Skip to content

Mitakshara 2.754

पणसहस्राद् अर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलम् अपि । यथोक्तम्: तुलादीनि विषान्तानि गुरुष्व् अर्थेषु दापयेत् । इति । अत्र कोशस्याग्रहणं "कोशम् अल्पे ऽपि दापयेत्" इत्य् अल्पाभियोगे ऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्राद् ऊर्ध्वम् एव भवन्ति नार्वाग् इत्य् अर्थः ॥

paṇasahasrād arvāk phālaṃ viṣaṃ tulāṃ vā na kārayet | madhyavarti jalam api | yathoktam: tulādīni viṣāntāni guruṣv artheṣu dāpayet | iti | atra kośasyāgrahaṇaṃ "kośam alpe 'pi dāpayet" ity alpābhiyoge 'pi tasya smaraṇāt | etāni catvāri divyāni paṇasahasrād ūrdhvam eva bhavanti nārvāg ity arthaḥ ||

Report an error