Skip to content

Mitakshara 2.863

इति । अयम् अर्थः । अवस्थानमण्डलात् षोडशाङ्गुलान् मण्डलान्तरम् अन्यन् मण्डलम् । द्वितीयाद्य् एकम् एकं द्वात्रिंशदङ्गुलं सान्तरालं तद् एवम् अवस्थानमण्डलं षोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंशदङ्गुलानि । एवम् अष्टाभिर् मण्डलैश् चत्वारिंदशधिकं शतद्वयं भूमेर् अङ्गुलम् आनतो ऽङ्गुलमानम् इति सार्वविभक्तिकस् तसिः । अस्मिंस् तु पक्षे ऽवस्थानमण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां सप्तानां सान्तरालमण्डलभूभागानाम् एकम् एकं भूभागां द्विधा विभज्यान्तरालभूभागान् षोडशाङ्गुलप्रमाणान् विहाय मण्डलभूभागेषु षोडशाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । तथा तेनैवोक्तम्। मण्डलस्य प्रमाणं तु कुर्यात् तत्पदसंमितम् । इति । यत् तु पितामहेनोक्तम्, कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा । आग्नेयं मण्डलं चाद्यं द्वितीयं वारुणं स्मृतम् ॥

iti | ayam arthaḥ | avasthānamaṇḍalāt ṣoḍaśāṅgulān maṇḍalāntaram anyan maṇḍalam | dvitīyādy ekam ekaṃ dvātriṃśadaṅgulaṃ sāntarālaṃ tad evam avasthānamaṇḍalaṃ ṣoḍaśāṅgulam | gantavyāni ca sapta maṇḍalāni sāntarālāni dvātriṃśadaṅgulāni | evam aṣṭābhir maṇḍalaiś catvāriṃdaśadhikaṃ śatadvayaṃ bhūmer aṅgulam ānato 'ṅgulamānam iti sārvavibhaktikas tasiḥ | asmiṃs tu pakṣe 'vasthānamaṇḍalaṃ ṣoḍaśāṅgulaṃ vidhāya dvātriṃśadaṅgulapramāṇānāṃ saptānāṃ sāntarālamaṇḍalabhūbhāgānām ekam ekaṃ bhūbhāgāṃ dvidhā vibhajyāntarālabhūbhāgān ṣoḍaśāṅgulapramāṇān vihāya maṇḍalabhūbhāgeṣu ṣoḍaśāṅgulapramāṇeṣu gantṛpadapramāṇāni sapta maṇḍalāni kāryāṇi | tathā tenaivoktam| maṇḍalasya pramāṇaṃ tu kuryāt tatpadasaṃmitam | iti | yat tu pitāmahenoktam, kārayen maṇḍalāny aṣṭau purastān navamaṃ tathā | āgneyaṃ maṇḍalaṃ cādyaṃ dvitīyaṃ vāruṇaṃ smṛtam ||

Report an error