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ १.८५ ॥

abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ || 1.85 ||

Report an error

पाणिग्रहणात् प्राक् पिता कन्याम् अकार्यकरणाद् रक्षेत् । तत ऊर्ध्वं भर्ता । तदभावे पुत्राः वृद्धभावे । तेषाम् उक्तानाम् अभावे ज्ञातयः । ज्ञातीनाम् अभावे रजा, "पक्षद्वयावसाने तु रजा भर्ता प्रभुः स्त्रियाः" इति वचनात् । अतः क्वचिद् अपि स्त्रीणां नैव स्वातन्त्र्यम् ॥ १.८५ ॥

pāṇigrahaṇāt prāk pitā kanyām akāryakaraṇād rakṣet | tata ūrdhvaṃ bhartā | tadabhāve putrāḥ vṛddhabhāve | teṣām uktānām abhāve jñātayaḥ | jñātīnām abhāve rajā, "pakṣadvayāvasāne tu rajā bhartā prabhuḥ striyāḥ" iti vacanāt | ataḥ kvacid api strīṇāṃ naiva svātantryam || 1.85 ||

Report an error

किं च । पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः । १.८६

kiṃ ca | pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ | 1.86

Report an error

हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८६ ॥

hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet || 1.86 ||

Report an error

भर्त्रा विना भर्तृरहिता पित्रादिरहिता वा न स्यात् । यस्मात् तद्रहिता गर्हणीया निन्द्या भवेत् । एतच् च ब्रह्मचर्यपक्षे । "भर्तरि प्रेते ब्रह्मचर्यं तदन्वारोहणं वा" इति विष्णुस्मरणात् । अन्वारोहणे महान् अभ्युदयः । तथा च व्यासः कपोतिकाख्यानव्याजेन दर्शितवान् । पतिव्रता संप्रदीप्तं प्रविवेशः हुताशनम् । तत्र चित्राङ्गदधरं भर्तारं सान्वपद्यत ॥

bhartrā vinā bhartṛrahitā pitrādirahitā vā na syāt | yasmāt tadrahitā garhaṇīyā nindyā bhavet | etac ca brahmacaryapakṣe | "bhartari prete brahmacaryaṃ tadanvārohaṇaṃ vā" iti viṣṇusmaraṇāt | anvārohaṇe mahān abhyudayaḥ | tathā ca vyāsaḥ kapotikākhyānavyājena darśitavān | pativratā saṃpradīptaṃ praviveśaḥ hutāśanam | tatra citrāṅgadadharaṃ bhartāraṃ sānvapadyata ||

Report an error

ततः स्वर्गं गतः पक्षी भार्यया सह संगतः । कर्मणा पूजितस् तत्र रेमे च सह भार्यया ॥

tataḥ svargaṃ gataḥ pakṣī bhāryayā saha saṃgataḥ | karmaṇā pūjitas tatra reme ca saha bhāryayā ||

Report an error

इति । तथा च शङ्खाङ्गिरसौ । तिस्रः कोट्यो ऽर्धकोटी च यानि लोमानि मानुषे । तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥

iti | tathā ca śaṅkhāṅgirasau | tisraḥ koṭyo 'rdhakoṭī ca yāni lomāni mānuṣe | tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati ||

Report an error

इति प्रतिपाद्य तयोर् अवियोगं दर्शयतः । व्यालग्राही यथा सर्पं बलाद् उद्धरते बिलात् । तद्वद् उद्धृत्य सा नारी सह तनैव मोदते ॥

iti pratipādya tayor aviyogaṃ darśayataḥ | vyālagrāhī yathā sarpaṃ balād uddharate bilāt | tadvad uddhṛtya sā nārī saha tanaiva modate ||

Report an error

तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः । क्रीडते पतिना सार्धं यावद् इन्द्राश् चतुर्दश ॥

tatra sā bhartṛparamā stūyamānāpsarogaṇaiḥ | krīḍate patinā sārdhaṃ yāvad indrāś caturdaśa ||

Report an error

इति । तथा । ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत् पतिः । पुनात्य् अविधवा नारी तम् आदाय मृता तु या ॥

iti | tathā | brahmaghno vā kṛtaghno vā mitraghno vā bhavet patiḥ | punāty avidhavā nārī tam ādāya mṛtā tu yā ||

Report an error

मृते भर्तरि या नारी समारोहेद् धुताशनं । सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥

mṛte bhartari yā nārī samārohed dhutāśanaṃ | sārundhatīsamācārā svargaloke mahīyate ||

Report an error

यावच् चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् । तावन् न मुच्यते सा हि स्त्रीशरीरात् कथंचन ॥

yāvac cāgnau mṛte patyau strī nātmānaṃ pradāhayet | tāvan na mucyate sā hi strīśarīrāt kathaṃcana ||

Report an error

इति । हारीतो ऽपि । मातृकं पैतृकं चापि यत्र चैव प्रदीयते । कुलत्रयं पुनात्य् एषा भर्तारं यानुगच्छति ॥

iti | hārīto 'pi | mātṛkaṃ paitṛkaṃ cāpi yatra caiva pradīyate | kulatrayaṃ punāty eṣā bhartāraṃ yānugacchati ||

Report an error

इति । तथा । आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता । इति । अयं च सकल एव सर्वासां स्त्रीणाम् अगर्भिणीनाम् अबालापत्यानाम् आचण्डालं साधारणो धर्मः, भर्तारं यानुगच्छतीत्य् अविशेषोपादानात् । यानि च ब्रह्मण्यनुगमननिषेधपराणि वाक्यानि । मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु तु वर्णेषु तपः परमम् उच्यते ॥

iti | tathā | ārtārte mudite hṛṣṭā proṣite malinā kṛśā | mṛte mriyeta yā patyau sā strī jñeyā pativratā | iti | ayaṃ ca sakala eva sarvāsāṃ strīṇām agarbhiṇīnām abālāpatyānām ācaṇḍālaṃ sādhāraṇo dharmaḥ, bhartāraṃ yānugacchatīty aviśeṣopādānāt | yāni ca brahmaṇyanugamananiṣedhaparāṇi vākyāni | mṛtānugamanaṃ nāsti brāhmaṇyā brahmaśāsanāt | itareṣu tu varṇeṣu tapaḥ paramam ucyate ||

Report an error

जीवन्ती तद्धितं कुर्यान् मरणाद् आत्मघातिनी । या स्त्री ब्राह्मणजातीया मृतं पतिम् अनुव्रजेत् ॥

jīvantī taddhitaṃ kuryān maraṇād ātmaghātinī | yā strī brāhmaṇajātīyā mṛtaṃ patim anuvrajet ||

Report an error

सा स्वर्गम् आत्मघातेन नात्मानं न पतिं नयेत् ॥

sā svargam ātmaghātena nātmānaṃ na patiṃ nayet ||

Report an error

इत्येवमादीनि तानि पृथक्चित्यधिरोहणविषयाणि । पृथक्चितिं समारुह्य न विप्रा गन्तुम् अर्हति । इति विशेषस्मरणात् । अनेन क्षत्रियादिस्त्रीणां पृथक्चित्यभ्यनुज्ञा गम्यते । यत् तु कैश् चिद् उक्तं पुरुषाणाम् इव स्त्रीणाम् अप्य् आत्महननस्य प्रतिषिद्धत्वाद् अतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्त्रम् अतिक्रामन्त्या अयम् अनुगमनोपदेशः श्येनवत् । यथा "श्येनेनाभिचरन् यजेत" इति तीव्रक्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्त्रम् अतिक्रामतः श्येनोपदेश इति । तद् अयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पर्शाभावेन प्रतिषेधसंस्पर्शात् फलद्वारेण श्येनस्यानर्थतां वर्णयन्ति तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनन्शास्त्रेण विधीयमानत्वाप्रतिषेधसंस्पर्शाभावाद् अग्नीषोमीयवत् स्पष्टम् एवानुगमनस्य श्येनवैषम्यम् । यत् तु मतं हिंसानां मरणानुकूलो व्यापारः, श्येनश् च परमरणानुकूलव्यापाररूपत्वाद् धिंसैव, कामाधिकारे च करणांशे रागतः प्रवृत्तिसंभवेन विधेर् अप्रवर्तकत्वात् ।

ityevamādīni tāni pṛthakcityadhirohaṇaviṣayāṇi | pṛthakcitiṃ samāruhya na viprā gantum arhati | iti viśeṣasmaraṇāt | anena kṣatriyādistrīṇāṃ pṛthakcityabhyanujñā gamyate | yat tu kaiś cid uktaṃ puruṣāṇām iva strīṇām apy ātmahananasya pratiṣiddhatvād atipravṛddhasvargābhilāṣāyāḥ pratiṣedhaśāstram atikrāmantyā ayam anugamanopadeśaḥ śyenavat | yathā "śyenenābhicaran yajeta" iti tīvrakrodhākrāntasvāntasya pratiṣedhaśāstram atikrāmataḥ śyenopadeśa iti | tad ayuktam | ye tāvat śyenakaraṇikāyāṃ bhāvanāyāṃ bhāvyabhūtahiṃsāyāṃ vidhisaṃsparśābhāvena pratiṣedhasaṃsparśāt phaladvāreṇa śyenasyānarthatāṃ varṇayanti teṣāṃ mate hiṃsāyā eva svargārthatayā anugamananśāstreṇa vidhīyamānatvāpratiṣedhasaṃsparśābhāvād agnīṣomīyavat spaṣṭam evānugamanasya śyenavaiṣamyam | yat tu mataṃ hiṃsānāṃ maraṇānukūlo vyāpāraḥ, śyenaś ca paramaraṇānukūlavyāpārarūpatvād dhiṃsaiva, kāmādhikāre ca karaṇāṃśe rāgataḥ pravṛttisaṃbhavena vidher apravartakatvāt |

Report an error

रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर इति, तत्राप्य् अनुगमनशास्त्रेण मरणस्यैव स्वर्गसाधनतया विधानान् मरणे यद्य् अपि रागतः प्रवृत्तिस् तथापि मरणानुकूले व्यापारे ऽग्निप्रवेशादाव् इतिकर्तव्यतारूपे विधित एव प्रवृत्तिर् इति न निषेधस्यावकाशः "वायव्यं श्वेतम् आलभेत भूतिकामः" इतिवत् । तस्मात् स्पष्टम् एवानुगमनस्य श्येनवैषम्यम् । यत् तु "तस्माद् उ ह न पुरायुषः स्वःकामी प्रेयात्" इति श्रुतिविरोधाद् अनुगमनम् अयुक्तम् इति । यच् च "तद् उ ह न स्वःकाम्य् आयुषः प्राङ् न प्रेयात्" इति स्वर्गफलोद्देशेनायुषः प्राग् आयुर् व्ययो न कर्तव्यो मोक्षार्थिना, यस्माद् आयुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षपितान्तःकरणकलङ्कस्य श्रवणमनननिदिध्यासनसंपत्तौ सत्यम् आत्मज्ञानेन निरतिशयानन्दब्रह्मप्राप्तिलक्षणमोक्षसंभवः । तस्माद् अनित्याल्पसुखरूपस्वर्गार्थम् आयुर् व्ययो न कर्तव्य इत्य् अर्थः । अतश् च मोक्षम् अनिच्छन्त्या अनित्याल्पसुखरूपस्वर्गार्थिन्या अनुगमनं युक्तम् इतरकाम्यानुष्ठानवद् इति सर्वम् अनवद्यम् ॥ १.८६ ॥

rāgaprayuktahiṃsārūpatvāt śyenaḥ pratiṣiddhaḥ svarūpeṇaivānarthakara iti, tatrāpy anugamanaśāstreṇa maraṇasyaiva svargasādhanatayā vidhānān maraṇe yady api rāgataḥ pravṛttis tathāpi maraṇānukūle vyāpāre 'gnipraveśādāv itikartavyatārūpe vidhita eva pravṛttir iti na niṣedhasyāvakāśaḥ "vāyavyaṃ śvetam ālabheta bhūtikāmaḥ" itivat | tasmāt spaṣṭam evānugamanasya śyenavaiṣamyam | yat tu "tasmād u ha na purāyuṣaḥ svaḥkāmī preyāt" iti śrutivirodhād anugamanam ayuktam iti | yac ca "tad u ha na svaḥkāmy āyuṣaḥ prāṅ na preyāt" iti svargaphaloddeśenāyuṣaḥ prāg āyur vyayo na kartavyo mokṣārthinā, yasmād āyuṣaḥ śeṣe sati nityanaimittikakarmānuṣṭhānakṣapitāntaḥkaraṇakalaṅkasya śravaṇamanananididhyāsanasaṃpattau satyam ātmajñānena niratiśayānandabrahmaprāptilakṣaṇamokṣasaṃbhavaḥ | tasmād anityālpasukharūpasvargārtham āyur vyayo na kartavya ity arthaḥ | ataś ca mokṣam anicchantyā anityālpasukharūpasvargārthinyā anugamanaṃ yuktam itarakāmyānuṣṭhānavad iti sarvam anavadyam || 1.86 ||

Report an error

किं च । पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । १.८७

kiṃ ca | patipriyahite yuktā svācārā vijitendriyā | 1.87

Report an error

सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८७ ॥

seha kīrtim avāpnoti pretya cānuttamāṃ gatim || 1.87 ||

Report an error

प्रियम् अनवद्यत्वेन मनसो ऽनुकूलम्, आयत्यां यच् छ्रेयस्करं तद् धितम् । प्रियं च तद् धितं च प्रियहितम् । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारः यस्याः सा तथोक्ता । शोभनश् चाचारो दर्शितः शङ्खेन: "नानुक्त्वा गृहान् निर्गच्छेत् । नानुत्तरीया न त्वरितं व्रजेत् । न परपुरुषम् अभिभाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभः । न नाभिं दर्शयेत् । आ गुल्फाद् वासः परिदध्यात् । न स्तनौ विवृतौ कुर्यात् । न हसेद् अप्रावृता । भर्तारं तद् बन्धून् वा न द्विष्यात् । न गणिकाधूर्ताभिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्टेत् । संसर्गेन हि कुलस्त्रीणां चारित्रं दुष्यति । इति । विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनःसहितानि यया सा इह लोके कीर्तिं प्रख्यातिं परलोके चोत्तमां गतिं प्राप्नोति । अयं च सकल एव स्त्रीधर्मो विवाहाद् ऊर्ध्वं वेदितव्यः, "प्राग् उपनयनात् कामचारकामवादकामभक्षाः" इति स्मरणात्, वैवाहिको विधिः स्त्रीणाम् औपनायनिकः स्मृतः । इति च ॥ १.८७ ॥

priyam anavadyatvena manaso 'nukūlam, āyatyāṃ yac chreyaskaraṃ tad dhitam | priyaṃ ca tad dhitaṃ ca priyahitam | patyuḥ priyahitaṃ patipriyahitaṃ tasmin yuktā niratā | svācārā śobhana ācāraḥ yasyāḥ sā tathoktā | śobhanaś cācāro darśitaḥ śaṅkhena: "nānuktvā gṛhān nirgacchet | nānuttarīyā na tvaritaṃ vrajet | na parapuruṣam abhibhāṣetānyatra vaṇikpravrajitavṛddhavaidyebhaḥ | na nābhiṃ darśayet | ā gulphād vāsaḥ paridadhyāt | na stanau vivṛtau kuryāt | na hased aprāvṛtā | bhartāraṃ tad bandhūn vā na dviṣyāt | na gaṇikādhūrtābhisāriṇīpravrajitāprekṣaṇikāmāyāmūlakuhakakārikāduḥśīlādibhiḥ sahaikatra tiṣṭet | saṃsargena hi kulastrīṇāṃ cāritraṃ duṣyati | iti | vijitendriyā vijitāni saṃyamitāni indriyāṇi śrotrādīni vāgādīni ca manaḥsahitāni yayā sā iha loke kīrtiṃ prakhyātiṃ paraloke cottamāṃ gatiṃ prāpnoti | ayaṃ ca sakala eva strīdharmo vivāhād ūrdhvaṃ veditavyaḥ, "prāg upanayanāt kāmacārakāmavādakāmabhakṣāḥ" iti smaraṇāt, vaivāhiko vidhiḥ strīṇām aupanāyanikaḥ smṛtaḥ | iti ca || 1.87 ||

Report an error

अनेकभार्यं प्रत्य् आह ।

anekabhāryaṃ praty āha |

Report an error

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् । १.८८

satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet | 1.88

Report an error

सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ १.८८ ॥

savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā || 1.88 ||

Report an error

सवर्णायां सत्याम् अन्याम् असवर्णां नैव धर्मकार्यं कारयेत् । सवर्णास्व् अपि बह्वीषु धर्म्ये विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या ॥ १.८८ ॥

savarṇāyāṃ satyām anyām asavarṇāṃ naiva dharmakāryaṃ kārayet | savarṇāsv api bahvīṣu dharmye vidhau dharmānuṣṭhāne jyeṣṭhayā vinā jyeṣṭhāṃ muktvā itarā madhyamā kaniṣṭhā vā na niyoktavyā || 1.88 ||

Report an error

प्रमीतपतिकाया विधिम् उक्त्वा, इदानीं प्रमीतभार्यं प्रत्य् आह ।

pramītapatikāyā vidhim uktvā, idānīṃ pramītabhāryaṃ praty āha |

Report an error

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । १.८९

dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ | 1.89

Report an error

आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥ १.८९ ॥

āhared vidhivad dārān agnīṃś caivāvilambayan || 1.89 ||

Report an error

पूर्वोक्तवृत्तवतीम् आचारवतीं विपन्नां स्त्रियम् अग्निहोत्रेण श्रौतेनाग्निना तदभावे स्मार्तेन दाहयित्वा पतिः भार्ता अनुत्पादितपुत्रो ऽनिष्टयज्ञो वा आश्रमान्तरेष्व् अनधिकृतो वा स्त्र्यन्त्रराभावे पुनर् दारान् अग्नींश् च विधिवद् आहरेत् । अविलम्बयन् शीघ्रम् एव , अनाश्रमी न तिष्ठेत दिनम् एकम् अपि द्विजः । इति दक्षस्मरणात् । एतच् चाधानेन सहाधिकृताया एव नान्यस्याः । यत् तु । द्वितीयां चैव यो भार्यां दहेद् वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥

pūrvoktavṛttavatīm ācāravatīṃ vipannāṃ striyam agnihotreṇa śrautenāgninā tadabhāve smārtena dāhayitvā patiḥ bhārtā anutpāditaputro 'niṣṭayajño vā āśramāntareṣv anadhikṛto vā stryantrarābhāve punar dārān agnīṃś ca vidhivad āharet | avilambayan śīghram eva , anāśramī na tiṣṭheta dinam ekam api dvijaḥ | iti dakṣasmaraṇāt | etac cādhānena sahādhikṛtāyā eva nānyasyāḥ | yat tu | dvitīyāṃ caiva yo bhāryāṃ dahed vaitānikāgnibhiḥ | jīvantyāṃ prathamāyāṃ hi surāpānasamaṃ hi tat ||

Report an error

इति । तथा । मृतायां तु द्वितीयायां यो ऽग्निहोत्रं समुत्सृजेत् । ब्रह्मघ्नं तं विजानीयाद् यश् च कामात् समुत्सृजेत् ॥

iti | tathā | mṛtāyāṃ tu dvitīyāyāṃ yo 'gnihotraṃ samutsṛjet | brahmaghnaṃ taṃ vijānīyād yaś ca kāmāt samutsṛjet ||

Report an error

इत्य् एवमादि, तद् आधानेन सहानधिकृताया अग्निदाने वेदितव्यम् ॥ १.८९ ॥

ity evamādi, tad ādhānena sahānadhikṛtāyā agnidāne veditavyam || 1.89 ||

Report an error

इति विवाहप्रकरणम् ।

iti vivāhaprakaraṇam |

Report an error

अथ वर्णजातिविवेकप्रकरणम् ४

atha varṇajātivivekaprakaraṇam 4

Report an error

ब्राह्मणस्य चतस्रः भार्या भवन्ति क्षत्रियस्य तिस्रः वैश्यस्य द्वे शूद्रस्य एकेति उक्त्वा तासु च पुत्रा उत्पादयितव्या इति उक्तम् । इदानीं कस्यां कस्मात् कः पुत्रः भवति इति विवेकम् आह ।

brāhmaṇasya catasraḥ bhāryā bhavanti kṣatriyasya tisraḥ vaiśyasya dve śūdrasya eketi uktvā tāsu ca putrā utpādayitavyā iti uktam | idānīṃ kasyāṃ kasmāt kaḥ putraḥ bhavati iti vivekam āha |

Report an error

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । १.९०

savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ | 1.90

Report an error

अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.९० ॥

anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ || 1.90 ||

Report an error

सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमानजातीयाः पुत्रा भवन्ति । "विन्नासु एष विधिः स्मृतः" इति सर्वशेषत्वेनोपसंहाराद् विन्नासु सवर्णास्व् इति संबध्यते । विनाशब्दस्य संबन्धिशब्दत्वाद् वेत्तृभ्यः सवर्णेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश् चायम् अर्थः संवृत्तः । उक्तेन विधिनोढायां सवर्णायां वोढुः सवर्णाद् उत्पन्नास् तस्मात् समानजातीया भवन्ति । अतश् च कुण्डगोलककानीनसहोढजादीनाम् असवर्णत्वम् उक्तं भवति । ते च सवर्णेभ्यो ऽनुलोमप्रतिलोमेभ्यश् च भिद्यमाणाः साधारणधर्मैर् हिंसादिभिर् अधिक्रियन्ते, शुद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः । इति स्मरणात् । अपध्वंसजा व्यभिचारजाताः शूद्रधर्मैर् अपि द्विजशुश्रूषादिभिर् अधिक्रियन्ते । ननु कुण्डगोलकयोर् अब्राह्मणत्वात् श्राद्धे प्रतिषेधो ऽनुपपन्नः न्यायविरोधश् च । यो यज्जातीयाद् यज्जातीयायाम् उत्पन्नः सः तज्जातीय एव भवति, यथा गोर् गवि गौः, अश्वाद् वडवायाम् अश्वः । तस्माद् ब्राह्मणाद् ब्राह्मण्याम् उत्पन्नो ब्राह्मण इति न विरुद्धम् ।

savarṇebhyo brāhmaṇādibhyaḥ savarṇāsu brāhmaṇyādiṣu sajātayo mātṛpitṛsamānajātīyāḥ putrā bhavanti | "vinnāsu eṣa vidhiḥ smṛtaḥ" iti sarvaśeṣatvenopasaṃhārād vinnāsu savarṇāsv iti saṃbadhyate | vināśabdasya saṃbandhiśabdatvād vettṛbhyaḥ savarṇebhya iti labhyate | ekaḥ savarṇaśabdaḥ spaṣṭārthaḥ | ataś cāyam arthaḥ saṃvṛttaḥ | uktena vidhinoḍhāyāṃ savarṇāyāṃ voḍhuḥ savarṇād utpannās tasmāt samānajātīyā bhavanti | ataś ca kuṇḍagolakakānīnasahoḍhajādīnām asavarṇatvam uktaṃ bhavati | te ca savarṇebhyo 'nulomapratilomebhyaś ca bhidyamāṇāḥ sādhāraṇadharmair hiṃsādibhir adhikriyante, śudrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ | iti smaraṇāt | apadhvaṃsajā vyabhicārajātāḥ śūdradharmair api dvijaśuśrūṣādibhir adhikriyante | nanu kuṇḍagolakayor abrāhmaṇatvāt śrāddhe pratiṣedho 'nupapannaḥ nyāyavirodhaś ca | yo yajjātīyād yajjātīyāyām utpannaḥ saḥ tajjātīya eva bhavati, yathā gor gavi gauḥ, aśvād vaḍavāyām aśvaḥ | tasmād brāhmaṇād brāhmaṇyām utpanno brāhmaṇa iti na viruddham |

Report an error

तथा कानीनपौनर्भवादीन् अनुक्रम्य, सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । इति वक्ष्यमाणवचनविरोधश् च । नैतत् सारम् । ब्राह्मणेन ब्राह्मण्याम् उत्पन्नो ब्राह्मण इति भ्रमनिवृत्त्यर्थः श्राद्धे प्रतिषेधः । यथात्यन्तम् अप्राप्तस्य पतितस्य श्राद्धे प्रतिषेधः । न च न्यायविरोधः । यत्र प्रत्यक्षगम्या जातिर् भवति तत्र तथा । ब्राह्मणादिजातिस् तु स्मृतिलक्षणा यथास्मरणम् भवति । यथा समाने ऽपि ब्राह्मण्ये कुण्डिनो वसिष्टो ऽत्रिर् गौतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यत्वे समाने ऽपि ब्राह्मण्यादिजातिः स्मरणलक्षणा । मातापित्रोश् चैतद् एव जातिलक्षणम् । न चानवस्था । अनादित्वात् संसारस्य शब्दार्थव्यवहारवत् । सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । इति तूक्तानुवादत्वाद् यथासंभवं व्याख्यास्यते । क्षेत्रजस् तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच् च । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्य् अलम् अतिप्रसङ्गेन । किं चानिन्द्येषु ब्राह्मदिविवाहेषु पुत्राः सन्तानवर्धना अरोगिणो दीर्घायुषो धर्मप्रजासंपन्ना भवन्ति ॥ १.९० ॥

tathā kānīnapaunarbhavādīn anukramya, sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ | iti vakṣyamāṇavacanavirodhaś ca | naitat sāram | brāhmaṇena brāhmaṇyām utpanno brāhmaṇa iti bhramanivṛttyarthaḥ śrāddhe pratiṣedhaḥ | yathātyantam aprāptasya patitasya śrāddhe pratiṣedhaḥ | na ca nyāyavirodhaḥ | yatra pratyakṣagamyā jātir bhavati tatra tathā | brāhmaṇādijātis tu smṛtilakṣaṇā yathāsmaraṇam bhavati | yathā samāne 'pi brāhmaṇye kuṇḍino vasiṣṭo 'trir gautama iti smaraṇalakṣaṇaṃ gotram, tathā manuṣyatve samāne 'pi brāhmaṇyādijātiḥ smaraṇalakṣaṇā | mātāpitroś caitad eva jātilakṣaṇam | na cānavasthā | anāditvāt saṃsārasya śabdārthavyavahāravat | sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ | iti tūktānuvādatvād yathāsaṃbhavaṃ vyākhyāsyate | kṣetrajas tu mātṛsamānajātīyo niyogasmaraṇāt śiṣṭasamācārāc ca | yathā dhṛtarāṣṭrapāṇḍuvidurāḥ kṣetrajāḥ santo mātṛsamānajātīyā ity alam atiprasaṅgena | kiṃ cānindyeṣu brāhmadivivāheṣu putrāḥ santānavardhanā arogiṇo dīrghāyuṣo dharmaprajāsaṃpannā bhavanti || 1.90 ||

Report an error

सवर्णान् उक्त्वा इदानीम् अनुलोमान् आह ।

savarṇān uktvā idānīm anulomān āha |

Report an error

विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियां । १.९१

viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyāṃ | 1.91

Report an error

अम्बष्ठः शूद्र्यां निषादो जातः पारश्वो ऽपि वा ॥ १.९१ ॥

ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśvo 'pi vā || 1.91 ||

Report an error

ब्राह्मणात् क्षत्रियायां विन्नायाम् उत्पन्नो मूर्धावसिक्तो नाम पुत्रः भवति । वैश्यकन्यायां विन्नायाम् उत्पन्नो ऽम्बष्ठो नाम भवति । शूद्रायां विन्नायां निषादओ नाम पुत्रो भवति । निषादो नाम कश् चिन् मत्स्यघातजीवी प्रतिलोमजः स मा भूद् इति पारश्वो ऽयं निषाद इति संज्ञाविकल्पः । विप्राद् इति सर्वत्रानुवर्तते । यत् तु "ब्राह्मणेन क्षत्रियायाम् उत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायाम् उत्पादितो वैश्य एव भवति । वैश्येन शूद्रायाम् उत्पादितः शूद्र एव भवति" इति शङ्खस्मरणं, तत् क्षत्रियादिधर्मप्राप्त्यर्थं न पुनर् मूर्धावसिक्तादिजातिनिराकरणार्थं क्षत्रियादिजातिप्राप्त्यर्थं वा । अतश् च मूर्धावसिक्तादीनां क्सत्रियादेर् उक्तैर् एव दण्डाजिनोपवीतादिभिर् उपनयनादिकं कार्यम् । प्राग् उपनयनात् कामचारादि पूर्ववद् एव वेदितव्यम् ॥ १.९१ ॥

brāhmaṇāt kṣatriyāyāṃ vinnāyām utpanno mūrdhāvasikto nāma putraḥ bhavati | vaiśyakanyāyāṃ vinnāyām utpanno 'mbaṣṭho nāma bhavati | śūdrāyāṃ vinnāyāṃ niṣādao nāma putro bhavati | niṣādo nāma kaś cin matsyaghātajīvī pratilomajaḥ sa mā bhūd iti pāraśvo 'yaṃ niṣāda iti saṃjñāvikalpaḥ | viprād iti sarvatrānuvartate | yat tu "brāhmaṇena kṣatriyāyām utpāditaḥ kṣatriya eva bhavati | kṣatriyeṇa vaiśyāyām utpādito vaiśya eva bhavati | vaiśyena śūdrāyām utpāditaḥ śūdra eva bhavati" iti śaṅkhasmaraṇaṃ, tat kṣatriyādidharmaprāptyarthaṃ na punar mūrdhāvasiktādijātinirākaraṇārthaṃ kṣatriyādijātiprāptyarthaṃ vā | ataś ca mūrdhāvasiktādīnāṃ ksatriyāder uktair eva daṇḍājinopavītādibhir upanayanādikaṃ kāryam | prāg upanayanāt kāmacārādi pūrvavad eva veditavyam || 1.91 ||

Report an error

वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ । १.९२

vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau | 1.92

Report an error

वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ १.९२ ॥

vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ || 1.92 ||

Report an error

वैश्यायां शूद्रायां च विन्नायां राजन्यान् माहिष्योग्रौ यथाक्रमं पुत्रौ भवत्ः । वैश्येन शूद्रायां विन्नायां करणो नाम पुत्रो भवति । एष सर्वणमूर्धावसिक्तादिसंज्ञाविधिः विन्नासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ताम्बष्ठनिषादमाहिष्योग्रकरणाः षड् अनुकोमजाः पुत्रा वेदितव्याः ॥ १.९२ ॥

vaiśyāyāṃ śūdrāyāṃ ca vinnāyāṃ rājanyān māhiṣyograu yathākramaṃ putrau bhavatḥ | vaiśyena śūdrāyāṃ vinnāyāṃ karaṇo nāma putro bhavati | eṣa sarvaṇamūrdhāvasiktādisaṃjñāvidhiḥ vinnāsūḍhāsu smṛta ukto veditavyaḥ | ete ca mūrdhāvasiktāmbaṣṭhaniṣādamāhiṣyograkaraṇāḥ ṣaḍ anukomajāḥ putrā veditavyāḥ || 1.92 ||

Report an error

प्रतिलोमजान् आह ।

pratilomajān āha |

Report an error

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा । १.९३

brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā | 1.93

Report an error

शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥

śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ || 1.93 ||

Report an error

ब्राह्मण्यां क्षत्रियवैश्यशूद्रैर् उत्पादिता यथाक्रमं सूतवैदेहकचण्डालाख्याः पुत्रा भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥

brāhmaṇyāṃ kṣatriyavaiśyaśūdrair utpāditā yathākramaṃ sūtavaidehakacaṇḍālākhyāḥ putrā bhavanti | tatra caṇḍālaḥ sarvadharmabahiṣkṛtaḥ || 1.93 ||

Report an error

क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च । १.९४

kṣatriyā māgadhaṃ vaiśyāc chūdrāt kṣattāram eva ca | 1.94

Report an error

शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ १.९४ ॥

śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam || 1.94 ||

Report an error

किं च । क्षत्रिया योषित् वैश्यान् मागधं नाम पुत्रं जनयति । सैव शूद्रात् क्षत्तारं पुत्रं जनयति । वैश्ययोषिच् छूद्राद् आयोगवं पुत्रं जनयति । एते च सूतवैदेहकचण्डालमागधक्षत्त्रायोगवाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ १.९४ ॥

kiṃ ca | kṣatriyā yoṣit vaiśyān māgadhaṃ nāma putraṃ janayati | saiva śūdrāt kṣattāraṃ putraṃ janayati | vaiśyayoṣic chūdrād āyogavaṃ putraṃ janayati | ete ca sūtavaidehakacaṇḍālamāgadhakṣattrāyogavāḥ ṣaṭ pratilomajāḥ | eteṣāṃ ca vṛttaya auśanase mānave ca draṣṭavyāḥ || 1.94 ||

Report an error

संकीर्णसंकरजात्यन्तरम् आह ।

saṃkīrṇasaṃkarajātyantaram āha |

Report an error

माहिष्येण करण्यां तु रथकारः प्रजायते । १.९५

māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate | 1.95

Report an error

असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ १.९५ ॥

asatsantas tu vijñeyāḥ pratilomānulomajāḥ || 1.95 ||

Report an error

क्षत्रियेण वैश्यायाम् उत्पादितो माहिष्यः । वैश्येन शूद्रायाम् उत्पादिता करणी तस्यां माहिष्येनोत्पादितो रथकारो नाम जात्या भवति । तस्य च उपनयनादि सर्वं कार्यं वचनात् । यथाह शङ्खः । "क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथकारस् तस्येज्यादानोपन्यनसंस्कारक्रिया अश्वप्रतिष्ठारथसूत्रवास्तुविद्याध्ययनवृत्तिता च" इति । एवं ब्राह्मणक्षत्रियोत्पन्नमूर्धावसिक्तमाहिष्याद् अनुलोमसंकरे जात्यन्तरता उपनयनादिप्राप्तिश् च वेदितव्या, तयोर् द्विजातित्वात् । संज्ञास् तु स्मृत्यन्तरोक्ताद् द्रष्टव्याः । एतच् च प्रदर्शनमात्रम् उक्तम् । संकीर्णसंकरजातीनाम् आनन्त्याद् वक्तुम् अशक्यत्वात् । अत एतावद् अत्र विवक्षितं: असन्तः प्रतिलोमजाः सन्तश् चानुलोमजा ज्ञातव्या इति ॥ १.९५ ॥

kṣatriyeṇa vaiśyāyām utpādito māhiṣyaḥ | vaiśyena śūdrāyām utpāditā karaṇī tasyāṃ māhiṣyenotpādito rathakāro nāma jātyā bhavati | tasya ca upanayanādi sarvaṃ kāryaṃ vacanāt | yathāha śaṅkhaḥ | "kṣatriyavaiśyānulomāntarotpanno yo rathakāras tasyejyādānopanyanasaṃskārakriyā aśvapratiṣṭhārathasūtravāstuvidyādhyayanavṛttitā ca" iti | evaṃ brāhmaṇakṣatriyotpannamūrdhāvasiktamāhiṣyād anulomasaṃkare jātyantaratā upanayanādiprāptiś ca veditavyā, tayor dvijātitvāt | saṃjñās tu smṛtyantaroktād draṣṭavyāḥ | etac ca pradarśanamātram uktam | saṃkīrṇasaṃkarajātīnām ānantyād vaktum aśakyatvāt | ata etāvad atra vivakṣitaṃ: asantaḥ pratilomajāḥ santaś cānulomajā jñātavyā iti || 1.95 ||

Report an error

"सर्वेणभ्यः सर्वणासु जायन्ते" इत्यादिना वर्णप्राप्तौ कारणम् उक्तम् । इदानीं कारणान्तरम् आह ।

"sarveṇabhyaḥ sarvaṇāsu jāyante" ityādinā varṇaprāptau kāraṇam uktam | idānīṃ kāraṇāntaram āha |

Report an error

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा । १.९६

jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā | 1.96

Report an error

व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥ १.९६ ॥

vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cādharottaram || 1.96 ||

Report an error

जातयो मूर्धावसिक्ताद्यास् तासाम् उत्कर्षो ब्राह्मणत्वादिजातिप्राप्तिर् जात्युत्कर्षो युगे जन्मनि सप्तमे पञ्चमे अपिशब्दात् षष्ठे वा बोद्धव्यः । व्यवस्थितश् चायं विकल्पः । व्यवस्था च: ब्राह्मणेन शूद्रायाम् उन्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं कांचिज् जनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्य् अनेन प्रकारेण षष्टी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायाम् उत्पादिता अम्बष्ठा । साप्य् अनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्य् अनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणम् एव जनयति । एवम् उग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं षष्ठं पञ्चमं च क्षत्रियं जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यम् इत्य् एवम् अन्यत्राप्य् ऊहनीयम् । किं च कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुख्यया वृत्त्या अजीवन् क्षात्रेण कर्मणा जीवेद् इत्य् अनुकल्पः । तेनाप्य् अजीवन् वैश्यवृत्त्या तयाप्य् अजीवन् शूद्रवृत्त्या । क्षत्रियो ऽपि स्वकर्मणा जीवनार्थेनाजीवन् वैश्यवृत्त्या शूद्रवृत्त्या वा । वैश्यो ऽपि स्ववृत्त्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः ।

jātayo mūrdhāvasiktādyās tāsām utkarṣo brāhmaṇatvādijātiprāptir jātyutkarṣo yuge janmani saptame pañcame apiśabdāt ṣaṣṭhe vā boddhavyaḥ | vyavasthitaś cāyaṃ vikalpaḥ | vyavasthā ca: brāhmaṇena śūdrāyām unpāditā niṣādī, sā brāhmaṇenoḍhā duhitaraṃ kāṃcij janayati, sāpi brāhmaṇenoḍhānyāṃ janayatīty anena prakāreṇa ṣaṣṭī saptamaṃ brāhmaṇaṃ janayati | brāhmaṇena vaiśyāyām utpāditā ambaṣṭhā | sāpy anena prakāreṇa pañcamī ṣaṣṭhaṃ brāhmaṇaṃ janayati | mūrdhāvasiktāpy anena prakāreṇa caturthī pañcamaṃ brāhmaṇam eva janayati | evam ugrā kṣatriyeṇoḍhā māhiṣyā ca yathākramaṃ ṣaṣṭhaṃ pañcamaṃ ca kṣatriyaṃ janayati | tathā karaṇī vaiśyoḍhā pañcamaṃ vaiśyam ity evam anyatrāpy ūhanīyam | kiṃ ca karmaṇāṃ vyatyaye vṛttyarthānāṃ karmaṇāṃ viparyāse yathā brāhmaṇo mukhyayā vṛttyā ajīvan kṣātreṇa karmaṇā jīved ity anukalpaḥ | tenāpy ajīvan vaiśyavṛttyā tayāpy ajīvan śūdravṛttyā | kṣatriyo 'pi svakarmaṇā jīvanārthenājīvan vaiśyavṛttyā śūdravṛttyā vā | vaiśyo 'pi svavṛttyā ajīvan śūdravṛttyeti karmaṇāṃ vyatyayaḥ |

Report an error

तस्मिन् व्यत्यये सति यद्य् आपद्विमोक्षे ऽपि तां वृत्तिं न परित्यजति तदा सप्तमे षष्ठे पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातित्वं भवति । तद् यथा । ब्राह्मणः शूद्रवृत्त्या जीवंस् ताम् अपरित्यजन् यदि पुत्रम् उत्पादयति सो ऽपि तयैव वृत्त्या जीवन् पुत्रान्तरम् इत्य् एवं परम्परया सप्तमे जन्मनि शूद्रम् एव जनयति । वैश्यवृत्त्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्त्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियो ऽपि शूद्रवृत्त्या जीवन् षष्ठे शूद्रम् । वैश्यवृत्त्या जीवन् पञ्चमे वैश्यम् । वैश्यो ऽपि शूद्रवृत्त्या जीवंस् ताम् अपरित्यजन् पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जनयतीति । "पूर्ववच् चाधरोत्तरम्" । अस्यार्थः: वर्णसंकरे अनुलोमजाः प्रतिलोमजाश् च दर्शिताः । संकीर्णसंकरजाताश् च रथकारनिदर्शनेन दर्शिताः । इदानीं वर्णसंकीर्णसंकरजाताः प्रदर्श्यन्ते ।

tasmin vyatyaye sati yady āpadvimokṣe 'pi tāṃ vṛttiṃ na parityajati tadā saptame ṣaṣṭhe pañcame vā janmani sāmyaṃ yasya hīnavarṇasya karmaṇā jīvati tatsamānajātitvaṃ bhavati | tad yathā | brāhmaṇaḥ śūdravṛttyā jīvaṃs tām aparityajan yadi putram utpādayati so 'pi tayaiva vṛttyā jīvan putrāntaram ity evaṃ paramparayā saptame janmani śūdram eva janayati | vaiśyavṛttyā jīvan ṣaṣṭhe vaiśyam | kṣatriyavṛttyā jīvan pañcame kṣatriyam | kṣatriyo 'pi śūdravṛttyā jīvan ṣaṣṭhe śūdram | vaiśyavṛttyā jīvan pañcame vaiśyam | vaiśyo 'pi śūdravṛttyā jīvaṃs tām aparityajan putraparamparayā pañcame janmani śūdraṃ janayatīti | "pūrvavac cādharottaram" | asyārthaḥ: varṇasaṃkare anulomajāḥ pratilomajāś ca darśitāḥ | saṃkīrṇasaṃkarajātāś ca rathakāranidarśanena darśitāḥ | idānīṃ varṇasaṃkīrṇasaṃkarajātāḥ pradarśyante |

Report an error

अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावैक्तायां क्षत्रियवैश्यशूद्रैर् उत्पादितस् तथा अम्बष्ठायां वैश्यशूद्राभ्यां निषाद्यां शूद्रेणोत्पादिता अधराः प्रतिलोमजास् तथा मूर्धावसिक्ताम्बष्ठानिषादिषु ब्राह्मणेनोत्पादिताः, माहिष्योग्रयोर् ब्राह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन क्षत्रियेण वैश्येन चोत्पादिता उत्तरे अनुलोमजाः । एवम् अन्यत्राप्य् ऊहनीयम् । एतद् अधरोत्तरं पूर्ववद् असद्सद् इति बोद्धव्यम् ॥ १.९६ ॥

adhare ca uttare ca adharottaraṃ yathā mūrdhāvaiktāyāṃ kṣatriyavaiśyaśūdrair utpāditas tathā ambaṣṭhāyāṃ vaiśyaśūdrābhyāṃ niṣādyāṃ śūdreṇotpāditā adharāḥ pratilomajās tathā mūrdhāvasiktāmbaṣṭhāniṣādiṣu brāhmaṇenotpāditāḥ, māhiṣyograyor brāhmaṇena kṣatriyeṇa cotpāditāḥ, karaṇyāṃ brāhmaṇena kṣatriyeṇa vaiśyena cotpāditā uttare anulomajāḥ | evam anyatrāpy ūhanīyam | etad adharottaraṃ pūrvavad asadsad iti boddhavyam || 1.96 ||

Report an error

इति वर्णजातिविवेकप्रकरणम् ।

iti varṇajātivivekaprakaraṇam |

Report an error

अथ गृहस्थधर्मप्रकरणम्

atha gṛhasthadharmaprakaraṇam

Report an error

श्रौतस्मार्तानि कर्माण्य् अग्निसाध्यानि दर्शयिष्यन् कस्मिन्न् अग्नौ किं कर्तव्यम् इत्य् आह ।

śrautasmārtāni karmāṇy agnisādhyāni darśayiṣyan kasminn agnau kiṃ kartavyam ity āha |

Report an error

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । १.९७

karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī | 1.97

Report an error

दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९७ ॥

dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu || 1.97 ||

Report an error

स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत् प्रतिदिनं पाकलक्षणं तद् अपि गृहस्थो विवाहाग्नौ विवाहसंस्कृते कुर्वीत । दायकाले विभागकाल आहृते वा "वैश्यकुलाद् अग्निम् आनीय" इत्यादिनोक्तसंस्कारसंस्कृते । अपिशब्दात् प्रेते वा गृहपतौ आहृते संस्कृते एव । ततश् च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तम् अघ्निहोत्रादिकं कर्म वैतानिकाग्निषु आहवनीयादिषु कुर्वीत ॥ १.९७ ॥

smṛtyuktaṃ vaiśvadevādikaṃ karma laukikaṃ ca yat pratidinaṃ pākalakṣaṇaṃ tad api gṛhastho vivāhāgnau vivāhasaṃskṛte kurvīta | dāyakāle vibhāgakāla āhṛte vā "vaiśyakulād agnim ānīya" ityādinoktasaṃskārasaṃskṛte | apiśabdāt prete vā gṛhapatau āhṛte saṃskṛte eva | tataś ca kālatrayātikrame prāyaścittīyate | śrutyuktam aghnihotrādikaṃ karma vaitānikāgniṣu āhavanīyādiṣu kurvīta || 1.97 ||

Report an error

गृहस्थधर्मान् आह ।

gṛhasthadharmān āha |

Report an error

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः । १.९८

śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ | 1.98

Report an error

प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम् ॥ १.९८ ॥

prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam || 1.98 ||

Report an error

शरीरचिन्ताम् आवश्यकादिकां "दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः" इत्याद्युक्तविधिना निर्वर्त्य "गन्धलेपक्षयकरम्" इत्यादिनोक्तेन विधिना कृतशौचविधिर् द्विजः दन्तधावनपूर्वकं प्रातःसंध्याम् उपासीत । दन्तधावनविधिश् च । कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसंइतम् । कनिष्ठिकाग्रवत् स्थूलं पर्वार्धकृतकूर्चकम् । दन्तधावनम् उद्दिष्टं जिह्वोल्लेखनिका तथा ॥

śarīracintām āvaśyakādikāṃ "divāsaṃdhyāsu karṇasthabrahmasūtra udaṅmukhaḥ" ityādyuktavidhinā nirvartya "gandhalepakṣayakaram" ityādinoktena vidhinā kṛtaśaucavidhir dvijaḥ dantadhāvanapūrvakaṃ prātaḥsaṃdhyām upāsīta | dantadhāvanavidhiś ca | kaṇṭakikṣīravṛkṣotthaṃ dvādaśāṅgulasaṃitam | kaniṣṭhikāgravat sthūlaṃ parvārdhakṛtakūrcakam | dantadhāvanam uddiṣṭaṃ jihvollekhanikā tathā ||

Report an error

इति । अत्र "वृक्षोत्थम्" इत्य् अनेन तृणलोष्टाङ्गुल्यादिनिषेधः । पलाशाश्वत्थादिनिषेधश् च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधावनमन्त्रश् च: आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥

iti | atra "vṛkṣottham" ity anena tṛṇaloṣṭāṅgulyādiniṣedhaḥ | palāśāśvatthādiniṣedhaś ca smṛtyantarokto draṣṭavyaḥ | dantadhāvanamantraś ca: āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca | brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate ||

Report an error

इति । ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेद् इति तन् निषेधात् ॥ १.९८ ॥

iti | brahmacāriprakaraṇoktasyāpi saṃdhyāvandanasya punarvacanaṃ dantadhāvanapūrvakatvapratipādanārtham, dantadhāvananṛtyagītādi brahmacārī varjayed iti tan niṣedhāt || 1.98 ||

Report an error

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः । १.९९

hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ | 1.99

Report an error

वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ॥ १.९९ ॥

vedārthān adhigacchec ca śāstrāṇi vividhāni ca || 1.99 ||

Report an error

प्रातःसंध्यावन्दनानन्तरम् अग्नीन् आहवनीयादीन् यथोक्तेन विधिना हुत्वा औपासनाग्निं वा । तदन्तरं सूर्य्वदैवत्यान् "उद् उ त्यं जातवेदसम्" इत्यादीन् मन्त्रान् जपेत् । समाहितो ऽविक्षिप्तचित्तः । तदन्तरं वेदार्थान् निरुक्तव्याकरणादींश् च श्रवणेनाधिगच्छेज् जानीयात् । चकाराद् अधीतं च अभ्यसेत् । विविधानि च शास्त्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्य् अधिगच्छेत् ॥ १.९९ ॥

prātaḥsaṃdhyāvandanānantaram agnīn āhavanīyādīn yathoktena vidhinā hutvā aupāsanāgniṃ vā | tadantaraṃ sūryvadaivatyān "ud u tyaṃ jātavedasam" ityādīn mantrān japet | samāhito 'vikṣiptacittaḥ | tadantaraṃ vedārthān niruktavyākaraṇādīṃś ca śravaṇenādhigacchej jānīyāt | cakārād adhītaṃ ca abhyaset | vividhāni ca śāstrāṇi mīmāṃsāprabhṛtīni dharmārthārogyapratipādakāny adhigacchet || 1.99 ||

Report an error

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये ॥ १.१००

upeyād īśvaraṃ caiva yogakṣemārthasiddhaye || 1.100

Report an error

स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥ १.१०० ॥

snātvā devān pitṝṃś caiva tarpayed arcayet tathā || 1.100 ||

Report an error

तदनन्तरम् ईश्वरम् अभिषेकादिगुणयुक्तम् अन्यं वा श्रीमन्तम् अकुत्सितं योगक्षेमार्थसिद्धये । अलब्धलाभो योगः, लब्धपरिपालनं क्षेम, तदर्थम् उपेयाद् उपासीत । उपेयाद् इत्य् अनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरणं सेवा । तस्याः श्ववृत्तित्वेन निषेधात् । ततो मध्याह्ने शास्त्रोक्तविधिना नद्यादिषु स्नात्वा देवान् स्वगृह्योक्तान् पितॄंश् च चकाराद् ऋषींश् च देवादितीर्थेन तर्पयेत् । तदन्तरं गन्धपुष्पाक्षतैः हरिहरहिरण्यगर्भप्रभृतीनाम् अन्यतमं यथावासनम् ऋग्यजुःसाममन्त्रैस् तत्प्रकाशकैः स्वनामभिर् वा चतुर्थ्यन्तैर् नमस्कारयुत्कैर् आराधयेद् यथोक्तविधिना ॥ १.१०० ॥

tadanantaram īśvaram abhiṣekādiguṇayuktam anyaṃ vā śrīmantam akutsitaṃ yogakṣemārthasiddhaye | alabdhalābho yogaḥ, labdhaparipālanaṃ kṣema, tadartham upeyād upāsīta | upeyād ity anena sevāṃ pratiṣedhati | vetanagrahaṇenājñākaraṇaṃ sevā | tasyāḥ śvavṛttitvena niṣedhāt | tato madhyāhne śāstroktavidhinā nadyādiṣu snātvā devān svagṛhyoktān pitṝṃś ca cakārād ṛṣīṃś ca devāditīrthena tarpayet | tadantaraṃ gandhapuṣpākṣataiḥ hariharahiraṇyagarbhaprabhṛtīnām anyatamaṃ yathāvāsanam ṛgyajuḥsāmamantrais tatprakāśakaiḥ svanāmabhir vā caturthyantair namaskārayutkair ārādhayed yathoktavidhinā || 1.100 ||

Report an error

वेदाथर्वपुराणि सेतिहासानि शक्तितः । १.१०१

vedātharvapurāṇi setihāsāni śaktitaḥ | 1.101

Report an error

जपयज्ञप्रसिद्धर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०१ ॥

japayajñaprasiddharthaṃ vidyāṃ cādhyātmikīṃ japet || 1.101 ||

Report an error

तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यात्मिकीं च विद्यां जपयज्ञसिद्ध्यर्थं यथोक्तेन विधिना यथाशक्ति जपेत् ॥ १.१०१ ॥

tadanantaraṃ vedātharvetihāsapurāṇāni samastāni vyastāni vā ādhyātmikīṃ ca vidyāṃ japayajñasiddhyarthaṃ yathoktena vidhinā yathāśakti japet || 1.101 ||

Report an error

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । १.१०२

balikarmasvadhāhomasvādhyāyātithisatkriyāḥ | 1.102

Report an error

भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥ १.१०२ ॥

bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ || 1.102 ||

Report an error

बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः । अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत् पुनर् एषां फलश्रवणं तद् एषां पावनत्वख्यापनार्थं न काम्यत्वप्रतिपादनाय ॥ १.१०२ ॥

balikarma bhūtayajñaḥ | svadhā pitṛyajñaḥ | homo devayajñaḥ | svādhyāyo brahmayajñaḥ | atithisatkriyā manuṣyayajñaḥ | ete pañca mahāyajñā aharahaḥ kartavyāḥ nityatvāt | yat punar eṣāṃ phalaśravaṇaṃ tad eṣāṃ pāvanatvakhyāpanārthaṃ na kāmyatvapratipādanāya || 1.102 ||

Report an error

देवेभ्यश् च हुताद् अन्नाच् छेत्षाद् भूतबलिं हरेत् । १.१०३

devebhyaś ca hutād annāc chetṣād bhūtabaliṃ haret | 1.103

Report an error

अन्नं भूमौ श्वचाण्डालवायसेभ्यश् च निक्षिपेत् ॥ १.०३ ॥

annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet || 1.03 ||

Report an error

स्वगृह्योक्तविधिना वैश्वदेवहोमं कृत्वा तदवशिष्टेनान्नेन भूतेभ्यो बलिं हरेत् । अन्नग्रहणम् अपक्वव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमाव् अन्नं श्वचाण्डालवायसेभ्यो निक्षिपेत् । चशब्दात् कृमिपापरोगिपतितेभ्यः । यथाह मनुः । शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां च शनकैर् निक्षिपेद् भुवि ॥

svagṛhyoktavidhinā vaiśvadevahomaṃ kṛtvā tadavaśiṣṭenānnena bhūtebhyo baliṃ haret | annagrahaṇam apakvavyudāsārtham | tadanantaraṃ yathāśakti bhūmāv annaṃ śvacāṇḍālavāyasebhyo nikṣipet | caśabdāt kṛmipāparogipatitebhyaḥ | yathāha manuḥ | śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām | vāyasānāṃ kṛmīṇāṃ ca śanakair nikṣiped bhuvi ||

Report an error

इति । एतद् च सायंप्रातः कर्तव्यम् । "अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्" इत्य् आश्वलायनस्मरणात् । इह केचिद् वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वम् अन्नसंस्कारकर्मत्वं चेच्छन्ति "अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्" इत्य् अन्नसंस्कारकर्मता प्रतीयते । "अथातः पञ्च यज्ञाः" इत्य् उपक्रम्य "तान् एतान् यज्ञान् अहरहः कुर्वीत" इति नित्यत्वाभिधानात् पुरुषार्थत्वं चावगम्यते इति । तद् अयुक्तम् । पुरुषार्थत्वे ऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथा हि द्रव्यसंस्कारकर्मत्वपक्षे ऽन्नार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात् पुरुषार्थत्वम् एव युक्तम् । महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः । इति । तथा । वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् । तस्मा अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥

iti | etad ca sāyaṃprātaḥ kartavyam | "atha sāyaṃprātaḥ siddhasya haviṣyasya juhuyāt" ity āśvalāyanasmaraṇāt | iha kecid vaiśvadevākhyasya karmaṇaḥ puruṣārthatvam annasaṃskārakarmatvaṃ cecchanti "atha sāyaṃprātaḥ siddhasya haviṣyasya juhuyāt" ity annasaṃskārakarmatā pratīyate | "athātaḥ pañca yajñāḥ" ity upakramya "tān etān yajñān aharahaḥ kurvīta" iti nityatvābhidhānāt puruṣārthatvaṃ cāvagamyate iti | tad ayuktam | puruṣārthatve 'nnasaṃskārakarmatvānupapatteḥ | tathā hi dravyasaṃskārakarmatvapakṣe 'nnārthatā vaiśvadevakarmaṇaḥ, puruṣārthatve vaiśvadevakarmārthatā dravyasyeti parasparavirodhāt puruṣārthatvam eva yuktam | mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ | iti | tathā | vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet | tasmā annaṃ yathāśakti pradadyān na baliṃ haret ||

Report an error

इति मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकम् आवर्तनीयम् । तस्माद् अथ "सायंप्रातः" इत्यादिनोत्पत्तिप्रयोगौ दर्शितौ, "तान् एतान् यज्ञान् अहरहः कुर्वीत" इत्य् अधिकारविधिर् इति सर्वम् अनवद्यम् ॥ १.१०३ ॥

iti manusmaraṇāt | puruṣārthatve vaiśvadevākhyaṃ karma na pratipākam āvartanīyam | tasmād atha "sāyaṃprātaḥ" ityādinotpattiprayogau darśitau, "tān etān yajñān aharahaḥ kurvīta" ity adhikāravidhir iti sarvam anavadyam || 1.103 ||

Report an error

अन्नं पितृमनुष्येभो देयम् अप्य् अन्वहं जलम् । १.१०४

annaṃ pitṛmanuṣyebho deyam apy anvahaṃ jalam | 1.104

Report an error

स्वाध्यायं सततं कुर्यान् न पचेद् अन्नम् आत्मने ॥ १.१०४ ॥

svādhyāyaṃ satataṃ kuryān na paced annam ātmane || 1.104 ||

Report an error

प्रत्यहम् अन्नं पितृभ्यो मनुष्येभ्यश् च यथाशक्ति देयम् । अन्नाभावे कन्दमूलफलादि । तस्याप्य् अभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्याद् अविस्मरणार्थम् । न पचेद् अन्नम् आत्मार्थम् । अन्नग्रहणं सकलादीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १.१

pratyaham annaṃ pitṛbhyo manuṣyebhyaś ca yathāśakti deyam | annābhāve kandamūlaphalādi | tasyāpy abhāve jalaṃ deyaṃ apiśabdāt | svādhyāyaṃ satataṃ kuryād avismaraṇārtham | na paced annam ātmārtham | annagrahaṇaṃ sakalādīyadravyapradarśanārtham | kathaṃ tarhi | devatādyuddeśenaiva || 1.1

Report an error

.०४ ॥ बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः । १.१०५

.04 || bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ | 1.105

Report an error

संभोज्यातिथिभृत्यांश् च दम्पत्योः शेषभोजनम् ॥ १.१०५ ॥

saṃbhojyātithibhṛtyāṃś ca dampatyoḥ śeṣabhojanam || 1.105 ||

Report an error

परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीन् अतिथिभृत्यांश् च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । प्राणाग्निहोत्रविधिनाश्नीयाद् अन्नम् अनापदि । मतं विपक्वं विहितं भक्षणं प्रीतिपूर्वकम् ॥ १.१०५ ॥

pariṇītā pitṛgṛhe sthitā svavāsinī | śeṣāḥ prasiddhāḥ | bālādīn atithibhṛtyāṃś ca saṃbhojya bhojayitvā dampatyoḥ śeṣabhojanaṃ kartavyam | prāṇāgnihotravidhināśnīyād annam anāpadi | mataṃ vipakvaṃ vihitaṃ bhakṣaṇaṃ prītipūrvakam || 1.105 ||

Report an error

आपोशनेनोपरिष्टाद् अधस्ताद् अश्नता तथा । १.१०६

āpośanenopariṣṭād adhastād aśnatā tathā | 1.106

Report an error

अनग्नम् मृतं चैव कार्यम् अन्नं द्विजन्मना ॥ १.१०६ ॥

anagnam mṛtaṃ caiva kāryam annaṃ dvijanmanā || 1.106 ||

Report an error

भुञ्जानेन द्विजन्मना उपरिष्टाद् अधस्ताच् चापोशनाख्येन कर्मणान्नम् अनग्नम् अमृतं च कार्यम् । द्विजन्मग्रहणम् उपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १.१०६ ॥

bhuñjānena dvijanmanā upariṣṭād adhastāc cāpośanākhyena karmaṇānnam anagnam amṛtaṃ ca kāryam | dvijanmagrahaṇam upanayanaprabhṛti sarvāśramasādhāraṇam || 1.106 ||

Report an error

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः । १.१०७

atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ | 1.107

Report an error

अप्रणोद्यो ऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ १.१०७ ॥

apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ || 1.107 ||

Report an error

वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनाम् अतिथित्वेन युगपत् प्राप्तानां ब्राह्मणाद्यानुपूर्व्येण यथाशक्ति देयम् । सायंकाले ऽपि यद्य् अतिथिर् आगच्छति तदासाव् अप्रणोद्यो ऽप्रत्याख्येय एव । यद्य् अप्य् अदनीयं किम् अपि नास्ति तथापि वाग्भूतृणोदकैर् अपि सत्कारं कुर्यात् । यथाह मनुः । तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता । एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥

vaiśvadevānantaraṃ varṇānāṃ brāhmaṇādīnām atithitvena yugapat prāptānāṃ brāhmaṇādyānupūrvyeṇa yathāśakti deyam | sāyaṃkāle 'pi yady atithir āgacchati tadāsāv apraṇodyo 'pratyākhyeya eva | yady apy adanīyaṃ kim api nāsti tathāpi vāgbhūtṛṇodakair api satkāraṃ kuryāt | yathāha manuḥ | tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā | etāny api satāṃ gehe nocchidyante kadācana ||

Report an error

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । १.१०८

satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca | 1.108

Report an error

भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान् ॥ १.१०८ ॥

bhojayec cāgatān kāle sakhisaṃbandhibāndhavān || 1.108 ||

Report an error

भिक्षवे सामान्येन भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य "भिक्षादानम् अपूर्वम्" इत्य् अनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता । ग्रासश् च मयूराण्डपरिमाणः, ग्रासमात्रा भवेद् भिक्षा पुष्कलं तच्चतुर्गुणम् । हंतस् तु तैश् चतुर्भिः स्याद् अग्रं तत्त्रिगुणं भवेत् ॥

bhikṣave sāmānyena bhikṣā dātavyā | suvratāya brahmacāriṇe yataye ca satkṛtya svastivācya "bhikṣādānam apūrvam" ity anena vidhinā bhikṣā dātavyā | bhikṣā ca grāsasaṃmitā | grāsaś ca mayūrāṇḍaparimāṇaḥ, grāsamātrā bhaved bhikṣā puṣkalaṃ taccaturguṇam | haṃtas tu taiś caturbhiḥ syād agraṃ tattriguṇaṃ bhavet ||

Report an error

इति शातातपस्मरणात् । भोजनकाले चागतान् सखिसंबन्धिबान्धवान् भोजयेत् । सखायो मित्राणि । संबन्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १.१०८ ॥

iti śātātapasmaraṇāt | bhojanakāle cāgatān sakhisaṃbandhibāndhavān bhojayet | sakhāyo mitrāṇi | saṃbandhino yebhyaḥ kanyā gṛhītā dattā vā | mātṛpitṛsaṃbandhino bāndhavāḥ || 1.108 ||

Report an error

महोक्षं वा महाजं श्रोत्रियायोपकल्पयेत् । १.१०९

mahokṣaṃ vā mahājaṃ śrotriyāyopakalpayet | 1.109

Report an error

सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ १.१०९ ॥

satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ || 1.109 ||

Report an error

महान्तम् उक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थम् अयम् अस्माभिः परिकल्पित इति तत्प्रीत्यर्थं न तु दानाय व्यापादनाय वा । यथा सर्वम् एतद् भवदीयम् इति, प्रतिश्रोत्रियम् उक्षासंभवात्, अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु । इति निषेधाच् च । तस्मात् सत्क्रिया ह्य् एव कर्तव्या । सत्क्रिया स्वागतवचनासनपाद्यार्घ्याचमनादिदानम् । तस्मिन्न् उपविष्टे पश्चाद् उपवेशनम् अन्वासनम् । स्वादु भोजनं मिष्टम् अशनम् । सूनृतं वचः धन्या वयम् अद्य भवदागमनाद् इत्य् एवमादि । अश्रोत्रिये पुनः "अश्रोत्रियस्योदकासने" इति गौतमोक्तं वेदितव्यम् ॥ १.१०९ ॥

mahāntam ukṣāṇaṃ dhaureyaṃ mahājaṃ vā śrotriyāyoktalakṣaṇāyopakalpayet bhavadartham ayam asmābhiḥ parikalpita iti tatprītyarthaṃ na tu dānāya vyāpādanāya vā | yathā sarvam etad bhavadīyam iti, pratiśrotriyam ukṣāsaṃbhavāt, asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu | iti niṣedhāc ca | tasmāt satkriyā hy eva kartavyā | satkriyā svāgatavacanāsanapādyārghyācamanādidānam | tasminn upaviṣṭe paścād upaveśanam anvāsanam | svādu bhojanaṃ miṣṭam aśanam | sūnṛtaṃ vacaḥ dhanyā vayam adya bhavadāgamanād ity evamādi | aśrotriye punaḥ "aśrotriyasyodakāsane" iti gautamoktaṃ veditavyam || 1.109 ||

Report an error

प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः । १.११०

pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ | 1.110

Report an error

प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥ १.११० ॥

priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ || 1.110 ||

Report an error

स्नातको विद्यास्नातकः व्रतस्नातकः विद्याव्रतस्नातक इति । समाप्य वेदम् असमाप्य व्रतं यः समावर्तते स विद्यास्नातकः । समाप्य व्रतम् असमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः । आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच् छ्वशुरपितृव्यमातुलादीनां ग्रहणम् । "ऋत्विजो वृत्वा मधुपर्कम् आहरेत् स्नातकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलानां च" इत्य् आश्वलायनस्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहम् आगता अर्घ्याः मधुपर्केण संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्कं लक्षयति । ऋत्विजश् चोक्तलक्षणाः संवत्सराद् अर्वाग् अपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ १.११० ॥

snātako vidyāsnātakaḥ vratasnātakaḥ vidyāvratasnātaka iti | samāpya vedam asamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ | samāpya vratam asamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ | ubhayaṃ samāpya yaḥ samāvartate sa vidyāvratasnātakaḥ | ācārya uktalakṣaṇaḥ | pārthivo vakṣyamāṇalakṣaṇaḥ | priyo mitram | vivāhyo jāmātā | cakārāc chvaśurapitṛvyamātulādīnāṃ grahaṇam | "ṛtvijo vṛtvā madhuparkam āharet snātakāyopasthitāya rājñe cācāryaśvaśurapitṛvyamātulānāṃ ca" ity āśvalāyanasmaraṇāt | ete snātakādayaḥ pratisaṃvatsaraṃ gṛham āgatā arghyāḥ madhuparkeṇa saṃpūjyā vanditavyāḥ | arghaśabdo madhuparkaṃ lakṣayati | ṛtvijaś coktalakṣaṇāḥ saṃvatsarād arvāg api pratiyajñaṃ madhuparkeṇa saṃpūjyāḥ || 1.110 ||

Report an error

अध्वनीनो ऽतिथिर् ज्णेयः श्रोत्रियो वेदपारगः । १.१११

adhvanīno 'tithir jṇeyaḥ śrotriyo vedapāragaḥ | 1.111

Report an error

मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥ १.१११ ॥

mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ || 1.111 ||

Report an error

अध्वनि वर्तमानो ऽतिथिर् वेदितव्यः । श्रोत्रियवेदपारगाव् अध्वनि वर्तमानौ ब्रह्मलोकम् अभीप्सतो गृहस्थस्य मान्याव् अतिथी वेदितव्यौ । यद् अप्य् अध्ययनमात्रेण श्रोत्रियस् तथापि श्रुताध्ययनसंपन्नो ऽत्र श्रोत्रियो ऽभिधीयते । एकशाखाध्यापनक्षमो वेदपारगः ॥ १.१११ ॥

adhvani vartamāno 'tithir veditavyaḥ | śrotriyavedapāragāv adhvani vartamānau brahmalokam abhīpsato gṛhasthasya mānyāv atithī veditavyau | yad apy adhyayanamātreṇa śrotriyas tathāpi śrutādhyayanasaṃpanno 'tra śrotriyo 'bhidhīyate | ekaśākhādhyāpanakṣamo vedapāragaḥ || 1.111 ||

Report an error

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते । १.११२

parapākarucir na syād anindyāmantraṇād ṛte | 1.112

Report an error

वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥ १.११२ ॥

vākpāṇipādacāpalyaṃ varjayec cātibhojanam || 1.112 ||

Report an error

परपाके रुचिर् यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्ध्येनामन्त्रणं विना । "अनिन्ध्येनामन्त्रितो नापक्रामेत्" इति स्मरणात् । वाक्पाणिपादचापल्यं वाक् च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक् चाप्लयम् असभ्यानृतादिभाषणम् । पाणिचापल्यं वल्गनास्फोटनादि । पादचापल्यं लङ्घनोत्प्लवनादि । चकारान् नेत्रादिचापल्यं च वर्जयेत् । "न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात्" इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत्, अनारोग्यहेतुत्वात् ॥ १.११२ ॥

parapāke rucir yasyāsau tathoktaḥ parapākaruciḥ | naiva parapākaruciḥ syāt | anindhyenāmantraṇaṃ vinā | "anindhyenāmantrito nāpakrāmet" iti smaraṇāt | vākpāṇipādacāpalyaṃ vāk ca pāṇī ca pādau ca vākpāṇipādaṃ tasya cāpalyaṃ varjayet | vāk cāplayam asabhyānṛtādibhāṣaṇam | pāṇicāpalyaṃ valganāsphoṭanādi | pādacāpalyaṃ laṅghanotplavanādi | cakārān netrādicāpalyaṃ ca varjayet | "na śiśnodarapāṇipādacakṣurvākcāpalāni kuryāt" iti gautamasmaraṇāt | tathā atibhojanaṃ ca varjayet, anārogyahetutvāt || 1.112 ||

Report an error

अतिथिं श्रोत्रियं तृप्तम् आ सीमान्तम् अनुव्रजेत् । १.११३

atithiṃ śrotriyaṃ tṛptam ā sīmāntam anuvrajet | 1.113

Report an error

अहःशेषं समासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥ १.११३ ॥

ahaḥśeṣaṃ samāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ || 1.113 ||

Report an error

पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं यावद् अनुव्रजेत् । ततो भोजनानन्तरम् अहःशेषं शिष्टैर् इतिहासपुराणादिवेदिभिः, इष्टैः काव्यकथाप्रपञ्चचतुरैः, बन्धुभिश् चानुकूलालापकुशलैः सहासीत ॥ १.११३ ॥

pūrvoktaṃ śrotriyātithiṃ vedapāragātithiṃ ca bhojanādinā tṛptaṃ sīmāntaṃ yāvad anuvrajet | tato bhojanānantaram ahaḥśeṣaṃ śiṣṭair itihāsapurāṇādivedibhiḥ, iṣṭaiḥ kāvyakathāprapañcacaturaiḥ, bandhubhiś cānukūlālāpakuśalaiḥ sahāsīta || 1.113 ||

Report an error

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च । १.११४

upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca | 1.114

Report an error

भृत्यैः परिवृतो भुक्त्वा नातितृप्याथ संविशेत् ॥ १.११४ ॥

bhṛtyaiḥ parivṛto bhuktvā nātitṛpyātha saṃviśet || 1.114 ||

Report an error

ततः पूर्वोक्तेन विधिना पश्चिमां संध्याम् उपास्य, आहवनीयादीन् अग्नीन् अग्निं वा हुत्वा, तान् उपास्य उपस्थाय, भृत्यैः पूर्वोक्तैः स्ववासिन्यादिभिः परिवृतो नातितृप्य भुक्त्वा, चकाराद् आयव्ययादिगृहचिन्तां निर्वर्त्यानन्तरं संविशेत् स्वप्यात् ॥ १.११४ ॥

tataḥ pūrvoktena vidhinā paścimāṃ saṃdhyām upāsya, āhavanīyādīn agnīn agniṃ vā hutvā, tān upāsya upasthāya, bhṛtyaiḥ pūrvoktaiḥ svavāsinyādibhiḥ parivṛto nātitṛpya bhuktvā, cakārād āyavyayādigṛhacintāṃ nirvartyānantaraṃ saṃviśet svapyāt || 1.114 ||

Report an error

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम् । १.११५

brāhme muhūrte cotthāya cintayed ātmano hitam | 1.115

Report an error

धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ १.११५ ॥

dharmārthakāmān sve kāle yathāśakti na hāpayet || 1.115 ||

Report an error

ततो ब्राह्मे मुहूर्ते उत्थाय पश्चिमे ऽर्धप्रहरे प्रबुद्ध्य, आत्मनो हितं कृतं करिष्यमाणं च वेदार्थसंशयांश् च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्त्वप्रतिमानयोग्यत्वात् । ततो धर्मार्थकामान् स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेत इत्य् अर्थः, पुरुषार्थत्वात् । यथाह गौतमः "न पूर्वाह्णमध्याह्नापराह्णान् अफलान् कुर्यात्, धर्मार्थकामेभ्यस् तेषु धर्मोत्तरः स्यात्" इति । अत्र यद्य् अप्य् एतेषां सामान्येन सेवनम् उक्तं तथापि कामार्थयोर् धर्माविरोधेनानुष्ठानं तयोर् धर्ममूलत्वाद् एवं प्रतिदिनम् अनुष्ठेयम् ॥ १.११५ ॥

tato brāhme muhūrte utthāya paścime 'rdhaprahare prabuddhya, ātmano hitaṃ kṛtaṃ kariṣyamāṇaṃ ca vedārthasaṃśayāṃś ca cintayet | tadānīṃ cittasyāvyākulatvena tattvapratimānayogyatvāt | tato dharmārthakāmān svocitakāle yathāśakti na parityajet | yathāsaṃbhavaṃ seveta ity arthaḥ, puruṣārthatvāt | yathāha gautamaḥ "na pūrvāhṇamadhyāhnāparāhṇān aphalān kuryāt, dharmārthakāmebhyas teṣu dharmottaraḥ syāt" iti | atra yady apy eteṣāṃ sāmānyena sevanam uktaṃ tathāpi kāmārthayor dharmāvirodhenānuṣṭhānaṃ tayor dharmamūlatvād evaṃ pratidinam anuṣṭheyam || 1.115 ||

Report an error

विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम् । १.११६

vidyākarmavayobandhuvittair mānyā yathākramam | 1.116

Report an error

एतैः प्रभूतैः शूद्रो ऽपि वार्धके मानम् अर्हति ॥ १.११६ ॥

etaiḥ prabhūtaiḥ śūdro 'pi vārdhake mānam arhati || 1.116 ||

Report an error

विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्तं च, वय आत्मनो ऽतिरिक्तं सप्तत्या वा ऊर्ध्वं, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरत्नादिकम्, एतैर् युक्ताः क्रमेण मान्याः पूजनीयाः । एतैर् विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैर् व्यस्तैर् वा युक्तः शूद्रो ऽपि वार्धके अशीतेर् ऊर्ध्वं मानम् अर्हति । "शूद्रो ऽप्य् अशीतिको वरः" इति गौतमस्मरणात् ॥ १.११६ ॥

vidyā pūrvoktā, karma śrautaṃ smārtaṃ ca, vaya ātmano 'tiriktaṃ saptatyā vā ūrdhvaṃ, bandhuḥ svajanasaṃpattiḥ, vittaṃ grāmaratnādikam, etair yuktāḥ krameṇa mānyāḥ pūjanīyāḥ | etair vidyākarmabandhuvittaiḥ prabhūtaiḥ pravṛddhaiḥ samastair vyastair vā yuktaḥ śūdro 'pi vārdhake aśīter ūrdhvaṃ mānam arhati | "śūdro 'py aśītiko varaḥ" iti gautamasmaraṇāt || 1.116 ||

Report an error

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । १.११७

vṛddhabhārinṛpasnātastrīrogivaracakriṇām | 1.117

Report an error

पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ॥ १.११७ ॥

panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ || 1.117 ||

Report an error

वृद्धः पक्वकेशः प्रसिद्धः । भारी भाराक्रान्तः । नृपो भूपतिः न क्षत्रियमात्रम् । स्नातो विद्याव्रतोभयस्नातकः । स्त्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहोद्यतः । चक्री शाकटिकः । चकारान् मत्तोन्मत्तादीनां ग्रहणम्, "बालवृद्धमत्तोन्मत्तोपहतदेहभारक्रान्तस्त्री-स्नातकप्रव्रजितेभ्यः" इति शङ्खस्मरणात् । एतेभ्यः पन्था देयः । एतेष्व् अभिमुखायातेषु स्वयं पथो ऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेर् अपि स्नातको मान्यः । स्नातकग्रहणं स्नातकमात्रप्राप्त्यर्थं न ब्राह्मणाभिप्रायेण, तस्य सदैव गुरुत्वात् । यथाह शङ्खः: "अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्य् एके । तच् चानिष्टं गुरुर् ज्येष्ठश् च ब्राह्मणो राजानम् अतिशेते तस्मै पन्था" इति । वृद्धादीनां पथि परस्परसमवाये वृद्धतराद्यपेक्षया विद्यादिभिर् वा विशेषो द्रष्टव्यः ॥ १.११७ ॥

vṛddhaḥ pakvakeśaḥ prasiddhaḥ | bhārī bhārākrāntaḥ | nṛpo bhūpatiḥ na kṣatriyamātram | snāto vidyāvratobhayasnātakaḥ | strī prasiddhā | rogī vyādhitaḥ | varo vivāhodyataḥ | cakrī śākaṭikaḥ | cakārān mattonmattādīnāṃ grahaṇam, "bālavṛddhamattonmattopahatadehabhārakrāntastrī-snātakapravrajitebhyaḥ" iti śaṅkhasmaraṇāt | etebhyaḥ panthā deyaḥ | eteṣv abhimukhāyāteṣu svayaṃ patho 'pakrāmet | vṛddhādīnāṃ rājñā saha pathi samavāye rājā mānya iti tasmai panthā deyaḥ | bhūpater api snātako mānyaḥ | snātakagrahaṇaṃ snātakamātraprāptyarthaṃ na brāhmaṇābhiprāyeṇa, tasya sadaiva gurutvāt | yathāha śaṅkhaḥ: "atha brāhmaṇāyāgre panthā deyo rājña ity eke | tac cāniṣṭaṃ gurur jyeṣṭhaś ca brāhmaṇo rājānam atiśete tasmai panthā" iti | vṛddhādīnāṃ pathi parasparasamavāye vṛddhatarādyapekṣayā vidyādibhir vā viśeṣo draṣṭavyaḥ || 1.117 ||

Report an error

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । १.११८

ijyādhyayanadānāni vaiśyasya kṣatriyasya ca | 1.118

Report an error

प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ॥ १.११८ ॥

pratigraho 'dhiko vipre yājanādhyāpane tathā || 1.118 ||

Report an error

वैश्यस्य क्षत्रियस्य च चकाराद् ब्राह्मणस्य द्विजानुलोमानां च यागाध्ययनदानानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । "तथा" इति स्मृत्यन्तरोक्तवृत्त्युपसंग्रहः । यथाह गौतमः: "कृषिवाणिज्ये वा स्वयं कृते कुसीदं च" इति । अध्यापनं तु क्षत्रियवैश्ययोर् ब्राह्मणप्रेरितयोर् भवति न स्वेच्छया, "आपत्काले ब्राह्मणस्याब्राह्मणाद् विद्योपयोगो ऽनुगमनं शुश्रूषा, समाप्ते ब्राह्मणो गुरुः" इति गौतमस्मरणात् । एतान्य् अनापदि ब्राह्मणस्य षट् कर्माणि । तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि, षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥

vaiśyasya kṣatriyasya ca cakārād brāhmaṇasya dvijānulomānāṃ ca yāgādhyayanadānāni sādhāraṇāni karmāṇi | brāhmaṇasyādhikāni pratigrahayājanādhyāpanāni | "tathā" iti smṛtyantaroktavṛttyupasaṃgrahaḥ | yathāha gautamaḥ: "kṛṣivāṇijye vā svayaṃ kṛte kusīdaṃ ca" iti | adhyāpanaṃ tu kṣatriyavaiśyayor brāhmaṇapreritayor bhavati na svecchayā, "āpatkāle brāhmaṇasyābrāhmaṇād vidyopayogo 'nugamanaṃ śuśrūṣā, samāpte brāhmaṇo guruḥ" iti gautamasmaraṇāt | etāny anāpadi brāhmaṇasya ṣaṭ karmāṇi | tatra trīṇījyādīni dharmārthāni | trīṇi pratigrahādīni vṛttyarthāni, ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā | yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ ||

Report an error

इति मनुस्मरणात् । अत इज्यादीन्य् अवश्यं कर्तव्यानि न प्रतिग्रहादीनि । "द्विजातीनाम् अध्ययनम् इज्या दानं च, ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः, पूर्वेषु नियमः" इति गौतमस्मरणात् ॥ १.११८ ॥

iti manusmaraṇāt | ata ijyādīny avaśyaṃ kartavyāni na pratigrahādīni | "dvijātīnām adhyayanam ijyā dānaṃ ca, brāhmaṇasyādhikāḥ pravacanayājanapratigrahāḥ, pūrveṣu niyamaḥ" iti gautamasmaraṇāt || 1.118 ||

Report an error

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । १.११९

pradhānaṃ kṣatriye karma prajānāṃ paripālanam | 1.119

Report an error

कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ १.११९ ॥

kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam || 1.119 ||

Report an error

क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । वैश्यस्य कुसीदकृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः । लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम्, शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषी विशः । आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥

kṣatriyasya prajāpālanaṃ pradhānaṃ karma dharmārthaṃ vṛttyarthaṃ ca | vaiśyasya kusīdakṛṣivāṇijyapaśupālanāni vṛttyarthāni karmāṇi | kusīdaṃ vṛddhyarthaṃ dravyaprayogaḥ | lābhārthaṃ krayavikrayau vāṇijyam | śeṣaṃ prasiddham, śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣī viśaḥ | ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ ||

Report an error

इति मनुस्मरणात् ॥ १.११९ ॥

iti manusmaraṇāt || 1.119 ||

Report an error

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् । १.१२०

śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet | 1.120

Report an error

शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥ १.१२० ॥

śilpair vā vividhair jīved dvijātihitam ācaran || 1.120 ||

Report an error

शुद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः, विप्रसेवैव शुद्रस्य विशिष्टं कर्म कीर्त्यते । इति मनुस्मरणात् । यदा पुनर् द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर् वा शिल्पैर् द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर् द्विजातिशुश्रूषायाम् अयोग्यो न भवति तादृशानि कर्माणि कुर्वन्न् इत्य् अर्थः । तानि च देवलोक्तानि "शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्म-नृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि" ॥ १.१२० ॥

śudrasya dvijaśuśrūṣā pradhānaṃ karma dharmārthaṃ vṛttyarthaṃ ca | tatra brāhmaṇaśuśrūṣā paramo dharmaḥ, viprasevaiva śudrasya viśiṣṭaṃ karma kīrtyate | iti manusmaraṇāt | yadā punar dvijaśuśrūṣayā jīvituṃ na śaknoti tadā vaṇigvṛttyā jīvet | nānāvidhair vā śilpair dvijātīnāṃ hitaṃ kurvan | yādṛśaiḥ karmabhir dvijātiśuśrūṣāyām ayogyo na bhavati tādṛśāni karmāṇi kurvann ity arthaḥ | tāni ca devaloktāni "śūdradharmo dvijātiśuśrūṣā pāpavarjanaṃ kalatrādipoṣaṇaṃ karṣaṇapaśupālanabhārodvahanapaṇyavyavahāracitrakarma-nṛtyagītaveṇuvīṇāmurajamṛdaṅgavādanādīni" || 1.120 ||

Report an error

किं च । भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः । १.१२१

kiṃ ca | bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ | 1.121

Report an error

नमस्कारेण मन्त्रेण पञ्चयाज्ञान् न हापयेत् ॥ १.१२१ ॥

namaskāreṇa mantreṇa pañcayājñān na hāpayet || 1.121 ||

Report an error

भार्यायाम् एव न साधारणस्त्रीषु परस्त्रीषु वा रतिर् अभिगमनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्धक्रियारतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्य् अविरुद्धानि तेषु रतः । नम इत्य् अनेन मन्त्रेण पूर्वोक्तान् पञ्चमहायज्ञान् अहरहर् न हापयेद् अनुतिष्टेत् । नमस्कारमन्त्रं च केचित्, देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यम् एव नमो नमः ॥

bhāryāyām eva na sādhāraṇastrīṣu parastrīṣu vā ratir abhigamanaṃ yasya sa tathoktaḥ | śuciḥ bāhyābhyantaraśaucayuktaḥ dvijavat | bhṛtyādibhartā | śrāddhakriyārataḥ śrāddhāni nityanaimittikakāmyāni, kriyāḥ snātakavratāny aviruddhāni teṣu rataḥ | nama ity anena mantreṇa pūrvoktān pañcamahāyajñān aharahar na hāpayed anutiṣṭet | namaskāramantraṃ ca kecit, devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca | namaḥ svāhāyai svadhāyai nityam eva namo namaḥ ||

Report an error

इति वर्णयन्ति । नम इत्य् अन्ये । तत्र वैश्वदेवं लौकिके ऽग्नौ कर्तव्यं न वैवाहिके ऽग्नाव् इत्य् आचार्याः ॥ १.१२१ ॥

iti varṇayanti | nama ity anye | tatra vaiśvadevaṃ laukike 'gnau kartavyaṃ na vaivāhike 'gnāv ity ācāryāḥ || 1.121 ||

Report an error

इदानीं साधारणधर्मान् आह ।

idānīṃ sādhāraṇadharmān āha |

Report an error

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥

ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ | dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam || 1.122 ||

Report an error

हिंसा प्राणिपीडा तस्या अकरणम् अहिंसा । सत्यम् अप्राणिपीडाकरं यथार्थवचनम् । अस्तेयम् अदत्तानुपादानम् । शौचं बाह्यम् अभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियतविषयव्र्त्तितेन्द्रियनिग्रहः । यथाशक्ति प्राणिनाम् अन्नोदकादिदनेनार्तिपरिहारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारे ऽपि चित्तस्याविकारः क्षान्तिः । इत्य् एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालान्तं धर्मसाधनम् ॥ १.१२२ ॥

hiṃsā prāṇipīḍā tasyā akaraṇam ahiṃsā | satyam aprāṇipīḍākaraṃ yathārthavacanam | asteyam adattānupādānam | śaucaṃ bāhyam abhyantaraṃ ca | buddhikarmendriyāṇāṃ niyataviṣayavrttitendriyanigrahaḥ | yathāśakti prāṇinām annodakādidanenārtiparihāro dānam | antaḥkaraṇasaṃyamo damaḥ | āpannarakṣaṇaṃ dayā | apakāre 'pi cittasyāvikāraḥ kṣāntiḥ | ity ete sarveṣāṃ puruṣāṇāṃ brāhmaṇādyācaṇḍālāntaṃ dharmasādhanam || 1.122 ||

Report an error

वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् । आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥ १.१२३ ॥

vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām | ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā || 1.123 ||

Report an error

वयो बाल्ययौवनादि । बुद्धिर् नैसर्गिकी लौकिकवैदिकव्यवहारेषु । अर्थो वित्तं गृहक्षेत्रादि । वाक् कथनम् । वेषो वस्त्रमाल्यादिविन्यासः । श्रुतं पुरुषार्थशास्त्रश्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थं प्रतिग्रहादि । एतेषां वयःप्रभृतिनां सदृशीम् उचितां वृत्तिम् आचरणं आचरेत् स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्व् अपि योज्यम् । अजिह्माम् अवक्राम् । अशठाम् अमत्सराम् ॥ १.१२३ ॥

vayo bālyayauvanādi | buddhir naisargikī laukikavaidikavyavahāreṣu | artho vittaṃ gṛhakṣetrādi | vāk kathanam | veṣo vastramālyādivinyāsaḥ | śrutaṃ puruṣārthaśāstraśravaṇam | abhijanaḥ kulam | karma vṛttyarthaṃ pratigrahādi | eteṣāṃ vayaḥprabhṛtināṃ sadṛśīm ucitāṃ vṛttim ācaraṇaṃ ācaret svīkuryāt | yathā vṛddhaḥ svocitāṃ na yauvanocitām | evaṃ buddhyādiṣv api yojyam | ajihmām avakrām | aśaṭhām amatsarām || 1.123 ||

Report an error

एवं स्मार्तानि कर्माण्य् अनुक्रम्येदानीं श्रौतानि कर्माण्य् अनुक्रामति ।

evaṃ smārtāni karmāṇy anukramyedānīṃ śrautāni karmāṇy anukrāmati |

Report an error

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । १.१२४

traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ | 1.124

Report an error

प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥ १.१२४ ॥

prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet || 1.124 ||

Report an error

त्रिवर्गजीवनपर्याप्तं त्रैवार्षिकम् अधिकं वा अन्नं यस्य स एव सोमपानं कुर्यान् न ततो ऽल्पधनः, अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत्फलम् ॥

trivargajīvanaparyāptaṃ traivārṣikam adhikaṃ vā annaṃ yasya sa eva somapānaṃ kuryān na tato 'lpadhanaḥ, ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ | sa pītasomapūrvo 'pi na tasyāpnoti tatphalam ||

Report an error

इति दोषश्रवणात् । एतच् च काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान् न नियमः । यस्य वर्षजीवनपर्याप्तम् अन्नं भवति स प्राक्सौमित्कीः सोमात् प्राक् प्राक्सोमं प्राक्सोमंभावः प्राक्सौमिक्यः । काः ताः । अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि कर्माणि तद्विकाराश् चैताः क्रियाः कुरात् ॥ १.१२४ ॥

iti doṣaśravaṇāt | etac ca kāmyābhiprāyeṇa | nityasya cāvaśyakartavyatvān na niyamaḥ | yasya varṣajīvanaparyāptam annaṃ bhavati sa prāksaumitkīḥ somāt prāk prāksomaṃ prāksomaṃbhāvaḥ prāksaumikyaḥ | kāḥ tāḥ | agnihotradarśapūrṇamāsāgrayaṇapaśucāturmāsyāni karmāṇi tadvikārāś caitāḥ kriyāḥ kurāt || 1.124 ||

Report an error

एवं काम्यानि श्रौतानि कर्माण्य् अभिधायेदानीं नित्यान्य् आह ।

evaṃ kāmyāni śrautāni karmāṇy abhidhāyedānīṃ nityāny āha |

Report an error

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । १.१२५

pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā | 1.125

Report an error

कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥ १.१२५ ॥

kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi || 1.125 ||

Report an error

संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययणम् अयने अयने दक्षिणोत्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा, "पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेष्व् इति एके" इति बौधायनश्रवणात् । आग्रयणेष्टिश् च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १.१२५ ॥

saṃvatsare saṃvatsare somayāgaḥ kāryaḥ | paśuḥ pratyayaṇam ayane ayane dakṣiṇottarasaṃjñite nirūḍhapaśuyāgaḥ kāryaḥ | tathā pratisaṃvatsaraṃ vā, "paśunā saṃvatsare saṃvatsare yajeta ṣaṭsu ṣaṭsu vā māseṣv iti eke" iti baudhāyanaśravaṇāt | āgrayaṇeṣṭiś ca sasyotpattau kartavyā | cāturmāsyāni ca pratisaṃvatsaraṃ kartavyāni || 1.125 ||

Report an error

एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः । १.१२६

eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ | 1.126

Report an error

हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२६ ॥

hīnakalpaṃ na kurvīta sati dravye phalapradam || 1.126 ||

Report an error

एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथं चिद् संभवे तत्काले वैश्वानरीम् इष्टिं कुर्यात् । किं च यओ ऽयम् हीनकल्प उत्क्तः सति द्रव्ये ऽसौ न कर्तव्यः । यच् च फलप्रदं काम्यं तद् धीनकल्पं न कुर्वीत न कर्तव्यम् इति ॥ १.१२६ ॥

eṣāṃ somaprabhṛtīnāṃ pūrvoktānāṃ nityānāṃ kathaṃ cid saṃbhave tatkāle vaiśvānarīm iṣṭiṃ kuryāt | kiṃ ca yao 'yam hīnakalpa utktaḥ sati dravye 'sau na kartavyaḥ | yac ca phalapradaṃ kāmyaṃ tad dhīnakalpaṃ na kurvīta na kartavyam iti || 1.126 ||

Report an error

चण्डालो जायते यज्ञकरणाच् छूद्रभिक्षितात् । १.१२७

caṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāt | 1.127

Report an error

यज्ञार्थं लब्धम् अददद् भासः काको ऽपि वा भवेत् ॥ १.१२७

yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet || 1.127

Report an error

यज्ञार्थं शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर् यज्ञार्थं याचितं न सर्वं प्रयच्छति न त्यजति स भासः काको ऽपि वा वर्षशतं भवेत् । यथाह मनुः । यज्ञार्थम् अर्थं भिक्षित्वा यः सर्वं न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥

yajñārthaṃ śūdradhanayācanena janmāntare caṇḍālo jāyate | yaḥ punar yajñārthaṃ yācitaṃ na sarvaṃ prayacchati na tyajati sa bhāsaḥ kāko 'pi vā varṣaśataṃ bhavet | yathāha manuḥ | yajñārtham arthaṃ bhikṣitvā yaḥ sarvaṃ na prayacchati | sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ ||

Report an error

इति । भासः शकुन्तः । काकः प्रसिद्धः ॥ १.१२७ ॥

iti | bhāsaḥ śakuntaḥ | kākaḥ prasiddhaḥ || 1.127 ||

Report an error

कुशूलकुम्भीधान्यो वा त्र्याहिको ऽश्वस्तनो ऽपि वा । १.१२८ अब्

kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā | 1.128 ab

Report an error

कुशूलं कोष्टकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ, ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस् तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहःपर्याप्तं धान्यम् अस्यास्तीति त्र्याहिकः । श्वोभवं धान्यम् अस्यास्तीति श्वस्तनः । न विद्यते श्वस्तनं यस्य सो ऽश्वस्तनः ॥

kuśūlaṃ koṣṭakaṃ, kumbhī uṣṭrikā, kuśūlaṃ ca kumbhī ca kuśūlakumbhyau, tābhyāṃ parimitaṃ dhānyaṃ yasya sa tathoktaḥ kuśūladhānyaḥ syāt, kumbhīdhānyo vā | tatra svakuṭumbapoṣaṇe dvādaśāhamātraparyāptaṃ dhānyaṃ yasyāsti sa kuśūladhānyaḥ | kumbhīdhānyas tu svakuṭumbapoṣaṇe ṣaḍahamātraparyāptadhānyaḥ | tryahaḥparyāptaṃ dhānyam asyāstīti tryāhikaḥ | śvobhavaṃ dhānyam asyāstīti śvastanaḥ | na vidyate śvastanaṃ yasya so 'śvastanaḥ ||

Report an error

कुशूलधान्यादिसंचयोपायम् आह ।

kuśūladhānyādisaṃcayopāyam āha |

Report an error

जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥ १.१२८

jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ || 1.128

Report an error

शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्योपादानम् उञ्छः, शिलं चोञ्छश् च शिलोञ्छं तेन शिलेनोञ्छेन वा । कुशूलधान्यादिश् चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णां परः परः पश्चात् पश्चात् पठितः श्रेयान् प्रशस्यतरः । एतच् च यद्य् अपि द्विजः प्रकृतस् तथापि ब्राह्मणस्यैव भवितुम् अर्हति विद्योपशमादियोगात्,। तथा च मनुना, अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः । या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥

śālyādinipatitaparityaktavallarīgrahaṇaṃ śilam | ekaikasya parityaktasya kaṇasyopādānam uñchaḥ, śilaṃ coñchaś ca śiloñchaṃ tena śilenoñchena vā | kuśūladhānyādiś caturvidho gṛhastho jīvet | eṣāṃ kuśūladhānyādīnāṃ brāhmaṇānāṃ gṛhasthānāṃ caturṇāṃ paraḥ paraḥ paścāt paścāt paṭhitaḥ śreyān praśasyataraḥ | etac ca yady api dvijaḥ prakṛtas tathāpi brāhmaṇasyaiva bhavitum arhati vidyopaśamādiyogāt,| tathā ca manunā, adroheṇaiva bhūtānām alpadroheṇa vā punaḥ | yā vṛttis tāṃ samāsthāya vipro jīved anāpadi ||

Report an error

इति विप्रम् एव प्रस्तुत्य, कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । इत्याद्यभिहितत्वात् । एतच् चानतिसंयतं यायावरं प्रत्य् उच्यते न विप्रमात्राभिप्रायेण । तथा सति, त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । इत्य् अनेनन विरोधः । तथा च गृहस्थानां द्वैविध्यं तत्र तत्रोक्तम् । यथाह देवलः: "द्विविधो गृहस्थो यायावरः शालीनश् च । तयोर् यायावरः प्रवरो याजनाध्यापनप्रतिग्रह-रिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्यचतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः" इति । शालीनो ऽपि चतुर्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपाशुपाल्यैः षड्भिर् जीवत्य् एकः । याजनादिभिस् त्रिभिर् अन्यः । याजनाध्यापनाभ्याम् अपरः । चतुर्थस् त्व् अध्यापनेनैव । तथाह मनुः । षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते । द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रेण जीवति ॥

iti vipram eva prastutya, kuśūladhānyako vā syāt kumbhīdhānyaka eva vā | ityādyabhihitatvāt | etac cānatisaṃyataṃ yāyāvaraṃ praty ucyate na vipramātrābhiprāyeṇa | tathā sati, traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ | ity anenana virodhaḥ | tathā ca gṛhasthānāṃ dvaividhyaṃ tatra tatroktam | yathāha devalaḥ: "dvividho gṛhastho yāyāvaraḥ śālīnaś ca | tayor yāyāvaraḥ pravaro yājanādhyāpanapratigraha-rikthasaṃcayavarjanāt | ṣaṭkarmādhiṣṭhitaḥ preṣyacatuṣpadagṛhagrāmadhanadhānyayukto lokānuvartī śālīnaḥ" iti | śālīno 'pi caturvidhaḥ yājanādhyāpanapratigrahakṛṣivāṇijyapāśupālyaiḥ ṣaḍbhir jīvaty ekaḥ | yājanādibhis tribhir anyaḥ | yājanādhyāpanābhyām aparaḥ | caturthas tv adhyāpanenaiva | tathāha manuḥ | ṣaṭkarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate | dvābhyām ekaś caturthas tu brahmasatreṇa jīvati ||

Report an error

इति । अत्र च "प्रतिग्रहो ऽधिको विप्रे" इत्यादिना शालीनस्य वृत्तयो दर्शिताः । यायावरस्यापि शिलोञ्छेनेति ॥ १.१२८ ॥

iti | atra ca "pratigraho 'dhiko vipre" ityādinā śālīnasya vṛttayo darśitāḥ | yāyāvarasyāpi śiloñcheneti || 1.128 ||

Report an error

इति गृहस्थधर्मप्रकरणम्

iti gṛhasthadharmaprakaraṇam

Report an error

अथ स्नातकधर्मप्रकरणम्

atha snātakadharmaprakaraṇam

Report an error

एवं श्रौतस्मार्तानि कर्मण्य् अभिधाय, इदानीं गृहस्थस्य स्नानाद् आरभ्य ब्राह्मणस्यावश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्य् आह ।

evaṃ śrautasmārtāni karmaṇy abhidhāya, idānīṃ gṛhasthasya snānād ārabhya brāhmaṇasyāvaśyakartavyāni vidhipratiṣedhātmakāni mānasasaṃkalparūpāṇi snātakavratāny āha |

Report an error

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः । १.१२९

na svādhyāyavirodhyartham īheta na yatas tataḥ | 1.129

Report an error

न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥ १.१२९ ॥

na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā || 1.129 ||

Report an error

ब्राह्मणस्य प्रतिग्रहादयो ऽर्थप्राप्त्युपाया दर्शिताः । तत्र विशेष उच्यते: स्वाध्यायविरोधिनम् अर्थम् अप्रतिषिद्धम् अपि नेहेत नान्विच्छेत् । न यतस् ततः न यतः कुतश् चिद् अविदिताचारात् । न विरुद्धप्रसङ्गेन विरुद्धम् अयाज्ययाजनादि, प्रसङ्गो नृत्यगीतादिः । विरुद्धं च प्रसङ्गश् च विरुद्धप्रसङ्गं तेन । नार्थम् ईहेतेति संबध्यते । नञ् आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्य् अस्मिन् स्नातकप्रकरणे नञ्शब्दः प्रत्येकं पर्युदासार्थ एव । किं च अर्थालाभे ऽपि संतोषी परितृप्तो भवेत् । चकारात् संयतश् च, संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् । इति मनुस्मरणात् ॥ १.१२९ ॥

brāhmaṇasya pratigrahādayo 'rthaprāptyupāyā darśitāḥ | tatra viśeṣa ucyate: svādhyāyavirodhinam artham apratiṣiddham api neheta nānvicchet | na yatas tataḥ na yataḥ kutaś cid aviditācārāt | na viruddhaprasaṅgena viruddham ayājyayājanādi, prasaṅgo nṛtyagītādiḥ | viruddhaṃ ca prasaṅgaś ca viruddhaprasaṅgaṃ tena | nārtham īheteti saṃbadhyate | nañ āvṛttiḥ pratyekaṃ paryudāsārthā | sarvatrāpy asmin snātakaprakaraṇe nañśabdaḥ pratyekaṃ paryudāsārtha eva | kiṃ ca arthālābhe 'pi saṃtoṣī paritṛpto bhavet | cakārāt saṃyataś ca, saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet | iti manusmaraṇāt || 1.129 ||

Report an error

कुतस् तर्हि धनम् अन्विच्छेद् इत्य् आह ।

kutas tarhi dhanam anvicched ity āha |

Report an error

रजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा । १.१३०

rajāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā | 1.130

Report an error

दम्भिहैतुकपाखण्डिबकवृत्तींश् च वर्जयेत् ॥ १.१३० ॥

dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet || 1.130 ||

Report an error

क्षुधा सीदन् पीड्यमानः स्नातकः रज्ञो विदितवृत्तान्तात्, अन्तेवासिनो वक्ष्यमाणलक्षणात्, याज्यात् याजनार्हाच् च धनम् आददीत । "क्षुधा सीदन्न्" इत्य् अनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश् चिद् अर्थम् अन्विच्छेद् इति गम्यते । किं च दम्भिहैतुकादीन् सर्वकार्येषु लौकिकवैदिकशास्त्रीयेषु वर्जयेत् । चकाराद् विकर्मस्थबैडालव्रतिकान् शठान् । यथाह मनुः । पाखण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् । हैतुकान् बकवृत्तींश् च वाङ्मात्रेणाअपि नार्चयेत् ॥

kṣudhā sīdan pīḍyamānaḥ snātakaḥ rajño viditavṛttāntāt, antevāsino vakṣyamāṇalakṣaṇāt, yājyāt yājanārhāc ca dhanam ādadīta | "kṣudhā sīdann" ity anena vibhāgādiprāptakuṭumbapoṣaṇaparyāptadhano na kutaś cid artham anvicched iti gamyate | kiṃ ca dambhihaitukādīn sarvakāryeṣu laukikavaidikaśāstrīyeṣu varjayet | cakārād vikarmasthabaiḍālavratikān śaṭhān | yathāha manuḥ | pākhaṇḍino vikarmasthān baiḍālavratikān śaṭhān | haitukān bakavṛttīṃś ca vāṅmātreṇāapi nārcayet ||

Report an error

इति । लोकरञ्जनार्थम् एव कर्मानुष्ठायी दम्भी । युक्तिबलेन सर्वत्र संशयकारी हैतुकः । त्रैविद्यविरुद्धपरिगृईताश्रमिणः पाखण्डिनः । बकवद् यस्य वर्तनम् इति बकवृत्तिः । यथाह मनुः । अधोदृष्टिर् नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश् च बकवृत्तिर् उदाहृतः ॥

iti | lokarañjanārtham eva karmānuṣṭhāyī dambhī | yuktibalena sarvatra saṃśayakārī haitukaḥ | traividyaviruddhaparigṛītāśramiṇaḥ pākhaṇḍinaḥ | bakavad yasya vartanam iti bakavṛttiḥ | yathāha manuḥ | adhodṛṣṭir naikṛtikaḥ svārthasādhanatatparaḥ | śaṭho mithyāvinītaś ca bakavṛttir udāhṛtaḥ ||

Report an error

इति । प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस् तस्य व्रतं स्वभावो यस्यासौ बैडालव्रतिकः । तस्य लक्षणम् आह मनुः । धर्मध्वजी सदा लुब्धश् छाड्मिको लोकदम्भकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधिकः ॥

iti | pratiṣiddhasevino vikarmasthāḥ | biḍālo mārjāras tasya vrataṃ svabhāvo yasyāsau baiḍālavratikaḥ | tasya lakṣaṇam āha manuḥ | dharmadhvajī sadā lubdhaś chāḍmiko lokadambhakaḥ | baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhikaḥ ||

Report an error

इति शठः सर्वत्र वक्रः । एतैः संसर्गनिषेधाद् एव स्वयम् एवंभूतो न भवेद् इति गम्यते ॥ १.१३० ॥

iti śaṭhaḥ sarvatra vakraḥ | etaiḥ saṃsarganiṣedhād eva svayam evaṃbhūto na bhaved iti gamyate || 1.130 ||

Report an error

किं च । शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । १.१३१

kiṃ ca | śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ | 1.131

Report an error

न भार्यादर्शने अश्नीयान् नैकवासा न संस्थितः ॥ १.१३१ ॥

na bhāryādarśane aśnīyān naikavāsā na saṃsthitaḥ || 1.131 ||

Report an error

शुक्ले धौते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश् च श्मश्रूणि च नखाश् च केशश्मशुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिर् अन्तर् बहिश् च स्नानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतमः: "स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः" इति । सुगन्धित्वविधानाद् एव निर्गन्धमाल्यस्य निषेधः । तथा च गोभिलः: "नागन्धां स्रजं धारयेद् अन्यत्र हिरण्यरत्नस्रजः" इति । सदा स्नातक एवंभूतो भवेत् । एतच् च सति संभवे, न जीर्णमलवद्वासा भवेच् च विभवे सति । इति स्मरणात् । न च भार्यादर्शने तस्यां पुरतो ऽवस्थितायाम् अश्नीयाद् अवीर्यवदपत्योत्पत्तिभयात् । तथा च श्रुतिः । "जायाया अन्ते नाश्नीयाद् अवीर्यवद् अपत्यं भवति" इति । अतस् तया सह भोजनं दूराद् एव निरस्तं । न चैकवासा: न संस्थित उत्थितो ऽश्नीयाद् इति संबध्यते ॥ १.१३१ ॥

śukle dhaute ambare vāsasī dharatīti śuklāmbaradharaḥ | keśāś ca śmaśrūṇi ca nakhāś ca keśaśmaśunakhaṃ nīcaṃ nikṛttaṃ keśaśmaśrunakhaṃ yasyāsau tathoktaḥ | śucir antar bahiś ca snānānulepanadhūpasragādibhiḥ sugandhī ca bhavet | yathāha gautamaḥ: "snātako nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ" iti | sugandhitvavidhānād eva nirgandhamālyasya niṣedhaḥ | tathā ca gobhilaḥ: "nāgandhāṃ srajaṃ dhārayed anyatra hiraṇyaratnasrajaḥ" iti | sadā snātaka evaṃbhūto bhavet | etac ca sati saṃbhave, na jīrṇamalavadvāsā bhavec ca vibhave sati | iti smaraṇāt | na ca bhāryādarśane tasyāṃ purato 'vasthitāyām aśnīyād avīryavadapatyotpattibhayāt | tathā ca śrutiḥ | "jāyāyā ante nāśnīyād avīryavad apatyaṃ bhavati" iti | atas tayā saha bhojanaṃ dūrād eva nirastaṃ | na caikavāsā: na saṃsthita utthito 'śnīyād iti saṃbadhyate || 1.131 ||

Report an error

किं च । न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् । १.१३२

kiṃ ca | na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet | 1.132

Report an error

Illustration: Verse & Place (Project-owned).