Skip to content

Mitakshara 2.855

तस्य कर्तुर् इत्य् उक्तवतः "त्वम् अग्ने सर्वभूतानाम्" इत्यादिभिर् मन्त्रैर् अभिमन्त्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं समम् अस्ररहितम्, सर्वतश् च समं वृत्तं श्लक्ष्णं तथाष्टाङ्गुलायामम् । अस्रहीनं समं कृत्वा अष्टाङ्गुलम् अयोमयम् । पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलिकं समम् ॥

tasya kartur ity uktavataḥ "tvam agne sarvabhūtānām" ityādibhir mantrair abhimantraṇaṃ kṛtavato lauhaṃ lohavikāraṃ piṇḍaṃ pañcāśatpalikaṃ pañcāśatpalasaṃmitaṃ samam asrarahitam, sarvataś ca samaṃ vṛttaṃ ślakṣṇaṃ tathāṣṭāṅgulāyāmam | asrahīnaṃ samaṃ kṛtvā aṣṭāṅgulam ayomayam | piṇḍaṃ tu tāpayed agnau pañcāśatpalikaṃ samam ||

Report an error