Mitakshara 2.720
राजद्रोहाभिशण्कायां ब्रह्महत्यादिपातकाभिशण्कायां च शिरःस्थायिना विनापि तुलादीनि कुर्यात् महाचौर्याभिशण्कायां च । यथाह: राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥
rājadrohābhiśaṇkāyāṃ brahmahatyādipātakābhiśaṇkāyāṃ ca śiraḥsthāyinā vināpi tulādīni kuryāt mahācauryābhiśaṇkāyāṃ ca | yathāha: rājabhiḥ śaṅkitānāṃ ca nirdiṣṭānāṃ ca dasyubhiḥ | ātmaśuddhiparāṇāṃ ca divyaṃ deyaṃ śiro vinā ||