Mitakshara 2.620
न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पे ऽप्य् अपराधे नग्नीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत, चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥
na ca brāhmaṇasyārthadaṇḍo nāstīti mantavyam | arthadaṇḍābhāve śārīradaṇḍe ca niṣiddhe svalpe 'py aparādhe nagnīkaraṇagṛhabhaṅgāṅkakaraṇavipravāsanaṃ daṇḍābhāvo vā prasajyeta, caturṇām api varṇānāṃ prāyaścittam akurvatām | śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet ||