Skip to content

Mitakshara 2.874

अष्टमे मण्डले स्थित्वा नवमे मण्डले ऽग्नितप्तम् अयःपिण्डं त्यक्त्वा व्रीहीन् कराभ्यां मर्दयित्वादग्धहस्तश् चेच् छुद्धिम् आप्नुयात् । दग्धहस्तश् चेद् अशुद्ध इत्य् अर्थसिद्धम् । यस् तु संत्रासात् प्रस्खलन् हस्ताभ्याम् अन्यत्र दह्यते तथाप्य् अशुद्धो न भवति । यथाह कात्यायनः । प्रस्खलन्न् अभिशस्तश् चेत् स्थानाद् अन्यत्र दह्यते । अदग्धं तं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥

aṣṭame maṇḍale sthitvā navame maṇḍale 'gnitaptam ayaḥpiṇḍaṃ tyaktvā vrīhīn karābhyāṃ mardayitvādagdhahastaś cec chuddhim āpnuyāt | dagdhahastaś ced aśuddha ity arthasiddham | yas tu saṃtrāsāt praskhalan hastābhyām anyatra dahyate tathāpy aśuddho na bhavati | yathāha kātyāyanaḥ | praskhalann abhiśastaś cet sthānād anyatra dahyate | adagdhaṃ taṃ vidur devās tasya bhūyo 'pi dāpayet ||

Report an error