Mitakshara 2.741
इति । "न शीते तोयशुद्धिः स्याद्" इत्य् अत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । "नोष्णकाले ऽग्निशोधनम्" इत्य् अत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर् निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ २.९७ ॥
iti | "na śīte toyaśuddhiḥ syād" ity atra śītaśabdena hemantaśiśiravarṣāṇāṃ grahaṇam | "noṣṇakāle 'gniśodhanam" ity atroṣṇakālaśabdena grīṣmaśaradoḥ vidhānalabdhasyāpi punar niṣedha ādarārthaḥ | prayojanaṃ tu vakṣyate || 2.97 ||