Mitakshara 2.862
षोडश अङ्गुलानि यस्य तत् षोडशाङ्गुलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धव्यम् । मण्डलयोर् अन्तरम् मध्यं च तावद् एव षोडशाङ्गुलकम् एव । "सप्त मण्डलानि व्रजेद्" इति वदता प्रथमम् अवस्थानमण्डलम् एकमुक्तम् । अतश् चाष्टमण्डलानि षोडशाङ्गुलकानि मण्डलानाम् अन्तराणि मध्यानीत्य् अर्थः । मण्डलान्तराणि तु सप्त तावत् प्रमाणानि । एतद् एव नारदेन परिसंख्यायोक्तम् । द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् । अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् । चत्वारिंशत् समधिकं भूमेर् अङ्गुलमानतः ॥
ṣoḍaśa aṅgulāni yasya tat ṣoḍaśāṅgulakam | ṣoḍaśāṅgulapramāṇaṃ maṇḍalaṃ boddhavyam | maṇḍalayor antaram madhyaṃ ca tāvad eva ṣoḍaśāṅgulakam eva | "sapta maṇḍalāni vrajed" iti vadatā prathamam avasthānamaṇḍalam ekamuktam | ataś cāṣṭamaṇḍalāni ṣoḍaśāṅgulakāni maṇḍalānām antarāṇi madhyānīty arthaḥ | maṇḍalāntarāṇi tu sapta tāvat pramāṇāni | etad eva nāradena parisaṃkhyāyoktam | dvātriṃśadaṅgulaṃ prāhur maṇḍalān maṇḍalāntaram | aṣṭābhir maṇḍalair evam aṅgulānāṃ śatadvayam | catvāriṃśat samadhikaṃ bhūmer aṅgulamānataḥ ||