Skip to content

द्वितीयपरिच्छेदः · द्वितीयपरिच्छेदः

Pariccheda 2

dvitīyaparicchedaḥ

Part 1 of 3: passages 1–72 of 215Sanskrit with transliteration

A lotus and concentric forms evoking philosophical inquiry

श्रीवेदव्यासाय नमः पदवाक्यप्रमाणपारावारपारीणसर्वतन्त्रस्वतन्त्र श्रीव्यासतीर्थ-विरचितम् न्यायामृतम् द्वितीयपरिच्छेदः --**--

śrīvedavyāsāya namaḥ padavākyapramāṇapārāvārapārīṇasarvatantrasvatantra śrīvyāsatīrtha-viracitam nyāyāmṛtam dvitīyaparicchedaḥ --**--

Report an error

1.अखण्डार्थत्वलक्षणभङ्गः

1.akhaṇḍārthatvalakṣaṇabhaṅgaḥ

Report an error

नन्वेतदयुक्तं द्विविधं हि वेदान्तवाक्यम्-एकं पदार्थनिष्ठं यथा-"सत्यं ज्ञानम्" इत्यादि, तत्पदार्थपरम्, "योऽयं विज्ञानमय" इत्यादि त्वंपदार्थपरं च। अपरमैक्यरूपवाक्यार्थनिष्ठं यथा "तत्त्वमसी"त्यादि। द्वयमप्यखण्डार्थनिष्ठम्। यद्यप्यखण्डार्थनिष्ठत्वं न तावन्निर्भेदार्थनिष्ठत्वं भेदाभावविशिष्टत्वरूपस्य तदुपलक्षितत्वरूपस्य वा निर्भेदत्वस्य शब्दबोध्यत्वेऽभिप्रेते निर्घटं भूतलमित्यादिवत् सखण्डार्थत्वापत्तेः स्वरूपसत्वमात्रेऽभिप्रेते च स खण्डार्थानां सगुणवाक्यानामपि वस्तुगत्या निर्भेदब्रह्मनिष्ठत्वेनाखण्डार्थत्वापातात्, प्रकृष्टप्रकाशादिवाक्येष्वव्याप्तेश्च। अत एव न निर्विशेषार्थनिष्ठत्वं तत्। नाप्यपर्यायशब्दानां प्रातिपदिकार्थमात्रपयवसायित्वम्, पयः पावकरूपानेकप्रातिपदिकार्थमात्रपर्यवसायिनि शीतोष्णस्पर्शवन्तौ पयःपावकावित्यादावतिव्याप्तेः। नाप्येकविशेष्यपरत्वं नीलमुत्पलमित्यादावतिव्याप्तेरिष्टापत्तेश्च। तथाप्यपर्यायशब्दानां संसर्गागोचर प्रमाजनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायित्वं वा अखण्डार्थत्वम्। उक्तम् हि- संसर्गासङ्गिसंम्यग्धीहेतुता या गिरामियम्। उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता।। इति । तत्र पदार्थनिष्ठस्य वाक्यस्याखण्डार्थत्वे सत्यादिवाक्यम् अखण्डार्थनिष्ठं ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं वा, लक्षणवाक्यत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा, प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवदित्यनुमानं मानम्। न च द्वितीयहेतोरसिद्धिः, ब्रह्मविदाप्नोति परम् इत्युक्तब्रह्मप्रातिपदिकार्थमात्रे बुभुत्सितेऽस्य प्रवृत्तेः।

nanvetadayuktaṃ dvividhaṃ hi vedāntavākyam-ekaṃ padārthaniṣṭhaṃ yathā-"satyaṃ jñānam" ityādi, tatpadārthaparam, "yo'yaṃ vijñānamaya" ityādi tvaṃpadārthaparaṃ ca| aparamaikyarūpavākyārthaniṣṭhaṃ yathā "tattvamasī"tyādi| dvayamapyakhaṇḍārthaniṣṭham| yadyapyakhaṇḍārthaniṣṭhatvaṃ na tāvannirbhedārthaniṣṭhatvaṃ bhedābhāvaviśiṣṭatvarūpasya tadupalakṣitatvarūpasya vā nirbhedatvasya śabdabodhyatve'bhiprete nirghaṭaṃ bhūtalamityādivat sakhaṇḍārthatvāpatteḥ svarūpasatvamātre'bhiprete ca sa khaṇḍārthānāṃ saguṇavākyānāmapi vastugatyā nirbhedabrahmaniṣṭhatvenākhaṇḍārthatvāpātāt, prakṛṣṭaprakāśādivākyeṣvavyāpteśca| ata eva na nirviśeṣārthaniṣṭhatvaṃ tat| nāpyaparyāyaśabdānāṃ prātipadikārthamātrapayavasāyitvam, payaḥ pāvakarūpānekaprātipadikārthamātraparyavasāyini śītoṣṇasparśavantau payaḥpāvakāvityādāvativyāpteḥ| nāpyekaviśeṣyaparatvaṃ nīlamutpalamityādāvativyāpteriṣṭāpatteśca| tathāpyaparyāyaśabdānāṃ saṃsargāgocara pramājanakatvaṃ vā teṣāmekaprātipadikārthamātraparyavasāyitvaṃ vā akhaṇḍārthatvam| uktam hi- saṃsargāsaṅgisaṃmyagdhīhetutā yā girāmiyam| uktākhaṇḍārthatā yadvā tatprātipadikārthatā|| iti | tatra padārthaniṣṭhasya vākyasyākhaṇḍārthatve satyādivākyam akhaṇḍārthaniṣṭhaṃ brahmaprātipadikārthamātraniṣṭhaṃ vā, lakṣaṇavākyatvāt, tanmātrapraśnottaratvādvā, prakṛṣṭaprakāśaścandra iti vākyavadityanumānaṃ mānam| na ca dvitīyahetorasiddhiḥ, brahmavidāpnoti param ityuktabrahmaprātipadikārthamātre bubhutsite'sya pravṛtteḥ|

Report an error

न च हेतुद्वयेऽपि दृष्टान्तः साध्यविकलः प्रकृष्टादिवाक्यं चन्द्रप्रातिपदिकार्थमात्रनिष्ठम्, तन्मात्रप्रश्नोत्तरत्वात् संमतवदिति तत्सिद्धेः। न हि कश्चन्द्र इति चन्द्रप्रातिपदिकार्थमात्रे पृष्टेऽन्यद्वक्तुमुचितम्। सास्नादिमान् गौरित्याद्यपि लक्षणवाक्यं पृष्टगवादिप्रातिपदिकार्थमात्रपरमिति न व्यभिचारः। ऐक्यपरस्य वाक्यस्याखण्डार्थत्वे तु तत्त्वमसीत्यादिवाक्यम् अखण्डार्थनिष्ठम् आत्मस्वरूपमात्रनिष्ठं वा अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा सोऽयं देवदत्त इति वाक्यवत्। न चान्त्यहेतोरसिद्धिः, कोऽहमित्यात्मस्वरूपमात्रे बुभुत्सितेऽस्य प्रवृत्तेः। न च हेतुद्वयेऽपि दृष्टान्तः साध्यविकलः, कोऽयमिति देवदत्तस्वरूपमात्रे पृष्टेऽस्य प्रवृत्तेः। विपक्षे प्रश्नोत्तरयोर्वैयधिकरण्यप्रसङ्गो बाधक इति। अत्र ब्रूम-आद्यलक्षणे संसर्गशब्देन संसर्गमात्रोक्तौ "अप्राप्तयोः प्राप्तिः संयोग" इत्यादि संसर्गलक्षणवाक्ये अव्याप्तिः। पदस्मारितपदार्थसंसर्गोक्तौ तु विषं भुंक्ष्वेत्यादावतिव्याप्तिः, तस्य पदस्मारितपदार्थसंसर्गाप्रमापकत्वात्। न चेदमपि "द्विषदन्नं न भोक्तव्यमि"ति शास्त्रमूलकत्वात् शास्त्रीयपदस्मारितपदार्थसंसर्गप्रमापकम् अस्य युक्तिमूलत्वेनाशास्त्रमूलत्वात्। प्रतिपिपादयिषितपदार्थसंसर्गोक्तौ च चन्द्रब्रह्मादिशब्दार्थानां प्रश्नहेतुसंशयधर्मित्वेन प्रागेव सामान्यतो ज्ञाततया स्वरूपेणाप्रतिपिपादयिषितत्वात्। संसर्गविशेषप्रतियोगित्वेन तु प्रतिपिपादयिषितत्वे विवक्षिते संसर्गाप्रमापकत्वासम्भवात्।

na ca hetudvaye'pi dṛṣṭāntaḥ sādhyavikalaḥ prakṛṣṭādivākyaṃ candraprātipadikārthamātraniṣṭham, tanmātrapraśnottaratvāt saṃmatavaditi tatsiddheḥ| na hi kaścandra iti candraprātipadikārthamātre pṛṣṭe'nyadvaktumucitam| sāsnādimān gaurityādyapi lakṣaṇavākyaṃ pṛṣṭagavādiprātipadikārthamātraparamiti na vyabhicāraḥ| aikyaparasya vākyasyākhaṇḍārthatve tu tattvamasītyādivākyam akhaṇḍārthaniṣṭham ātmasvarūpamātraniṣṭhaṃ vā akāryakāraṇadravyamātraniṣṭhatve sati samānādhikaraṇatvāt, tanmātrapraśnottaratvādvā so'yaṃ devadatta iti vākyavat| na cāntyahetorasiddhiḥ, ko'hamityātmasvarūpamātre bubhutsite'sya pravṛtteḥ| na ca hetudvaye'pi dṛṣṭāntaḥ sādhyavikalaḥ, ko'yamiti devadattasvarūpamātre pṛṣṭe'sya pravṛtteḥ| vipakṣe praśnottarayorvaiyadhikaraṇyaprasaṅgo bādhaka iti| atra brūma-ādyalakṣaṇe saṃsargaśabdena saṃsargamātroktau "aprāptayoḥ prāptiḥ saṃyoga" ityādi saṃsargalakṣaṇavākye avyāptiḥ| padasmāritapadārthasaṃsargoktau tu viṣaṃ bhuṃkṣvetyādāvativyāptiḥ, tasya padasmāritapadārthasaṃsargāpramāpakatvāt| na cedamapi "dviṣadannaṃ na bhoktavyami"ti śāstramūlakatvāt śāstrīyapadasmāritapadārthasaṃsargapramāpakam asya yuktimūlatvenāśāstramūlatvāt| pratipipādayiṣitapadārthasaṃsargoktau ca candrabrahmādiśabdārthānāṃ praśnahetusaṃśayadharmitvena prāgeva sāmānyato jñātatayā svarūpeṇāpratipipādayiṣitatvāt| saṃsargaviśeṣapratiyogitvena tu pratipipādayiṣitatve vivakṣite saṃsargāpramāpakatvāsambhavāt|

Report an error

किं च शीतोष्णस्पर्शवन्तौ पयः पावकावित्यादौ त्वद्रीत्या संसर्गाप्रतिपादकेऽनेकप्रातिपदिकार्थमात्रपरेऽतिव्याप्तिः। न हि धर्मधर्मिभावासहमखण्डार्थत्वं धर्मिभेदसहम्। किं च यौगिकार्थौपगवादिप्रश्नोत्तरे श्यामो दीर्घो लोहिताक्ष औपगव इत्यादौ अनेकार्थात्मकवनसेनादिप्रश्नोत्तरे "एकदेशस्था वृक्षा वन"मित्यादौ च सखण्डार्थे लक्षणवाक्येऽतिव्याप्तिः। प्रकृष्टादिवाक्येऽपि संसृष्टार्थत्वस्य वक्ष्यमाणत्वेनासम्भवश्च। अत एवान्त्यं लक्षणमप्ययुक्तम्, असम्भवात्, सखण्डार्थलक्षणवाक्येऽतिव्यातेश्च। किं च प्रवृत्तिनिमित्ताभेदश्चेन्नापर्यायत्वं तद्भेदस्त्विह नास्ति अनन्तत्वादीनां शुद्धादन्यत्रासम्भवाद् अनन्तादिशब्दानां लक्षणयाऽखण्डार्थत्वे च शुद्धे तदसिद्धेः। अखण्डार्थत्वलक्षणभङ्गः।। 1 ।।

kiṃ ca śītoṣṇasparśavantau payaḥ pāvakāvityādau tvadrītyā saṃsargāpratipādake'nekaprātipadikārthamātrapare'tivyāptiḥ| na hi dharmadharmibhāvāsahamakhaṇḍārthatvaṃ dharmibhedasaham| kiṃ ca yaugikārthaupagavādipraśnottare śyāmo dīrgho lohitākṣa aupagava ityādau anekārthātmakavanasenādipraśnottare "ekadeśasthā vṛkṣā vana"mityādau ca sakhaṇḍārthe lakṣaṇavākye'tivyāptiḥ| prakṛṣṭādivākye'pi saṃsṛṣṭārthatvasya vakṣyamāṇatvenāsambhavaśca| ata evāntyaṃ lakṣaṇamapyayuktam, asambhavāt, sakhaṇḍārthalakṣaṇavākye'tivyāteśca| kiṃ ca pravṛttinimittābhedaścennāparyāyatvaṃ tadbhedastviha nāsti anantatvādīnāṃ śuddhādanyatrāsambhavād anantādiśabdānāṃ lakṣaṇayā'khaṇḍārthatve ca śuddhe tadasiddheḥ| akhaṇḍārthatvalakṣaṇabhaṅgaḥ|| 1 ||

Report an error

2. सत्यज्ञानादिवाक्यानामखण्डार्थत्वानुमानभङ्गः

2. satyajñānādivākyānāmakhaṇḍārthatvānumānabhaṅgaḥ

Report an error

आद्यानुमाने चाप्रसिद्धविशेषणत्वं प्रत्यक्षादिनापीदमित्थमिति सप्रकारकज्ञानस्यैवोत्पत्तेः। असिद्धिश्च, सत्यत्वज्ञानत्वादेः परापरजातित्वे तस्या ब्रह्मण्यपि सत्वेनातिव्याप्तेः। अजातित्वेऽपि ब्रह्मण्यपि तस्यातात्त्विकस्य धर्मिज्ञानाबाध्यस्य चाऽसम्भवाद्, अतात्त्विकस्य व्यावहारिकस्य चानात्मन्यपि सत्त्वात्। विरुद्धत्वं च, असाधारणधर्मरूपलक्षणपरवाक्यत्वस्य सखण्डार्थत्वेनैव व्याप्तेः। न च स्वरूपक्षणस्थ लक्ष्यानतिरेकात्तत्परत्वमखण्डार्थत्वाविरोधि, तंस्य लक्ष्यमात्रत्वे लक्ष्यलक्षणभावायोगाद्, अतिरेकेऽपि यावल्लक्ष्यभावित्वादिनैव स्वरूपलक्षणत्वोपपत्तेश्च। न च द्वारत्वेन लक्षणपरत्वं द्वारिणोऽखण्ड त्वाविरोधि, वक्ष्यमाणरीत्या लक्षणात्प्रागेव सामान्यतो ज्ञाते स्वरूपमात्रे तस्य द्वारत्वायोगात्। न च लक्षणपरत्वं न हेतुः किंत्वतत्परत्वेऽपि तत्प्रत्यायकत्वमात्रमिति वाच्यम्, अलक्षणवाक्यस्यापि तात्पर्यभ्रमादिना लक्षणप्रत्यायकत्वसम्भवेन व्यभिचारात् सखण्डवनादिलक्षणवाक्ये, किंचन्द्रलक्षणमित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टादिवाक्ये च व्यभिचारश्च। न चाखण्डलक्षणवाक्यत्वं हेतुः, असिद्धेः। न च धर्मे पृष्टे स्वरूपमात्रं वक्तुमुचितम्। न च प्रश्नविशेष्यविशेष्यकत्वम् उत्तरत्वे तन्त्रम्, किन्तु तन्मूलसंशयविरोधित्वम्। बाधश्च, धर्मिज्ञानाधीनसप्रकारकसंशयादिनिवर्तकं मोक्षहेतुं सप्रकारकं ब्रह्मज्ञानं प्रति साधनत्वेन वेदान्तविचारविधानान्यथानुपपत्त्या बलवत्या वेदान्तवाक्ये साध्याभावनिश्चयात्। सत्प्रतिपक्षत्वं च सत्यादिवाक्यतात्पर्यविषयः संसृष्टरूपः संसर्गरूपो वा प्रमाणवाक्यतात्पर्यविषयत्वात् सम्मतवत्।

ādyānumāne cāprasiddhaviśeṣaṇatvaṃ pratyakṣādināpīdamitthamiti saprakārakajñānasyaivotpatteḥ| asiddhiśca, satyatvajñānatvādeḥ parāparajātitve tasyā brahmaṇyapi satvenātivyāpteḥ| ajātitve'pi brahmaṇyapi tasyātāttvikasya dharmijñānābādhyasya cā'sambhavād, atāttvikasya vyāvahārikasya cānātmanyapi sattvāt| viruddhatvaṃ ca, asādhāraṇadharmarūpalakṣaṇaparavākyatvasya sakhaṇḍārthatvenaiva vyāpteḥ| na ca svarūpakṣaṇastha lakṣyānatirekāttatparatvamakhaṇḍārthatvāvirodhi, taṃsya lakṣyamātratve lakṣyalakṣaṇabhāvāyogād, atireke'pi yāvallakṣyabhāvitvādinaiva svarūpalakṣaṇatvopapatteśca| na ca dvāratvena lakṣaṇaparatvaṃ dvāriṇo'khaṇḍa tvāvirodhi, vakṣyamāṇarītyā lakṣaṇātprāgeva sāmānyato jñāte svarūpamātre tasya dvāratvāyogāt| na ca lakṣaṇaparatvaṃ na hetuḥ kiṃtvatatparatve'pi tatpratyāyakatvamātramiti vācyam, alakṣaṇavākyasyāpi tātparyabhramādinā lakṣaṇapratyāyakatvasambhavena vyabhicārāt sakhaṇḍavanādilakṣaṇavākye, kiṃcandralakṣaṇamityasādhāraṇadharmapraśnottare prakṛṣṭādivākye ca vyabhicāraśca| na cākhaṇḍalakṣaṇavākyatvaṃ hetuḥ, asiddheḥ| na ca dharme pṛṣṭe svarūpamātraṃ vaktumucitam| na ca praśnaviśeṣyaviśeṣyakatvam uttaratve tantram, kintu tanmūlasaṃśayavirodhitvam| bādhaśca, dharmijñānādhīnasaprakārakasaṃśayādinivartakaṃ mokṣahetuṃ saprakārakaṃ brahmajñānaṃ prati sādhanatvena vedāntavicāravidhānānyathānupapattyā balavatyā vedāntavākye sādhyābhāvaniścayāt| satpratipakṣatvaṃ ca satyādivākyatātparyaviṣayaḥ saṃsṛṣṭarūpaḥ saṃsargarūpo vā pramāṇavākyatātparyaviṣayatvāt sammatavat|

Report an error

सत्यादिवाक्यं स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गपरम्, स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणकप्रमितिविषयपदार्थनिरूप्यसंसर्गपरं वा, प्रमाणवाक्यत्वात्, ज्योतिष्टोमादिवाक्यवत्। विषं भुंक्ष्वेत्यादौ वाच्यार्थसंसर्गपरत्वाभावेऽप्युक्तसाध्यसद्भावान्न व्यभिचारः। खं छिद्रं, कोकिलः पिक त्यादावपि अनतिभिन्नार्थत्वे सामानाधिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्व संसर्गपरत्वात् न तत्रापि व्यभिचारः। यद्वा वेदान्तजन्यप्रमा सप्रकारिका, विचारजन्यज्ञानत्वात्, संशयविरोधित्वाच्च, कर्मकाण्डजन्यज्ञानवत्। वेदान्तजन्या प्रमा ब्रह्मनिष्ठप्रकारविषया, ब्रह्मधर्मिकसंशयविरोधिज्ञानत्वाद्, ब्रह्मविचारजन्यज्ञानत्वाच्च, यदेवं तदेवं यथा कर्मकाण्डविचारजन्यनिश्चय इत्यादिना प्रतिरोधात्। दृष्टान्तस्य साध्यवैकल्यं च। तथा हि-प्रकृष्टादिवाक्यस्याखण्डार्थत्वं न तावन्मुख्यवृत्त्या, लक्षणापि न तावत् गंगायां घोष इत्यादाविवान्वयानुपपत्त्या चन्द्रादौ प्रकृष्टे गुणरूपेण द्रव्यरूपेण वा प्रकाशेन सम्बन्धस्य सत्वात्, चन्द्रे प्रकृष्टप्रकाशादेः सत्त्वात्। नापि यष्टीः प्रवेशयेत्यादाविव तात्पर्यानुपपत्त्या कश्चन्द्र इति स्वरूपमात्रस्य पृष्टत्वादिति वाच्यम्, अस्ति कश्चिच्चन्द्रशब्दस्यार्थ इत्यज्ञाने तत्र धर्मिज्ञानसाध्याया बुभुत्सायाः सन्देहस्य चानुपपत्तेः, चन्द्रशब्दस्य प्रातिपदिकत्वानिश्चयेन सुब्बिभक्तिप्रयोगायोगाच्च चन्द्र इत्यनूद्य क इति प्रश्नायोगाच्च, न ह्यज्ञातमनुवादार्हम्। असङ्कीर्णं चन्द्रस्वरूपं न ज्ञातमिति चेत्, न चन्द्रस्वरूपद्वयाभावात्।

satyādivākyaṃ svatātparyaviṣayajñānābādhyasaṃsargaparam, svatātparyaviṣayajñānābādhyasvakaraṇakapramitiviṣayapadārthanirūpyasaṃsargaparaṃ vā, pramāṇavākyatvāt, jyotiṣṭomādivākyavat| viṣaṃ bhuṃkṣvetyādau vācyārthasaṃsargaparatvābhāve'pyuktasādhyasadbhāvānna vyabhicāraḥ| khaṃ chidraṃ, kokilaḥ pika tyādāvapi anatibhinnārthatve sāmānādhikaraṇyāyogena chidrakokilādīnāṃ khapikādiśabdavācyatva saṃsargaparatvāt na tatrāpi vyabhicāraḥ| yadvā vedāntajanyapramā saprakārikā, vicārajanyajñānatvāt, saṃśayavirodhitvācca, karmakāṇḍajanyajñānavat| vedāntajanyā pramā brahmaniṣṭhaprakāraviṣayā, brahmadharmikasaṃśayavirodhijñānatvād, brahmavicārajanyajñānatvācca, yadevaṃ tadevaṃ yathā karmakāṇḍavicārajanyaniścaya ityādinā pratirodhāt| dṛṣṭāntasya sādhyavaikalyaṃ ca| tathā hi-prakṛṣṭādivākyasyākhaṇḍārthatvaṃ na tāvanmukhyavṛttyā, lakṣaṇāpi na tāvat gaṃgāyāṃ ghoṣa ityādāvivānvayānupapattyā candrādau prakṛṣṭe guṇarūpeṇa dravyarūpeṇa vā prakāśena sambandhasya satvāt, candre prakṛṣṭaprakāśādeḥ sattvāt| nāpi yaṣṭīḥ praveśayetyādāviva tātparyānupapattyā kaścandra iti svarūpamātrasya pṛṣṭatvāditi vācyam, asti kaściccandraśabdasyārtha ityajñāne tatra dharmijñānasādhyāyā bubhutsāyāḥ sandehasya cānupapatteḥ, candraśabdasya prātipadikatvāniścayena subbibhaktiprayogāyogācca candra ityanūdya ka iti praśnāyogācca, na hyajñātamanuvādārham| asaṅkīrṇaṃ candrasvarūpaṃ na jñātamiti cet, na candrasvarūpadvayābhāvāt|

Report an error

तदेव स्वरूपमसङ्कीर्णत्वेन न ज्ञातमिति चेत्, न असङ्कीर्णत्वस्य व्यावर्तकवैशिष्ट्यव्यावृत्तिवैशिष्ट्ययोरन्यतररूपत्वेन प्रश्नस्य विशिष्टपरत्वापातात्। एवं च- सामान्यतोऽपि न ज्ञातो धर्मी चन्द्रो यदा तदा। न बुभुत्सा न सन्देहो नानुवादश्च युज्यते।। तस्माच्चन्द्रस्येतरस्माद् भेदको धर्म एव हि। पृष्टस्तस्मात्प्रकृष्टादिवाक्यं नाखण्डगोचरम्।। एवं प्रतिवचनस्य प्रकृष्टत्वादिविशिष्टे तात्पर्याभावे तात्पर्यतो यः कश्चिच्चन्द्र इत्येव बोधनाद्, अतात्पर्यविषयस्य च प्रतीतस्य त्यक्तत्वाद्, वस्तुतो यस्य कस्यापि चन्द्रत्वं स्यात्, तात्पर्यविषयेऽखण्डेऽयं चन्द्र इति लक्ष्यलक्षणरूपोद्देश्यविधेयविभागाभावेन तात्पर्यतो यत्किञ्चिदित्येव बोधना च्चन्द्रत्वेन चन्द्रबुसुत्सानिवृत्त्यभावात्। कश्चन्द्र इति प्रश्नस्योत्तरं च न स्यात्। सर्वेषामपि लक्षणवाक्यतात्पर्यजन्यज्ञानानां वस्तुगत्या परस्परभिन्नतत्तत्प्रातिपदिकार्थविषयत्वेऽपि प्रकारभेदाभावेन तेन तेन भिन्नभिन्न प्रकारकतत्तत्सन्देह निवृत्तिश्च न स्यात्। प्रकृष्टादिपदवैयर्थ्यं च स्यात्। व्यावर्त्यभेदेन सार्थक्यमित्येतन्निरसिष्यते। एतेन प्रश्नोत्तरे तावच्चन्द्रप्रातिपदिकार्थमात्रविषये प्रकृष्टादिविशेषणाश्रयभूताचासाधारणी विशेष्यव्यक्तिः चन्द्रप्रातिपदिकार्थः, न तु तद्विशिष्टा प्रकृष्टप्रकाशश्चन्द्र इति सहप्रयोगाद्ययोगाद् विशेष्यव्यक्तिश्चाखण्डेति अखण्डार्थपरे प्रश्नोत्तरे इति निरस्तम्, अस्या एवासाधारणव्यक्तेर्व्यावर्तकादि वैशिष्ट्यरूपेणासाधारण्येनाज्ञानेऽपि चन्द्रप्रातिपादिकार्थत्वादिरूपेण प्रागेव ज्ञातत्वात्।

tadeva svarūpamasaṅkīrṇatvena na jñātamiti cet, na asaṅkīrṇatvasya vyāvartakavaiśiṣṭyavyāvṛttivaiśiṣṭyayoranyatararūpatvena praśnasya viśiṣṭaparatvāpātāt| evaṃ ca- sāmānyato'pi na jñāto dharmī candro yadā tadā| na bubhutsā na sandeho nānuvādaśca yujyate|| tasmāccandrasyetarasmād bhedako dharma eva hi| pṛṣṭastasmātprakṛṣṭādivākyaṃ nākhaṇḍagocaram|| evaṃ prativacanasya prakṛṣṭatvādiviśiṣṭe tātparyābhāve tātparyato yaḥ kaściccandra ityeva bodhanād, atātparyaviṣayasya ca pratītasya tyaktatvād, vastuto yasya kasyāpi candratvaṃ syāt, tātparyaviṣaye'khaṇḍe'yaṃ candra iti lakṣyalakṣaṇarūpoddeśyavidheyavibhāgābhāvena tātparyato yatkiñcidityeva bodhanā ccandratvena candrabusutsānivṛttyabhāvāt| kaścandra iti praśnasyottaraṃ ca na syāt| sarveṣāmapi lakṣaṇavākyatātparyajanyajñānānāṃ vastugatyā parasparabhinnatattatprātipadikārthaviṣayatve'pi prakārabhedābhāvena tena tena bhinnabhinna prakārakatattatsandeha nivṛttiśca na syāt| prakṛṣṭādipadavaiyarthyaṃ ca syāt| vyāvartyabhedena sārthakyamityetannirasiṣyate| etena praśnottare tāvaccandraprātipadikārthamātraviṣaye prakṛṣṭādiviśeṣaṇāśrayabhūtācāsādhāraṇī viśeṣyavyaktiḥ candraprātipadikārthaḥ, na tu tadviśiṣṭā prakṛṣṭaprakāśaścandra iti sahaprayogādyayogād viśeṣyavyaktiścākhaṇḍeti akhaṇḍārthapare praśnottare iti nirastam, asyā evāsādhāraṇavyaktervyāvartakādi vaiśiṣṭyarūpeṇāsādhāraṇyenājñāne'pi candraprātipādikārthatvādirūpeṇa prāgeva jñātatvāt|

Report an error

एवं च गामानयेत्यादौ गोत्वस्यानयनेनेव प्रकृष्टत्वादेर्विधेयेन चन्द्रप्रातिपदिकार्थत्वेनानन्वयेऽपि उद्देश्यत्वावच्छेदकत्वेन विवक्षितत्वात्तद्वदेव विशिष्टार्थत्वं दुर्वारम्। अस्ति च पृथिवीत्ववती पृथिवीत्यादौ पृथिवीत्वस्य विधेयेन पृथिवीशब्दार्थत्वेनान्वयः। न हि पृथिवीत्वं न पृथिवीप्रातिपदिकार्थः, सह प्रयोगस्तु पृथिवीशब्दस्य तच्छब्देन व्यवहर्तव्यतापरत्वात्। तस्माद्धर्मिणश्चन्द्रस्य सामान्यतो नक्षत्रादिव्यावर्तकव्यावृत्तिरूपधर्मस्य च घटादौ प्रागेव ज्ञातत्वाद्विशिष्टविषये एव प्रश्नोत्तरे। तत्र यदि प्रष्ट्रा व्यावृत्तिवैशिष्ट्यमेव साक्षाद्बुभुत्सितम्, तदा वक्ता व्यावृत्तेरस्मादस्माच्च व्यावृत्त इति साक्षाज्जन्मशतेनापि दुर्बोधत्वात् धूमे उक्तेऽग्निमिव व्यावर्तके उक्ते व्यावृत्तिं ज्ञास्यतीति भावेन व्यावर्तकवैशिष्ट्यमेव तात्पर्यतः प्रतिपादयति। न ह्यग्निबोधनार्थस्य धूमोऽस्तीति वाक्यस्य न धूमे तात्पर्यं न वा यागाक्षेपकस्य "यदाग्नेयादि" वाक्यस्य न द्रव्यदेवतासम्बन्धे। यदि तु प्रष्ट्रैव व्यावृत्तिः प्रतियोगिनामानन्त्येन साक्षात्प्रष्टुं वक्तुं चाशक्येति ज्ञात्वा कश्चन्द्र इत्यनया वाचोभंग्या कैर्विशेषणैर्विशिष्टः ? इति पृष्टं तदा सुतरां प्रश्नोत्तरे व्यावर्तकवैशिष्ट्यपरे इति न क्वाप्यखण्डार्थत्वम्।

evaṃ ca gāmānayetyādau gotvasyānayaneneva prakṛṣṭatvādervidheyena candraprātipadikārthatvenānanvaye'pi uddeśyatvāvacchedakatvena vivakṣitatvāttadvadeva viśiṣṭārthatvaṃ durvāram| asti ca pṛthivītvavatī pṛthivītyādau pṛthivītvasya vidheyena pṛthivīśabdārthatvenānvayaḥ| na hi pṛthivītvaṃ na pṛthivīprātipadikārthaḥ, saha prayogastu pṛthivīśabdasya tacchabdena vyavahartavyatāparatvāt| tasmāddharmiṇaścandrasya sāmānyato nakṣatrādivyāvartakavyāvṛttirūpadharmasya ca ghaṭādau prāgeva jñātatvādviśiṣṭaviṣaye eva praśnottare| tatra yadi praṣṭrā vyāvṛttivaiśiṣṭyameva sākṣādbubhutsitam, tadā vaktā vyāvṛtterasmādasmācca vyāvṛtta iti sākṣājjanmaśatenāpi durbodhatvāt dhūme ukte'gnimiva vyāvartake ukte vyāvṛttiṃ jñāsyatīti bhāvena vyāvartakavaiśiṣṭyameva tātparyataḥ pratipādayati| na hyagnibodhanārthasya dhūmo'stīti vākyasya na dhūme tātparyaṃ na vā yāgākṣepakasya "yadāgneyādi" vākyasya na dravyadevatāsambandhe| yadi tu praṣṭraiva vyāvṛttiḥ pratiyogināmānantyena sākṣātpraṣṭuṃ vaktuṃ cāśakyeti jñātvā kaścandra ityanayā vācobhaṃgyā kairviśeṣaṇairviśiṣṭaḥ ? iti pṛṣṭaṃ tadā sutarāṃ praśnottare vyāvartakavaiśiṣṭyapare iti na kvāpyakhaṇḍārthatvam|

Report an error

असाधारणधर्मरूपलक्षणप्रश्नो ह्ययं किं लक्षणकश्चन्द्र इति असाधारणधर्मविषयकस्य, कतमश्चन्द्र इति जातिविषयस्य, अनयोः कतरश्चन्द्र इति गुणक्रियाजातिभिः पृथक्करणरूपनिर्धारणविषयस्य च प्रश्नस्योत्तर इवात्रापि प्रतिवचने लक्षणोक्तेः प्रश्नेऽपि प्रकृष्टो वा प्रकाशो वेत्यादिधर्मविषयविकल्पसूचक किं शब्दप्रयोगाच्च। एतेन प्रश्ने धर्मवाचि पदं नेति निरस्तम्, तथात्वे चन्द्रधर्मस्यैव लक्षणीयत्वापत्त्या तस्यानपेक्षितत्वात्, चन्द्रप्रातिपदिकार्थस्य सामान्यतो ज्ञातत्वेन तद्बुभुत्सायोगात्। लक्षणया वा प्रश्नस्थचन्द्रपदस्यैव चन्द्रासाधारणधर्मपरत्वस्य कल्प्यत्वाच्च। यद्वा लक्षणवाक्यम्, अनुमानत्वेनाप्तवाक्यत्वेन वा चन्द्रव्यवहारकर्तव्यतावैशिष्ट्यपरमस्तु चन्द्रस्वरूपस्य प्रत्यक्षेणैव ज्ञातत्वात्। चन्द्रव्यवहारशब्देन च चन्द्रशब्दविशेषितो व्यवहारो विवक्ष्यते, न तु चन्द्ररूपार्थविशेषितः, येन तज्ज्ञाने वाक्यवैयर्थ्यं तदज्ञाने तु तस्य कर्तव्यताबोधनमशक्यमिति शंक्येत। न चैवं वृद्धव्यवहारादेव व्युत्पत्तिसम्भवात् लक्षणवाक्यं व्यर्थम्, शृङ्गग्राहिकयोपदेशवदस्यापि व्युत्पत्तावुपायान्तरत्वात्। एतेन मानान्तरसिद्धं वैशिष्ट्यमखण्डचन्द्रसिद्धावुपायमात्रमिति कल्पतरूक्तं निरस्तम्। मानान्तरेण चन्द्रप्रातिपदिकार्थः प्रकृष्टत्वादिविशिष्ट इत्यज्ञानाद्, अस्मिन् ज्योतिर्मण्डले कश्चन्द्र इति पृच्छता चन्द्रस्वरूपस्य प्रत्यक्षेण सुतरां ज्ञातत्वाच्च। तस्मात्साध्यवैकल्यं दुष्परिहरमित्याद्यानुमानमयुक्तम्।

asādhāraṇadharmarūpalakṣaṇapraśno hyayaṃ kiṃ lakṣaṇakaścandra iti asādhāraṇadharmaviṣayakasya, katamaścandra iti jātiviṣayasya, anayoḥ kataraścandra iti guṇakriyājātibhiḥ pṛthakkaraṇarūpanirdhāraṇaviṣayasya ca praśnasyottara ivātrāpi prativacane lakṣaṇokteḥ praśne'pi prakṛṣṭo vā prakāśo vetyādidharmaviṣayavikalpasūcaka kiṃ śabdaprayogācca| etena praśne dharmavāci padaṃ neti nirastam, tathātve candradharmasyaiva lakṣaṇīyatvāpattyā tasyānapekṣitatvāt, candraprātipadikārthasya sāmānyato jñātatvena tadbubhutsāyogāt| lakṣaṇayā vā praśnasthacandrapadasyaiva candrāsādhāraṇadharmaparatvasya kalpyatvācca| yadvā lakṣaṇavākyam, anumānatvenāptavākyatvena vā candravyavahārakartavyatāvaiśiṣṭyaparamastu candrasvarūpasya pratyakṣeṇaiva jñātatvāt| candravyavahāraśabdena ca candraśabdaviśeṣito vyavahāro vivakṣyate, na tu candrarūpārthaviśeṣitaḥ, yena tajjñāne vākyavaiyarthyaṃ tadajñāne tu tasya kartavyatābodhanamaśakyamiti śaṃkyeta| na caivaṃ vṛddhavyavahārādeva vyutpattisambhavāt lakṣaṇavākyaṃ vyartham, śṛṅgagrāhikayopadeśavadasyāpi vyutpattāvupāyāntaratvāt| etena mānāntarasiddhaṃ vaiśiṣṭyamakhaṇḍacandrasiddhāvupāyamātramiti kalpatarūktaṃ nirastam| mānāntareṇa candraprātipadikārthaḥ prakṛṣṭatvādiviśiṣṭa ityajñānād, asmin jyotirmaṇḍale kaścandra iti pṛcchatā candrasvarūpasya pratyakṣeṇa sutarāṃ jñātatvācca| tasmātsādhyavaikalyaṃ duṣpariharamityādyānumānamayuktam|

Report an error

तथा द्वितीयमपि अप्रसिद्धविशेषणत्वबाधसत्प्रतिपक्षत्वदृष्टान्तसाध्यवैकल्यादिदोषात् प्रकृष्टादिवाक्ये उक्तरीत्या सत्यादिवाक्येऽपि बुभुत्साद्यनुपपत्त्या ब्रह्मस्वरूपमात्रप्रश्नोत्तरत्वस्यासिद्धेश्च। इह च कश्चन्द्र इतिवत् क्लृप्तस्य प्रश्नस्याभावात् कल्प्यस्य च क्लृप्तोत्तरानुसारेण धर्मविषयकस्यैव कल्प्यत्वाच्च। कतम आत्मेत्यत्र कतरः स आत्मेत्यत्र च त्वं पदार्थप्रश्ने वा बहूनां जातिपरिप्रश्ने डतमच्, "द्वयोरेकस्य निर्धारणे डतरच्-" इति सूत्राभ्यां जात्याद्यर्थकतमादिशब्दप्रयोगेण तत्प्रतिवचने योऽयं विज्ञानमय इत्यादौ पक्षत्वेन त्वदभिमते हेतोरसिद्धेश्च। किं च सर्वस्याप्युत्तरस्य प्रष्टृनिर्धारितप्रश्नधर्मिनिष्ठानिर्धारितैकप्रकारपरत्वाद्विरुद्धो हेतुः। यदि चोत्तरजन्यं ज्ञानं निष्प्रकारकं स्यात्, तेन सप्रकारकसन्देहनिवृत्तिर्न स्यात्। यदि चोत्तरं प्रश्नादधिकविषयं न स्यात्तर्ह्युत्तरमेव न स्याद्, अन्यथा प्रश्न एव उत्तरं स्यात्। किं करोति किमानेयम् ? इत्यादि प्रश्नोत्तरेषु अध्ययनं करोति गामानयेत्यादिषु व्यभिचाराच्च। न हि तान्यप्यध्ययनत्वगोत्वादित्यागेन लक्षणया कर्मादिमात्रपराणि। एतेन सत्यादिवाक्यार्थः ब्रह्मप्रातिपदिकार्थमात्रं तन्मात्रप्रश्नोत्तरवाक्यार्थत्वादिति न्यायदीपावल्युक्तं व्यतिरेक्यनुमानं निरस्तम्। किं चैकप्रातिपदिकार्थप्रश्नोत्तरत्वेन कथमखण्डार्थत्वम् ? स्वार्थो द्रव्यं तथा लिङ्गं सङ्ख्या कर्मादयोऽपि च। नामार्थपञ्चकं प्राहुराद्यं त्रिकमथापरे।।

tathā dvitīyamapi aprasiddhaviśeṣaṇatvabādhasatpratipakṣatvadṛṣṭāntasādhyavaikalyādidoṣāt prakṛṣṭādivākye uktarītyā satyādivākye'pi bubhutsādyanupapattyā brahmasvarūpamātrapraśnottaratvasyāsiddheśca| iha ca kaścandra itivat klṛptasya praśnasyābhāvāt kalpyasya ca klṛptottarānusāreṇa dharmaviṣayakasyaiva kalpyatvācca| katama ātmetyatra kataraḥ sa ātmetyatra ca tvaṃ padārthapraśne vā bahūnāṃ jātiparipraśne ḍatamac, "dvayorekasya nirdhāraṇe ḍatarac-" iti sūtrābhyāṃ jātyādyarthakatamādiśabdaprayogeṇa tatprativacane yo'yaṃ vijñānamaya ityādau pakṣatvena tvadabhimate hetorasiddheśca| kiṃ ca sarvasyāpyuttarasya praṣṭṛnirdhāritapraśnadharminiṣṭhānirdhāritaikaprakāraparatvādviruddho hetuḥ| yadi cottarajanyaṃ jñānaṃ niṣprakārakaṃ syāt, tena saprakārakasandehanivṛttirna syāt| yadi cottaraṃ praśnādadhikaviṣayaṃ na syāttarhyuttarameva na syād, anyathā praśna eva uttaraṃ syāt| kiṃ karoti kimāneyam ? ityādi praśnottareṣu adhyayanaṃ karoti gāmānayetyādiṣu vyabhicārācca| na hi tānyapyadhyayanatvagotvādityāgena lakṣaṇayā karmādimātraparāṇi| etena satyādivākyārthaḥ brahmaprātipadikārthamātraṃ tanmātrapraśnottaravākyārthatvāditi nyāyadīpāvalyuktaṃ vyatirekyanumānaṃ nirastam| kiṃ caikaprātipadikārthapraśnottaratvena kathamakhaṇḍārthatvam ? svārtho dravyaṃ tathā liṅgaṃ saṅkhyā karmādayo'pi ca| nāmārthapañcakaṃ prāhurādyaṃ trikamathāpare||

Report an error

इति वैयाकरणमते त्वदेकदेशिभिः मया प्राभाकरैश्च स्वीकृतान्विताभिधानमते अभिहितान्वयपक्षेऽपि जातिविशिष्टायां व्यक्तौ शक्तिरिति तार्किकमते च प्रातिपादिकार्थस्यैव विशिष्टत्वात्। जातावेव शक्तिर्व्यक्तिस्तु लक्ष्येति भाट्टानां तव च मते ब्रह्म प्रातिपदिकस्यैव यौगिकत्वेन तदर्थस्य विशिष्टत्वात्। न च प्रातिपदिकार्थे पृष्टे तदेकदेशोक्तिर्युक्ता। किं चाप्रयोजका हेतवः, तथा हि-विपक्षे बाधकं किं ब्रह्मस्वरूपमात्रस्यैव बुभुत्सितत्वम् ? "एकधैवानुद्रष्टव्यम्" इत्याद्यभेदविधायकवाक्यं वा ? "उदरमन्तरं कुरुत" इति भेदनिषेधकवाक्यं वा ? "केवलो निर्गुणश्चे" त्यादिगुणनिषेधकवाक्यं वा ? "एकमेवाद्वितीयम्" इत्यादिद्वितीयमात्रनिषेधकवाक्यं वा ? सर्वतोऽनवच्छिन्नवस्तुपरानन्तब्रह्मशब्दौ वा ? नाद्यः, निरस्तत्वात्। सत्यादिवाक्ये च सत्सु विशेषणेषु सस्तुतिकविधिवाक्ये प्राशस्त्य इव रक्तपटन्यायेनाकांक्षाया उत्थापनीयत्वाच्च। उक्तं हि- "आकांक्षणीयाभावनिमित्तो ह्याकांक्षाभाव" इति। निष्प्रकारकज्ञानस्याद्याप्यसिद्ध्या सप्रकारज्ञानस्यैव मोक्षहेतुताया ब्रह्मविदाप्नोति परम् इत्यनेन प्रतीत्या "तमेवं विद्वानमृत इह भवती"त्यादिश्रुत्या "यो वेद निहितं गुहाया" मित्युत्तरवाक्येन चोक्त्या च मुमुक्षोः प्रकार एव धर्मिज्ञानसाध्यबुभुत्सौ चित्याच्च। निर्गुणवाक्यवत् सगुणवाक्यस्यापि ब्रह्मबुभुत्सायां कर्मकाण्डस्य च कर्मबुभुत्सायां वैद्यादिशास्त्रस्याप्यौषधादिबुभुत्सायां प्रवृत्ततया लक्षणया सगुणवाक्यमप्यखण्डब्रह्मपरं कर्मकाण्डमप्यखण्डकर्मपरं वैद्यादिशास्त्रमप्यखण्डौषधादिपरमित्यापाताच्च।

iti vaiyākaraṇamate tvadekadeśibhiḥ mayā prābhākaraiśca svīkṛtānvitābhidhānamate abhihitānvayapakṣe'pi jātiviśiṣṭāyāṃ vyaktau śaktiriti tārkikamate ca prātipādikārthasyaiva viśiṣṭatvāt| jātāveva śaktirvyaktistu lakṣyeti bhāṭṭānāṃ tava ca mate brahma prātipadikasyaiva yaugikatvena tadarthasya viśiṣṭatvāt| na ca prātipadikārthe pṛṣṭe tadekadeśoktiryuktā| kiṃ cāprayojakā hetavaḥ, tathā hi-vipakṣe bādhakaṃ kiṃ brahmasvarūpamātrasyaiva bubhutsitatvam ? "ekadhaivānudraṣṭavyam" ityādyabhedavidhāyakavākyaṃ vā ? "udaramantaraṃ kuruta" iti bhedaniṣedhakavākyaṃ vā ? "kevalo nirguṇaśce" tyādiguṇaniṣedhakavākyaṃ vā ? "ekamevādvitīyam" ityādidvitīyamātraniṣedhakavākyaṃ vā ? sarvato'navacchinnavastuparānantabrahmaśabdau vā ? nādyaḥ, nirastatvāt| satyādivākye ca satsu viśeṣaṇeṣu sastutikavidhivākye prāśastya iva raktapaṭanyāyenākāṃkṣāyā utthāpanīyatvācca| uktaṃ hi- "ākāṃkṣaṇīyābhāvanimitto hyākāṃkṣābhāva" iti| niṣprakārakajñānasyādyāpyasiddhyā saprakārajñānasyaiva mokṣahetutāyā brahmavidāpnoti param ityanena pratītyā "tamevaṃ vidvānamṛta iha bhavatī"tyādiśrutyā "yo veda nihitaṃ guhāyā" mityuttaravākyena coktyā ca mumukṣoḥ prakāra eva dharmijñānasādhyabubhutsau cityācca| nirguṇavākyavat saguṇavākyasyāpi brahmabubhutsāyāṃ karmakāṇḍasya ca karmabubhutsāyāṃ vaidyādiśāstrasyāpyauṣadhādibubhutsāyāṃ pravṛttatayā lakṣaṇayā saguṇavākyamapyakhaṇḍabrahmaparaṃ karmakāṇḍamapyakhaṇḍakarmaparaṃ vaidyādiśāstramapyakhaṇḍauṣadhādiparamityāpātācca|

Report an error

अस्ति च धर्म इव ब्रह्मण्यप्यलक्षणरूपं वाक्यं न मध्यमाः तेषां चैक्यभेदाभावादिविशिष्टपरत्वे वेदान्तमात्रस्याखण्डार्थत्वासिद्धेः सत्यशुद्धान्यमिथ्याविशिष्टार्थपरत्वे प्रामाण्यायोगाच्च। तेषामेव लक्षणयाऽखण्डार्थता सत्यादिवाक्यस्य तु सत्यत्वादिविशिष्टार्थपरतेति वैपरीत्यापाताच्च। उभयोरपि मुमुक्षुज्ञेयब्रह्मपरत्वाविशेषात्। न चास्यां दशायां ब्रह्मण्यभावरूप एव धर्मो मुमुक्षणा ज्ञेयो न तु भावरूप इति सिद्धं तेषां लक्षणयाऽखण्डार्थत्वे तु न तद्विरोधेन विशिष्टार्थस्य सत्यादिवाक्यस्य मुख्यार्थत्यागः विशेष्यपरस्य विशिष्टपरेणाविरोधात्। ननु ऐक्यादेर्द्वारत्वेनोपादानाद्विरोध इति चेन्न, द्वारीभूतस्य ब्रह्मान्यस्य ऐक्यादेर्मिथ्यात्वे सत्यत्वादिधर्मपारमार्थ्याविरोधित्वात् सत्यत्वे चापसिद्धान्ताद्, द्वारत्वानुपपत्तेर्वक्ष्यमाणत्वाच्च। अत्रापि सत्यत्वादेर्द्वारत्वेनोपादानेन तेषामेवैतद्विरोधापाताच्च। नान्त्यः, त्वन्मतेऽनन्तब्रह्मशब्दयोरपि लक्षणया विशेष्यमात्रपरत्वेनाविरोधित्वात्। "अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणा" इति श्रुत्या "महद्गुणत्वाद्यमनन्तमाहु"रित्यादि स्मृत्या च ताम्यां सद्गुणत्वस्यैव सिद्धेश्च। प्रतिकूलतर्कपराहतिश्च। तथा हि-द्विविधमपि वेदान्तवाक्यं तद्दृष्टान्तीभूतं प्रकृष्टादिवाक्यं सोऽयमित्यादिवाक्यं च यदि संसृष्टार्थं न स्यात्, वाक्यमेव न स्याद्, आकाङ्क्षासन्निधियोग्यतानामभावात्। आकाङ्क्षा ह्यभिधानापर्यवसानम्। यस्य च येन विना न स्वार्थान्वयानुभावकत्वम्, तदेव च तस्यापर्यवसानम्। सन्निधिस्त्वव्यवधानेनान्वयप्रतियोग्युपस्थितिः।

asti ca dharma iva brahmaṇyapyalakṣaṇarūpaṃ vākyaṃ na madhyamāḥ teṣāṃ caikyabhedābhāvādiviśiṣṭaparatve vedāntamātrasyākhaṇḍārthatvāsiddheḥ satyaśuddhānyamithyāviśiṣṭārthaparatve prāmāṇyāyogācca| teṣāmeva lakṣaṇayā'khaṇḍārthatā satyādivākyasya tu satyatvādiviśiṣṭārthaparateti vaiparītyāpātācca| ubhayorapi mumukṣujñeyabrahmaparatvāviśeṣāt| na cāsyāṃ daśāyāṃ brahmaṇyabhāvarūpa eva dharmo mumukṣaṇā jñeyo na tu bhāvarūpa iti siddhaṃ teṣāṃ lakṣaṇayā'khaṇḍārthatve tu na tadvirodhena viśiṣṭārthasya satyādivākyasya mukhyārthatyāgaḥ viśeṣyaparasya viśiṣṭapareṇāvirodhāt| nanu aikyāderdvāratvenopādānādvirodha iti cenna, dvārībhūtasya brahmānyasya aikyādermithyātve satyatvādidharmapāramārthyāvirodhitvāt satyatve cāpasiddhāntād, dvāratvānupapattervakṣyamāṇatvācca| atrāpi satyatvāderdvāratvenopādānena teṣāmevaitadvirodhāpātācca| nāntyaḥ, tvanmate'nantabrahmaśabdayorapi lakṣaṇayā viśeṣyamātraparatvenāvirodhitvāt| "atha kasmāducyate brahmeti bṛhanto hyasminguṇā" iti śrutyā "mahadguṇatvādyamanantamāhu"rityādi smṛtyā ca tāmyāṃ sadguṇatvasyaiva siddheśca| pratikūlatarkaparāhatiśca| tathā hi-dvividhamapi vedāntavākyaṃ taddṛṣṭāntībhūtaṃ prakṛṣṭādivākyaṃ so'yamityādivākyaṃ ca yadi saṃsṛṣṭārthaṃ na syāt, vākyameva na syād, ākāṅkṣāsannidhiyogyatānāmabhāvāt| ākāṅkṣā hyabhidhānāparyavasānam| yasya ca yena vinā na svārthānvayānubhāvakatvam, tadeva ca tasyāparyavasānam| sannidhistvavyavadhānenānvayapratiyogyupasthitiḥ|

Report an error

योग्यता च इतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम्। प्रामाणाबाधो योग्यतेति चेन्न, पदार्थमात्राबाधस्य वाक्याभासेऽपि सत्त्वात् संसर्गाबाधस्य चेहाप्यभावात्। तात्पर्यविषयाबाधो योग्यतेति चेन्न, पदार्थमात्रे वाक्यतात्पर्यायोगात्। ननु यत्र पदार्थः प्रमितः, तत्र स इतरपदार्थविशिष्टः प्रतिपाद्यः, यत्र त्वज्ञातः, तत्र स नान्यैः शक्यो विशेष्टुमिति तत्र स एव प्रतिपाद्यः। प्रमिते च तस्मिन् वाक्यसमाप्तेर्न विशिष्टपरत्वमिति चेन्न, उक्तरीत्या चन्द्रब्रह्मादिप्रातिपदिकार्थानां सामान्यतोज्ञातत्वेनेतरव्यावृत्यर्थं प्रकृष्टत्वसत्यत्वादिना विशिष्यैव बोध्यत्वात्। वेदान्तानां निर्विषयत्वं च स्यात्। अखण्डवाक्यार्थस्य स्वप्रकाशस्थचिन्मात्रस्याविद्या ध्यासाधिष्ठानत्वेन तत्साक्षित्वेन च नित्यसिद्धत्वात्। निर्निमित्तं सर्ववेदान्तानां मुख्यार्थत्यागश्च स्यात्, एकरसत्वादिश्रुतीनामपि विशेष्यमात्रपरत्वेन मुख्यार्थबाधकाभावात्। वेदान्तजन्यज्ञानं च निष्प्रकारकं चेत्, ज्ञानमेव न स्यात्, ज्ञानस्येच्छादेरिव सविषयकत्ववत्सप्रकारकत्वस्यापि नियतत्वात्, कञ्चित्प्रकारं विना वस्तुनो बुद्धावनारोहाच्च। इदमित्थमिति हि धीः वेदान्तानामबुभुत्सितार्थत्वं च स्यात् बुभुत्साया धर्मिज्ञानाधीनत्वात्। "श्रोतव्यो मन्तव्य" इति विचारविधिश्चायुक्तः स्यात्, तस्याप्यापातदर्शनजन्यसंशयनिवर्तकसप्रकारकनिश्चयार्थत्वात्। शुद्धब्रह्मविचारकाणामाद्याध्यायतृतीयपादीयाधिकरणानाम् अनारम्भश्च स्याद् विषयादिपञ्चकाभावात्।

yogyatā ca itarapadārthasaṃsarge'parapadārthaniṣṭhātyantābhāvapratiyogitāvacchedakadharmaśūnyatvam| prāmāṇābādho yogyateti cenna, padārthamātrābādhasya vākyābhāse'pi sattvāt saṃsargābādhasya cehāpyabhāvāt| tātparyaviṣayābādho yogyateti cenna, padārthamātre vākyatātparyāyogāt| nanu yatra padārthaḥ pramitaḥ, tatra sa itarapadārthaviśiṣṭaḥ pratipādyaḥ, yatra tvajñātaḥ, tatra sa nānyaiḥ śakyo viśeṣṭumiti tatra sa eva pratipādyaḥ| pramite ca tasmin vākyasamāpterna viśiṣṭaparatvamiti cenna, uktarītyā candrabrahmādiprātipadikārthānāṃ sāmānyatojñātatvenetaravyāvṛtyarthaṃ prakṛṣṭatvasatyatvādinā viśiṣyaiva bodhyatvāt| vedāntānāṃ nirviṣayatvaṃ ca syāt| akhaṇḍavākyārthasya svaprakāśasthacinmātrasyāvidyā dhyāsādhiṣṭhānatvena tatsākṣitvena ca nityasiddhatvāt| nirnimittaṃ sarvavedāntānāṃ mukhyārthatyāgaśca syāt, ekarasatvādiśrutīnāmapi viśeṣyamātraparatvena mukhyārthabādhakābhāvāt| vedāntajanyajñānaṃ ca niṣprakārakaṃ cet, jñānameva na syāt, jñānasyecchāderiva saviṣayakatvavatsaprakārakatvasyāpi niyatatvāt, kañcitprakāraṃ vinā vastuno buddhāvanārohācca| idamitthamiti hi dhīḥ vedāntānāmabubhutsitārthatvaṃ ca syāt bubhutsāyā dharmijñānādhīnatvāt| "śrotavyo mantavya" iti vicāravidhiścāyuktaḥ syāt, tasyāpyāpātadarśanajanyasaṃśayanivartakasaprakārakaniścayārthatvāt| śuddhabrahmavicārakāṇāmādyādhyāyatṛtīyapādīyādhikaraṇānām anārambhaśca syād viṣayādipañcakābhāvāt|

Report an error

विशिष्याज्ञातो हि विषयः ‘साधारणधर्मधीजन्यश्च संशयः, मिथ्यासत्यैकप्रकारावलंबिनौ च पूर्वपक्ष सिद्धान्तौ, एकतरप्रकारनिर्धारणाधीनं च प्रयोजनम्, तच्च पञ्चकं निर्विशेषे कथं स्यात् ? "ब्रह्मविदाप्नोती"ति पूर्ववाक्य एव ब्रह्मणः सामान्येन ज्ञाततया सत्यादि वाक्यवैयर्थ्यं च स्यात्, सत्यादिवाक्यस्य सत्यत्वादिविशिष्टे तात्पर्याभावे तात्पर्यतो यत्किञ्चिद् ब्रह्मेत्येव बोधनाद्यस्य कस्यचिद् ब्रह्मत्वं च स्यात्। तात्पर्यविषयस्याखण्डार्थत्वेन इदं ब्रह्मेतिलक्षणलक्ष्यरूपोद्देश्यविधेयभावा भावेन तात्पर्यतो यत्किञ्चिदित्येव बोधनात्। तेन च ब्रह्मबुभुत्सानिवृत्त्यभावात्। किं ब्रह्म इति प्रश्नोत्तरं च न स्यात्। न चोद्देश्यविधेयभावेऽसत्यपि अप्राप्तविधेयमात्रपरत्वादखण्डार्थत्वाहानिः विधेयस्यापि स्वरूपेण ज्ञातत्वेनोद्देश्यसंसृष्टतयैव बोधनीयतया वाक्यान्तरवत्सखण्डार्थत्वापातात्। उक्तं हि- किञ्चिद्विधीयतेऽनूद्य वाक्येनेति सतां स्थितिः। सत्यज्ञानादिवाक्येन कथ्यतां किं विधीयते।। अज्ञातं बोध्यते किञ्चिद् वाक्येनेति सतां स्थितिः। सत्यज्ञानादिशब्दैस्तु किमज्ञातं प्रबोध्यते।। सत्यादिपदानां लक्षणा च न स्यात्। अशक्यासदृशान्वयप्रतियोग्युपस्थितिर्लक्षणेति पक्षे लक्षणाया एवासम्भवात्। शक्यसम्बन्धो लक्षणेति पक्षेऽन्वयानुपपत्तिरूपलक्षणाबीजाभावात्। सत्यादिपदानां पर्यायत्वं च स्यात्। न च कुम्भाद्यनुगतसत्ता परजातिः, अन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दविशेषानुगते ज्ञानत्वानन्दत्वे चापरजाती।

viśiṣyājñāto hi viṣayaḥ ‘sādhāraṇadharmadhījanyaśca saṃśayaḥ, mithyāsatyaikaprakārāvalaṃbinau ca pūrvapakṣa siddhāntau, ekataraprakāranirdhāraṇādhīnaṃ ca prayojanam, tacca pañcakaṃ nirviśeṣe kathaṃ syāt ? "brahmavidāpnotī"ti pūrvavākya eva brahmaṇaḥ sāmānyena jñātatayā satyādi vākyavaiyarthyaṃ ca syāt, satyādivākyasya satyatvādiviśiṣṭe tātparyābhāve tātparyato yatkiñcid brahmetyeva bodhanādyasya kasyacid brahmatvaṃ ca syāt| tātparyaviṣayasyākhaṇḍārthatvena idaṃ brahmetilakṣaṇalakṣyarūpoddeśyavidheyabhāvā bhāvena tātparyato yatkiñcidityeva bodhanāt| tena ca brahmabubhutsānivṛttyabhāvāt| kiṃ brahma iti praśnottaraṃ ca na syāt| na coddeśyavidheyabhāve'satyapi aprāptavidheyamātraparatvādakhaṇḍārthatvāhāniḥ vidheyasyāpi svarūpeṇa jñātatvenoddeśyasaṃsṛṣṭatayaiva bodhanīyatayā vākyāntaravatsakhaṇḍārthatvāpātāt| uktaṃ hi- kiñcidvidhīyate'nūdya vākyeneti satāṃ sthitiḥ| satyajñānādivākyena kathyatāṃ kiṃ vidhīyate|| ajñātaṃ bodhyate kiñcid vākyeneti satāṃ sthitiḥ| satyajñānādiśabdaistu kimajñātaṃ prabodhyate|| satyādipadānāṃ lakṣaṇā ca na syāt| aśakyāsadṛśānvayapratiyogyupasthitirlakṣaṇeti pakṣe lakṣaṇāyā evāsambhavāt| śakyasambandho lakṣaṇeti pakṣe'nvayānupapattirūpalakṣaṇābījābhāvāt| satyādipadānāṃ paryāyatvaṃ ca syāt| na ca kumbhādyanugatasattā parajātiḥ, antaḥkaraṇavṛttyupadhānalabdhabhedacidānandaviśeṣānugate jñānatvānandatve cāparajātī|

Report an error

एवं च सत्यज्ञानानन्दशब्दानां लक्ष्यार्थाभेदेऽपि क्रमेणोक्तजातिवाचित्वान्न पर्यायतेतिकल्पतरूक्तं युक्तम्, कुम्भाद्यनुगतसत्ताया ब्रह्मलक्षणत्वायोगात् मिथ्यासत्यानुगतसत्तासामान्याभावाच्च। तयाऽनृताद्व्यावृत्त्यसिद्धेश्च कालत्रयाबाध्यत्वरूपं पारमार्थिकं सत्त्वं ब्रह्मणि श्रोतमिति त्वन्मतभङ्गाच्च। धर्मिसमसत्ताकभेदं विनौपाधिकभेदमात्रेणाऽऽकाशत्वादेरिव ज्ञानत्वादेरपि जातित्वायोगाच्च। योगे वा ज्ञानत्वादेः धर्मिसमसत्ताकभेदवदुपहितवृत्तित्वे च शुद्धलक्षणत्वायोगात्। एतेन सत्त्वादिविशिष्टशबलब्रह्मवाचिनां सत्यादिशब्दानां शुद्धब्रह्मणि लक्षणेति न पर्यायत्वमिति निरस्तम्। अनृतास्वप्रकाशपरिच्छिन्नरूपे शबले सत्यत्वादेरयोगात्। योगे वा तस्यैवानृतादिव्यावृत्तिः स्यान्न तु शुद्धस्य। तस्मात्सत्यत्वादीनां शुद्धादन्यत्रासम्भवात् सत्यादिवाक्यस्य लक्षणयाऽखण्डार्थत्वे च शुद्धे तदसिद्धेः पर्यायत्वं दुर्वारम्। पदान्तरवैयर्थ्यं च स्यात्। न च प्रातिपदिकप्रथमयोरिवैकार्थ्येऽपि पदान्तरावैयर्थ्यमिति वाच्यम्, तत्र महाभाष्य एव "किं पुनरत्र प्रथमये"ति वैयथ्यमाशंक्य "ग्राम उच्चैस्ते स्वग्राम उच्चैस्तव स्व"मित्यत्र "स पूर्वायाः प्रथमाया" इत्येषविधिर्यथा स्यादित्यर्थवत्त्वोक्तेः। न च प्रतिपदमारोपितासत्यत्वादिव्यावृत्तिरूपफलभेदादवैयर्थ्यम्, व्यावर्तकस्य सत्यत्वादेस्तात्पर्यतोऽनर्पणे व्यावृत्त्यसिद्धेः। न च सत्यत्वादेरतात्पर्यविषयत्वेऽपि लक्षणातः प्रागभिधाकाले प्रतीतिमात्रेण तत्सिद्धिः, नद्यां घोष इत्यत्र तीरस्यानदीतः "यजमानः प्रस्तर" इत्यत्र प्रस्तरस्यायजमानाच्च व्यावृत्त्यापातात्।

evaṃ ca satyajñānānandaśabdānāṃ lakṣyārthābhede'pi krameṇoktajātivācitvānna paryāyatetikalpatarūktaṃ yuktam, kumbhādyanugatasattāyā brahmalakṣaṇatvāyogāt mithyāsatyānugatasattāsāmānyābhāvācca| tayā'nṛtādvyāvṛttyasiddheśca kālatrayābādhyatvarūpaṃ pāramārthikaṃ sattvaṃ brahmaṇi śrotamiti tvanmatabhaṅgācca| dharmisamasattākabhedaṃ vinaupādhikabhedamātreṇā''kāśatvāderiva jñānatvāderapi jātitvāyogācca| yoge vā jñānatvādeḥ dharmisamasattākabhedavadupahitavṛttitve ca śuddhalakṣaṇatvāyogāt| etena sattvādiviśiṣṭaśabalabrahmavācināṃ satyādiśabdānāṃ śuddhabrahmaṇi lakṣaṇeti na paryāyatvamiti nirastam| anṛtāsvaprakāśaparicchinnarūpe śabale satyatvāderayogāt| yoge vā tasyaivānṛtādivyāvṛttiḥ syānna tu śuddhasya| tasmātsatyatvādīnāṃ śuddhādanyatrāsambhavāt satyādivākyasya lakṣaṇayā'khaṇḍārthatve ca śuddhe tadasiddheḥ paryāyatvaṃ durvāram| padāntaravaiyarthyaṃ ca syāt| na ca prātipadikaprathamayorivaikārthye'pi padāntarāvaiyarthyamiti vācyam, tatra mahābhāṣya eva "kiṃ punaratra prathamaye"ti vaiyathyamāśaṃkya "grāma uccaiste svagrāma uccaistava sva"mityatra "sa pūrvāyāḥ prathamāyā" ityeṣavidhiryathā syādityarthavattvokteḥ| na ca pratipadamāropitāsatyatvādivyāvṛttirūpaphalabhedādavaiyarthyam, vyāvartakasya satyatvādestātparyato'narpaṇe vyāvṛttyasiddheḥ| na ca satyatvāderatātparyaviṣayatve'pi lakṣaṇātaḥ prāgabhidhākāle pratītimātreṇa tatsiddhiḥ, nadyāṃ ghoṣa ityatra tīrasyānadītaḥ "yajamānaḥ prastara" ityatra prastarasyāyajamānācca vyāvṛttyāpātāt|

Report an error

न चातात्पर्याविशेषेऽपि सत्यत्वादिकं व्यवाहारिकं यजमानत्वादिकं तु प्रातिभासिकमिति युक्तम्, न चौपनिषदे ब्रह्मणि सत्यत्वादिकं प्रत्यक्षादिप्राप्तं येन व्यावहारिकं स्यात्। न च तत्त्वपरात्प्रतीतं व्यावहारिकं व्यावहारिकपरात्तु प्रतीतं प्रातिभासिकमिति व्यवस्था, "असद्धा इदमग्र आसीदि"ति तत्त्वपरेण प्रतीतस्य मूलकारणासत्त्वस्य व्यावहारिकत्वापातात्। न च सत्यत्वादिकं तत्त्वावेदकबाधितत्वाद् व्यावहारिकं, यजमानत्वादिकं तु व्यावहारिकबाधितत्वात् प्रातिभासिकमिति युक्तम्, तत्त्वावेदकस्यापि विशेष्यमात्रपरत्वेन सत्यत्वाद्, व्यावहारिकबाधितस्याद्वैतवत्पारमार्थिकत्वोपपत्तेश्च। न च लक्षणाबीजे मुख्यार्थबाधके तुल्येऽपि सत्यादिपदस्य वाच्यार्थेऽवान्तरतात्पर्यं यजमानपदस्य तु तन्नेत्यत्र हेतुरस्ति येनोक्तव्यवस्था स्यात्। किं च व्यावृत्तयः सत्याः मिथ्या वा ? आद्ये व्यावर्तकानामपि सत्त्वं स्यात्, व्यावहारिकैर्व्यावर्तकैः पारमार्थिकव्यावृत्त्यसिद्धेः। किं च तासां ब्रह्माभेदे ब्रह्मपदेनैव तत्सिद्धेरितरवैयर्थ्यं व्यावर्तकधर्माणामपि सत्त्वं ब्रह्माभिन्नत्वं च स्याद्, अविशेषात्। एवं व्यावृत्तीनामन्योन्यमभेदे सत्यपदेनैवाज्ञानादिव्यावृत्तिसिद्धेर्ज्ञानादिपदवैयर्थ्यम्। तासां ब्रह्मणा परस्परं भेदे चाद्वैतहानिः, अभावद्वैतस्य निरासात्। नान्त्यः, शुक्तेः शुक्तितो व्यावृत्तेर्मिथ्यात्वे शुक्तित्वस्य शुक्तिसमानसत्ताकत्ववदनृतव्यावृत्तेर्मिथ्यात्वेऽनृतत्वस्य ब्रह्मसमसत्ताकत्वापातात्। तत्त्वजिज्ञासुं मुमुक्षुं प्रति मिथ्याबोधनायोगात्।

na cātātparyāviśeṣe'pi satyatvādikaṃ vyavāhārikaṃ yajamānatvādikaṃ tu prātibhāsikamiti yuktam, na caupaniṣade brahmaṇi satyatvādikaṃ pratyakṣādiprāptaṃ yena vyāvahārikaṃ syāt| na ca tattvaparātpratītaṃ vyāvahārikaṃ vyāvahārikaparāttu pratītaṃ prātibhāsikamiti vyavasthā, "asaddhā idamagra āsīdi"ti tattvapareṇa pratītasya mūlakāraṇāsattvasya vyāvahārikatvāpātāt| na ca satyatvādikaṃ tattvāvedakabādhitatvād vyāvahārikaṃ, yajamānatvādikaṃ tu vyāvahārikabādhitatvāt prātibhāsikamiti yuktam, tattvāvedakasyāpi viśeṣyamātraparatvena satyatvād, vyāvahārikabādhitasyādvaitavatpāramārthikatvopapatteśca| na ca lakṣaṇābīje mukhyārthabādhake tulye'pi satyādipadasya vācyārthe'vāntaratātparyaṃ yajamānapadasya tu tannetyatra heturasti yenoktavyavasthā syāt| kiṃ ca vyāvṛttayaḥ satyāḥ mithyā vā ? ādye vyāvartakānāmapi sattvaṃ syāt, vyāvahārikairvyāvartakaiḥ pāramārthikavyāvṛttyasiddheḥ| kiṃ ca tāsāṃ brahmābhede brahmapadenaiva tatsiddheritaravaiyarthyaṃ vyāvartakadharmāṇāmapi sattvaṃ brahmābhinnatvaṃ ca syād, aviśeṣāt| evaṃ vyāvṛttīnāmanyonyamabhede satyapadenaivājñānādivyāvṛttisiddherjñānādipadavaiyarthyam| tāsāṃ brahmaṇā parasparaṃ bhede cādvaitahāniḥ, abhāvadvaitasya nirāsāt| nāntyaḥ, śukteḥ śuktito vyāvṛttermithyātve śuktitvasya śuktisamānasattākatvavadanṛtavyāvṛttermithyātve'nṛtatvasya brahmasamasattākatvāpātāt| tattvajijñāsuṃ mumukṣuṃ prati mithyābodhanāyogāt|

Report an error

नचाऽनृतत्वादिभ्रान्तिनिवृत्त्यर्थं तद्बोधनम्, अधिष्ठानब्रह्मतत्त्वज्ञानेनैव तन्निवृत्तिसम्भवे भ्रान्त्यन्तरोत्पादायोगात्। न हि वल्मीके स्थाणुत्वभ्रान्तिः पुंस्त्वस्योपदेशेन निवर्त्या, किं तु वल्मीकत्वस्य। न चात्मनि कल्पितेनापि ब्राह्मण्येन मिथ्याशङ्किता ब्राह्मण्यस्येव व्यावहारिक्या व्यावृत्त्या प्रातिभासिकानृतत्वभ्रान्तिनिवृत्तिरिति वाच्यम्, ब्राह्मण्यस्य देहविशेषसम्बन्धित्वे आत्मनि ब्राह्मणस्य जातिविशेषत्वेऽब्राह्मण्यस्य सत्यत्वेन द्वयोः कल्पितत्वायोगाद्, असद्व्यावृत्तेर्व्यावहारिकत्वेऽनपोदितप्रामाण्येन "असद्वा इदमग्र आसीदि"ति वाक्येनासत्त्वस्य पारमार्थिकत्वापत्तेश्च। ननु मीमांसकमतेऽनृतस्याप्यर्थवादार्थस्य सत्ये प्राशस्त्ये इव मिथ्याभूतानामपि व्यावृत्तीनां सत्ये ब्रह्मणि द्वारत्वेन बोधनं युक्तम्। उक्तं हि सत्यादिशब्दा असत्यादि व्यावृत्तिद्वारा लक्ष्ये पर्यवस्यन्ती"ति चेन्न, ब्रह्मस्वरूपमात्रस्य श्रुतिं विना प्रागेवाविद्याद्यध्यासाधिष्ठानत्वादिना ज्ञातस्य पुनरपि ब्रह्मविदाप्नोती"ति पूर्ववाक्ये सामान्यतोऽत्र च सत्यादिशब्दैः सत्यत्वादिविशिष्टतया ज्ञानत्वे तज्ज्ञानस्य व्यावृत्तिज्ञानासाध्यत्वाद् व्यावृत्तिज्ञानस्यैव च धर्मिज्ञानसाध्यत्वेन वैपरीत्यापाताश्च, शाब्देऽर्थे आर्थिकार्थस्य द्वारत्वानुपपत्तेश्च, नीलमुत्पलमित्यादेरपि अनीलव्यावत्तिद्वारा स्वरूपमात्रपरत्वमित्यापाताच्च। न च प्रागज्ञातो व्यावृत्त्या ज्ञाप्यो विशेषस्त्वन्मतेऽस्ति।

nacā'nṛtatvādibhrāntinivṛttyarthaṃ tadbodhanam, adhiṣṭhānabrahmatattvajñānenaiva tannivṛttisambhave bhrāntyantarotpādāyogāt| na hi valmīke sthāṇutvabhrāntiḥ puṃstvasyopadeśena nivartyā, kiṃ tu valmīkatvasya| na cātmani kalpitenāpi brāhmaṇyena mithyāśaṅkitā brāhmaṇyasyeva vyāvahārikyā vyāvṛttyā prātibhāsikānṛtatvabhrāntinivṛttiriti vācyam, brāhmaṇyasya dehaviśeṣasambandhitve ātmani brāhmaṇasya jātiviśeṣatve'brāhmaṇyasya satyatvena dvayoḥ kalpitatvāyogād, asadvyāvṛttervyāvahārikatve'napoditaprāmāṇyena "asadvā idamagra āsīdi"ti vākyenāsattvasya pāramārthikatvāpatteśca| nanu mīmāṃsakamate'nṛtasyāpyarthavādārthasya satye prāśastye iva mithyābhūtānāmapi vyāvṛttīnāṃ satye brahmaṇi dvāratvena bodhanaṃ yuktam| uktaṃ hi satyādiśabdā asatyādi vyāvṛttidvārā lakṣye paryavasyantī"ti cenna, brahmasvarūpamātrasya śrutiṃ vinā prāgevāvidyādyadhyāsādhiṣṭhānatvādinā jñātasya punarapi brahmavidāpnotī"ti pūrvavākye sāmānyato'tra ca satyādiśabdaiḥ satyatvādiviśiṣṭatayā jñānatve tajjñānasya vyāvṛttijñānāsādhyatvād vyāvṛttijñānasyaiva ca dharmijñānasādhyatvena vaiparītyāpātāśca, śābde'rthe ārthikārthasya dvāratvānupapatteśca, nīlamutpalamityāderapi anīlavyāvattidvārā svarūpamātraparatvamityāpātācca| na ca prāgajñāto vyāvṛttyā jñāpyo viśeṣastvanmate'sti|

Report an error

न च प्राग्ब्रह्मणो ज्ञानेऽप्यन्याविषयकं तज्ज्ञानमसिद्धमिति वाच्यम्, व्यावृत्तिज्ञानस्यान्याज्ञाने द्वारत्वापत्त्या ब्रह्मज्ञाने द्वारत्वायोगाद्, व्यावर्त्यज्ञानं व्यावृत्तिज्ञाने द्वारमिति वैपरीत्यापाताच्च, प्राचीने ब्रह्माज्ञाननिवर्तके ब्रह्मापरोक्षज्ञाने तदज्ञानकार्यस्यान्यस्य भानायोगाच्च, ब्रह्मप्रातिपदिकार्थबुभुत्सायामेतद्वाक्यं प्रवृत्तमिति स्वप्रक्रियाविरोधाच्च। किंच सत्यशब्देनासद्व्यावृत्तिद्वारा यद्बोधितं तदेव ज्ञानादिपदेनाज्ञानादिव्यावृत्तिद्वारा बोध्यते ? अन्यद्वा। आद्ये ज्ञानादिपदवैयर्थ्यम्। द्वितीये सविशेषत्वम्। न च द्वारविकल्पः, सत्यादिशब्दानां नित्यवच्छ्रवणाद्, एकस्मिन्प्रयोगे व्रीहियवयोरिवैकस्मिन् वाक्ये सत्याद्यनेकपदोपादानायोगाच्च, अनृतत्वादि भ्रान्तिनिवृत्तिरूपदृष्टकार्याणां भिन्नत्वेन व्रीहियवादिवद्विकल्पप्रयोजकस्यैव कार्यत्वस्याभावाच्च। नापि समुच्चितः द्वारत्वं विज्ञानमानन्दं ब्रह्मेत्यादौ अनृतव्यावृत्तेरबोधनेऽपि ब्रह्मप्रतीतेः "आनन्दादयः प्रधानस्ये"ति सूत्रे त्वद्भाष्योक्तन्यायेनोपासनायां शाखान्तरोक्तगुणोपसंहारेऽपि ब्रह्मप्रमितौ वाक्यस्य शाखान्तरानपेक्षत्वाच्च, सत्यादिपदानां प्रत्येकं लक्षकत्वेन प्रत्येकं लक्ष्यब्रह्मबोधकत्वाच्च, सत्यत्वादेः प्रत्येकं लक्षणत्वाच्च। न हि प्रकृष्टत्वादिकमिव सत्यत्वादिकं प्रत्येकमतिव्याप्तं तस्मान्न व्यावृत्तिद्धारम्।

na ca prāgbrahmaṇo jñāne'pyanyāviṣayakaṃ tajjñānamasiddhamiti vācyam, vyāvṛttijñānasyānyājñāne dvāratvāpattyā brahmajñāne dvāratvāyogād, vyāvartyajñānaṃ vyāvṛttijñāne dvāramiti vaiparītyāpātācca, prācīne brahmājñānanivartake brahmāparokṣajñāne tadajñānakāryasyānyasya bhānāyogācca, brahmaprātipadikārthabubhutsāyāmetadvākyaṃ pravṛttamiti svaprakriyāvirodhācca| kiṃca satyaśabdenāsadvyāvṛttidvārā yadbodhitaṃ tadeva jñānādipadenājñānādivyāvṛttidvārā bodhyate ? anyadvā| ādye jñānādipadavaiyarthyam| dvitīye saviśeṣatvam| na ca dvāravikalpaḥ, satyādiśabdānāṃ nityavacchravaṇād, ekasminprayoge vrīhiyavayorivaikasmin vākye satyādyanekapadopādānāyogācca, anṛtatvādi bhrāntinivṛttirūpadṛṣṭakāryāṇāṃ bhinnatvena vrīhiyavādivadvikalpaprayojakasyaiva kāryatvasyābhāvācca| nāpi samuccitaḥ dvāratvaṃ vijñānamānandaṃ brahmetyādau anṛtavyāvṛtterabodhane'pi brahmapratīteḥ "ānandādayaḥ pradhānasye"ti sūtre tvadbhāṣyoktanyāyenopāsanāyāṃ śākhāntaroktaguṇopasaṃhāre'pi brahmapramitau vākyasya śākhāntarānapekṣatvācca, satyādipadānāṃ pratyekaṃ lakṣakatvena pratyekaṃ lakṣyabrahmabodhakatvācca, satyatvādeḥ pratyekaṃ lakṣaṇatvācca| na hi prakṛṣṭatvādikamiva satyatvādikaṃ pratyekamativyāptaṃ tasmānna vyāvṛttiddhāram|

Report an error

एतेन चन्द्रं शाखेव ब्रह्मव्यावृत्तिर्द्वारतया बोधयतीति निरस्तम्, एतेन सत्यत्वादिकं व्यावृत्तिर्वा ब्रह्मबोधने उपलक्षणतयोपादीयत इति निरस्तम्, काकवद् गृहमित्यादिवत् सखण्डार्थत्वापत्तेः, उपलक्षणात्प्रागेव ब्रह्मणो ज्ञातत्वेनोपलक्ष्यत्वायोगाच्च। तदुक्तम्- सत्यज्ञानादिकेऽप्येवं न व्यावृत्त्या प्रयोजनम्। व्यावर्त्यस्याविशेषत्वे तदखण्डं च खण्डितम्।। इति । व्यावृत्त्या द्वारभूतयेत्यर्थः। टीकायां तु व्यावृत्तिः किं ब्रह्मविशेषणत्वेन बोध्या ? स्वतन्त्रा वा ? आद्ये सखण्डत्वम्, अन्त्ये ब्रह्मजिज्ञासुं प्रति तदुपदेशोऽसंगत इति व्याख्यातम्। न चात्र व्यावृत्तिवैशिष्ट्यस्यार्थिकत्वेन शाब्दार्थस्य न सखण्डत्वं "यश्चार्थादर्थो न स चोदनार्थ" इति न्यायात्, "मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः" इति सुरेश्वरोक्तेश्चेति वाच्यम्, आर्थिकेनापि विशेषणेन ब्रह्मणोऽखण्डत्वहानेः अनन्तशब्देनान्तवद्व्यावृत्तेः साक्षादुक्तेश्च शब्दस्य व्यावर्तकवैशिष्ट्यातात्पर्ये आर्थिकव्यावृत्त्यसिद्धेरुक्तत्वाच्च। एतेन- लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः। विज्ञानानन्दपदयोः पर्यायव्यर्थते कुतः।। इत्यानन्दबोधोक्तमपास्तम्। नवीनास्तु-गम्भीरायां नद्यां घोष इत्यत्र गम्भीरनद्योरन्योन्यमन्वयबोधानन्तरं गम्भीरनदीपदयोरिव समुदितानां सत्यादिपदानां लक्षकत्वान्न वैयर्थ्यम्, तस्याप्येकैकस्यैव लक्षकत्वे शक्यासम्बन्धिनो गम्भीरनदीतीरस्याप्रतीतिप्रसङ्गादित्याहुः। तन्न, तत्र गम्भीरनद्योरिवेह सत्यज्ञानयोरन्योऽन्यमन्वयाबोधनात्।

etena candraṃ śākheva brahmavyāvṛttirdvāratayā bodhayatīti nirastam, etena satyatvādikaṃ vyāvṛttirvā brahmabodhane upalakṣaṇatayopādīyata iti nirastam, kākavad gṛhamityādivat sakhaṇḍārthatvāpatteḥ, upalakṣaṇātprāgeva brahmaṇo jñātatvenopalakṣyatvāyogācca| taduktam- satyajñānādike'pyevaṃ na vyāvṛttyā prayojanam| vyāvartyasyāviśeṣatve tadakhaṇḍaṃ ca khaṇḍitam|| iti | vyāvṛttyā dvārabhūtayetyarthaḥ| ṭīkāyāṃ tu vyāvṛttiḥ kiṃ brahmaviśeṣaṇatvena bodhyā ? svatantrā vā ? ādye sakhaṇḍatvam, antye brahmajijñāsuṃ prati tadupadeśo'saṃgata iti vyākhyātam| na cātra vyāvṛttivaiśiṣṭyasyārthikatvena śābdārthasya na sakhaṇḍatvaṃ "yaścārthādartho na sa codanārtha" iti nyāyāt, "mānāntarādapohastu na śābdastena sa smṛtaḥ" iti sureśvarokteśceti vācyam, ārthikenāpi viśeṣaṇena brahmaṇo'khaṇḍatvahāneḥ anantaśabdenāntavadvyāvṛtteḥ sākṣādukteśca śabdasya vyāvartakavaiśiṣṭyātātparye ārthikavyāvṛttyasiddheruktatvācca| etena- lakṣyārthabhedābhāve'pi vyavacchedyavibhedataḥ| vijñānānandapadayoḥ paryāyavyarthate kutaḥ|| ityānandabodhoktamapāstam| navīnāstu-gambhīrāyāṃ nadyāṃ ghoṣa ityatra gambhīranadyoranyonyamanvayabodhānantaraṃ gambhīranadīpadayoriva samuditānāṃ satyādipadānāṃ lakṣakatvānna vaiyarthyam, tasyāpyekaikasyaiva lakṣakatve śakyāsambandhino gambhīranadītīrasyāpratītiprasaṅgādityāhuḥ| tanna, tatra gambhīranadyoriveha satyajñānayoranyo'nyamanvayābodhanāt|

Report an error

"सत्यं ज्ञानम्", "विज्ञानमानन्दं ब्रह्मे" त्यादावन्योन्यानपेक्षाणामेव सत्यादिपदानां ब्रह्मलक्षकत्वदर्शनाच्च। गम्भीरपदेन गम्भीरसम्बन्धितीरस्येव इह पदान्तरेणाधिकस्यालाभाच्च। तत्रापि गम्भीरनद्योरन्वयबोधानन्तरं गम्भीरान्वितनदीबोधके नदीपद एव लक्षणया सर्वोपपत्तौ पदद्वये एकस्या लक्षणाया लक्षणाद्वयस्य वाऽकल्प्यत्वाच्च। लक्षणापि हि पदवृत्तिः, वृत्तित्वात्, शक्तिवत् एवमन्यत्राप्यूह्यम्। "गच्छ गच्छसि चेत्कान्ते"त्यत्र तु जन्मना मृत्यनुमितिः प्रियामृतिहेतुत्वाच्च गमनं न कार्यमित्यनुमितानुमितिरेव, न तु वाक्ये लक्षणा, अनन्यलभ्यो हि शब्दार्थः। विषं भुंक्ष्वेत्यादावपि प्रकृताच्छत्रुगृहभोजनाद् विषभक्षणस्येष्टसाधनतोक्त्या भोजनस्यानिष्टसाधनता आक्षिप्यते, न तु वाक्येन भोजनाकर्तव्यता लक्ष्यते। यद्वा तत्र विषशब्देनानिष्टसाधने विधिप्रत्ययेन च निषेधे लक्षिते निषेध्ये भोजने भुजिर्धातुर्मुख्य एवेति न सर्वपदानामेकार्थलक्षकता। वस्तुतस्तु ‘अयमिदानीं मह्यं क्रुद्धः, आप्तत्वे सति प्रमाणविरुद्धकर्तव्यताभिधायित्वात्। क्रोधश्चास्य सन्निहितभोजनादेव। दृष्टहेतुत्यागेनादृष्टकल्पनायोगात्। अतो मयेदं न कार्यमित्यनुमितिरेवात्र, न लक्षणा। अर्धमन्तर्गृहमर्धं बहिर्गृहमित्यत्रापि धूमेनाग्निरिवार्धस्यान्तस्त्वे सति अर्धस्य बहिष्ट्वेन वाक्यार्थेनान्तरालप्रदेश आक्षिप्यते, न तु समुदाये लक्षणा। अनन्यलभ्यत्वाभावात्। एव मर्धमन्तर्वदि मातव्यमर्धं बहिर्वेदीति वैदिकोदाहरणमपि नेयम्। तत्राप्यन्ततो लिङ्गादेरभिधायकत्वाच्च।

"satyaṃ jñānam", "vijñānamānandaṃ brahme" tyādāvanyonyānapekṣāṇāmeva satyādipadānāṃ brahmalakṣakatvadarśanācca| gambhīrapadena gambhīrasambandhitīrasyeva iha padāntareṇādhikasyālābhācca| tatrāpi gambhīranadyoranvayabodhānantaraṃ gambhīrānvitanadībodhake nadīpada eva lakṣaṇayā sarvopapattau padadvaye ekasyā lakṣaṇāyā lakṣaṇādvayasya vā'kalpyatvācca| lakṣaṇāpi hi padavṛttiḥ, vṛttitvāt, śaktivat evamanyatrāpyūhyam| "gaccha gacchasi cetkānte"tyatra tu janmanā mṛtyanumitiḥ priyāmṛtihetutvācca gamanaṃ na kāryamityanumitānumitireva, na tu vākye lakṣaṇā, ananyalabhyo hi śabdārthaḥ| viṣaṃ bhuṃkṣvetyādāvapi prakṛtācchatrugṛhabhojanād viṣabhakṣaṇasyeṣṭasādhanatoktyā bhojanasyāniṣṭasādhanatā ākṣipyate, na tu vākyena bhojanākartavyatā lakṣyate| yadvā tatra viṣaśabdenāniṣṭasādhane vidhipratyayena ca niṣedhe lakṣite niṣedhye bhojane bhujirdhāturmukhya eveti na sarvapadānāmekārthalakṣakatā| vastutastu ‘ayamidānīṃ mahyaṃ kruddhaḥ, āptatve sati pramāṇaviruddhakartavyatābhidhāyitvāt| krodhaścāsya sannihitabhojanādeva| dṛṣṭahetutyāgenādṛṣṭakalpanāyogāt| ato mayedaṃ na kāryamityanumitirevātra, na lakṣaṇā| ardhamantargṛhamardhaṃ bahirgṛhamityatrāpi dhūmenāgnirivārdhasyāntastve sati ardhasya bahiṣṭvena vākyārthenāntarālapradeśa ākṣipyate, na tu samudāye lakṣaṇā| ananyalabhyatvābhāvāt| eva mardhamantarvadi mātavyamardhaṃ bahirvedīti vaidikodāharaṇamapi neyam| tatrāpyantato liṅgāderabhidhāyakatvācca|

Report an error

"वायुर्वैक्षेपिष्ठे" त्याद्यार्थवादिकपदसंघस्याप्यावयोर्मते कर्मणि क्षिप्रदेवता प्रसादहेतुत्वरूपतत्तत्पदार्थसंसर्गबोधकत्वमेव, न तु तदन्यप्राशस्त्यलक्षकत्वम्। किंच तत्र लिङ्गाद्यभिधेयकार्यान्वयानुपपत्तिरिवेह सर्वपदानामपि लक्षकत्वान्नाभिधेयान्वयानुपपत्तिरूपं लक्षणाबीजमस्ति। अपि च सर्वपदानां लक्षकत्वे लक्षकपदान्यननुभावकानीति पक्षे सत्यादिवाक्यस्यानुभावकत्वं न स्यात्। यदि च लक्ष्यपरं ब्रह्मपदं वाचकं तर्हि यौगिकं तदेव सखम्डार्थं स्यात्। ब्रह्मपदस्य पदार्थान्तरान्वयार्थमेव लक्षणाश्रयणेन पदार्थान्तरान्वितस्वार्थपरं च स्यात्। न च यष्टीः प्रवेशये"त्यादाविव तात्पर्यानुपपत्त्यैव लक्षणा न त्वन्वयानुपपत्त्येति वाच्यम्, तत्रापि भोजनादिकर्तृत्वेन प्रकृतानां प्रवेशनान्वयानुपपत्तेरेव तद्बीजत्वात्। इह प्राप्ते पदार्थमात्रे तात्पर्यायोगादित्युक्तत्वाच्च। एतेन वाक्यप्रामाण्यानुपपत्तिर्लक्षणाबीजमिति निरस्तम्, वाक्यस्यान्वयलक्षकता तु न संमता, अन्विताभिधानाङ्गीकारात्। अभिहितान्वयवादिभिस्तार्किकैरप्यन्वये लक्षणानङ्गीकाराच्च। अन्वय उपलक्ष्यत इति पक्षेऽपि पदान्तरैः प्रतियोग्युपस्थितौ प्रधानस्यैकपदस्य अन्वयलक्षकत्वोपपत्तेश्च गामानयेत्यस्माद् गामानय शुक्लां दण्डेनेति वाक्यस्येवेह पदान्तरप्रयुक्तस्य अधिकलक्षकत्वाभावाच्च।

"vāyurvaikṣepiṣṭhe" tyādyārthavādikapadasaṃghasyāpyāvayormate karmaṇi kṣipradevatā prasādahetutvarūpatattatpadārthasaṃsargabodhakatvameva, na tu tadanyaprāśastyalakṣakatvam| kiṃca tatra liṅgādyabhidheyakāryānvayānupapattiriveha sarvapadānāmapi lakṣakatvānnābhidheyānvayānupapattirūpaṃ lakṣaṇābījamasti| api ca sarvapadānāṃ lakṣakatve lakṣakapadānyananubhāvakānīti pakṣe satyādivākyasyānubhāvakatvaṃ na syāt| yadi ca lakṣyaparaṃ brahmapadaṃ vācakaṃ tarhi yaugikaṃ tadeva sakhamḍārthaṃ syāt| brahmapadasya padārthāntarānvayārthameva lakṣaṇāśrayaṇena padārthāntarānvitasvārthaparaṃ ca syāt| na ca yaṣṭīḥ praveśaye"tyādāviva tātparyānupapattyaiva lakṣaṇā na tvanvayānupapattyeti vācyam, tatrāpi bhojanādikartṛtvena prakṛtānāṃ praveśanānvayānupapattereva tadbījatvāt| iha prāpte padārthamātre tātparyāyogādityuktatvācca| etena vākyaprāmāṇyānupapattirlakṣaṇābījamiti nirastam, vākyasyānvayalakṣakatā tu na saṃmatā, anvitābhidhānāṅgīkārāt| abhihitānvayavādibhistārkikairapyanvaye lakṣaṇānaṅgīkārācca| anvaya upalakṣyata iti pakṣe'pi padāntaraiḥ pratiyogyupasthitau pradhānasyaikapadasya anvayalakṣakatvopapatteśca gāmānayetyasmād gāmānaya śuklāṃ daṇḍeneti vākyasyeveha padāntaraprayuktasya adhikalakṣakatvābhāvācca|

Report an error

अस्तु वान्यत्र पदसंघे लक्षणा, इह तु न, तथा हि-यदि कृत्स्रं सत्यादिवाक्यं लक्षकम्, तर्हि तस्य विशिष्टार्थत्वेऽनन्तब्रह्मशब्दविरोधोक्तिः, सत्यादिपदैरनृतादिव्यवच्छेदोक्तिः, विज्ञानमानन्दं ब्रह्म सत्यं ज्ञान"मित्यादिश्रुतिर्ब्रह्मणो विज्ञानाद्यात्मकत्वे प्रमाणमित्युक्तिः, एकमेवाद्वितीय’ मित्यादौ सजातीयविजातीयस्वगतनानात्वनिषेधोक्तिरित्याद्ययुक्तं स्यात्। सत्त्वाद्युद्देशेन ब्रह्मत्वाविधानाद् ब्रह्मबुभुत्सानिवृत्तिश्च न स्यात्। सगुणसप्रपंचवाक्ययेरपि लक्षणयाऽखण्डार्थपरत्वसम्भवेन सगुणनिर्गुणादिविद्याविभागः, निर्गुणादि वाक्यैः सगुणादि वाक्यानां बाध इत्यादि चासंगतं स्यात्। "तदैक्षत स एषोऽनन्त" इत्यादीनामपि वाक्यलक्षणयाऽखण्डपरत्वेनेक्षणादौ तात्पर्याभावेनेक्षणानन्तत्वादिलिङ्गैः प्रधानाकाशादिनिरासके सत्याद्यधिकरणानारंभश्च स्यात्। कृत्स्नस्य ब्रह्मकाण्डस्य वाक्यलक्षणया शून्यादिपरत्वं कृत्स्नस्य च कर्मकाण्डस्य चैत्यवन्दनादिपरत्वं निर्विशेषधर्मिपरत्वं वा स्यादित्यलम्। तस्मादखण्डार्थत्वे पदान्तरवैयर्थ्यं दुर्वारम्। अपि च सत्यानन्दादिपदलक्ष्यत्वे ब्रह्मणो नदीपदलक्ष्यस्य तीरस्यानदीत्ववदसत्यत्वानानन्दत्वादिकं स्यादिति शून्यवादापत्तिः। मुक्तिश्चापुमर्थः स्यात्, आनन्दानुभवाभावात्।

astu vānyatra padasaṃghe lakṣaṇā, iha tu na, tathā hi-yadi kṛtsraṃ satyādivākyaṃ lakṣakam, tarhi tasya viśiṣṭārthatve'nantabrahmaśabdavirodhoktiḥ, satyādipadairanṛtādivyavacchedoktiḥ, vijñānamānandaṃ brahma satyaṃ jñāna"mityādiśrutirbrahmaṇo vijñānādyātmakatve pramāṇamityuktiḥ, ekamevādvitīya’ mityādau sajātīyavijātīyasvagatanānātvaniṣedhoktirityādyayuktaṃ syāt| sattvādyuddeśena brahmatvāvidhānād brahmabubhutsānivṛttiśca na syāt| saguṇasaprapaṃcavākyayerapi lakṣaṇayā'khaṇḍārthaparatvasambhavena saguṇanirguṇādividyāvibhāgaḥ, nirguṇādi vākyaiḥ saguṇādi vākyānāṃ bādha ityādi cāsaṃgataṃ syāt| "tadaikṣata sa eṣo'nanta" ityādīnāmapi vākyalakṣaṇayā'khaṇḍaparatvenekṣaṇādau tātparyābhāvenekṣaṇānantatvādiliṅgaiḥ pradhānākāśādinirāsake satyādyadhikaraṇānāraṃbhaśca syāt| kṛtsnasya brahmakāṇḍasya vākyalakṣaṇayā śūnyādiparatvaṃ kṛtsnasya ca karmakāṇḍasya caityavandanādiparatvaṃ nirviśeṣadharmiparatvaṃ vā syādityalam| tasmādakhaṇḍārthatve padāntaravaiyarthyaṃ durvāram| api ca satyānandādipadalakṣyatve brahmaṇo nadīpadalakṣyasya tīrasyānadītvavadasatyatvānānandatvādikaṃ syāditi śūnyavādāpattiḥ| muktiścāpumarthaḥ syāt, ānandānubhavābhāvāt|

Report an error

ननु न नदीशब्देन नदीत्ववाचिना तदाश्रयव्यक्तेर्लक्षणा, किं तु तदाश्रयव्यक्तिसम्बन्धिनस्तीरस्येति तस्यानदीत्वम् इह तु सन्घट इत्यादाविव सत्तादिजातिवाचिभिः सत्यादिशब्दैः तदाश्रयव्यक्तेरेव लक्षणा एवं च सत्त्वसम्बन्धस्याशाब्दत्वेऽपि तीरस्य नद्येव ब्रह्मणोऽपि घटस्येव सत्तया सम्बन्धः सिध्यति, मुख्यार्थासम्बन्धे लक्षणायोगात्। जातिव्यक्त्योश्च तादात्म्यसम्बन्धात्। उक्तं हि- सत्त्वादीनां हि जातीनां व्यक्तितादात्म्यदर्शनात्। लक्ष्यव्यक्तिरपि ब्रह्म सत्त्वादि न जहाति नः।। इतीति चेन्न, व्यक्तिः शब्दार्थ इति मते सद्व्यक्तितोऽन्यस्यैव लक्षणीयत्वेन ब्रह्मणः सत्त्वासिद्धेः। ननु गंगाशब्दे जहल्लक्षणा आनन्दादिशब्देषु तु जात्यंशत्यागेऽपि व्यक्त्यंशत्यागायोगाद् जहदजहल्लक्षणेति कथमनानन्दत्वापत्तिरिति चेन्न, तत्रानन्दत्वजातेरसत्त्वे तद्व्यक्तेरानन्दव्यक्तित्वासिद्धेः। तत्सत्यत्वस्य चौपनिषदे ब्रह्मण्यशब्देनासिद्धेः। जातिः शब्दार्थ इति मतेऽपि सन् घट इत्यादावपि शब्देन सत्तावैशिष्ट्याप्रतीतेः लक्षणा हेतुत्वेन प्रतीतेश्चेहापि सत्त्वेन तद्विशिष्टार्थमिदं त्वखण्डार्थमिति विभागायोगेन विभागार्थं सन्घट इत्यादितो विशेषेण सत्यादिशब्दानां लक्षकत्वार्थं च नद्यां घोष इत्यादाविव जात्याश्रयव्यक्तिसम्बन्धित्वेनैव ब्रह्मणो लक्षणीयत्वेन सत्त्वासिद्धेः।

nanu na nadīśabdena nadītvavācinā tadāśrayavyakterlakṣaṇā, kiṃ tu tadāśrayavyaktisambandhinastīrasyeti tasyānadītvam iha tu sanghaṭa ityādāviva sattādijātivācibhiḥ satyādiśabdaiḥ tadāśrayavyaktereva lakṣaṇā evaṃ ca sattvasambandhasyāśābdatve'pi tīrasya nadyeva brahmaṇo'pi ghaṭasyeva sattayā sambandhaḥ sidhyati, mukhyārthāsambandhe lakṣaṇāyogāt| jātivyaktyośca tādātmyasambandhāt| uktaṃ hi- sattvādīnāṃ hi jātīnāṃ vyaktitādātmyadarśanāt| lakṣyavyaktirapi brahma sattvādi na jahāti naḥ|| itīti cenna, vyaktiḥ śabdārtha iti mate sadvyaktito'nyasyaiva lakṣaṇīyatvena brahmaṇaḥ sattvāsiddheḥ| nanu gaṃgāśabde jahallakṣaṇā ānandādiśabdeṣu tu jātyaṃśatyāge'pi vyaktyaṃśatyāgāyogād jahadajahallakṣaṇeti kathamanānandatvāpattiriti cenna, tatrānandatvajāterasattve tadvyakterānandavyaktitvāsiddheḥ| tatsatyatvasya caupaniṣade brahmaṇyaśabdenāsiddheḥ| jātiḥ śabdārtha iti mate'pi san ghaṭa ityādāvapi śabdena sattāvaiśiṣṭyāpratīteḥ lakṣaṇā hetutvena pratīteścehāpi sattvena tadviśiṣṭārthamidaṃ tvakhaṇḍārthamiti vibhāgāyogena vibhāgārthaṃ sanghaṭa ityādito viśeṣeṇa satyādiśabdānāṃ lakṣakatvārthaṃ ca nadyāṃ ghoṣa ityādāviva jātyāśrayavyaktisambandhitvenaiva brahmaṇo lakṣaṇīyatvena sattvāsiddheḥ|

Report an error

एतेन यथा शौणिमगुणवाचिनः शोणशब्दस्य गुणविशिष्टाऽश्वव्यक्तिर्लक्ष्या यथा वा तद्गुणसंविज्ञानबहुव्रीहौ कर्णादिवाचिनः कर्णादिशब्दस्य तद्विशिष्टोऽन्यपदार्थो लक्ष्यः, तथा सत्तादिवाचिनां सत्यादिशब्दानां सत्तादिविशिष्टो लक्ष्य इति सत्तादिसम्बन्धः शाब्द एवेति निरस्तम्। लक्ष्यस्य तात्पर्यविषयस्य विशिष्टत्वापातात्। न च सन्घट इत्यादौ विशिष्टं लक्ष्यम्, इह तु व्यक्तिमात्रम्। तेनेह शब्दस्याखण्डार्थत्वं लक्षणाहेतुत्वेन ब्रह्मणस्सत्त्वासिद्धिश्चेति वाच्यम्, लक्षणाया घटादाविवातात्त्विकसत्व सम्बन्धेनाप्युपपत्तेः। श्रुतेरेव वाच्ये सत्त्वेपि तात्पर्ये तु सखण्डार्थत्वम्। न चानुगतसत्तैव ब्रह्मेति सत्तासम्बन्धाभावेऽपि सत्स्यादिति वाच्यम्, वाच्यातिरिक्तलक्ष्याभावाहीनमपि सत्तावत् सत्स्वभावमिति निरस्तम्, सच्छब्दस्य तत्र लाक्षणिकत्वात्। सत्तायामिव च मानान्तराप्रवृत्तेर्ब्रह्मणः सत्स्वभावत्वे मानाभावात्। कथं च परमार्थ सति मुख्यस्य सत्यशब्दस्य जातिवाचिता, सद्व्यक्तेरेकत्वात्। एतेन सद्द्रव्यं कुंभ इति पदानि तत्तज्जातिद्वारा एकां कुंभव्यक्तिमिव सत्यादिपदान्यपि सत्तादिजातिद्वारा एकामेवानन्यव्यक्तिं लक्षयंतीति कल्पतरूक्तं निरस्तम्, तद्वदेवातात्त्विकसत्तादिविशिष्टार्थं त्वापातात्। एवं च- सौगतोक्तस्वाभिमतशून्यतासिद्धये परैः। सत्यज्ञानादिवाक्यानां लक्षणोक्ता परात्मनि।। तस्मात्सत्यज्ञानादिवाक्यानां नाखण्डार्थत्वम्। सत्यज्ञानादिवाक्यानामखण्डार्थत्वानुमानभङ्गः।। 2 ।।

etena yathā śauṇimaguṇavācinaḥ śoṇaśabdasya guṇaviśiṣṭā'śvavyaktirlakṣyā yathā vā tadguṇasaṃvijñānabahuvrīhau karṇādivācinaḥ karṇādiśabdasya tadviśiṣṭo'nyapadārtho lakṣyaḥ, tathā sattādivācināṃ satyādiśabdānāṃ sattādiviśiṣṭo lakṣya iti sattādisambandhaḥ śābda eveti nirastam| lakṣyasya tātparyaviṣayasya viśiṣṭatvāpātāt| na ca sanghaṭa ityādau viśiṣṭaṃ lakṣyam, iha tu vyaktimātram| teneha śabdasyākhaṇḍārthatvaṃ lakṣaṇāhetutvena brahmaṇassattvāsiddhiśceti vācyam, lakṣaṇāyā ghaṭādāvivātāttvikasatva sambandhenāpyupapatteḥ| śrutereva vācye sattvepi tātparye tu sakhaṇḍārthatvam| na cānugatasattaiva brahmeti sattāsambandhābhāve'pi satsyāditi vācyam, vācyātiriktalakṣyābhāvāhīnamapi sattāvat satsvabhāvamiti nirastam, sacchabdasya tatra lākṣaṇikatvāt| sattāyāmiva ca mānāntarāpravṛtterbrahmaṇaḥ satsvabhāvatve mānābhāvāt| kathaṃ ca paramārtha sati mukhyasya satyaśabdasya jātivācitā, sadvyakterekatvāt| etena saddravyaṃ kuṃbha iti padāni tattajjātidvārā ekāṃ kuṃbhavyaktimiva satyādipadānyapi sattādijātidvārā ekāmevānanyavyaktiṃ lakṣayaṃtīti kalpatarūktaṃ nirastam, tadvadevātāttvikasattādiviśiṣṭārthaṃ tvāpātāt| evaṃ ca- saugatoktasvābhimataśūnyatāsiddhaye paraiḥ| satyajñānādivākyānāṃ lakṣaṇoktā parātmani|| tasmātsatyajñānādivākyānāṃ nākhaṇḍārthatvam| satyajñānādivākyānāmakhaṇḍārthatvānumānabhaṅgaḥ|| 2 ||

Report an error

3. तत्त्वमस्यादिवाक्यस्याखण्डार्थत्वानमानभङ्गः तत्त्वमस्यादिवाक्यस्याऽखण्डार्थत्वानुमाने अप्ययुक्ते। उक्ताप्रसिद्धविशेषणत्वबाधप्रतिरोधाप्रयोजकत्वप्रतिकूलतर्कपराहत्यादिदोषात्। उक्तरीत्याऽन्त्य हेतोरसिद्धेश्च। उभयत्रापि दृष्टान्तस्य साध्यवैकल्याच्च। ननु सोऽयमित्यत्र किं तद्देशकालादि विशिष्टस्यैतद्देशकालादि वैशिष्ट्यं बोध्यते ? एतद्देशकालादिविशिष्टस्य तद्देशकालादिवैशिष्ट्यं वा ? विशिष्टद्वयैक्यं वा ? नाद्यः, एतत्कालादि विशिष्टस्य प्रत्यक्षत्वेनाऽनुपदेश्यत्वात्। तत्कालादेरपीदानीं सत्त्वापत्तेश्च। न द्वितीयः, एतत्कालादेस्तदा सत्त्वापातात्। न तृतीयः, विशेषणभेदे विशिष्टाभेदायोगात्। विशिष्टं हि यदि विशेषणविशेष्यसम्बन्धरूपं तदा विशेषणभेदेन, यदि तु पदार्थान्तरं तदापि विशेष्यभेदेनेव विशेषणभेदेनापि तद्भेद आवश्यकः। तस्मात्सोऽयमित्यादि वाक्यं लक्षणयाऽखण्डार्थमिति चेत्। उच्यते-अस्तु तावदनुभवकालसम्बन्ध एव तत्ता, तथापि बाल्ययौवनयोरिव श्यामरक्तरूपयोरिव च तदेतद्देशकालसम्बन्धरूपयोस्तत्तेदन्तयोः परस्परमनन्वयेऽपि एकविशेषणविशिष्टे इतरस्यावृत्तावपि एकविशेष्यवृत्तित्वं तावदस्ति, कालद्वयासम्बन्धिपदार्थानां क्षणिकत्वापातात्। देशद्वयसम्बन्धस्यापि कालभेदेनानुभवात्। सोऽयमिति पदद्वयं च तत्तेदन्तयोरेकवृत्तित्वबोधने शक्तम्, समानाधिकरणत्वात्। भिन्नप्रवृत्तिनिमितानामेकस्मिन्नर्थेवृत्तिर्हि सामानाधिकरण्यम्। न च विशेष्यस्य तत्तेदन्तान्वयपरमपीदं वाक्यं विशिष्टस्य तदन्वयपरं नेत्येतावताऽखण्डार्थम्, नीलमुत्पलमित्यादेरप्यखण्डार्थत्वापातात्। एवं च- कालद्वयेन योगस्य क्रमेण स्थायिवस्तुनि।

3. tattvamasyādivākyasyākhaṇḍārthatvānamānabhaṅgaḥ tattvamasyādivākyasyā'khaṇḍārthatvānumāne apyayukte| uktāprasiddhaviśeṣaṇatvabādhapratirodhāprayojakatvapratikūlatarkaparāhatyādidoṣāt| uktarītyā'ntya hetorasiddheśca| ubhayatrāpi dṛṣṭāntasya sādhyavaikalyācca| nanu so'yamityatra kiṃ taddeśakālādi viśiṣṭasyaitaddeśakālādi vaiśiṣṭyaṃ bodhyate ? etaddeśakālādiviśiṣṭasya taddeśakālādivaiśiṣṭyaṃ vā ? viśiṣṭadvayaikyaṃ vā ? nādyaḥ, etatkālādi viśiṣṭasya pratyakṣatvenā'nupadeśyatvāt| tatkālāderapīdānīṃ sattvāpatteśca| na dvitīyaḥ, etatkālādestadā sattvāpātāt| na tṛtīyaḥ, viśeṣaṇabhede viśiṣṭābhedāyogāt| viśiṣṭaṃ hi yadi viśeṣaṇaviśeṣyasambandharūpaṃ tadā viśeṣaṇabhedena, yadi tu padārthāntaraṃ tadāpi viśeṣyabhedeneva viśeṣaṇabhedenāpi tadbheda āvaśyakaḥ| tasmātso'yamityādi vākyaṃ lakṣaṇayā'khaṇḍārthamiti cet| ucyate-astu tāvadanubhavakālasambandha eva tattā, tathāpi bālyayauvanayoriva śyāmaraktarūpayoriva ca tadetaddeśakālasambandharūpayostattedantayoḥ parasparamananvaye'pi ekaviśeṣaṇaviśiṣṭe itarasyāvṛttāvapi ekaviśeṣyavṛttitvaṃ tāvadasti, kāladvayāsambandhipadārthānāṃ kṣaṇikatvāpātāt| deśadvayasambandhasyāpi kālabhedenānubhavāt| so'yamiti padadvayaṃ ca tattedantayorekavṛttitvabodhane śaktam, samānādhikaraṇatvāt| bhinnapravṛttinimitānāmekasminnarthevṛttirhi sāmānādhikaraṇyam| na ca viśeṣyasya tattedantānvayaparamapīdaṃ vākyaṃ viśiṣṭasya tadanvayaparaṃ netyetāvatā'khaṇḍārtham, nīlamutpalamityāderapyakhaṇḍārthatvāpātāt| evaṃ ca- kāladvayena yogasya krameṇa sthāyivastuni|

Report an error

नैल्यरक्तत्ववत्सत्त्वात्तदुक्तौ का विरुद्धता।। विशेष्ये धर्मसंसर्गपरं चापि विशेषिते। तत्परं नेत्यखण्डार्थं स्याच्चेत्सर्वं तथा भवेत्।। एतेन विशेष्यस्य कालद्वयसम्बन्धेनैव क्षणिकत्वानापत्तेर्विशिष्टस्य तत्सम्बन्धो नाऽपेक्षित इति निरस्तम्। मयापि विशेष्य एव कालद्वयसम्बन्धस्योक्तेः। देवदत्तस्वरूपमात्रं बुभुत्सितमिति तु निरसिष्यते। न च तत्ताया अतीतत्वमात्रेण तत्पदस्य लक्षणा, घटो नष्ट इत्यादाविवातीतत्तारूपस्वार्थात्यागात्। अन्यथा तत्तादेरतात्पर्य विषयत्वे सोऽयमित्यनेन देवदत्तस्य कालद्वयसम्बन्धो न सिध्येत्। तस्मादेकविशेषणविशिष्टे विशेषणान्तरान्वयाबोधकमपीदं वाक्यं विशेष्यस्य क्रमिकधर्मद्वयान्वयपरत्वात्सखण्डार्थमेव। किं च त्वदुपन्यस्ते पक्षत्रयेऽपि न दोषः, तत्तादेरतीतत्वेऽपि यदन्विततया ज्ञात एव तात्पर्यविषयीभूतेतरान्वयधीः, तत्त्वरूपस्य विशेषणत्वस्य सम्भवात्। न च विधेयान्वय्येव विशेषणम्, शब्दोऽनित्य इत्यादौ शब्दत्वादावव्याप्तेः। नापि विधेयान्वयकाले सदेव विशेषणम्, दण्डी भविष्यति, दण्डी नास्तीत्यादावव्याप्तेः। गृहनिष्ठे काकादावतिव्याप्तेश्च। नापि विधेयान्वयप्रतियोगितावच्छेदकं वा, स्वप्रत्याय्यव्यावृत्त्यधिकरणतावच्छेदकं वा विशेषणम्; अवच्छेदकत्वस्यान्यूनानधिकदेशकालत्वरूपत्वे तस्य सास्नादिमान् गौरित्यादिषु लक्ष्यतावच्छेदकरूपविशेषणेषु सत्त्वेऽपि गौः शुक्ला इत्यादावव्याप्तेः। न हि गोत्वं शुक्लान्वयप्रतियोगित्वेनाशुक्लव्यावृत्त्या वा अन्यूनानधिकदेशम्। अवच्छेदकत्वस्य यद्वत्तया ज्ञात एव यदन्वयधीस्तत्त्वरूपत्वे चेहाप्यवच्छेदकस्य सत्त्वात्।

nailyaraktatvavatsattvāttaduktau kā viruddhatā|| viśeṣye dharmasaṃsargaparaṃ cāpi viśeṣite| tatparaṃ netyakhaṇḍārthaṃ syāccetsarvaṃ tathā bhavet|| etena viśeṣyasya kāladvayasambandhenaiva kṣaṇikatvānāpatterviśiṣṭasya tatsambandho nā'pekṣita iti nirastam| mayāpi viśeṣya eva kāladvayasambandhasyokteḥ| devadattasvarūpamātraṃ bubhutsitamiti tu nirasiṣyate| na ca tattāyā atītatvamātreṇa tatpadasya lakṣaṇā, ghaṭo naṣṭa ityādāvivātītattārūpasvārthātyāgāt| anyathā tattāderatātparya viṣayatve so'yamityanena devadattasya kāladvayasambandho na sidhyet| tasmādekaviśeṣaṇaviśiṣṭe viśeṣaṇāntarānvayābodhakamapīdaṃ vākyaṃ viśeṣyasya kramikadharmadvayānvayaparatvātsakhaṇḍārthameva| kiṃ ca tvadupanyaste pakṣatraye'pi na doṣaḥ, tattāderatītatve'pi yadanvitatayā jñāta eva tātparyaviṣayībhūtetarānvayadhīḥ, tattvarūpasya viśeṣaṇatvasya sambhavāt| na ca vidheyānvayyeva viśeṣaṇam, śabdo'nitya ityādau śabdatvādāvavyāpteḥ| nāpi vidheyānvayakāle sadeva viśeṣaṇam, daṇḍī bhaviṣyati, daṇḍī nāstītyādāvavyāpteḥ| gṛhaniṣṭhe kākādāvativyāpteśca| nāpi vidheyānvayapratiyogitāvacchedakaṃ vā, svapratyāyyavyāvṛttyadhikaraṇatāvacchedakaṃ vā viśeṣaṇam; avacchedakatvasyānyūnānadhikadeśakālatvarūpatve tasya sāsnādimān gaurityādiṣu lakṣyatāvacchedakarūpaviśeṣaṇeṣu sattve'pi gauḥ śuklā ityādāvavyāpteḥ| na hi gotvaṃ śuklānvayapratiyogitvenāśuklavyāvṛttyā vā anyūnānadhikadeśam| avacchedakatvasya yadvattayā jñāta eva yadanvayadhīstattvarūpatve cehāpyavacchedakasya sattvāt|

Report an error

न हि काकोपस्थापितसंस्थानवत्तया ज्ञात एव देवदत्तीयत्वधीवददेवदत्तगृहव्यावृत्तिधीवच्च तत्तोपस्थापितधर्मान्तरवत्तया ज्ञात एवेदंत्वधीः अनिदं व्यावृत्तिधीर्वा किं तु तत्तावत्तया ज्ञात एव। न चात्रापि तत्तौपस्थापितदेवदत्तसंस्थानविशेषवत्तया ज्ञात एवेदंत्त्वादिधीः, तत्रेदन्तादिसम्बन्धस्य प्रत्यक्षत्वेनानुपदेश्यत्वात्। तस्मादतीतमपि यदन्विततया ज्ञात एवेत्याद्युक्तलक्षणयुक्तं चेद्विशेषणमेव। तदयुक्तं चेद्वर्तमानमप्यविशेषणमेव। अत एवाहुः-सदसद्वा समानाधिकरणं विशेषणमिति। तस्मात्पक्षत्रयेऽपि न दोषः। न चाद्ये वाक्यर्वैयर्थ्यम्, इदन्तावैशिष्ट्यस्य प्रत्यक्षत्वेऽपि तत्ताविशिष्टे तस्याप्रत्यक्षत्वात्। न चाद्यद्वितीय योर्बुभुत्सितस्याभेदस्य साक्षादलाभः। पुरोवर्तिनि तत्ताद्यवैशिष्ट्यभ्रमनिरासायायं स वा न वेत्यभिप्रायेण कोऽयमिति प्रश्ने सोऽयमित्युक्तेः। भेदभ्रमे निरसितव्येऽपि अभेदकोक्त्यापि साक्षाद् भेदभ्रमनिवृत्तेश्च। अभेदस्य बुभुत्सितत्वेऽपि वाक्यस्याभेदविशिष्टपरत्वेन सखण्डार्थत्वापत्तेश्च। ननु तृतीये विशिष्टैक्ये विशेषणैक्यं स्यात्। न च धूमवदग्निमतोरैक्येऽपि धूमाग्न्योर्भेदो दृष्ट इति वाच्यम्, तत्रापि विशेष्यस्यैवैक्यात्। न च तर्हि दृष्टान्ताभावाद्विशिष्टैक्येन विशेषणैक्यापादनायोगः, अग्निमतोऽग्निमतैक्येऽग्नेरग्निनैक्यदर्शनात् समुदायिरूपविशेषणभेदे समुदायैक्यस्य व्याहतत्वाच्चेति चेन्न। विशिष्टमपदार्थान्तरमिति मते विशेष्यस्येवैक्याधिकरणत्वेऽपि धर्मयोरप्युद्देश्यतावच्छेदकत्वेन विशेषणत्वात् तस्यैव च विशिष्टाभेदशब्दार्थत्वात्।

na hi kākopasthāpitasaṃsthānavattayā jñāta eva devadattīyatvadhīvadadevadattagṛhavyāvṛttidhīvacca tattopasthāpitadharmāntaravattayā jñāta evedaṃtvadhīḥ anidaṃ vyāvṛttidhīrvā kiṃ tu tattāvattayā jñāta eva| na cātrāpi tattaupasthāpitadevadattasaṃsthānaviśeṣavattayā jñāta evedaṃttvādidhīḥ, tatredantādisambandhasya pratyakṣatvenānupadeśyatvāt| tasmādatītamapi yadanvitatayā jñāta evetyādyuktalakṣaṇayuktaṃ cedviśeṣaṇameva| tadayuktaṃ cedvartamānamapyaviśeṣaṇameva| ata evāhuḥ-sadasadvā samānādhikaraṇaṃ viśeṣaṇamiti| tasmātpakṣatraye'pi na doṣaḥ| na cādye vākyarvaiyarthyam, idantāvaiśiṣṭyasya pratyakṣatve'pi tattāviśiṣṭe tasyāpratyakṣatvāt| na cādyadvitīya yorbubhutsitasyābhedasya sākṣādalābhaḥ| purovartini tattādyavaiśiṣṭyabhramanirāsāyāyaṃ sa vā na vetyabhiprāyeṇa ko'yamiti praśne so'yamityukteḥ| bhedabhrame nirasitavye'pi abhedakoktyāpi sākṣād bhedabhramanivṛtteśca| abhedasya bubhutsitatve'pi vākyasyābhedaviśiṣṭaparatvena sakhaṇḍārthatvāpatteśca| nanu tṛtīye viśiṣṭaikye viśeṣaṇaikyaṃ syāt| na ca dhūmavadagnimatoraikye'pi dhūmāgnyorbhedo dṛṣṭa iti vācyam, tatrāpi viśeṣyasyaivaikyāt| na ca tarhi dṛṣṭāntābhāvādviśiṣṭaikyena viśeṣaṇaikyāpādanāyogaḥ, agnimato'gnimataikye'gneragninaikyadarśanāt samudāyirūpaviśeṣaṇabhede samudāyaikyasya vyāhatatvācceti cenna| viśiṣṭamapadārthāntaramiti mate viśeṣyasyevaikyādhikaraṇatve'pi dharmayorapyuddeśyatāvacchedakatvena viśeṣaṇatvāt tasyaiva ca viśiṣṭābhedaśabdārthatvāt|

Report an error

पदार्थान्तरमित्यावयोर्मते तु धूमाग्न्योर्भेदेऽपि धूमवानग्निमानित्यबाधितसामानाधिकरण्यधीबलेन विशिष्टयोरभेदस्यापि सत्त्वात्। अन्यथा इदं रूप्यमित्युक्ते पुरोवर्तिनि रूप्याभेदाप्रतीतेः रूप्यार्थिनः पुरोवर्तिनि प्रवृत्तिश्च न स्यात्। तत्तेदन्तोपलक्षितैक्यबोधनमिति त्वन्मतं चायुक्तं स्यात्। तत्तेदंतोपलक्षितत्वरूपविशेषणभेदाद्विशिष्टभेदात्। अस्तु वा तत्तेदंतयोर्मध्ये एकस्योपलक्षणत्वं तथापीदन्ताविशिष्टस्योपलक्षणीभूततत्कालसम्बन्धो वा तत्तोपलक्षिताभेदो वा तत्ताविशिष्टस्योपलक्षणीभूतेदन्तासम्बन्धो वा इदन्तोपलक्षिताभेदो वा बोध्यताम्। न चैतावता वाक्यस्याखण्डार्थत्वम्। उपलक्षणस्य काकादेः स्वयं प्रकारत्वेन प्रकारान्तरोपस्थापकत्वेन वा निष्प्रकारकत्वरूपाखण्डार्थत्वविरोधित्वात्। एकस्योपलक्षणत्वेऽप्यन्यस्य विशेषणत्वाच्च। नाप्युपलक्षणत्वमात्रेण तद्वाचिशब्दानां लाक्षणिकत्वम्। वृत्तिविशेष रूपलक्षणाया व्यावर्तकविशेषरूपोपलक्षणस्य च भिन्नत्वात्। दृश्यते हि घटस्याभावः जटाभिस्तापस इत्यादावभावादिकं प्रति घटादेरुपलक्षणत्वेऽपि घटादिशब्दस्यालाक्षणिकत्वम्। दृश्यते च दण्ड्यभिप्रायेण प्रयुक्तेः दण्डमानयेत्यत्र दण्डशब्दस्य दण्डिनि लाक्षणिकत्वेऽपि दण्डस्याऽनुपलक्षणत्वम्। वरं चोभयपदलक्षणात एकपदलक्षणा। न चेदंताविशिष्टस्य तत्तया तत्ताविशिष्टस्य चेदन्तया कदाप्यसम्बन्धान्न ते प्रति तयोरूपलक्षणतेति वाच्यम्, तयोस्ताभ्यां विशेष्यद्वारा सम्बन्धात्। परम्परासंम्बंधिनोऽप्युपलक्षणत्वात्।

padārthāntaramityāvayormate tu dhūmāgnyorbhede'pi dhūmavānagnimānityabādhitasāmānādhikaraṇyadhībalena viśiṣṭayorabhedasyāpi sattvāt| anyathā idaṃ rūpyamityukte purovartini rūpyābhedāpratīteḥ rūpyārthinaḥ purovartini pravṛttiśca na syāt| tattedantopalakṣitaikyabodhanamiti tvanmataṃ cāyuktaṃ syāt| tattedaṃtopalakṣitatvarūpaviśeṣaṇabhedādviśiṣṭabhedāt| astu vā tattedaṃtayormadhye ekasyopalakṣaṇatvaṃ tathāpīdantāviśiṣṭasyopalakṣaṇībhūtatatkālasambandho vā tattopalakṣitābhedo vā tattāviśiṣṭasyopalakṣaṇībhūtedantāsambandho vā idantopalakṣitābhedo vā bodhyatām| na caitāvatā vākyasyākhaṇḍārthatvam| upalakṣaṇasya kākādeḥ svayaṃ prakāratvena prakārāntaropasthāpakatvena vā niṣprakārakatvarūpākhaṇḍārthatvavirodhitvāt| ekasyopalakṣaṇatve'pyanyasya viśeṣaṇatvācca| nāpyupalakṣaṇatvamātreṇa tadvāciśabdānāṃ lākṣaṇikatvam| vṛttiviśeṣa rūpalakṣaṇāyā vyāvartakaviśeṣarūpopalakṣaṇasya ca bhinnatvāt| dṛśyate hi ghaṭasyābhāvaḥ jaṭābhistāpasa ityādāvabhāvādikaṃ prati ghaṭāderupalakṣaṇatve'pi ghaṭādiśabdasyālākṣaṇikatvam| dṛśyate ca daṇḍyabhiprāyeṇa prayukteḥ daṇḍamānayetyatra daṇḍaśabdasya daṇḍini lākṣaṇikatve'pi daṇḍasyā'nupalakṣaṇatvam| varaṃ cobhayapadalakṣaṇāta ekapadalakṣaṇā| na cedaṃtāviśiṣṭasya tattayā tattāviśiṣṭasya cedantayā kadāpyasambandhānna te prati tayorūpalakṣaṇateti vācyam, tayostābhyāṃ viśeṣyadvārā sambandhāt| paramparāsaṃmbaṃdhino'pyupalakṣaṇatvāt|

Report an error

यद्वेदन्तोपलक्षितस्य तत्तावैशिष्ट्यं तत्ताविशिष्टाभेदो वा तत्तोपलक्षितस्येदन्तावैशिष्ट्यं वा इदं ताविशिष्टाभेदो वा बोध्यताम्। ननु-यद्यपीदन्तया तत्तया वा उपलक्षितस्य विशेष्यस्य तत्तावैशिष्ट्यं वा इदन्तावैशिष्टं वा युक्तम्, विशेष्ये विशेषणान्तरान्वयात्। अभेदपक्षौ तु न युक्तौ अनुवृत्तव्यावृत्तयोर्विशेष्यविशिष्टयोरभेदायोगादिति चेन्न, समवायस्थाने भेदाभेदावित्यावयोर्मतेऽनुवृत्तव्यावृत्तयोरपि तयोः पर्वतोऽग्निमानिति धीबलाज्जातिव्यक्त्योखि मृद्धटयोरिवचाभेदस्यापि सत्वात्। अन्यथा पर्वतोऽग्निमानिति लैङ्गिकी धीरपि निर्विकल्पिका स्यात्। केवलाभेदस्तु परिणामिनि देवदत्तपिण्डेऽपि नास्त्येव। यद्वा तत्तोपलक्षितस्य इदंतोपलक्षितेन वा इदन्तोपलक्षितस्य तत्तोपलक्षितेन वा ऐक्यं बोध्यताम्। न चैतावताऽखण्डार्थत्वादिकमित्युक्तम्। तदेतदभिप्रेत्योक्तम्-"अनित्यदेशकालसम्बन्धस्य सत्त्वान्न सोऽयं देवदत्त इत्याद्युपमाचे"ति टीकायां तु तद्देशकालसम्बन्धमात्रं न तत्ता, किं तु तद्ध्वंसः स चेदानीमस्ति। एवं च पक्षत्रयेऽपि न दोष इत्युक्तं तद्वस्तुस्थितिप्रदर्शनार्थम्। तत्तेदन्तयोर्न केवलं बाल्ययौवनवत्सामानाधिकरण्यमात्रं किं तु नीलत्वोत्पलत्ववत्समानकालत्वमपीति प्रदर्शनार्थं च, न तु सखण्डार्थत्वार्थम्। उक्तरीत्यान्यथापि तत्सिद्धेः। परेण तद्देशकालसम्बद्ध एतद्देशकालसम्बद्ध इत्यस्मिन्नुदाहृते टीकोक्तप्रकाराप्रसराच्च। युक्तं चानुभवकालध्वंस एव तत्तेति। अन्यथा पूर्वकालविषयेऽनुभवेऽपि स्मृताविव तत्तोल्लेखः स्यात्।

yadvedantopalakṣitasya tattāvaiśiṣṭyaṃ tattāviśiṣṭābhedo vā tattopalakṣitasyedantāvaiśiṣṭyaṃ vā idaṃ tāviśiṣṭābhedo vā bodhyatām| nanu-yadyapīdantayā tattayā vā upalakṣitasya viśeṣyasya tattāvaiśiṣṭyaṃ vā idantāvaiśiṣṭaṃ vā yuktam, viśeṣye viśeṣaṇāntarānvayāt| abhedapakṣau tu na yuktau anuvṛttavyāvṛttayorviśeṣyaviśiṣṭayorabhedāyogāditi cenna, samavāyasthāne bhedābhedāvityāvayormate'nuvṛttavyāvṛttayorapi tayoḥ parvato'gnimāniti dhībalājjātivyaktyokhi mṛddhaṭayorivacābhedasyāpi satvāt| anyathā parvato'gnimāniti laiṅgikī dhīrapi nirvikalpikā syāt| kevalābhedastu pariṇāmini devadattapiṇḍe'pi nāstyeva| yadvā tattopalakṣitasya idaṃtopalakṣitena vā idantopalakṣitasya tattopalakṣitena vā aikyaṃ bodhyatām| na caitāvatā'khaṇḍārthatvādikamityuktam| tadetadabhipretyoktam-"anityadeśakālasambandhasya sattvānna so'yaṃ devadatta ityādyupamāce"ti ṭīkāyāṃ tu taddeśakālasambandhamātraṃ na tattā, kiṃ tu taddhvaṃsaḥ sa cedānīmasti| evaṃ ca pakṣatraye'pi na doṣa ityuktaṃ tadvastusthitipradarśanārtham| tattedantayorna kevalaṃ bālyayauvanavatsāmānādhikaraṇyamātraṃ kiṃ tu nīlatvotpalatvavatsamānakālatvamapīti pradarśanārthaṃ ca, na tu sakhaṇḍārthatvārtham| uktarītyānyathāpi tatsiddheḥ| pareṇa taddeśakālasambaddha etaddeśakālasambaddha ityasminnudāhṛte ṭīkoktaprakārāprasarācca| yuktaṃ cānubhavakāladhvaṃsa eva tatteti| anyathā pūrvakālaviṣaye'nubhave'pi smṛtāviva tattollekhaḥ syāt|

Report an error

स्मृत्यनुभवयोः संस्कारजन्यत्वाजन्यत्वाभ्यां भेदेऽपि अनुभवकाले सतः कालस्य स्मृतिकाले वस्तुगत्यातीतत्वेऽपि च विषयकृतवैलक्षण्याभावात्। तत्तामात्रे च स्मृतेरननुभूतविषयत्वमिष्टमेव। न चातिप्रसङ्गः, अनुभवबलेनानुभूतकालध्वंसत्वस्य तन्त्रत्वात्। पूर्वकालसम्बन्धस्तत्तेतिमतेऽपि ह्यननुभूतापि भूतता भातीति वक्तव्यम्। तत् तत्र तदा तथासीदिति स्मृतौ अननुभूतस्य भूतत्वस्योल्लेखात्। ननु पूर्वकालध्वंसविशिष्टो मध्येऽप्यस्ति इदन्ताविशिष्टस्तु मध्ये नेति कथं तयोरभेदः ? न चेदन्ता नैतत्कालसम्बन्धः, किं तु तत्प्रागभावः तद्विशिष्टश्च मध्येऽप्यस्तीति वाच्यम्। पूर्वकालध्वंसविशिष्टस्येदानीं सत्त्वेऽपि एतत्कालप्रागभावविशिष्टस्येदानीमभावादिति चेन्न, अनुवृत्तव्यावृत्तयोरभेदस्य विशेष्यमात्रस्यैव ऐक्येऽपि तत्तादेर्विशेषणत्वस्य च समर्थितत्वात्। किं च त्वन्मते सोऽयं देवदत्त इति वाक्यस्य किं देवदत्तस्वरूपमात्रे तात्पर्यम् ? तत्तेदन्तोपलक्षिताभेदविशिष्टे वा ? उक्ताभेदोपलक्षिते वा ? नाद्यः, तस्य प्रत्यक्षसिद्धत्वात्। अन्यथा धर्मिज्ञानाभावेन तत्र बुभुत्सानुवादभेदभ्रमाद्ययोगात्। अभेदारोपनिवृत्त्ययोगाच्च। एकेनैव पदेन पूर्णत्वेन पदान्तरवैयर्थ्याच्च। न च लक्षणार्थं सोऽयमिति पदद्वयम्, देवदत्तपदेनैव पूर्णत्वात्। स एक कुण्डल्ययं देवदत्त इत्यादौ सोऽयमिति पदद्वयेनैव लक्षणासिद्धौ पदान्तरवैयर्थ्याच्च। न द्वितीयतृतीयौ, समान विभक्तिकपदद्वयेन प्रातिपदिकार्थेतरस्याभेदरूपसंसर्गस्य बोधनेऽखण्डार्थत्वहानेः। न हि क्रियाकारकभावान्वय एव संसर्गः। नीलमुत्पलं, निर्घटं भूतलं, घटः पटोनेत्यादेरप्यखण्डार्थत्वापातात्।

smṛtyanubhavayoḥ saṃskārajanyatvājanyatvābhyāṃ bhede'pi anubhavakāle sataḥ kālasya smṛtikāle vastugatyātītatve'pi ca viṣayakṛtavailakṣaṇyābhāvāt| tattāmātre ca smṛterananubhūtaviṣayatvamiṣṭameva| na cātiprasaṅgaḥ, anubhavabalenānubhūtakāladhvaṃsatvasya tantratvāt| pūrvakālasambandhastattetimate'pi hyananubhūtāpi bhūtatā bhātīti vaktavyam| tat tatra tadā tathāsīditi smṛtau ananubhūtasya bhūtatvasyollekhāt| nanu pūrvakāladhvaṃsaviśiṣṭo madhye'pyasti idantāviśiṣṭastu madhye neti kathaṃ tayorabhedaḥ ? na cedantā naitatkālasambandhaḥ, kiṃ tu tatprāgabhāvaḥ tadviśiṣṭaśca madhye'pyastīti vācyam| pūrvakāladhvaṃsaviśiṣṭasyedānīṃ sattve'pi etatkālaprāgabhāvaviśiṣṭasyedānīmabhāvāditi cenna, anuvṛttavyāvṛttayorabhedasya viśeṣyamātrasyaiva aikye'pi tattāderviśeṣaṇatvasya ca samarthitatvāt| kiṃ ca tvanmate so'yaṃ devadatta iti vākyasya kiṃ devadattasvarūpamātre tātparyam ? tattedantopalakṣitābhedaviśiṣṭe vā ? uktābhedopalakṣite vā ? nādyaḥ, tasya pratyakṣasiddhatvāt| anyathā dharmijñānābhāvena tatra bubhutsānuvādabhedabhramādyayogāt| abhedāropanivṛttyayogācca| ekenaiva padena pūrṇatvena padāntaravaiyarthyācca| na ca lakṣaṇārthaṃ so'yamiti padadvayam, devadattapadenaiva pūrṇatvāt| sa eka kuṇḍalyayaṃ devadatta ityādau so'yamiti padadvayenaiva lakṣaṇāsiddhau padāntaravaiyarthyācca| na dvitīyatṛtīyau, samāna vibhaktikapadadvayena prātipadikārthetarasyābhedarūpasaṃsargasya bodhane'khaṇḍārthatvahāneḥ| na hi kriyākārakabhāvānvaya eva saṃsargaḥ| nīlamutpalaṃ, nirghaṭaṃ bhūtalaṃ, ghaṭaḥ paṭonetyāderapyakhaṇḍārthatvāpātāt|

Report an error

न च भावांशभेदाभावमात्रेणाखण्डार्थत्वमित्यानन्दबोधोक्तं युक्तम्, स्वोचितसंसर्गान्यसंसर्गाबोधकत्वस्य सर्वत्र सत्त्वात्। उपलक्षणेनाभेदेनोपलक्ष्यस्य देवदत्तस्य प्रागेव निश्चितत्वेन तस्योपलक्षणत्वायोगाच्च। देवदत्ते देवदत्ताभेदस्य प्रत्यक्षसिद्धत्वाच्च। तस्मादभेदो न सिद्ध इति चेत्, तस्मादिति कोऽर्थः ? किं तत्ताविशिष्टादिति ? किं वा तत्तोपलक्षितादिति ? यद्वा तच्छब्देन विवक्षितात्स्वरूपमात्रादिति ? नाद्यद्वितीयौ, सखण्डार्थत्वापातात्। उक्तरीत्योलक्ष्याकाराभावेनोपलक्षणत्वायोगाच्च। न तृतीयः, दत्तोत्तरत्वात्। एवं च- प्रत्यक्षत्वाद्देवदत्तस्वरूपं नैव बोध्यते। सोऽयमित्यादिवाक्येन किं त्वैक्यदिविशेषितम्।। अपि च सोऽयमिति प्रत्यक्षप्रत्यभिज्ञा तावन्नाखण्डार्थविषया, तत्र शब्दवृत्तेर्लक्षणाया अयोगात्। तत्तेदन्तादेरभेदस्य च प्रकारस्योल्लेखानुभवाच्च। तदनुल्लेखे प्रत्यभिज्ञया अभिज्ञातो विशेषो न स्यात्। तथा च शाब्दप्रत्यभिज्ञापि तथा। स्वप्रत्यभिज्ञावगतस्यैव परं प्रति बोधनात्, तस्मात् दुष्परिहरं साध्यवैकल्यम्। किं च तत्त्वमसीत्यस्याभेदविशिष्टे तदुपलक्षिते वा तात्पर्यं चेदुक्तरीत्या अभेदरूपसंसर्गबोधनेन सखण्डार्थत्वम्। किं च चिन्मात्रस्य चिन्मात्रेणाभेदबोधने इष्टापत्तिरप्रसक्तनिषेधश्च। तत्पदादिवाच्यसार्वज्ञाद्युपलक्षिताभेदबोधनेतु सखण्डार्थत्वम्। सार्वज्ञ्यादेः प्रकारत्वेनानुप्रवेशात्। चैतन्यमात्रपरत्वं चेत्, तस्य स्वप्रकाशस्य नित्य सिद्धतयोपदेशवैयर्थ्यम्। वाक्यात्प्राक् चैतन्याज्ञाने उक्तरीत्या तत्र बुभुत्सा च न स्यात्, तस्या धर्मिज्ञानसाध्यत्वात्।

na ca bhāvāṃśabhedābhāvamātreṇākhaṇḍārthatvamityānandabodhoktaṃ yuktam, svocitasaṃsargānyasaṃsargābodhakatvasya sarvatra sattvāt| upalakṣaṇenābhedenopalakṣyasya devadattasya prāgeva niścitatvena tasyopalakṣaṇatvāyogācca| devadatte devadattābhedasya pratyakṣasiddhatvācca| tasmādabhedo na siddha iti cet, tasmāditi ko'rthaḥ ? kiṃ tattāviśiṣṭāditi ? kiṃ vā tattopalakṣitāditi ? yadvā tacchabdena vivakṣitātsvarūpamātrāditi ? nādyadvitīyau, sakhaṇḍārthatvāpātāt| uktarītyolakṣyākārābhāvenopalakṣaṇatvāyogācca| na tṛtīyaḥ, dattottaratvāt| evaṃ ca- pratyakṣatvāddevadattasvarūpaṃ naiva bodhyate| so'yamityādivākyena kiṃ tvaikyadiviśeṣitam|| api ca so'yamiti pratyakṣapratyabhijñā tāvannākhaṇḍārthaviṣayā, tatra śabdavṛtterlakṣaṇāyā ayogāt| tattedantāderabhedasya ca prakārasyollekhānubhavācca| tadanullekhe pratyabhijñayā abhijñāto viśeṣo na syāt| tathā ca śābdapratyabhijñāpi tathā| svapratyabhijñāvagatasyaiva paraṃ prati bodhanāt, tasmāt duṣpariharaṃ sādhyavaikalyam| kiṃ ca tattvamasītyasyābhedaviśiṣṭe tadupalakṣite vā tātparyaṃ ceduktarītyā abhedarūpasaṃsargabodhanena sakhaṇḍārthatvam| kiṃ ca cinmātrasya cinmātreṇābhedabodhane iṣṭāpattiraprasaktaniṣedhaśca| tatpadādivācyasārvajñādyupalakṣitābhedabodhanetu sakhaṇḍārthatvam| sārvajñyādeḥ prakāratvenānupraveśāt| caitanyamātraparatvaṃ cet, tasya svaprakāśasya nitya siddhatayopadeśavaiyarthyam| vākyātprāk caitanyājñāne uktarītyā tatra bubhutsā ca na syāt, tasyā dharmijñānasādhyatvāt|

Report an error

भेदभ्रमश्च न स्याद्, अधिष्ठानज्ञानाभावात्। महावाक्येन भेदभ्रान्तिनिवृत्तिश्च न स्यात्, भ्रमकालज्ञाताधिष्ठानादधिकाबोधनात्। महावाक्यस्यावान्तरवाक्येन गतार्थत्वं च स्यात्। तत्पदार्थशोधकेन "सत्यं ज्ञान"मित्यादिना त्वंपदार्थशोधकेन योऽयं विज्ञानमयः इत्यादिना चावान्तरवाक्येन लक्षणया शुद्धचैतन्यबोधनात्। महावाक्य एवानेकपदवैयर्थ्यं च स्यात्। एकेनैव पदेन लक्षणया शुद्धबोधनात्कथं तेन भेदभ्रमनिरास इति चेत्। अधिकार्थाबोधने वाक्येनापि कथम् ? न हि वाक्यमदृष्टद्वारा भ्रमनिवर्तकम्। न च तात्पर्याविषयेणाप्यभेदेन तन्निवृत्तिः, अतिप्रसङ्गात्। न चैकस्य पदस्य लाक्षणिकत्वाय पदान्तरम्। तत्त्वमिति विरुद्वार्थवाचिपदद्वयस्य समानाधिकरण्याधीनत्वाल्लक्षणाया इति विवरणोक्तं युक्तम्, चैतन्यपदेनैव विवक्षितसिद्धौ तत्त्वमिति लाक्षणिकपदद्वयेन तद्बोधनक्लेशायोगात्। गङ्गायां घोष इत्यत्रापि घोषपदं गङ्गाशब्दस्य लाक्षणिकत्वाय, न तु स्वार्थार्पणायेत्यापाताच्च। अभेदरूपान्वयाबोधने पदद्वयसामानाधिकरण्यस्य लक्षणाकल्पकत्वायोगाच्च। सदेवेत्यादिपूर्ववाक्ये लक्षितचिन्मात्रस्य प्रकृतवाचिना तत्पदेन लक्षणां विनैव परामर्शसम्भवाच्च। "स वा एव महानज आत्मे"त्यादिमहावाक्ये लक्षणायाः स आत्मेति पदद्वयसामानाधिकरण्येनैव सिद्ध्या पदान्तरवैयर्थ्याच्च। वाच्यार्थभेदग्राह्यतत्त्वावेदकप्रत्यक्षबाधकेन तत्त्वावेदकेनाद्वैतवाक्येन तयोरेव तात्त्विकाभेदबोधनसम्भवेन लक्षणाया अनपेक्षितत्वाच्च।

bhedabhramaśca na syād, adhiṣṭhānajñānābhāvāt| mahāvākyena bhedabhrāntinivṛttiśca na syāt, bhramakālajñātādhiṣṭhānādadhikābodhanāt| mahāvākyasyāvāntaravākyena gatārthatvaṃ ca syāt| tatpadārthaśodhakena "satyaṃ jñāna"mityādinā tvaṃpadārthaśodhakena yo'yaṃ vijñānamayaḥ ityādinā cāvāntaravākyena lakṣaṇayā śuddhacaitanyabodhanāt| mahāvākya evānekapadavaiyarthyaṃ ca syāt| ekenaiva padena lakṣaṇayā śuddhabodhanātkathaṃ tena bhedabhramanirāsa iti cet| adhikārthābodhane vākyenāpi katham ? na hi vākyamadṛṣṭadvārā bhramanivartakam| na ca tātparyāviṣayeṇāpyabhedena tannivṛttiḥ, atiprasaṅgāt| na caikasya padasya lākṣaṇikatvāya padāntaram| tattvamiti virudvārthavācipadadvayasya samānādhikaraṇyādhīnatvāllakṣaṇāyā iti vivaraṇoktaṃ yuktam, caitanyapadenaiva vivakṣitasiddhau tattvamiti lākṣaṇikapadadvayena tadbodhanakleśāyogāt| gaṅgāyāṃ ghoṣa ityatrāpi ghoṣapadaṃ gaṅgāśabdasya lākṣaṇikatvāya, na tu svārthārpaṇāyetyāpātācca| abhedarūpānvayābodhane padadvayasāmānādhikaraṇyasya lakṣaṇākalpakatvāyogācca| sadevetyādipūrvavākye lakṣitacinmātrasya prakṛtavācinā tatpadena lakṣaṇāṃ vinaiva parāmarśasambhavācca| "sa vā eva mahānaja ātme"tyādimahāvākye lakṣaṇāyāḥ sa ātmeti padadvayasāmānādhikaraṇyenaiva siddhyā padāntaravaiyarthyācca| vācyārthabhedagrāhyatattvāvedakapratyakṣabādhakena tattvāvedakenādvaitavākyena tayoreva tāttvikābhedabodhanasambhavena lakṣaṇāyā anapekṣitatvācca|

Report an error

एतेन वाक्यस्थपदस्यैव लक्षकत्वादनेकपदोपादानमिति निरस्तम्, अन्वयानुपपत्तिरूपलक्षणाबीजार्थमेव वाक्यस्थत्वस्यापेक्षणात् त्वमसीत्युक्तेऽपि वाक्यस्थत्वसिद्धेश्च। एतेन यदुक्तं विवरणे "अभिज्ञातः प्रत्यभिज्ञायाः शाब्द्या वा प्रत्यभिज्ञायास्तावन्न् प्रमेयतो विशेषः। अभिज्ञया ज्ञातस्यैव देवदत्तैक्यस्य प्रत्यभिज्ञया ग्रहणात्। न हि देवदत्तस्य स्वेनैक्यमभिज्ञायां न भाति। न चानभिज्ञातं प्रत्यभिज्ञया ज्ञेयं देवदत्तस्य स्वेनैक्यान्तरमस्ति। एकस्य कालद्वयसम्बन्धः प्रत्यभिज्ञागोचर इति चेन्न, ऐक्यस्य कालद्वयसम्बन्धस्य चाभिज्ञाभ्यामेव सिद्धेः, तस्मात्प्रमेयतो न विशेषः किं तु फलतः कालद्वयसम्बन्धिपदार्थैक्यविषयत्वे द्वयोरविशिष्टेऽपि प्रत्यभिज्ञाया एव कालद्वयपरार्शित्वेन पदार्थभेदभ्रमनिवर्तकत्वात्, तत एव च प्रामाण्यमपि। एवं च तत्त्वमसिवाक्यस्य सत्यज्ञानादिवाक्यात् तत्पदाच्च प्रमेयतोऽविशेषेऽपि धर्मद्वयपरामर्शित्वेन भेदभ्रमनिवर्तकत्वात्प्रामाण्यम्। उक्तं हि-"सिद्धं तु निवर्तकत्वादि"ति। तन्निरस्तम्, अभिज्ञाभ्यां वस्तुत एकस्मिन् कालद्वयसम्बन्धस्य देवदत्ताभेदस्य च देवदत्ते ग्रहणेऽपि प्रत्यभिज्ञयेव एकस्मिन् कालद्वयसम्बन्ध इति वा कालद्वयसम्बन्धाधार एक इति वा ग्रहणेन प्रत्यभिज्ञायाः प्रमेयत एव भेदात्। न हीदमिति ज्ञानं वस्तुतः शुक्तौ शुक्त्यभेदग्राह्यपीयं शुक्तिरिति ज्ञानवत् इदं त्वशुक्तित्वाधार एक इत्याकारम्। अन्यथा फलतोऽपि विशेषो न स्यात्। कालद्वयपरामर्शमात्रेण भेदभ्रमनिवृत्तौ भेदभ्रमकालेऽपि तस्य सत्त्वात्तेन निवृत्तिः स्यात्। एवं तत्त्वमसीत्यत्रापीति दिक्।

etena vākyasthapadasyaiva lakṣakatvādanekapadopādānamiti nirastam, anvayānupapattirūpalakṣaṇābījārthameva vākyasthatvasyāpekṣaṇāt tvamasītyukte'pi vākyasthatvasiddheśca| etena yaduktaṃ vivaraṇe "abhijñātaḥ pratyabhijñāyāḥ śābdyā vā pratyabhijñāyāstāvann prameyato viśeṣaḥ| abhijñayā jñātasyaiva devadattaikyasya pratyabhijñayā grahaṇāt| na hi devadattasya svenaikyamabhijñāyāṃ na bhāti| na cānabhijñātaṃ pratyabhijñayā jñeyaṃ devadattasya svenaikyāntaramasti| ekasya kāladvayasambandhaḥ pratyabhijñāgocara iti cenna, aikyasya kāladvayasambandhasya cābhijñābhyāmeva siddheḥ, tasmātprameyato na viśeṣaḥ kiṃ tu phalataḥ kāladvayasambandhipadārthaikyaviṣayatve dvayoraviśiṣṭe'pi pratyabhijñāyā eva kāladvayaparārśitvena padārthabhedabhramanivartakatvāt, tata eva ca prāmāṇyamapi| evaṃ ca tattvamasivākyasya satyajñānādivākyāt tatpadācca prameyato'viśeṣe'pi dharmadvayaparāmarśitvena bhedabhramanivartakatvātprāmāṇyam| uktaṃ hi-"siddhaṃ tu nivartakatvādi"ti| tannirastam, abhijñābhyāṃ vastuta ekasmin kāladvayasambandhasya devadattābhedasya ca devadatte grahaṇe'pi pratyabhijñayeva ekasmin kāladvayasambandha iti vā kāladvayasambandhādhāra eka iti vā grahaṇena pratyabhijñāyāḥ prameyata eva bhedāt| na hīdamiti jñānaṃ vastutaḥ śuktau śuktyabhedagrāhyapīyaṃ śuktiriti jñānavat idaṃ tvaśuktitvādhāra eka ityākāram| anyathā phalato'pi viśeṣo na syāt| kāladvayaparāmarśamātreṇa bhedabhramanivṛttau bhedabhramakāle'pi tasya sattvāttena nivṛttiḥ syāt| evaṃ tattvamasītyatrāpīti dik|

Report an error

एतेन- उपाधिभेदभिन्नार्थो येनैकः प्रतिपाद्यते। तदपि स्यादखण्डार्थं महत् खं कुम्भखं यथा।। इति कल्पतरूक्तम्, सत्यज्ञानादिगीरेतत् संसर्गव्यतिरेकिणि। अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत्।। इति चित्सुखोक्तं चानुमानं निरस्तम्, अप्रसिद्धविशेषणत्वादिदोषजातात्। एकत्वप्रतिपादकत्वरूपस्याद्यहेतोः सखण्डार्थत्वेनैव व्याप्ततया विरुद्धत्वाच्च, आकाशेंऽशः स्वाभाविक इति वक्ष्यमाणत्वेन साधनवैकल्याच्च। घटाकाशो महाकाश इत्यत्रापि आकाशस्वरूपमात्रबोधने भेदभ्रमनिरासायोगेनाधिकस्य बोध्यत्वेन साध्यवैकल्याच्च। द्वितीय हेतौ संसर्गादन्यस्मिन् संसर्गिण्यपि प्रामाण्यस्य मन्मतेऽपि सत्त्वेन सिद्धसाधनाच्च। श्लोकस्य अग्निहोत्रादिगीरिति सत्यज्ञानादिगीरेतत्पदार्थव्यतिरेकिणीत्यपि पठितुं शक्यत्वेनाभाससाम्याच्च। तस्माद्वेदान्ताः सगुणब्रह्मपरा इति ब्रह्मानन्तगुणमिति। तत्त्वमस्यादिवाक्यस्याखण्डार्थत्वानुमानभङ्गः।। 3 ।।

etena- upādhibhedabhinnārtho yenaikaḥ pratipādyate| tadapi syādakhaṇḍārthaṃ mahat khaṃ kumbhakhaṃ yathā|| iti kalpatarūktam, satyajñānādigīretat saṃsargavyatirekiṇi| arthe pramāṇaṃ mānatvānnayanādipramāṇavat|| iti citsukhoktaṃ cānumānaṃ nirastam, aprasiddhaviśeṣaṇatvādidoṣajātāt| ekatvapratipādakatvarūpasyādyahetoḥ sakhaṇḍārthatvenaiva vyāptatayā viruddhatvācca, ākāśeṃ'śaḥ svābhāvika iti vakṣyamāṇatvena sādhanavaikalyācca| ghaṭākāśo mahākāśa ityatrāpi ākāśasvarūpamātrabodhane bhedabhramanirāsāyogenādhikasya bodhyatvena sādhyavaikalyācca| dvitīya hetau saṃsargādanyasmin saṃsargiṇyapi prāmāṇyasya manmate'pi sattvena siddhasādhanācca| ślokasya agnihotrādigīriti satyajñānādigīretatpadārthavyatirekiṇītyapi paṭhituṃ śakyatvenābhāsasāmyācca| tasmādvedāntāḥ saguṇabrahmaparā iti brahmānantaguṇamiti| tattvamasyādivākyasyākhaṇḍārthatvānumānabhaṅgaḥ|| 3 ||

Report an error

4. ब्रह्मणो निर्गुणत्वभङ्गः

4. brahmaṇo nirguṇatvabhaṅgaḥ

Report an error

तथा हि ब्रह्मणो धर्माः किं साधकाभावान्न सन्ति ? उत बाधकसद्भावात्। नाद्यः, ‘बृहन्तो ह्यस्मिन्गुणाः’, ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च।’ ‘सत्यकामः सत्यसङ्कल्पः’ इत्यादिश्रुतीनाम्, ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः। नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा।। ‘मय्यनन्तगुणेऽनन्ते’ ‘तेजो बलैश्वर्यमहावबोध- सद्वीर्यशक्त्यादिगुणैकराशिः’ ‘परःपराणा‘मित्यादिस्मृतीनाम्’ ‘अन्तस्तद्धर्मोपदेशाद्’ ‘अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशाद्, ‘अदृश्यत्वादिगुणको धर्मोक्तेः’ ‘सर्वधर्मोपपत्तेश्च’-इत्यादीनां निर्णायकसूत्राणाम् ब्रह्म धर्मिसत्तासमानसत्ताकधर्मवद्, उक्तसत्ताकभावरूपधर्मवद्वा, यावत्स्वस्वरूपमनुवर्तमानधर्मवद्वा, उक्तविशेषणवद्भावरूपधर्मवद्वा, स्वज्ञानाबाध्यभावरूपधर्मवद्वा, धर्मैर्भावरूपैर्धर्मैर्वा हीनं नावतिष्ठते पदार्थत्वाद्, भावत्वाद्, अभावविलक्षणत्वाद्वा, घटवत्। ब्रह्म स्वज्ञानाबाध्यप्रकारवत्, स्वारोपितव्यावर्तकस्वज्ञानाबाध्यप्रकारवद्वा, अधिष्ठानत्वाच्छुक्तिवत्। ब्रह्म स्वज्ञानाबाध्यदुःखव्यावृत्तिमत्, स्वज्ञानाबाध्यदुःखव्यावर्तकधर्मवद्वा, दुःखानात्मकत्वाद् घटवत्। ब्रह्म स्वज्ञानाबाध्यप्रकारकज्ञानविशेष्यम्, सन्दिग्धत्वाद्, विचार्यत्वात्, निर्णेतव्यत्वाच्च, स्थाणुवत्। ब्रह्मवेदान्ततात्पर्यगोचरप्रकारवद्, वेदान्तविचारविषयत्वात्, यदेवं तदेवं यथा कर्मकाण्ड विचारविषयो धर्मः। ईश्वरः सदाऽवाप्तसमस्तकल्याणगुणः, सदा तत्प्रेप्सुत्वे सति तत्र शक्तत्वाद्, यो यदा यत्प्रेप्सुत्वे सति यत्र शक्तः, स तदा तद्वान्, यथा चैत्रः।

tathā hi brahmaṇo dharmāḥ kiṃ sādhakābhāvānna santi ? uta bādhakasadbhāvāt| nādyaḥ, ‘bṛhanto hyasminguṇāḥ’, ‘parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca|’ ‘satyakāmaḥ satyasaṅkalpaḥ’ ityādiśrutīnām, brahmeśānādibhirdevaiḥ sametairyadguṇāṃśakaḥ| nāvasāyayituṃ śakyo vyācakṣāṇaiśca sarvadā|| ‘mayyanantaguṇe'nante’ ‘tejo balaiśvaryamahāvabodha- sadvīryaśaktyādiguṇaikarāśiḥ’ ‘paraḥparāṇā‘mityādismṛtīnām’ ‘antastaddharmopadeśād’ ‘antaryāmyadhidaivādiṣu taddharmavyapadeśād, ‘adṛśyatvādiguṇako dharmokteḥ’ ‘sarvadharmopapatteśca’-ityādīnāṃ nirṇāyakasūtrāṇām brahma dharmisattāsamānasattākadharmavad, uktasattākabhāvarūpadharmavadvā, yāvatsvasvarūpamanuvartamānadharmavadvā, uktaviśeṣaṇavadbhāvarūpadharmavadvā, svajñānābādhyabhāvarūpadharmavadvā, dharmairbhāvarūpairdharmairvā hīnaṃ nāvatiṣṭhate padārthatvād, bhāvatvād, abhāvavilakṣaṇatvādvā, ghaṭavat| brahma svajñānābādhyaprakāravat, svāropitavyāvartakasvajñānābādhyaprakāravadvā, adhiṣṭhānatvācchuktivat| brahma svajñānābādhyaduḥkhavyāvṛttimat, svajñānābādhyaduḥkhavyāvartakadharmavadvā, duḥkhānātmakatvād ghaṭavat| brahma svajñānābādhyaprakārakajñānaviśeṣyam, sandigdhatvād, vicāryatvāt, nirṇetavyatvācca, sthāṇuvat| brahmavedāntatātparyagocaraprakāravad, vedāntavicāraviṣayatvāt, yadevaṃ tadevaṃ yathā karmakāṇḍa vicāraviṣayo dharmaḥ| īśvaraḥ sadā'vāptasamastakalyāṇaguṇaḥ, sadā tatprepsutve sati tatra śaktatvād, yo yadā yatprepsutve sati yatra śaktaḥ, sa tadā tadvān, yathā caitraḥ|

Report an error

ईश्वरः सदा त्यक्तसमस्तदोषः सदातज्जिहासुत्वे सति तत्त्यागे शक्तत्वाद्, यो यदा यज्जिहासुत्वे सति यत्त्यागे शक्तः, स तदा त्यक्ततद्दोषः, यथा चैत्रः। तत्प्रेप्सादिकं च प्रेक्षावत्त्वादिनाविपक्षेऽधिष्ठानत्वसन्दिग्धत्वादिकं न स्यादित्याद्यनुकूलतर्कसनाथानुमानानां च सत्त्वात्। न चानवस्थानिरासाय कश्चिद्धर्मो निर्धर्मक इति तत्राद्यहेतोर्व्यभिचारः, साध्यस्वरूपस्य निर्धर्मकत्वस्य पदार्थत्वात्मकस्य हेतुरूपस्य च धर्मस्य भावाभावाभ्यां व्याघातात्। प्रमेयत्वाभिधेयत्वादीनामबाधितानुभवबलेन त्वदभिमतमिथ्यात्वदृश्यत्वादिवत् स्ववृत्तित्वाच्च। गोत्वादेरपि गोव्यक्तिरेव वा गोत्वं वा तं स्वाश्रयव्यक्तिं प्रति अन्यस्माद्व्यावर्तकत्वं वा व्यावर्तकमिति न दुःखानात्मकत्वस्य तत्र व्यभिचारः। न च श्रुतिः सगुणब्रह्मपरा, न तु परब्रह्मपरेति वाच्यम्, सगुणातिरिक्तस्य परस्याद्याप्यसिद्धेः। त्वत्पक्षेऽपि तात्त्विकगुणवद्व्यक्त्यन्तराभावाच्च। परः पराणामित्यादिस्मृतौ परात्परत्वोक्तेश्च। अन्यथा ‘सदेव सोम्येदम्, असद्वा इदमग्र’ इति सदसत् श्रुती अपि परापरब्रह्मविषये, ग्रहणाग्रहणश्रुती अपि परापरयागविषये स्याताम्। ‘असन्नेव स भवति असद् ब्रह्मेति वेद चे’दिति श्रुतिरपि नासत्त्वनिन्दार्था, किं तु शून्यतापत्तिरूपपरममोक्षपरेति स्यात्। न चेदानीं सगुणं दशान्तरे तु निर्गुणम्। तथात्वेऽपि गुणानामनित्यत्वमात्रापत्त्या त्वदभिमतमिथ्यात्वासिद्धेः। ‘ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः’। ‘एष नित्यो महिमा ब्राह्मणस्य’। इत्यादि श्रुतेश्च।

īśvaraḥ sadā tyaktasamastadoṣaḥ sadātajjihāsutve sati tattyāge śaktatvād, yo yadā yajjihāsutve sati yattyāge śaktaḥ, sa tadā tyaktataddoṣaḥ, yathā caitraḥ| tatprepsādikaṃ ca prekṣāvattvādināvipakṣe'dhiṣṭhānatvasandigdhatvādikaṃ na syādityādyanukūlatarkasanāthānumānānāṃ ca sattvāt| na cānavasthānirāsāya kaściddharmo nirdharmaka iti tatrādyahetorvyabhicāraḥ, sādhyasvarūpasya nirdharmakatvasya padārthatvātmakasya heturūpasya ca dharmasya bhāvābhāvābhyāṃ vyāghātāt| prameyatvābhidheyatvādīnāmabādhitānubhavabalena tvadabhimatamithyātvadṛśyatvādivat svavṛttitvācca| gotvāderapi govyaktireva vā gotvaṃ vā taṃ svāśrayavyaktiṃ prati anyasmādvyāvartakatvaṃ vā vyāvartakamiti na duḥkhānātmakatvasya tatra vyabhicāraḥ| na ca śrutiḥ saguṇabrahmaparā, na tu parabrahmapareti vācyam, saguṇātiriktasya parasyādyāpyasiddheḥ| tvatpakṣe'pi tāttvikaguṇavadvyaktyantarābhāvācca| paraḥ parāṇāmityādismṛtau parātparatvokteśca| anyathā ‘sadeva somyedam, asadvā idamagra’ iti sadasat śrutī api parāparabrahmaviṣaye, grahaṇāgrahaṇaśrutī api parāparayāgaviṣaye syātām| ‘asanneva sa bhavati asad brahmeti veda ce’diti śrutirapi nāsattvanindārthā, kiṃ tu śūnyatāpattirūpaparamamokṣapareti syāt| na cedānīṃ saguṇaṃ daśāntare tu nirguṇam| tathātve'pi guṇānāmanityatvamātrāpattyā tvadabhimatamithyātvāsiddheḥ| ‘jñānaṃ nityaṃ kriyā nityā balaṃ nityaṃ parātmanaḥ’| ‘eṣa nityo mahimā brāhmaṇasya’| ityādi śruteśca|

Report an error

‘एष नित्य’ इति श्रुतिश्च ब्रह्मपरा, पूर्वत्र नावेदविन्मनुते तं बृहन्तमिति ब्रह्मणः प्रकृतत्वात्। उत्तरत्र न कर्मणा वर्धते नो कनीयान्। तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ब्रह्मलिङ्गात्। बृहदरण्यके सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः। स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्। एष सर्वेश्वर एष भूताधिपतिः एष भूतपाल इत्यादिना ब्रह्मोक्त्वा तत्र संमतित्वेन तदेतदृचाभ्युक्तमिति एष नित्य इत्यादिमन्त्रस्योदाहृतत्वाच्च। अन्यथा ब्रह्मेदानीं सदृशान्तरे त्वसदिति स्यात्। न चौपाधिका धर्माः औपाधिकत्वस्य सोपाधिकाध्यस्तत्वरूपत्वे श्रुत्यप्रामाण्यापातात्। वक्ष्यमाणसत्यत्वश्रुतिविरोधाच्च। उपाधिकृतत्वरूपत्वे तूक्तनित्यत्वश्रुतिविरोधाद्, अन्तःकरणादिरूपोपाधिसृष्टेः प्रागेवेक्षितृत्वादिश्रुतेश्च। स्वाभाविकी ज्ञानबलक्रिया चेत्यादि श्रुतेश्च। न च योगलब्धयोगिशक्त्यादिवैधर्म्यमात्रेण तदुक्तिः, सङ्कोचकाभावेनोक्तनित्यत्वश्रुत्यनुसारेण स्वाभाविकज्ञानसमभिव्याहारेण चोपाधिमात्रनिषेधात्। अन्यथा ब्रह्मणः सत्त्वमौपाधिकम् असत्त्वं तु स्वाभाविकमिति स्यात्। न चातात्त्विका गुणाः। श्रुत्या गुणमात्रोक्त्या तात्त्विकानुक्तेरिति वाच्यम्, नित्यत्वोक्तिसामर्थ्याद्, विषयाबाधलक्षणप्रामाण्यस्यौत्सर्गिकत्वात्, ‘सत्यः सोऽस्य महिमे’त्यादि श्रुतेश्च तत्सिद्धेः। अन्यथा सत्यं ज्ञानं तत्त्वमसीत्यादि श्रुत्युक्तं ब्रह्मसत्त्वैक्यादिकमपि तात्त्विकं न स्यात्। निर्गुणश्रुतिविरोधस्तूद्धरिष्यते। किं च तद्विरोधेऽपि श्रुतेर्नातात्त्विकविषयता युक्ता।

‘eṣa nitya’ iti śrutiśca brahmaparā, pūrvatra nāvedavinmanute taṃ bṛhantamiti brahmaṇaḥ prakṛtatvāt| uttaratra na karmaṇā vardhate no kanīyān| tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti brahmaliṅgāt| bṛhadaraṇyake sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ| sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyān| eṣa sarveśvara eṣa bhūtādhipatiḥ eṣa bhūtapāla ityādinā brahmoktvā tatra saṃmatitvena tadetadṛcābhyuktamiti eṣa nitya ityādimantrasyodāhṛtatvācca| anyathā brahmedānīṃ sadṛśāntare tvasaditi syāt| na caupādhikā dharmāḥ aupādhikatvasya sopādhikādhyastatvarūpatve śrutyaprāmāṇyāpātāt| vakṣyamāṇasatyatvaśrutivirodhācca| upādhikṛtatvarūpatve tūktanityatvaśrutivirodhād, antaḥkaraṇādirūpopādhisṛṣṭeḥ prāgevekṣitṛtvādiśruteśca| svābhāvikī jñānabalakriyā cetyādi śruteśca| na ca yogalabdhayogiśaktyādivaidharmyamātreṇa taduktiḥ, saṅkocakābhāvenoktanityatvaśrutyanusāreṇa svābhāvikajñānasamabhivyāhāreṇa copādhimātraniṣedhāt| anyathā brahmaṇaḥ sattvamaupādhikam asattvaṃ tu svābhāvikamiti syāt| na cātāttvikā guṇāḥ| śrutyā guṇamātroktyā tāttvikānukteriti vācyam, nityatvoktisāmarthyād, viṣayābādhalakṣaṇaprāmāṇyasyautsargikatvāt, ‘satyaḥ so'sya mahime’tyādi śruteśca tatsiddheḥ| anyathā satyaṃ jñānaṃ tattvamasītyādi śrutyuktaṃ brahmasattvaikyādikamapi tāttvikaṃ na syāt| nirguṇaśrutivirodhastūddhariṣyate| kiṃ ca tadvirodhe'pi śruternātāttvikaviṣayatā yuktā|

Report an error

उक्तं हि- को हि मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः। एकं प्रमाणमितरत् त्वप्रमाणं भवेदिति।। इति । तथा हि पूर्वतन्त्रे प्राप्तबाधोऽप्राप्तबाधश्चेति द्विविधो बाध उक्तः। तत्र दाशमिके प्राप्तबाधे प्रकृतिवत्कुर्यादित्यादिरूपस्य प्राप्तस्य चोदकादेः कृष्णलादाववघातवर्जमित्यादिरूपः संकोच एव। एवं तार्तीयेऽप्यप्राप्तबाधे गार्हपत्यमिति द्वितीयाश्रुत्यनुसारेणेन्द्र शब्दप्रयुक्तमन्त्रलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव। एवं व्याकरणेऽपि परेण पूर्वस्य, नित्येनानित्यस्य, अन्तरङ्गेण बहिरङ्गस्य, प्रतिपदोक्तेन लक्षणोक्तस्येत्यादिर्बाध उक्तः। तत्रापि सङ्कोच एव एवं ब्रह्ममीमांसायामपि ‘विकारशब्दान्नेति चेन्न प्राचुर्याद्,’ ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्,’ ‘गौण्यसम्भवादि’त्यादौ शास्त्रयोर्विरोधे तात्त्विकार्थान्तरपरत्वमेवोक्तम्, न त्वारोपितार्थत्वम्। अन्यथा ईक्षत्याद्यधिकरणेषु सिद्धान्तसाधकानाम् ईक्षणादीनां साङ्ख्याद्यभिमतप्रधानादावारोपसम्भवात् क्वापि सिद्धान्तो न सिध्येदिति सर्वमपि शास्त्रमुन्मूलितं स्यात्।

uktaṃ hi- ko hi mīmāṃsako brūyādvirodhe śāstrayormithaḥ| ekaṃ pramāṇamitarat tvapramāṇaṃ bhavediti|| iti | tathā hi pūrvatantre prāptabādho'prāptabādhaśceti dvividho bādha uktaḥ| tatra dāśamike prāptabādhe prakṛtivatkuryādityādirūpasya prāptasya codakādeḥ kṛṣṇalādāvavaghātavarjamityādirūpaḥ saṃkoca eva| evaṃ tārtīye'pyaprāptabādhe gārhapatyamiti dvitīyāśrutyanusāreṇendra śabdaprayuktamantraliṅgasya gārhapatye gauṇatvādikameva| evaṃ vyākaraṇe'pi pareṇa pūrvasya, nityenānityasya, antaraṅgeṇa bahiraṅgasya, pratipadoktena lakṣaṇoktasyetyādirbādha uktaḥ| tatrāpi saṅkoca eva evaṃ brahmamīmāṃsāyāmapi ‘vikāraśabdānneti cenna prācuryād,’ ‘upadeśabhedānneti cennobhayasminnapyavirodhāt,’ ‘gauṇyasambhavādi’tyādau śāstrayorvirodhe tāttvikārthāntaraparatvamevoktam, na tvāropitārthatvam| anyathā īkṣatyādyadhikaraṇeṣu siddhāntasādhakānām īkṣaṇādīnāṃ sāṅkhyādyabhimatapradhānādāvāropasambhavāt kvāpi siddhānto na sidhyediti sarvamapi śāstramunmūlitaṃ syāt|

Report an error

किं च दशमे विकृतिभूतमहापितृयज्ञप्रकरणस्थे नार्षेयं वृणीते-इत्यादिवाक्ये प्रकृतिवत्कुर्यादार्षेयवरणवर्जमिति महापितृयज्ञीयप्रकृतिवच्छब्दैकवाक्यतया पर्युदासादार्थत्वमेवेत्युक्त्वा यत्र प्रकृतिभूतदर्शपूर्णमासप्रकरणस्थाज्यभागविधायकवाक्य सन्निहिते ‘न तौ पशौ करोति’ इत्यादौ पाशुकप्रकृतिवच्छब्दैकवाक्यत्वयोगेन नञः पर्युदासार्थत्वासम्भवात्, प्रकृतिवत्कुर्यादाज्यभागौ तु न कुर्यादिति वाक्यभेदेन प्रसज्यप्रतिषेधार्थत्वमेव युक्तं तत्र पशावाज्यभागयोरन्येनाप्रसक्तेः, शास्त्रप्रसक्तस्य च सर्वथा बाधायोगात् विकल्प इत्युक्तम्। एवं च यदा प्रतिषेधोन्नीतप्रसक्तेरपि न सर्वथा बाधः तदा किमु वक्तव्यं प्रत्यक्षसगुणशास्त्रप्रमितानां गुणानां न सर्वथा बाध इति ? ननु निर्गुणवाक्येन निषेद्धुं सगुणवाक्यस्यानुवादकत्वेनैकवाक्यत्वसम्भवे वाक्यभेदेन गुणप्रापकता न युक्तेति चेन्न, सत्यकामत्वादीनामन्यतोऽप्राप्तेः। श्रुतिप्राप्तस्य च श्रुत्या निषेधेऽहिंसावाक्यमग्नीषोमीयहिंसायाः अग्रहणवाक्यं च षोडशिग्रहणस्य असद्वेत्यादिवाक्यं च ब्रह्मसत्त्वस्य भेदवाक्यं चैक्यस्य निषेधकं स्यादित्युक्तत्वात्। किं च सृढमृदेत्यादिविधिर्नक्त्वासेडिति निषेधस्येव सगुणवाक्यमेव निर्गुणवाक्यस्य बाधकं किं न स्यात् ? न च जगत्कर्तृत्वाक्षिप्तस्य सार्वज्ञ्यादेर्निषेधायानुवादः। श्रुत्याक्षिप्तस्य पुनः श्रुत्या निषेधायोगात्।

kiṃ ca daśame vikṛtibhūtamahāpitṛyajñaprakaraṇasthe nārṣeyaṃ vṛṇīte-ityādivākye prakṛtivatkuryādārṣeyavaraṇavarjamiti mahāpitṛyajñīyaprakṛtivacchabdaikavākyatayā paryudāsādārthatvamevetyuktvā yatra prakṛtibhūtadarśapūrṇamāsaprakaraṇasthājyabhāgavidhāyakavākya sannihite ‘na tau paśau karoti’ ityādau pāśukaprakṛtivacchabdaikavākyatvayogena nañaḥ paryudāsārthatvāsambhavāt, prakṛtivatkuryādājyabhāgau tu na kuryāditi vākyabhedena prasajyapratiṣedhārthatvameva yuktaṃ tatra paśāvājyabhāgayoranyenāprasakteḥ, śāstraprasaktasya ca sarvathā bādhāyogāt vikalpa ityuktam| evaṃ ca yadā pratiṣedhonnītaprasakterapi na sarvathā bādhaḥ tadā kimu vaktavyaṃ pratyakṣasaguṇaśāstrapramitānāṃ guṇānāṃ na sarvathā bādha iti ? nanu nirguṇavākyena niṣeddhuṃ saguṇavākyasyānuvādakatvenaikavākyatvasambhave vākyabhedena guṇaprāpakatā na yukteti cenna, satyakāmatvādīnāmanyato'prāpteḥ| śrutiprāptasya ca śrutyā niṣedhe'hiṃsāvākyamagnīṣomīyahiṃsāyāḥ agrahaṇavākyaṃ ca ṣoḍaśigrahaṇasya asadvetyādivākyaṃ ca brahmasattvasya bhedavākyaṃ caikyasya niṣedhakaṃ syādityuktatvāt| kiṃ ca sṛḍhamṛdetyādividhirnaktvāseḍiti niṣedhasyeva saguṇavākyameva nirguṇavākyasya bādhakaṃ kiṃ na syāt ? na ca jagatkartṛtvākṣiptasya sārvajñyāderniṣedhāyānuvādaḥ| śrutyākṣiptasya punaḥ śrutyā niṣedhāyogāt|

Report an error

अन्यथा श्रुतेन ज्ञाननिवर्त्यत्वेन जगदरोपाधिष्ठानत्वेन ‘स एवेदं सर्वमि’ति श्रुतेन जीवब्रह्मणोः सार्वात्म्येन चाक्षिप्तं सर्वमिथ्यात्वं ब्रह्मसत्त्वं जीवब्रह्मैक्यं च ‘विश्वं सत्यमि’त्यनेन ‘असद्धा इदमि’त्यनेन ‘द्वा सुपर्णे’त्यनेन च निषेद्धुं ‘नेह नाने’त्यनेन सत्यं ज्ञानमित्यनेन तत्त्वमसीत्यनेन चानूद्यत इति स्यात्। किं च श्रुत्याक्षिप्तस्य सार्वज्ञ्यादेः श्रुत्या निषेधेऽपि श्रुतस्य सर्वकर्तृत्वादेः कथं निषेधः ? किं चाद्वैतश्रुतेर्निर्गुणश्रुत्यन्तरस्य वा तात्पर्यपरिज्ञानप्राप्तं निर्गुणत्वमेव सगुणवाक्येन निषेद्धुं सगुणवाक्येनानूद्यत इति किं न स्यात् ? वैगुण्यमेव पश्यन्ति न गुणान्विनि नियुंजत इति भारतोक्तेः। किं च निर्गुणवाक्य एव साक्षी चेतेत्यादिना द्रष्टृत्वादिगुणविधानान्न तेन निषेध इति न तदर्थं सावज्ञ्यादि वाक्यमनुवादकम्। अन्यथा सार्वज्ञ्यादेर्व्यावहारिकं सत्त्वमपि न स्यात्। न हि निषिद्धे ब्राह्मणहननादौ अवान्तरमपि तात्पर्यम्। न चौपनिषदस्य ब्रह्मणः सार्वज्ञ्यादिकमनुमानादिसिद्धम्। ननु सगुणवाक्यं वाचं धेनुमुपासीतेत्यादिवदुपासनार्थम्, उपासनायाः कर्तव्यत्वे गुणेषु च तात्पर्ये वाक्यभेदादिति चेन्न- उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च। उभयत्रापि तात्पर्यमात्मोपासादिके विधौ।। इति स्मृतिविरोधात्। ‘यः सर्वज्ञ’ इत्यादौ उपासनाविधेरश्रवणाच्च। कल्पनस्य च निर्गुणवाक्येऽपि शक्यत्वात्। किं च ‘आत्मेत्येवोपासीत’, ‘अथ योऽन्यां देवतामुपास्ते’ इत्यादावद्वैतस्याप्युपास्यत्वं श्रूयते।

anyathā śrutena jñānanivartyatvena jagadaropādhiṣṭhānatvena ‘sa evedaṃ sarvami’ti śrutena jīvabrahmaṇoḥ sārvātmyena cākṣiptaṃ sarvamithyātvaṃ brahmasattvaṃ jīvabrahmaikyaṃ ca ‘viśvaṃ satyami’tyanena ‘asaddhā idami’tyanena ‘dvā suparṇe’tyanena ca niṣeddhuṃ ‘neha nāne’tyanena satyaṃ jñānamityanena tattvamasītyanena cānūdyata iti syāt| kiṃ ca śrutyākṣiptasya sārvajñyādeḥ śrutyā niṣedhe'pi śrutasya sarvakartṛtvādeḥ kathaṃ niṣedhaḥ ? kiṃ cādvaitaśruternirguṇaśrutyantarasya vā tātparyaparijñānaprāptaṃ nirguṇatvameva saguṇavākyena niṣeddhuṃ saguṇavākyenānūdyata iti kiṃ na syāt ? vaiguṇyameva paśyanti na guṇānvini niyuṃjata iti bhāratokteḥ| kiṃ ca nirguṇavākya eva sākṣī cetetyādinā draṣṭṛtvādiguṇavidhānānna tena niṣedha iti na tadarthaṃ sāvajñyādi vākyamanuvādakam| anyathā sārvajñyādervyāvahārikaṃ sattvamapi na syāt| na hi niṣiddhe brāhmaṇahananādau avāntaramapi tātparyam| na caupaniṣadasya brahmaṇaḥ sārvajñyādikamanumānādisiddham| nanu saguṇavākyaṃ vācaṃ dhenumupāsītetyādivadupāsanārtham, upāsanāyāḥ kartavyatve guṇeṣu ca tātparye vākyabhedāditi cenna- upāsanāyāḥ kāryatve viṣṇorātmatva eva ca| ubhayatrāpi tātparyamātmopāsādike vidhau|| iti smṛtivirodhāt| ‘yaḥ sarvajña’ ityādau upāsanāvidheraśravaṇācca| kalpanasya ca nirguṇavākye'pi śakyatvāt| kiṃ ca ‘ātmetyevopāsīta’, ‘atha yo'nyāṃ devatāmupāste’ ityādāvadvaitasyāpyupāsyatvaṃ śrūyate|

Report an error

किं च त्वयैव तृतीयस्य तृतीये पादे ‘आनन्दादय’ इति सूत्रे ‘आनन्दं ब्रह्मे’त्यादि श्रुतिसिद्धा आनन्दादयः। ‘व्यतिहार’ इति सूत्रे तद्योऽहमिति श्रुत्युक्तं जीवस्येश्वरत्वमीश्वरस्य च जीवत्वमुपास्यमित्युक्तम्। तथा- उत्तरस्मिंस्तापनीये शैव्यप्रश्नेऽथ काठके। माण्डूक्यादौ च सर्वत्र निर्गुणोपास्तिरीरिता।। इति निर्गुणं ब्रह्माप्युपास्यमित्युक्तम्। एवं चोपास्यत्वेऽप्यानन्दादेरिव ऐक्यस्यैव निर्गुणब्रह्म इव च सत्यकामत्वादेरपि तात्त्विकतास्तु। भाषितं हि त्वयैव व्यतिहार इति सूत्रे ‘यथा ध्यानार्थेऽपि सत्यकामत्वाद्युपदेशे तद्गुण ईश्वरः सिध्यति तद्वदैक्यम्’ इति। भामात्यां च तादात्म्यदार्ढ्यं तु भवन्नोपेक्षामहे। सत्यकामादिगुणोपदेश इव तद्गुणेश्वरसिद्धेरिति। न चानन्दादिवाक्यसत्यकामादिवाक्ययोर्मानान्तराविरोधे तदप्राप्तौ उपासनाविध्यश्रवणे निर्गुणश्रुतिविरिधे च तुल्येऽपि आनन्दादयो वास्तवाः सत्यकामादयस्तु वाग्धेनुत्वादिवत् पुंतन्त्रा वा व्यावहारिका वेति युक्तम्। यदि चानन्दादयः स्वरूपभूता इति न निर्गुणश्रुतिविरोधः, तर्हि बलशक्त्यादयोऽपि तथैव। ज्ञानात्मको भगवान् बलात्मको भगवानित्यादिश्रुतेः। ‘समस्तकल्याणगुणात्मक’ इत्यादिस्मृतेश्च। ननु निर्गुणाद्युपासनं भ्रमेऽपि मणिप्रभायां मणिभ्रम इव फलसंवादि, उक्तं हि- स्वयं भ्रमोऽपि संवादी यथा सम्यक् फलप्रदः। ब्रह्मतत्त्वोपासनापि तथा मुक्तिफलप्रदा।। इति । न चैवं ब्रह्मासिद्धिः, उपासनस्य भ्रमत्वेऽपि शब्दजन्यस्य ज्ञानस्य प्रमात्वादिति चेन्न, प्रकृतेऽपि तथात्वोपपत्तेः। मणिप्रभायां मणित्वस्यैव ब्रह्मणो मिथ्यात्वाभावेन ध्यानस्यापि सत्यब्रह्मविषयत्वाच्च।

kiṃ ca tvayaiva tṛtīyasya tṛtīye pāde ‘ānandādaya’ iti sūtre ‘ānandaṃ brahme’tyādi śrutisiddhā ānandādayaḥ| ‘vyatihāra’ iti sūtre tadyo'hamiti śrutyuktaṃ jīvasyeśvaratvamīśvarasya ca jīvatvamupāsyamityuktam| tathā- uttarasmiṃstāpanīye śaivyapraśne'tha kāṭhake| māṇḍūkyādau ca sarvatra nirguṇopāstirīritā|| iti nirguṇaṃ brahmāpyupāsyamityuktam| evaṃ copāsyatve'pyānandāderiva aikyasyaiva nirguṇabrahma iva ca satyakāmatvāderapi tāttvikatāstu| bhāṣitaṃ hi tvayaiva vyatihāra iti sūtre ‘yathā dhyānārthe'pi satyakāmatvādyupadeśe tadguṇa īśvaraḥ sidhyati tadvadaikyam’ iti| bhāmātyāṃ ca tādātmyadārḍhyaṃ tu bhavannopekṣāmahe| satyakāmādiguṇopadeśa iva tadguṇeśvarasiddheriti| na cānandādivākyasatyakāmādivākyayormānāntarāvirodhe tadaprāptau upāsanāvidhyaśravaṇe nirguṇaśrutiviridhe ca tulye'pi ānandādayo vāstavāḥ satyakāmādayastu vāgdhenutvādivat puṃtantrā vā vyāvahārikā veti yuktam| yadi cānandādayaḥ svarūpabhūtā iti na nirguṇaśrutivirodhaḥ, tarhi balaśaktyādayo'pi tathaiva| jñānātmako bhagavān balātmako bhagavānityādiśruteḥ| ‘samastakalyāṇaguṇātmaka’ ityādismṛteśca| nanu nirguṇādyupāsanaṃ bhrame'pi maṇiprabhāyāṃ maṇibhrama iva phalasaṃvādi, uktaṃ hi- svayaṃ bhramo'pi saṃvādī yathā samyak phalapradaḥ| brahmatattvopāsanāpi tathā muktiphalapradā|| iti | na caivaṃ brahmāsiddhiḥ, upāsanasya bhramatve'pi śabdajanyasya jñānasya pramātvāditi cenna, prakṛte'pi tathātvopapatteḥ| maṇiprabhāyāṃ maṇitvasyaiva brahmaṇo mithyātvābhāvena dhyānasyāpi satyabrahmaviṣayatvācca|

Report an error

न च ब्रह्मविषयशाब्दधीजन्यस्य तदपरोक्षधीजनकस्य च ब्रह्मध्यानस्याब्रह्मविषयता युक्ता, ब्रह्मज्ञानहेतूनां श्रवणादीनामपि तथात्वापातात्। ईक्षतिकर्मेति सूत्रे- ईक्षणध्यानयोरेकः कार्यकारणभूतयोः। अर्थ औत्सर्गिकं तत्त्वविषयत्वं तथेक्षतेः।। इति भामत्यां परात्परं पुरिशयं पुरुषमीक्षत इति ईक्षणकर्मणः परब्रह्मण एव ‘परं पुरुषमभिध्यायीतेति ध्यातव्यत्वोक्त्या तद्विरोधाच्च। ननु ऐक्याद्युपासनं परोक्षप्रमाप्रवाहरूपं न तु ‘वाचं धेनुमुपासीते’त्यादाविव ज्ञानविजातीयं वृत्त्यन्तरं बुद्धिपूर्वकारोपो वेति चेत्, समं प्रकृतेऽपि। न चैक्यादिकं ध्येयं ज्ञेयं च सार्वज्ञ्यादिकं तु ध्येयमेवेति युक्तम्, तत्र ‘तत्त्वमसी’त्यादेरिवेहाप्यविधिरूपस्य वस्तुतत्त्वनिष्ठस्य ‘यः सर्वज्ञ’ इत्यादेः सत्त्वेन विशेषहेत्वाभावात्। ब्रह्मणो जगत्कर्तृत्वादिनारोप्योपास्यत्वे नाम्नि ब्रह्मवाक्यानामिव ब्रह्मण्यपि कारणवाक्यानां समन्वयस्यावक्तव्यत्वेन समन्वयाध्यायानारम्भापाताच्च। ‘य आत्मापहतपाप्मे’त्यारभ्य सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्य स विजिज्ञासितव्य इति सत्यकामत्वादीनामपहतपाप्मत्वादिभिः सह जिज्ञास्यत्वश्रवणाच्च। अपहतपाप्मत्वादीनामप्युपास्यत्वे तस्य भूताकाशेऽपि सत्त्वेन दहराकाशस्य ब्रह्मत्वप्रतिपादकदहराधिकरणविरोधः। ‘एष सर्वेश्वर एष भूताधिपतिरित्यादिधर्मानुक्त्वा तेषां ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती’ति मुमुक्षुज्ञेयत्वोक्तेश्च। ‘यः सर्वज्ञः सर्वविद्यस्यैव महिमा भुवी’त्याद्युक्त्वा ‘तद्विज्ञानेन परिपश्यन्ति धीरा’ इत्यपरोक्षप्रमाविषयत्वोक्तेश्च। तुरीयं सर्वदृक्सदे’ति तुरीये सार्वज्ञ्यश्रवणाच्च।

na ca brahmaviṣayaśābdadhījanyasya tadaparokṣadhījanakasya ca brahmadhyānasyābrahmaviṣayatā yuktā, brahmajñānahetūnāṃ śravaṇādīnāmapi tathātvāpātāt| īkṣatikarmeti sūtre- īkṣaṇadhyānayorekaḥ kāryakāraṇabhūtayoḥ| artha autsargikaṃ tattvaviṣayatvaṃ tathekṣateḥ|| iti bhāmatyāṃ parātparaṃ puriśayaṃ puruṣamīkṣata iti īkṣaṇakarmaṇaḥ parabrahmaṇa eva ‘paraṃ puruṣamabhidhyāyīteti dhyātavyatvoktyā tadvirodhācca| nanu aikyādyupāsanaṃ parokṣapramāpravāharūpaṃ na tu ‘vācaṃ dhenumupāsīte’tyādāviva jñānavijātīyaṃ vṛttyantaraṃ buddhipūrvakāropo veti cet, samaṃ prakṛte'pi| na caikyādikaṃ dhyeyaṃ jñeyaṃ ca sārvajñyādikaṃ tu dhyeyameveti yuktam, tatra ‘tattvamasī’tyāderivehāpyavidhirūpasya vastutattvaniṣṭhasya ‘yaḥ sarvajña’ ityādeḥ sattvena viśeṣahetvābhāvāt| brahmaṇo jagatkartṛtvādināropyopāsyatve nāmni brahmavākyānāmiva brahmaṇyapi kāraṇavākyānāṃ samanvayasyāvaktavyatvena samanvayādhyāyānārambhāpātācca| ‘ya ātmāpahatapāpme’tyārabhya satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavya sa vijijñāsitavya iti satyakāmatvādīnāmapahatapāpmatvādibhiḥ saha jijñāsyatvaśravaṇācca| apahatapāpmatvādīnāmapyupāsyatve tasya bhūtākāśe'pi sattvena daharākāśasya brahmatvapratipādakadaharādhikaraṇavirodhaḥ| ‘eṣa sarveśvara eṣa bhūtādhipatirityādidharmānuktvā teṣāṃ ‘tametaṃ vedānuvacanena brāhmaṇā vividiṣantī’ti mumukṣujñeyatvokteśca| ‘yaḥ sarvajñaḥ sarvavidyasyaiva mahimā bhuvī’tyādyuktvā ‘tadvijñānena paripaśyanti dhīrā’ ityaparokṣapramāviṣayatvokteśca| turīyaṃ sarvadṛksade’ti turīye sārvajñyaśravaṇācca|

Report an error

‘सत्यः सोऽस्य महिमे’त्यादौ साक्षात्सत्यत्वश्रुतेश्च। अत्र होममात्रानुवादेन आहवनीयस्येव स इति श्रुत्युक्तमहिममात्रानुवादेन सत्यत्वस्य विधानात्। ‘सत्यः सोऽस्य महिमे’त्यादेरैन्द्रसूक्तस्थत्वेऽपि ‘तत्त्वायामि’ ‘सुवीर्य तद्ब्रह्म पूर्वचित्तय’ इति ब्रह्मश्रुत्या ‘इन्द्रः सूर्यमरोचयद्’ इन्द्र ह विश्वा भुवनानि येमिरत्यादि सूर्यप्रकाशकत्वादि लिङ्गैश्च ज्योतिरधिकरणन्यायेन सूक्तस्य परमेश्वर परत्वात्। इयं श्रुतिर्व्यावहारिकसत्त्वपरा चेद् ब्रह्मसत्त्वश्रुतिरपि प्रातिभासिकसत्त्वपराऽस्तु। न चात्र मानान्तरप्राप्तिरस्ति। अत्र निर्गुणवाक्यं बाधकं चेत्, तत्राप्यसद्वा इत्यादिवाक्यं बाधकम्। तद् अव्यक्तत्वाद्यभिप्रायं चेत्, इदमपि त्रैगुण्यराहित्याद्यभिप्रायम्। यदि न ब्रह्मभ्रमाधिष्ठानत्वात्सत्, तर्हि तत एव सविशेषम्। न च निर्गुणस्यारोपरूपोपासनाविषयत्वे तज्ज्ञानान्मुक्त्ययोगः। धर्मिज्ञानाधीनसन्देहसापेक्षवेदान्तविचारसाध्यसप्रकारकज्ञानस्यैव मोचकत्वोक्तेः। उपासनान्तराणामिव श्रुतिबलादेव विचित्रफलत्वोपपत्तेश्च। सगुणेऽपि साम्यापत्तेश्च। पृथगात्मान"मित्यादि श्रुतिषु- ये मामशेषदोषोज्झं गुणसर्वस्वबृंहितम्। जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा।। भोक्तारं यज्ञतपसां सर्व भूत महेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति।। इत्यादि स्मृतिषु च सविशेषज्ञानादेव मोक्षोक्तेः तस्य तथोपासना कर्तव्यतापरत्वे सगुणोपासनाविशेषार्थवादत्वेननिर्गुणज्ञानान्मुक्ति श्रुतिरपि तथा स्यात्। एतेन एष नित्यो महिमा ब्राह्मणस्य सत्यः सोऽस्य महिमेत्यादेरपि तथोपासनापरत्वादिकं निरस्तम्।

‘satyaḥ so'sya mahime’tyādau sākṣātsatyatvaśruteśca| atra homamātrānuvādena āhavanīyasyeva sa iti śrutyuktamahimamātrānuvādena satyatvasya vidhānāt| ‘satyaḥ so'sya mahime’tyāderaindrasūktasthatve'pi ‘tattvāyāmi’ ‘suvīrya tadbrahma pūrvacittaya’ iti brahmaśrutyā ‘indraḥ sūryamarocayad’ indra ha viśvā bhuvanāni yemiratyādi sūryaprakāśakatvādi liṅgaiśca jyotiradhikaraṇanyāyena sūktasya parameśvara paratvāt| iyaṃ śrutirvyāvahārikasattvaparā ced brahmasattvaśrutirapi prātibhāsikasattvaparā'stu| na cātra mānāntaraprāptirasti| atra nirguṇavākyaṃ bādhakaṃ cet, tatrāpyasadvā ityādivākyaṃ bādhakam| tad avyaktatvādyabhiprāyaṃ cet, idamapi traiguṇyarāhityādyabhiprāyam| yadi na brahmabhramādhiṣṭhānatvātsat, tarhi tata eva saviśeṣam| na ca nirguṇasyāroparūpopāsanāviṣayatve tajjñānānmuktyayogaḥ| dharmijñānādhīnasandehasāpekṣavedāntavicārasādhyasaprakārakajñānasyaiva mocakatvokteḥ| upāsanāntarāṇāmiva śrutibalādeva vicitraphalatvopapatteśca| saguṇe'pi sāmyāpatteśca| pṛthagātmāna"mityādi śrutiṣu- ye māmaśeṣadoṣojjhaṃ guṇasarvasvabṛṃhitam| jānātyasmai prasanno'haṃ dadyāṃ muktiṃ na cānyathā|| bhoktāraṃ yajñatapasāṃ sarva bhūta maheśvaram| suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati|| ityādi smṛtiṣu ca saviśeṣajñānādeva mokṣokteḥ tasya tathopāsanā kartavyatāparatve saguṇopāsanāviśeṣārthavādatvenanirguṇajñānānmukti śrutirapi tathā syāt| etena eṣa nityo mahimā brāhmaṇasya satyaḥ so'sya mahimetyāderapi tathopāsanāparatvādikaṃ nirastam|

Report an error

श्रूयते च निर्गुणज्ञानस्यापि फलान्तरं ‘स यो ह वैतत्परमं ब्रह्म वेद नास्याब्रह्मवित्कुले भवति य एवं वेदाहं ब्रह्मास्मीति तस्य ह न देवाश्च नाभूत्या ईशत’ इत्यादौ श्रुतिबलान्निर्गुणज्ञानस्य संयोगपृथक्त्वन्यायेन मुक्तिरपि फलं चेत्, सगुणज्ञानस्यापि तथास्तु। न च सगुणज्ञानात् श्रुता मुक्तिरवान्तरा ‘पुण्यपापे विधूये’ति सर्वकर्मनिवृत्युक्तेः। अन्यथा निर्गुणज्ञानात् श्रुताप्यवान्तरैव। परममुक्तिस्तु ‘असन्नेव स भवती’ति श्रुत्युक्ता शून्यतापत्तिरिति स्यात्। एतेन सगुणवाक्यं निष्प्रपञ्चप्रकरणस्थं चेन्निषेधायानुवादकम् उपासनाप्रकरणस्थं चेदुपासनार्थमिति निरस्तम्। गुणविशेषविधिसन्निहितस्य सामान्यनिषेधकस्य निष्प्रपञ्चवाक्यस्य विहितगुणानिषेधकत्वात्। प्राप्त्यभावेन सगुणवाक्यस्याननुवादकत्वाच्च। अन्यथा असद्वा इदमग्र आसीत्’ इदं वा अग्रे नैव किंचनासीदिति सर्वनिषेधप्रकरणस्थं ‘रसो वे स’ इत्यादिकमपि निषेधाय ब्रह्मानुवादकं स्यात्। उपासनाप्रकरणस्थत्वमात्रेण चोपास्यत्वे उद्गीथोपासनाप्रकरणस्थस्य स एषोऽनन्त’ इति श्रुतानन्तत्वादेरपि भूताकाशे उपासनामात्रमिति सुवचत्वेनाकाशाद्यधिकरणेषु अनन्तत्वादि लिङ्गैर्ब्रह्मत्वोक्त्ययोगाच्च। अनुपास्तिप्रकरणेऽपि सत्यकामत्वादेः श्रवणाच्च। यदि च ‘वेधाद्यर्थभेदादि’तिसूत्रेत्वद्भाष्योक्तरीत्या यथा सर्वं प्रविध्येत्यादि मन्त्राणामुपासनाप्रकरणादुत्कर्षः, तथानन्तादिवाक्यस्यापि। यदि वाऽनन्तादिवाक्यस्योपास्यत्वे वस्तुत्वे च तात्पर्यम्, तर्हि सगुणवाक्यस्यापि तथास्तु। तस्मान्नासदुपासनार्था गुणोक्तिः। अन्यथा सार्वज्ञ्यादिकं वाग्धेनुत्वादिवत् प्रातीतिकमेव स्यात्।

śrūyate ca nirguṇajñānasyāpi phalāntaraṃ ‘sa yo ha vaitatparamaṃ brahma veda nāsyābrahmavitkule bhavati ya evaṃ vedāhaṃ brahmāsmīti tasya ha na devāśca nābhūtyā īśata’ ityādau śrutibalānnirguṇajñānasya saṃyogapṛthaktvanyāyena muktirapi phalaṃ cet, saguṇajñānasyāpi tathāstu| na ca saguṇajñānāt śrutā muktiravāntarā ‘puṇyapāpe vidhūye’ti sarvakarmanivṛtyukteḥ| anyathā nirguṇajñānāt śrutāpyavāntaraiva| paramamuktistu ‘asanneva sa bhavatī’ti śrutyuktā śūnyatāpattiriti syāt| etena saguṇavākyaṃ niṣprapañcaprakaraṇasthaṃ cenniṣedhāyānuvādakam upāsanāprakaraṇasthaṃ cedupāsanārthamiti nirastam| guṇaviśeṣavidhisannihitasya sāmānyaniṣedhakasya niṣprapañcavākyasya vihitaguṇāniṣedhakatvāt| prāptyabhāvena saguṇavākyasyānanuvādakatvācca| anyathā asadvā idamagra āsīt’ idaṃ vā agre naiva kiṃcanāsīditi sarvaniṣedhaprakaraṇasthaṃ ‘raso ve sa’ ityādikamapi niṣedhāya brahmānuvādakaṃ syāt| upāsanāprakaraṇasthatvamātreṇa copāsyatve udgīthopāsanāprakaraṇasthasya sa eṣo'nanta’ iti śrutānantatvāderapi bhūtākāśe upāsanāmātramiti suvacatvenākāśādyadhikaraṇeṣu anantatvādi liṅgairbrahmatvoktyayogācca| anupāstiprakaraṇe'pi satyakāmatvādeḥ śravaṇācca| yadi ca ‘vedhādyarthabhedādi’tisūtretvadbhāṣyoktarītyā yathā sarvaṃ pravidhyetyādi mantrāṇāmupāsanāprakaraṇādutkarṣaḥ, tathānantādivākyasyāpi| yadi vā'nantādivākyasyopāsyatve vastutve ca tātparyam, tarhi saguṇavākyasyāpi tathāstu| tasmānnāsadupāsanārthā guṇoktiḥ| anyathā sārvajñyādikaṃ vāgdhenutvādivat prātītikameva syāt|

Report an error

किं च न क्वाप्यसदुपासना- नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः। न च रमन्त्यहो असदुपासनयात्महनः।। इत्यादिस्मृतिभिः ‘अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम्’ इति सांकर्षणसूत्रेम च तन्निषेधात्। ‘वाचं धेनु’मित्यत्रापि धेनुमिवायतीमिति श्रुत्यन्तराद्धेनुशब्दो गौणः। ‘योषितमग्निं ध्यायीते’त्यत्रापि रेतो जुह्वतीति श्रुतेर्योषितो रेतोरूपाहुत्याधारत्वादग्निशब्दो गौणः। छान्दोग्यभाष्यरीत्या यौगिको वा, न त्वारोपः। ‘नाम ब्रह्मेत्युपासीते’त्यत्रापि नामाभिमानिनी चोषास्तस्यां ब्रह्म हरिं स्मरेदि’त्यादि स्मृतेः ब्रह्माधिष्ठाने नामादौ ब्रह्मशब्दः। नामेति प्रथमा वा ‘वनं वसति मारुत’ इत्यादिवत्सप्तम्यर्थे, ब्रह्मेति प्रथणा वा ब्राह्मणोऽस्य मुखमितिवत् पञ्चम्यर्थे, सुपां सुलुगित्यादिसूत्राद्, अन्यथा ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदि’ति पृष्टवन्तं नारदं प्रति अनात्मोपास्त्युक्तिरयुक्ता स्यात्। प्रतिमायामपि देवताधिष्ठानत्वबुद्धित एव फलं न तु देवतात्वबुद्धितः। ‘शिला देव इति ज्ञानं भौम इज्यधीरित्यादिना तन्निषेधात्। यथा च ‘अन्यदेव तद्विदितादि’ति श्रुतावश्रौतज्ञानस्याकार्त्स्न्येन ज्ञानस्य वा निषेधः। तथा ‘तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासत’ इति श्रुतावपि अश्रौतध्यानस्याकार्स्न्येन ध्यानस्य वा निषेधः। अन्यथा तस्याभिध्यानादिति श्रुतिविरोधात्। तस्मात्साधकाभावादित्याद्यो न युक्तः। नापि बाधकसद्भावादिति द्वितीयः। सामान्यतो मिथ्यात्वश्रुतिभङ्गे अखण्डार्थत्वभङ्गे चोक्तन्यायेनाद्वैतश्रुत्यादीनामबाधकत्वात्। नापि निर्गुणवाक्यं बाधकम्। वैपरीत्यस्यापि सुवचत्वात्।

kiṃ ca na kvāpyasadupāsanā- nāvidyamānaṃ bruvate vedā dhyātuṃ na vaidikāḥ| na ca ramantyaho asadupāsanayātmahanaḥ|| ityādismṛtibhiḥ ‘acetanāsatyāyogyānyanupāsyānyaphalatvaviparyayābhyām’ iti sāṃkarṣaṇasūtrema ca tanniṣedhāt| ‘vācaṃ dhenu’mityatrāpi dhenumivāyatīmiti śrutyantarāddhenuśabdo gauṇaḥ| ‘yoṣitamagniṃ dhyāyīte’tyatrāpi reto juhvatīti śruteryoṣito retorūpāhutyādhāratvādagniśabdo gauṇaḥ| chāndogyabhāṣyarītyā yaugiko vā, na tvāropaḥ| ‘nāma brahmetyupāsīte’tyatrāpi nāmābhimāninī coṣāstasyāṃ brahma hariṃ smaredi’tyādi smṛteḥ brahmādhiṣṭhāne nāmādau brahmaśabdaḥ| nāmeti prathamā vā ‘vanaṃ vasati māruta’ ityādivatsaptamyarthe, brahmeti prathaṇā vā brāhmaṇo'sya mukhamitivat pañcamyarthe, supāṃ sulugityādisūtrād, anyathā ‘śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmavidi’ti pṛṣṭavantaṃ nāradaṃ prati anātmopāstyuktirayuktā syāt| pratimāyāmapi devatādhiṣṭhānatvabuddhita eva phalaṃ na tu devatātvabuddhitaḥ| ‘śilā deva iti jñānaṃ bhauma ijyadhīrityādinā tanniṣedhāt| yathā ca ‘anyadeva tadviditādi’ti śrutāvaśrautajñānasyākārtsnyena jñānasya vā niṣedhaḥ| tathā ‘tadeva brahmatvaṃ viddhi nedaṃ yadidamupāsata’ iti śrutāvapi aśrautadhyānasyākārsnyena dhyānasya vā niṣedhaḥ| anyathā tasyābhidhyānāditi śrutivirodhāt| tasmātsādhakābhāvādityādyo na yuktaḥ| nāpi bādhakasadbhāvāditi dvitīyaḥ| sāmānyato mithyātvaśrutibhaṅge akhaṇḍārthatvabhaṅge coktanyāyenādvaitaśrutyādīnāmabādhakatvāt| nāpi nirguṇavākyaṃ bādhakam| vaiparītyasyāpi suvacatvāt|

Report an error

न च निषेधत्वादिना तत्प्रबलम्, असद्वा इत्यादिवाक्यस्य सदेवेत्यादिवाक्यात्प्राबल्यापत्तेरित्युक्तत्वाद्, अपच्छेदन्यायस्य च निरासात्। न च निर्गुणत्वं पुरुषार्थः येन तद्वाक्यं तत्परं स्यात्। किं तु गुणितैव। न च निर्गुणज्ञानस्य मोचकत्वात्फलवत्सन्निधाविति न्यायेन सगुणवाक्यं तदनुगुणं नेयमिति युक्तम्। सगुणज्ञानस्यैव मोचकत्वोक्तेः। तस्मात् सगुणत्वनिर्गुणत्वयोर्विरोधेन समुच्चयागोगाद्, अनुष्ठान इव च वस्तुनि विकल्पासम्भवाद्, एकेनान्यस्य प्रतीतार्थत्यागरूपे बाधे वक्तव्ये निर्गुणवाक्यस्यैव स युक्तः, न तु प्रबलस्य सगुणवाक्यस्य। तस्य प्राबल्यं च उपक्रमाधिकरणन्यायेनाऽनुसंजातविरोधित्वाद्, लिङ्गात् श्रुतेरिव शीघ्रगामित्वाच्च। निर्गुणश्रुतिर्हि प्रतियोगिप्रतीत्यपेक्षया विलम्बते। पदे जुहोतीति वद्विशेषविषयत्वाच्च। सार्वज्ञ्यश्रुतिर्हि विशिष्य सार्वज्ञ्यादिपरा निर्गुणश्रुतिस्तु सामान्येन गुणनिषेधिका। दीक्षणीयायामनुब्रूयादितिवत्, निरवकाशत्वाच्च। निर्गुणश्रुतिर्हिदेवात्मशक्तिं स्वगुणैर्निगूढां’ ‘दैवी ह्येषा गुणमयीत्यादि श्रुतिस्मृतिष्विव सत्तादिगुणे सावकाशा। बहुत्वाच्च। निर्गुणशब्देतरे सर्वेऽपि हि शब्दाः स्वनिमित्तगुणार्थकाः। धर्मिग्राहकत्वेनोपजीव्यत्वाच्च। प्रवृत्तिनिमित्तापेक्षैर्हि ब्रह्मादिशब्दैर्धर्मिणं निर्दिश्य तत्र धर्मा निषेध्याः। न चोद्देश्यविशेषणत्वाद् ग्रहैकत्ववत् निमित्तमविवक्षितम्। ग्रहैकत्वनये उद्देश्यस्वरूपे लब्धेऽपि यदधिकं तस्यैवाविवक्षेति स्थितिः। अन्यथा ग्रहत्वस्याप्यविवक्षा स्यात्। अत एवोक्तं हविरार्तिनये ‘मृष्यामहे हविषा विशेषणम्’-इति।

na ca niṣedhatvādinā tatprabalam, asadvā ityādivākyasya sadevetyādivākyātprābalyāpatterityuktatvād, apacchedanyāyasya ca nirāsāt| na ca nirguṇatvaṃ puruṣārthaḥ yena tadvākyaṃ tatparaṃ syāt| kiṃ tu guṇitaiva| na ca nirguṇajñānasya mocakatvātphalavatsannidhāviti nyāyena saguṇavākyaṃ tadanuguṇaṃ neyamiti yuktam| saguṇajñānasyaiva mocakatvokteḥ| tasmāt saguṇatvanirguṇatvayorvirodhena samuccayāgogād, anuṣṭhāna iva ca vastuni vikalpāsambhavād, ekenānyasya pratītārthatyāgarūpe bādhe vaktavye nirguṇavākyasyaiva sa yuktaḥ, na tu prabalasya saguṇavākyasya| tasya prābalyaṃ ca upakramādhikaraṇanyāyenā'nusaṃjātavirodhitvād, liṅgāt śruteriva śīghragāmitvācca| nirguṇaśrutirhi pratiyogipratītyapekṣayā vilambate| pade juhotīti vadviśeṣaviṣayatvācca| sārvajñyaśrutirhi viśiṣya sārvajñyādiparā nirguṇaśrutistu sāmānyena guṇaniṣedhikā| dīkṣaṇīyāyāmanubrūyāditivat, niravakāśatvācca| nirguṇaśrutirhidevātmaśaktiṃ svaguṇairnigūḍhāṃ’ ‘daivī hyeṣā guṇamayītyādi śrutismṛtiṣviva sattādiguṇe sāvakāśā| bahutvācca| nirguṇaśabdetare sarve'pi hi śabdāḥ svanimittaguṇārthakāḥ| dharmigrāhakatvenopajīvyatvācca| pravṛttinimittāpekṣairhi brahmādiśabdairdharmiṇaṃ nirdiśya tatra dharmā niṣedhyāḥ| na coddeśyaviśeṣaṇatvād grahaikatvavat nimittamavivakṣitam| grahaikatvanaye uddeśyasvarūpe labdhe'pi yadadhikaṃ tasyaivāvivakṣeti sthitiḥ| anyathā grahatvasyāpyavivakṣā syāt| ata evoktaṃ havirārtinaye ‘mṛṣyāmahe haviṣā viśeṣaṇam’-iti|

Report an error

लक्षकेणापि हि शब्देन इरव्यावृत्तमसङ्कीर्णमेव स्वरूपमुद्देष्टव्यम्। अन्यथा यत्र क्वचन धर्मनिषेधः स्यात्।

lakṣakeṇāpi hi śabdena iravyāvṛttamasaṅkīrṇameva svarūpamuddeṣṭavyam| anyathā yatra kvacana dharmaniṣedhaḥ syāt|

Report an error

किं च निर्गुणवाक्यस्य छागपशुन्यायेन ‘त्रैगुण्यवर्जितं विना हेयैर्गुणादिभिरित्यादि विशेषोपसंहारोऽस्तु। न चैवं ‘न हिंस्यादि’त्यस्यापि ‘ब्राह्मणो न हन्तव्य’ इत्यत्रोपसंहारात् व्यर्थहिंसा न निषिध्येतेति वाच्यं, सार्वज्ञ्यादिगुणेष्विव व्यर्थहिंसायां विध्यभावात्। एतेन ‘त्रैगुण्यवर्जित’मित्यादेरेव काकेभ्यो दधिरक्ष्यतामित्यादिवत् सामान्यपरतास्त्विति निरस्तम्। अत्र सार्वज्ञ्यादिश्रुतिभिरिव तत्र मानान्तरेण विरोधाभावात्, प्रत्युत तदानुगुण्यात्। किं च एवं धर्मान् पृथक् पश्यन्नि’ति श्रुतौ ‘सविशेषणे ही’ति न्यायेन गुणानां पार्थक्यस्यैव निषेधात्। तत्सामान्यादन्यत्रापि तथैव निषेधो युक्तः। पार्थक्याभावेऽपि च विशेषबलादेव ज्ञानानन्दयोरिवैकतरपरिशेषाभावो युक्तः। अन्यथानन्दस्फुरणाभावान्मुक्तिरपुमर्थः स्यात्। अपि च ‘साक्षी चेता केवलो निर्गुण’ इति वाक्यात्पूर्वत्रोत्तरत्र च गुणोक्तेस्तन्मध्यस्थं निर्गुणवाक्यम् उपांशुयाजन्यायेन तदनुगुणं नेयम्। किं च निर्गुणशब्देन गुणमात्रनिषेधोऽयुक्तः साक्षी चेतेत्यादिभिर्द्रष्टृत्वादि विधानेन व्याघातादिति संकोचोऽस्तु। साक्षित्वादेरतात्त्विकत्वादविरोध इति तु निरस्तम्। उक्तं च- युक्तोऽयुक्तश्च यत्रार्थ आगमस्य प्रतीयते। स्यात्तत्र युक्त एवार्थो न वाक्यायुक्तिरिष्यत।। एवं च- उपक्रमादिन्यायेन श्रुतिलिंगनयात् तथा। विशेषसामान्यनयान्न्यायान्निरवकाशतः। बाहुल्यन्यायतश्चोपजीव्यत्वन्यायतस्तथा। पशुच्छागनयाच्चैव सविशेषनयात् तथा।। उपांशुयाजन्यायेन युक्तायुक्तनयात् तथा। आदृतत्वात्सूत्रकृता प्रबला सगुणश्रुतिः।।

kiṃ ca nirguṇavākyasya chāgapaśunyāyena ‘traiguṇyavarjitaṃ vinā heyairguṇādibhirityādi viśeṣopasaṃhāro'stu| na caivaṃ ‘na hiṃsyādi’tyasyāpi ‘brāhmaṇo na hantavya’ ityatropasaṃhārāt vyarthahiṃsā na niṣidhyeteti vācyaṃ, sārvajñyādiguṇeṣviva vyarthahiṃsāyāṃ vidhyabhāvāt| etena ‘traiguṇyavarjita’mityādereva kākebhyo dadhirakṣyatāmityādivat sāmānyaparatāstviti nirastam| atra sārvajñyādiśrutibhiriva tatra mānāntareṇa virodhābhāvāt, pratyuta tadānuguṇyāt| kiṃ ca evaṃ dharmān pṛthak paśyanni’ti śrutau ‘saviśeṣaṇe hī’ti nyāyena guṇānāṃ pārthakyasyaiva niṣedhāt| tatsāmānyādanyatrāpi tathaiva niṣedho yuktaḥ| pārthakyābhāve'pi ca viśeṣabalādeva jñānānandayorivaikatarapariśeṣābhāvo yuktaḥ| anyathānandasphuraṇābhāvānmuktirapumarthaḥ syāt| api ca ‘sākṣī cetā kevalo nirguṇa’ iti vākyātpūrvatrottaratra ca guṇoktestanmadhyasthaṃ nirguṇavākyam upāṃśuyājanyāyena tadanuguṇaṃ neyam| kiṃ ca nirguṇaśabdena guṇamātraniṣedho'yuktaḥ sākṣī cetetyādibhirdraṣṭṛtvādi vidhānena vyāghātāditi saṃkoco'stu| sākṣitvāderatāttvikatvādavirodha iti tu nirastam| uktaṃ ca- yukto'yuktaśca yatrārtha āgamasya pratīyate| syāttatra yukta evārtho na vākyāyuktiriṣyata|| evaṃ ca- upakramādinyāyena śrutiliṃganayāt tathā| viśeṣasāmānyanayānnyāyānniravakāśataḥ| bāhulyanyāyataścopajīvyatvanyāyatastathā| paśucchāganayāccaiva saviśeṣanayāt tathā|| upāṃśuyājanyāyena yuktāyuktanayāt tathā| ādṛtatvātsūtrakṛtā prabalā saguṇaśrutiḥ||

Report an error

तस्मादहिंसावाक्यमग्नीषोमीयेतरहिंसाया इव निर्गुणवाक्यं श्रौतसार्वज्ञ्यादीतरतर्का भासप्राप्तहेयसुखादिगुणानां निषेधकमिति न तद्वाधकम्। एवं च। हिंसाऽहिंसावाक्यसाम्याद्गुणिनिर्गुणवाक्ययोः। अविरोधेऽप्यमानत्वं ब्रूषे सौगतसौहृदात्।। नाप्यनुभूतिर्निर्विशेषा अनुभूतित्वादिति व्यतिरेक्यनुमानं बाधकम्, अप्रसिद्धविशेषणत्वस्वव्याघात श्रुतिबाधाभाससाम्याप्रयोजकत्व प्रतिकूलतर्कपराहत्यादिदोषात्। नापि भिन्नत्वेऽभिन्नत्वे च धर्मत्वानुपपत्तिः। एवमसम्बद्धत्वे धर्मत्वायोगः सम्बद्धत्वे सम्बन्धस्यापि सम्बन्धान्तरमित्यनवस्थेति न ब्रह्म धर्मवदित्यादिकुतर्का बाधकाः, धर्माभावरूपधर्मभावाभावाभ्यां व्याघाताद्। अभेदेऽपि ज्ञानानन्दयोरेकतरपरिशेषाभाववद्विशेषबलादेव धर्मधर्मिभावोपपत्तेश्च। सम्बन्धस्यापि मिथ्यात्वादिवत्स्वनिर्वाहकत्वाच्च। अन्यथानन्दस्य ज्ञानमात्रत्वे दुःखज्ञानमप्यानन्दः स्यात्। भिन्नत्वेऽखण्डार्थत्वहानिः। एवं ब्रह्म जगदभिन्नं चेन्मिथ्या स्याद्, भिन्नं चेद् भेदस्य सत्यत्वमित्यादितर्कबाधात् त्वदभिप्रेतं ब्रह्मापि न सिध्येत्। श्रुतिबाधात्तर्काणामाभासत्वं त्विहापि समम्। एवं च- शुष्कतर्कैः श्रौतगुणबाधे ब्रह्मापि बाधितम्। भवेच्छुत्या शुष्कतर्कधिक्कारस्तु द्वयोः समः।। किं च निर्विशेषत्वरूपविशेषभावाभावाभ्यां मूकोऽहमितिवत् स्वव्याघातः। यदि निर्विशेषत्वरूपविशेषोऽप्यनेनैव निषिध्यते, तर्हीयमपि वचनक्रिया मूक इत्यनेनैव निषिध्यत इति समम्। तदुक्तम्-निर्विशेषत्वमेतेन मूकोऽहमितिवद् भवेदिति। किं च ब्रह्मणः शून्यादनिर्वाच्याच्च तत्त्वतो विशेषाभावे तत्त्वतस्तदेव स्यात्। भावे तु सविशेषत्वम्।

tasmādahiṃsāvākyamagnīṣomīyetarahiṃsāyā iva nirguṇavākyaṃ śrautasārvajñyādītaratarkā bhāsaprāptaheyasukhādiguṇānāṃ niṣedhakamiti na tadvādhakam| evaṃ ca| hiṃsā'hiṃsāvākyasāmyādguṇinirguṇavākyayoḥ| avirodhe'pyamānatvaṃ brūṣe saugatasauhṛdāt|| nāpyanubhūtirnirviśeṣā anubhūtitvāditi vyatirekyanumānaṃ bādhakam, aprasiddhaviśeṣaṇatvasvavyāghāta śrutibādhābhāsasāmyāprayojakatva pratikūlatarkaparāhatyādidoṣāt| nāpi bhinnatve'bhinnatve ca dharmatvānupapattiḥ| evamasambaddhatve dharmatvāyogaḥ sambaddhatve sambandhasyāpi sambandhāntaramityanavastheti na brahma dharmavadityādikutarkā bādhakāḥ, dharmābhāvarūpadharmabhāvābhāvābhyāṃ vyāghātād| abhede'pi jñānānandayorekatarapariśeṣābhāvavadviśeṣabalādeva dharmadharmibhāvopapatteśca| sambandhasyāpi mithyātvādivatsvanirvāhakatvācca| anyathānandasya jñānamātratve duḥkhajñānamapyānandaḥ syāt| bhinnatve'khaṇḍārthatvahāniḥ| evaṃ brahma jagadabhinnaṃ cenmithyā syād, bhinnaṃ ced bhedasya satyatvamityāditarkabādhāt tvadabhipretaṃ brahmāpi na sidhyet| śrutibādhāttarkāṇāmābhāsatvaṃ tvihāpi samam| evaṃ ca- śuṣkatarkaiḥ śrautaguṇabādhe brahmāpi bādhitam| bhavecchutyā śuṣkatarkadhikkārastu dvayoḥ samaḥ|| kiṃ ca nirviśeṣatvarūpaviśeṣabhāvābhāvābhyāṃ mūko'hamitivat svavyāghātaḥ| yadi nirviśeṣatvarūpaviśeṣo'pyanenaiva niṣidhyate, tarhīyamapi vacanakriyā mūka ityanenaiva niṣidhyata iti samam| taduktam-nirviśeṣatvametena mūko'hamitivad bhavediti| kiṃ ca brahmaṇaḥ śūnyādanirvācyācca tattvato viśeṣābhāve tattvatastadeva syāt| bhāve tu saviśeṣatvam|

Report an error

किं च ब्रह्मणो निर्विशेषत्वे वेदान्तविचारविषयत्वमयुक्तम्। तदुक्तम्- इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम्। इत्थंभावो हि धर्मोऽस्य न चेन्न प्रतियोगिता।। इति। किं च ब्रह्मणि धर्मारोपार्थमेव केचिद्धर्माः सत्याः स्वीकार्याः इदंत्वादिना ज्ञात एव शुक्त्यादौ धर्मान्तरारोपात्। तदुक्तम्- धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने। सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते।। इति। अभावरूपधर्माः सन्तीति चेन्नाभावत्वं तत्र हेतुः, अतिप्रसङ्गात्। किं तु प्रामाणिकत्वं तच्च भावेष्वपि समम्। यदि चाभावो ब्रह्माभिन्नः यदि वा पञ्चमप्रकारो न तु सन्निति सदद्वैताविरोधी, तर्हि भावोऽपि तथास्तु। तस्मात्- ब्रूतेऽसतोऽपि मोहादीन्दोषान्विष्णोर्गुणान् सतः। निह्नुते परमे तत्त्वे द्वेषादेवासुरो जनः।। तस्माद् ब्रह्मसगुणमेवेति। ब्रह्मणो निर्गुणत्वभङ्गः।। 4 ।।

kiṃ ca brahmaṇo nirviśeṣatve vedāntavicāraviṣayatvamayuktam| taduktam- idamitthamiti jñānaṃ jijñāsāyāḥ prayojanam| itthaṃbhāvo hi dharmo'sya na cenna pratiyogitā|| iti| kiṃ ca brahmaṇi dharmāropārthameva keciddharmāḥ satyāḥ svīkāryāḥ idaṃtvādinā jñāta eva śuktyādau dharmāntarāropāt| taduktam- dharmāropo'pi sāmānyadharmādīnāṃ hi darśane| sarvadharmavihīnasya dharmāropaḥ kva dṛśyate|| iti| abhāvarūpadharmāḥ santīti cennābhāvatvaṃ tatra hetuḥ, atiprasaṅgāt| kiṃ tu prāmāṇikatvaṃ tacca bhāveṣvapi samam| yadi cābhāvo brahmābhinnaḥ yadi vā pañcamaprakāro na tu sanniti sadadvaitāvirodhī, tarhi bhāvo'pi tathāstu| tasmāt- brūte'sato'pi mohādīndoṣānviṣṇorguṇān sataḥ| nihnute parame tattve dveṣādevāsuro janaḥ|| tasmād brahmasaguṇameveti| brahmaṇo nirguṇatvabhaṅgaḥ|| 4 ||

Report an error

5. निर्गुणे प्रमाणविचारः

5. nirguṇe pramāṇavicāraḥ

Report an error

निर्गुणे प्रमाणभङ्गः- किं च निर्विशेषे किं प्रमाणम् ? न च तत्स्वतः सिद्धम्, निरस्तत्वाद्, यद् यद्विप्रतिपन्नं तत्सर्वमपि स्वतः सिद्धमिति सुवचत्वाच्च, विप्रतिपत्त्ययोगाच्च, शास्त्र वैयर्थ्याच्च। न चाज्ञाननिवृत्त्यर्थं शास्त्रम्, अज्ञानाविरोधन्याः स्वतः सिद्धेर्घटादावपि सुवचत्वात्। न च तत्र प्रत्यक्षं मानम्, अपसिद्धान्तात्, "नेंद्रियाणि नानुमान"मित्यादिश्रुतेश्च, शास्त्रवैयर्थ्याच्च। अत एव नानुमानं। व्याप्त्या व्यापकतावच्छेदकविशिष्टत्वेन पक्षधर्मतया च पक्षसंसृष्टत्वेन सिद्ध्या तेन निर्विशेषासिद्धेश्च। नापि पदरूपः शब्दस्तत्र मानम्, गुणक्रियाजातिरूपनिमित्ताभावेन मुख्यवृत्तेरयोगात्। अस्वीकाराच्च। वैदिकशब्दस्य डित्थादिवत्सांकेतिकत्वायोगाच्च। आरोपितनिमित्तविशिष्टविषयप्रतीतेश्च निर्विशेषे प्रामाण्यायोगात्। गौण्याश्च मुख्यार्थगुणयुक्ततयैव स्वार्थोपस्थापकत्वात्। लक्षणायाश्च शक्यार्थसम्बन्धितावच्छेदकरूपवत्तयैव स्वार्थोपस्थापकत्वात्। पदस्यान्वयप्रतियोगितावच्छेदकरूपेणैव स्वार्थोपस्थापकतया निर्विशेषे वृत्तिमात्रायोगाच्च। अत एव नोपनिषद्वाक्यरूपः शब्दस्तत्र मानम्, असंसर्गत्वात्। धर्मिज्ञानाधीनविचारजन्यं निर्धारितैककोट्यवलम्बितं सप्रकारकनिश्चयं प्रत्येव तस्य हेतुत्वाच्च। निष्प्रकारकज्ञानं नेत्युक्तत्वाच्च। निर्विशेषविषयकज्ञानस्य निष्प्रकारकत्वे तेन निर्विशेषत्वासिद्धया तत्सिद्ध्यर्थमेव विशेषाभावरूपविशेषविषयकत्वस्यावश्यकत्वाच्च। तस्मात्सगुणमेव ब्रह्मेति। निर्गुणे प्रमाणभङ्गः।। 5 ।।

nirguṇe pramāṇabhaṅgaḥ- kiṃ ca nirviśeṣe kiṃ pramāṇam ? na ca tatsvataḥ siddham, nirastatvād, yad yadvipratipannaṃ tatsarvamapi svataḥ siddhamiti suvacatvācca, vipratipattyayogācca, śāstra vaiyarthyācca| na cājñānanivṛttyarthaṃ śāstram, ajñānāvirodhanyāḥ svataḥ siddherghaṭādāvapi suvacatvāt| na ca tatra pratyakṣaṃ mānam, apasiddhāntāt, "neṃdriyāṇi nānumāna"mityādiśruteśca, śāstravaiyarthyācca| ata eva nānumānaṃ| vyāptyā vyāpakatāvacchedakaviśiṣṭatvena pakṣadharmatayā ca pakṣasaṃsṛṣṭatvena siddhyā tena nirviśeṣāsiddheśca| nāpi padarūpaḥ śabdastatra mānam, guṇakriyājātirūpanimittābhāvena mukhyavṛtterayogāt| asvīkārācca| vaidikaśabdasya ḍitthādivatsāṃketikatvāyogācca| āropitanimittaviśiṣṭaviṣayapratīteśca nirviśeṣe prāmāṇyāyogāt| gauṇyāśca mukhyārthaguṇayuktatayaiva svārthopasthāpakatvāt| lakṣaṇāyāśca śakyārthasambandhitāvacchedakarūpavattayaiva svārthopasthāpakatvāt| padasyānvayapratiyogitāvacchedakarūpeṇaiva svārthopasthāpakatayā nirviśeṣe vṛttimātrāyogācca| ata eva nopaniṣadvākyarūpaḥ śabdastatra mānam, asaṃsargatvāt| dharmijñānādhīnavicārajanyaṃ nirdhāritaikakoṭyavalambitaṃ saprakārakaniścayaṃ pratyeva tasya hetutvācca| niṣprakārakajñānaṃ netyuktatvācca| nirviśeṣaviṣayakajñānasya niṣprakārakatve tena nirviśeṣatvāsiddhayā tatsiddhyarthameva viśeṣābhāvarūpaviśeṣaviṣayakatvasyāvaśyakatvācca| tasmātsaguṇameva brahmeti| nirguṇe pramāṇabhaṅgaḥ|| 5 ||

Report an error

6. ब्रह्मणो निराकारत्वभङ्गः

6. brahmaṇo nirākāratvabhaṅgaḥ

Report an error

एतेन ब्रह्मणो निराकारत्वमपि निरस्तम्। "आदित्यवर्णं तमसः परस्ताद्" "यदा पश्यः पश्यते रुग्मवर्णम्", "ऋतं सत्यं परं ब्रह्म पुरुषं कृंष्णपिंगलम्", "विश्वतश्चक्षुः", "सहस्रशीर्षा पुरुषः", "सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम्। यदेकमव्यक्तमनन्तरूपम्"-इत्यादि श्रुतिभिः। "पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः", नानाविधानि दिव्यानि नानावर्णाकृतीनि च। सर्वतः पाणिपादन्तत् सर्वतोऽक्षिशिरोमुखम्-इत्यादिस्मृतिभिः। तदनुगृहीतैः ‘ब्रह्म सविग्रहं स्रष्टत्वात् पालयतृत्वाद्वेदोपदेष्टृत्वातं’ इत्याद्यनुमानैश्चाकारसिद्धेः। विग्रहं विनापि नित्यज्ञानेनैव कर्तृत्वे ज्ञानेच्छे अपि विना नित्यप्रयत्नेनैव तस्यात्। किं च कुलालादौ न शरीरं ज्ञानाद्युपक्षीणं किं तु ज्ञानादिकमेव शरीरचेष्ठोपक्षीणम्। अत एव विकरणत्वान्नेति चेत्तदुक्तमिति सूत्रे ईश्वरस्य कर्तृत्वार्थं "बुद्धिमान् मनोवान् अङ्गप्रत्यङ्गवानि"ति श्रुत्या सकरणत्वमुक्तम्। किं च "तदेवानुप्राविशत्" "ब्रह्मविदाप्नोति परम्"- इत्यादिश्रुतिसिद्धं सर्वगतस्य ब्रह्मणः प्रवेष्टृत्वं गम्यत्वमित्यादि न विग्रहविशेषं विना युक्तम्। न च श्रुतिरवान्तरब्रह्मपरा वा रूपोपासनापरा वा आरोपितरूपपरा वेति युक्तम्, "आदित्यवर्ण"मित्यत्र प्रकृत्याख्यतमःपरत्वोक्तेः। "य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते"- इत्यत्र च वर्तमानत्वेनापरोक्षज्ञानविषयत्वोक्तेश्च। न हि योषित्यग्नित्वं दृश्यत इत्युच्यते।

etena brahmaṇo nirākāratvamapi nirastam| "ādityavarṇaṃ tamasaḥ parastād" "yadā paśyaḥ paśyate rugmavarṇam", "ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṃṣṇapiṃgalam", "viśvataścakṣuḥ", "sahasraśīrṣā puruṣaḥ", "sahasraśīrṣaṃ devaṃ viśvākṣaṃ viśvaśaṃbhuvam| yadekamavyaktamanantarūpam"-ityādi śrutibhiḥ| "paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ", nānāvidhāni divyāni nānāvarṇākṛtīni ca| sarvataḥ pāṇipādantat sarvato'kṣiśiromukham-ityādismṛtibhiḥ| tadanugṛhītaiḥ ‘brahma savigrahaṃ sraṣṭatvāt pālayatṛtvādvedopadeṣṭṛtvātaṃ’ ityādyanumānaiścākārasiddheḥ| vigrahaṃ vināpi nityajñānenaiva kartṛtve jñānecche api vinā nityaprayatnenaiva tasyāt| kiṃ ca kulālādau na śarīraṃ jñānādyupakṣīṇaṃ kiṃ tu jñānādikameva śarīraceṣṭhopakṣīṇam| ata eva vikaraṇatvānneti cettaduktamiti sūtre īśvarasya kartṛtvārthaṃ "buddhimān manovān aṅgapratyaṅgavāni"ti śrutyā sakaraṇatvamuktam| kiṃ ca "tadevānuprāviśat" "brahmavidāpnoti param"- ityādiśrutisiddhaṃ sarvagatasya brahmaṇaḥ praveṣṭṛtvaṃ gamyatvamityādi na vigrahaviśeṣaṃ vinā yuktam| na ca śrutiravāntarabrahmaparā vā rūpopāsanāparā vā āropitarūpaparā veti yuktam, "ādityavarṇa"mityatra prakṛtyākhyatamaḥparatvokteḥ| "ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate"- ityatra ca vartamānatvenāparokṣajñānaviṣayatvokteśca| na hi yoṣityagnitvaṃ dṛśyata ityucyate|

Report an error

"सहस्रशीर्षा"त्यत्र तमेवं विद्वानमृत इह भवती"ति "यदा पश्य" इत्यत्र च "तदा विद्वान्पुण्यपापे विधूये"ति "न संदृशे तिष्ठति रूपमस्ये"त्यत्र च "य एनं विदुरमृतास्ते भवन्ती"ति तज्ज्ञानस्य मोचकत्वोक्तेश्च। "देवा अप्यस्य रूपस्य नित्यं दर्शनकांक्षिण" इत्युक्तरूपस्य "ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतपे"ति स्मृतौ मुक्तगम्यत्वाद्युक्तेश्च। अत एवेदं रूपं न भौतिकं प्राकृतम् अनित्यं वा। "नाभ्या आसीदन्तरिक्ष"मित्यादौ भूतकारणत्वस्य, तमसः परस्तादिति श्रुतौ "तमसः परत्वस्य, सर्वतः पाणिपादन्त"दिति स्मृतौ च न सत्तन्नासदुच्यत इति पूर्वत्राभौतिकत्वस्य, तमसः परमुच्यत इति परत्राप्राकृतत्वस्य चोक्तेः। एको नारायण आसीन्न ब्रह्मा न च शंकर इत्यादिषु महाप्रलये स्थित्युक्तेश्च। प्रलये विग्रहरहितचेतनमात्रसत्त्वस्य सर्वसाधारण्यात्। विग्रहानित्यत्वे नित्यो नित्यानां चेतनश्चेतनानामिति विशेषोक्त्ययोगात्। पुराकल्पापाये स्वकृतमुदरीकृत्य विकृतमित्यादौ साक्षान् महाप्रलये स्थित्युक्तेश्च। पश्यन्त्युक्तेश्च। पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतमित्यारभ्य एतन्नानावताराणां निधानं बीजमव्ययम् इत्यत्र। सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः। परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वशः।। इत्यादौ च साक्षान्नित्यत्वाद्युक्तेश्च। अत एन न जडं नापि ततो भिन्नम्। आनन्दरूपममृतं यद्विभाति आप्रणखात्सर्व एवानन्दः मोदो दक्षिणः पक्षः यदात्मको भगवांस्तदात्मिका व्यक्तिः। किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मक- इत्यादिश्रुतेः। भेदाभावेऽप्यहिंकुंडलाधिकरणन्यायेन विशेषबलाद्विग्रहवत्त्वोपपत्तेश्च।

"sahasraśīrṣā"tyatra tamevaṃ vidvānamṛta iha bhavatī"ti "yadā paśya" ityatra ca "tadā vidvānpuṇyapāpe vidhūye"ti "na saṃdṛśe tiṣṭhati rūpamasye"tyatra ca "ya enaṃ viduramṛtāste bhavantī"ti tajjñānasya mocakatvokteśca| "devā apyasya rūpasya nityaṃ darśanakāṃkṣiṇa" ityuktarūpasya "jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtape"ti smṛtau muktagamyatvādyukteśca| ata evedaṃ rūpaṃ na bhautikaṃ prākṛtam anityaṃ vā| "nābhyā āsīdantarikṣa"mityādau bhūtakāraṇatvasya, tamasaḥ parastāditi śrutau "tamasaḥ paratvasya, sarvataḥ pāṇipādanta"diti smṛtau ca na sattannāsaducyata iti pūrvatrābhautikatvasya, tamasaḥ paramucyata iti paratrāprākṛtatvasya cokteḥ| eko nārāyaṇa āsīnna brahmā na ca śaṃkara ityādiṣu mahāpralaye sthityukteśca| pralaye vigraharahitacetanamātrasattvasya sarvasādhāraṇyāt| vigrahānityatve nityo nityānāṃ cetanaścetanānāmiti viśeṣoktyayogāt| purākalpāpāye svakṛtamudarīkṛtya vikṛtamityādau sākṣān mahāpralaye sthityukteśca| paśyantyukteśca| paśyantyado rūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutamityārabhya etannānāvatārāṇāṃ nidhānaṃ bījamavyayam ityatra| sarve nityāḥ śāśvatāśca dehāstasya mahātmanaḥ| paramānandasandohā jñānamātrāśca sarvaśaḥ|| ityādau ca sākṣānnityatvādyukteśca| ata ena na jaḍaṃ nāpi tato bhinnam| ānandarūpamamṛtaṃ yadvibhāti āpraṇakhātsarva evānandaḥ modo dakṣiṇaḥ pakṣaḥ yadātmako bhagavāṃstadātmikā vyaktiḥ| kimātmako bhagavān jñānātmaka aiśvaryātmaka- ityādiśruteḥ| bhedābhāve'pyahiṃkuṃḍalādhikaraṇanyāyena viśeṣabalādvigrahavattvopapatteśca|

Report an error

आत्मनि चैवं विचित्राश्च ही"ति सूत्रे विचित्रशक्तिः पुरुषः पुराण" इत्यादि श्रुतिभिर्विचित्रशक्तेरुक्तत्वेन आनन्दस्य नित्यत्ववदपराधीनत्ववच्च विग्राहवत्त्वस्यापि सम्भवाच्च। "नैषा तर्केण मतिरापनेये"त्यादि श्रुतिभिस्तर्कागम्यत्वोक्तेश्च। पिशाचादिवदन्तर्धानशक्त्यानुपलम्भसम्भवाच्च। न चाऽपाणिपाद इत्यादिविरोधः अदुःखमसुखं समं न प्रज्ञान धनमिति सुखज्ञाननिषेधकवाक्यवत् प्राकृतावयवादिनिषेधपरत्वाद्, अन्यथोक्तश्रुतिस्मृतिभिः, पश्यति शृणोतीत्यादिवाक्यशेषेण च विरोधात्। "अरूपोऽप्राकृतत्वाच्चे"त्यादिस्मृत्यैवारूपश्रुतिगत्युक्तेश्च। विग्रहवत्त्वेन दुःखं चेत्, स्रष्टृत्वादिनापि तत्स्यात्। स्वतंत्रत्वादिना समाधिरपि समः। अप्राकृतानन्दमयविग्रहस्य दुःखाभावादिनैव व्याप्तेश्च। सर्वैरपीश्वरे लीलाविग्रहाङ्गीकाराच्च। न च भगवद्विग्रहस्य महत्त्वविशिष्टरूपवत्त्वसावयत्वादिनाऽनित्यत्वं शंक्यम्, उक्तश्रुत्यादिविरोधात्। प्राकृतत्वस्योपाधित्वाच्च निरवयवविशेषस्येव ज्ञानानन्दादिविशेषस्येव च सावयवविशेषस्यापि श्रुत्यादि बलान्नित्यत्वोपपत्तेश्च। किं चावयवशब्देनोपादानोक्तावसिद्धिः, एकदेशोक्तौ गगनात्मादौ व्यभिचारः। न चोपादानातिरिक्त एकदेश एव नास्ति, पटादावुपादानतन्त्वन्यस्य हस्तवितस्त्यादि परिमाणस्यैकदेशस्यानुभवात्। विस्तृतं चैतदन्यत्र। नित्यस्य गगनादेरपि संयोगित्वेनैकदेशसाधनाच्च। अन्यथाकाशे पक्षिसंयोगतदत्यन्ताभावयोः, आलोके त्रसरेणुसंयोगतदत्यन्ताभावयोः, आत्मनि च सुखदुःखयोर्देशभेदेन प्रतीतिर्न स्यात्। एतेनैकदेशाभावेऽपि संयोगादेः स्वात्यन्ताभावसामानाधिकरण्यात्तथाधीरिति निरस्तम्।

ātmani caivaṃ vicitrāśca hī"ti sūtre vicitraśaktiḥ puruṣaḥ purāṇa" ityādi śrutibhirvicitraśakteruktatvena ānandasya nityatvavadaparādhīnatvavacca vigrāhavattvasyāpi sambhavācca| "naiṣā tarkeṇa matirāpaneye"tyādi śrutibhistarkāgamyatvokteśca| piśācādivadantardhānaśaktyānupalambhasambhavācca| na cā'pāṇipāda ityādivirodhaḥ aduḥkhamasukhaṃ samaṃ na prajñāna dhanamiti sukhajñānaniṣedhakavākyavat prākṛtāvayavādiniṣedhaparatvād, anyathoktaśrutismṛtibhiḥ, paśyati śṛṇotītyādivākyaśeṣeṇa ca virodhāt| "arūpo'prākṛtatvācce"tyādismṛtyaivārūpaśrutigatyukteśca| vigrahavattvena duḥkhaṃ cet, sraṣṭṛtvādināpi tatsyāt| svataṃtratvādinā samādhirapi samaḥ| aprākṛtānandamayavigrahasya duḥkhābhāvādinaiva vyāpteśca| sarvairapīśvare līlāvigrahāṅgīkārācca| na ca bhagavadvigrahasya mahattvaviśiṣṭarūpavattvasāvayatvādinā'nityatvaṃ śaṃkyam, uktaśrutyādivirodhāt| prākṛtatvasyopādhitvācca niravayavaviśeṣasyeva jñānānandādiviśeṣasyeva ca sāvayavaviśeṣasyāpi śrutyādi balānnityatvopapatteśca| kiṃ cāvayavaśabdenopādānoktāvasiddhiḥ, ekadeśoktau gaganātmādau vyabhicāraḥ| na copādānātirikta ekadeśa eva nāsti, paṭādāvupādānatantvanyasya hastavitastyādi parimāṇasyaikadeśasyānubhavāt| vistṛtaṃ caitadanyatra| nityasya gaganāderapi saṃyogitvenaikadeśasādhanācca| anyathākāśe pakṣisaṃyogatadatyantābhāvayoḥ, āloke trasareṇusaṃyogatadatyantābhāvayoḥ, ātmani ca sukhaduḥkhayordeśabhedena pratītirna syāt| etenaikadeśābhāve'pi saṃyogādeḥ svātyantābhāvasāmānādhikaraṇyāttathādhīriti nirastam|

Report an error

यत्र देशे संयोगस्तत्रैव तदभावप्रतीत्यापत्तेः। "गौरनाद्यन्तवती"त्यादि श्रुत्या अनादिनित्याया अपि प्रकृतेः सत्त्वरजस्तमोरूपैकदेशदर्शनाच्च। त्वन्मतेऽप्यनाद्यविद्याया उपादानत्वाय अनणुत्वे सति परिच्छिन्नत्वाय त्रिगुणत्वाय जीवन्मुक्तौ लेशानुवृत्त्यर्थं चैकदेशस्य वक्तव्यत्वाच्च। जीवानामपि ‘द्रोणं बृहस्पतेर्भागं द्रौणिं रुद्रांशसम्भवम्। दुर्वासाः शंकरस्यांश’ इत्यादिनांशोक्तेश्च। यस्यायुतायुतांशेऽपि विश्वशक्तिरवस्थिता। परब्रह्मस्वरूपस्य प्रणमापि तमव्ययम्।। विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदित्यादावीश्वरस्याप्यंशोक्तेश्च। न चायमौपाधिकोंऽशः। न चेदुपाधीतिन्यायेन स्वाभाविकांशाभावे तदयोगात्। एतेन सावयवत्वादिना भगवल्लोकादेरनित्यत्वसाधनमप्यपास्तम्। अतो हि वैष्णवा लोका नित्यास्ते चेतनात्मकाः। मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।। इत्याद्यागमविरोधात्। तस्मात्सगुणं साकारं च ब्रह्मेति। ब्रह्मणो निराकारत्वभङ्गः।। 6 ।।

yatra deśe saṃyogastatraiva tadabhāvapratītyāpatteḥ| "gauranādyantavatī"tyādi śrutyā anādinityāyā api prakṛteḥ sattvarajastamorūpaikadeśadarśanācca| tvanmate'pyanādyavidyāyā upādānatvāya anaṇutve sati paricchinnatvāya triguṇatvāya jīvanmuktau leśānuvṛttyarthaṃ caikadeśasya vaktavyatvācca| jīvānāmapi ‘droṇaṃ bṛhaspaterbhāgaṃ drauṇiṃ rudrāṃśasambhavam| durvāsāḥ śaṃkarasyāṃśa’ ityādināṃśokteśca| yasyāyutāyutāṃśe'pi viśvaśaktiravasthitā| parabrahmasvarūpasya praṇamāpi tamavyayam|| viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagadityādāvīśvarasyāpyaṃśokteśca| na cāyamaupādhikoṃ'śaḥ| na cedupādhītinyāyena svābhāvikāṃśābhāve tadayogāt| etena sāvayavatvādinā bhagavallokāderanityatvasādhanamapyapāstam| ato hi vaiṣṇavā lokā nityāste cetanātmakāḥ| matprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam|| ityādyāgamavirodhāt| tasmātsaguṇaṃ sākāraṃ ca brahmeti| brahmaṇo nirākāratvabhaṅgaḥ|| 6 ||

Report an error

7. परमते ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वभङ्गः यच्चेदमुच्यते ब्रह्म ज्ञानानन्दात्मकमद्वितीयं नित्यं साक्षिरूपं च, न तु ज्ञानादिगुणकमिति। तत्र परमते ज्ञानत्वं किं जातिविशेषः ? साक्षाद्व्यावहारजनकत्वं वा ? जडविरोधित्वं वा ? जडव्यावृत्तत्वं वा ? अज्ञानविरोधित्वं वा ? अर्थप्रकाशात्मकत्वं वा ? पराङ्गीकृतं वा ? नाद्यः, वृत्तिप्रतिबिम्बितज्ञानाभासेषु तत्संभवेऽप्यखण्डे स्वरूपज्ञाने तदयोगात्। न द्वितीयः, फलोपधानस्य सुषुप्त्यादावभावात्। शक्त्यादिरूपयोग्यताया अपि मुक्तावभावात्। न तृतीयः, स्वरूपज्ञानस्य नित्यत्वेन तद्विरुद्धस्य जडस्य नित्यनिवृत्यापातात्। न चतुर्थः, "सत्यं ज्ञान"मित्यत्र जडव्यावृत्तेरार्थिकत्वोक्त्ययोगात्। किं च जडत्वस्याज्ञातृत्वादिरूपत्वेऽसम्भवः। अज्ञानत्वरूपत्वेत्वन्योन्याश्रयः। न पञ्चमः, अज्ञानस्य नित्यनिवृत्त्यापातात्। द्वितीयादिषु ज्ञानत्वस्य कारणत्वादिवद् व्यवहाराद्यन्यतमोपाधिकत्वेन ब्रह्मणो ज्ञानस्वभावत्वायोगाच्च। न च षष्ठः, मोक्षे अन्यार्थोल्लेखाभावात्, स्वरूपोल्लेखे च स्वविषयत्वापातात्। न सप्तमः, पराङ्गीकृताया जातेर्व्यवहारहेतुत्वादेर्वा त्वन्मतेऽसम्भवात्। एवं च- अर्थप्रकाशरूपत्वं ज्ञानत्वं ब्रह्मणः कथम्। अन्यार्थाभावतो मोक्षे स्वेन स्वस्याप्यवेदनात्।। किं चेदमानन्दत्वं जातिविशेषो वा ? अनुकूलतया वेदनीयत्वं वा अनुकूलवेदनरूपत्वं वा ? अनुकूलत्वमात्रं वा ? विज्ञानात्मकत्वमेव वा ? दुःखविरोधिस्वरूपत्वं वा ? दुःखाभावोपलक्षितस्वरूपत्वं वा ? पराङ्गीकृतं वा ? नाद्यः, अखण्डस्वरूपानन्दे तदयोगात्। न द्वितीयः, मोक्षे वेदितुरभावात्।

7. paramate brahmaṇo jñānatvānandatvādvitīyatvanityatvasākṣitvabhaṅgaḥ yaccedamucyate brahma jñānānandātmakamadvitīyaṃ nityaṃ sākṣirūpaṃ ca, na tu jñānādiguṇakamiti| tatra paramate jñānatvaṃ kiṃ jātiviśeṣaḥ ? sākṣādvyāvahārajanakatvaṃ vā ? jaḍavirodhitvaṃ vā ? jaḍavyāvṛttatvaṃ vā ? ajñānavirodhitvaṃ vā ? arthaprakāśātmakatvaṃ vā ? parāṅgīkṛtaṃ vā ? nādyaḥ, vṛttipratibimbitajñānābhāseṣu tatsaṃbhave'pyakhaṇḍe svarūpajñāne tadayogāt| na dvitīyaḥ, phalopadhānasya suṣuptyādāvabhāvāt| śaktyādirūpayogyatāyā api muktāvabhāvāt| na tṛtīyaḥ, svarūpajñānasya nityatvena tadviruddhasya jaḍasya nityanivṛtyāpātāt| na caturthaḥ, "satyaṃ jñāna"mityatra jaḍavyāvṛtterārthikatvoktyayogāt| kiṃ ca jaḍatvasyājñātṛtvādirūpatve'sambhavaḥ| ajñānatvarūpatvetvanyonyāśrayaḥ| na pañcamaḥ, ajñānasya nityanivṛttyāpātāt| dvitīyādiṣu jñānatvasya kāraṇatvādivad vyavahārādyanyatamopādhikatvena brahmaṇo jñānasvabhāvatvāyogācca| na ca ṣaṣṭhaḥ, mokṣe anyārthollekhābhāvāt, svarūpollekhe ca svaviṣayatvāpātāt| na saptamaḥ, parāṅgīkṛtāyā jātervyavahārahetutvādervā tvanmate'sambhavāt| evaṃ ca- arthaprakāśarūpatvaṃ jñānatvaṃ brahmaṇaḥ katham| anyārthābhāvato mokṣe svena svasyāpyavedanāt|| kiṃ cedamānandatvaṃ jātiviśeṣo vā ? anukūlatayā vedanīyatvaṃ vā anukūlavedanarūpatvaṃ vā ? anukūlatvamātraṃ vā ? vijñānātmakatvameva vā ? duḥkhavirodhisvarūpatvaṃ vā ? duḥkhābhāvopalakṣitasvarūpatvaṃ vā ? parāṅgīkṛtaṃ vā ? nādyaḥ, akhaṇḍasvarūpānande tadayogāt| na dvitīyaḥ, mokṣe vediturabhāvāt|

Report an error

आत्मनोऽवेद्यत्वाच्च। किं चानुकूल्यं किंचित्सापेक्षं न चान्यं प्रति तद्युक्तमिति स्वं प्रत्येव वक्तव्यत्वेन सविशेषत्वापातः। अत एव न तृतीयः, अपि च वेदनस्वभावादधिकस्यानुकूल्यस्यस्वाभाविकत्वे सखण्डार्थत्वापातः। औपाधिकत्वे कदाचिदानन्दनिवृत्त्यापातः। न चतुर्थः, उक्तरीत्यानुकूल्यासम्भवात्। एतेन निरुपाधिकेष्टत्वमानन्दत्वमिति निरस्तम्। न पञ्चमः, दुःखादिज्ञानस्याप्यानन्दत्वापातात्। विषयानुल्लेखिज्ञानं तथेति चेन्न, विरोधात्। ‘विज्ञानमानन्दं ब्रह्मे’त्यादौ विज्ञानपदेनैव दुःखव्यावृत्तिसिद्धावानन्दपदवैयर्थ्याच्च। न षष्ठः, विरोधस्य निवर्तकत्वादिरूपत्वे दुःखस्य नित्यनिवृत्त्यापत्तेः। तादात्म्यायोग्यत्वरूपत्वे घटादेरप्यानन्दत्वापातात्। ‘विज्ञानमानन्दं ब्रह्मे’त्यादौ दुःखव्यावृत्तेरार्थिकत्वोक्त्ययोगाच्च। न सप्तमः, वैशेषिक मोक्षवत् त्वदुक्तस्य दुःखस्याभावे सत्यपि आनन्दाभावेनापुमर्थत्वस्य त्वन्मोक्षेऽप्यापातात्। नाष्टमः, पराङ्गीकृतस्य निरुपाध्यनुकूलतया वेदनीयत्वादेस्त्वन्मतेऽसम्भवात्। यदि चानन्दत्वादेर्दुर्निरूपत्वेऽपि तदधिककरणं ब्रह्माबाध्यमानन्दाद्यात्मकं च, तर्हि सत्यत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं जगदप्यबाध्यं सदात्मकं च स्यात्। एवं च- निरुपाध्यनुकूलत्ववेदनीयं सुखं मतम्। निर्विशेषमवेद्यं च कथं ब्रह्मासुखात्मकम्।। किं चेदमद्वितीयत्वं द्वितीयाभावविशिष्ठत्वं वा ? तदुपलक्षितत्वं वा ? नाद्यः, द्वितीयाभावस्य प्रामाणिकत्वे तेनैव, अप्रामाणिकत्वे द्वितीयेनैव सद्वितीयत्वापातात्। न चाऽभावस्य प्रामाणिकत्वेऽपि प्राभाकरमत इवाऽधिकरणमात्रत्वाददोषः।

ātmano'vedyatvācca| kiṃ cānukūlyaṃ kiṃcitsāpekṣaṃ na cānyaṃ prati tadyuktamiti svaṃ pratyeva vaktavyatvena saviśeṣatvāpātaḥ| ata eva na tṛtīyaḥ, api ca vedanasvabhāvādadhikasyānukūlyasyasvābhāvikatve sakhaṇḍārthatvāpātaḥ| aupādhikatve kadācidānandanivṛttyāpātaḥ| na caturthaḥ, uktarītyānukūlyāsambhavāt| etena nirupādhikeṣṭatvamānandatvamiti nirastam| na pañcamaḥ, duḥkhādijñānasyāpyānandatvāpātāt| viṣayānullekhijñānaṃ tatheti cenna, virodhāt| ‘vijñānamānandaṃ brahme’tyādau vijñānapadenaiva duḥkhavyāvṛttisiddhāvānandapadavaiyarthyācca| na ṣaṣṭhaḥ, virodhasya nivartakatvādirūpatve duḥkhasya nityanivṛttyāpatteḥ| tādātmyāyogyatvarūpatve ghaṭāderapyānandatvāpātāt| ‘vijñānamānandaṃ brahme’tyādau duḥkhavyāvṛtterārthikatvoktyayogācca| na saptamaḥ, vaiśeṣika mokṣavat tvaduktasya duḥkhasyābhāve satyapi ānandābhāvenāpumarthatvasya tvanmokṣe'pyāpātāt| nāṣṭamaḥ, parāṅgīkṛtasya nirupādhyanukūlatayā vedanīyatvādestvanmate'sambhavāt| yadi cānandatvāderdurnirūpatve'pi tadadhikakaraṇaṃ brahmābādhyamānandādyātmakaṃ ca, tarhi satyatvāderdurnirūpatve'pi tadadhikaraṇaṃ jagadapyabādhyaṃ sadātmakaṃ ca syāt| evaṃ ca- nirupādhyanukūlatvavedanīyaṃ sukhaṃ matam| nirviśeṣamavedyaṃ ca kathaṃ brahmāsukhātmakam|| kiṃ cedamadvitīyatvaṃ dvitīyābhāvaviśiṣṭhatvaṃ vā ? tadupalakṣitatvaṃ vā ? nādyaḥ, dvitīyābhāvasya prāmāṇikatve tenaiva, aprāmāṇikatve dvitīyenaiva sadvitīyatvāpātāt| na cā'bhāvasya prāmāṇikatve'pi prābhākaramata ivā'dhikaraṇamātratvādadoṣaḥ|

Report an error

"अनुपलब्धिगम्योऽभाव" इत्यादित्वन्मतभङ्गात्। अनृतव्यावृत्तेरपि ब्रह्ममात्रत्वेन भेदसत्यत्वापाताच्च। प्राभाकरमतेऽपि प्रतियोगिमदधिकरणव्यावृत्त्यर्थं कैवल्यादिविशेषितस्यैवाधिकरणस्याभावत्वाच्च। न चेत्तन्मतेऽप्यनुपपत्तिरेव। अन्यथा गुणगुण्यभेदमते शौक्ल्यादेरिव शक्त्यादिभावधर्माणामपि ब्रह्ममात्रत्वं स्यात्। न च भावरूपद्वितीयाभावविशिष्टत्वमद्वितीयत्वं। तथा चाभावस्य द्वितीयस्य प्रामाणिकत्वेऽप्यदोष इति वाच्यम्, दृश्यस्याप्यभावस्येव श्रुत्यादिसिद्धस्य धर्माधर्मादिरूपभावस्यापि मिथ्यात्वायोगादित्युक्तत्वात्। अत एव नान्त्यः, उपलक्षणस्याप्यभावस्याप्रामाणिकत्वे तत्प्रतियोगिनो द्वितीयस्य प्रामाणिकत्वावश्यम्भवात्। किं चाभावस्य प्रागभावादित्वे द्वितीयस्यानित्यत्वमात्रं स्यान्न तु मिथ्यात्वम्। अत्यन्ताभगवत्वे उपलक्षणत्वमयावद्द्रव्यभावित्वेन चेदत्यन्ताभावत्वहानिः। वेदान्ततात्पर्यविषयत्वादिकार्यानन्वयित्वेन चेदत्यन्ताभावासिद्धिः। किं चाप्रामाणिकेन द्वितीयाभावेनेव द्वितीयेनाप्युपलक्षितत्वसम्भवात्, तेन सद्वितीयं किं न स्यात् ? एवं च- द्वैताभावस्तात्त्विकश्चेत्तेन स्यात्सिद्वितीयता। अतात्त्विकश्चेद् द्वैतेन सद्वितीयत्वमापतेत्।। किं चेदं नित्यत्वं यद् ब्रह्मण एवाभिमतं सर्वकालसम्बन्धित्वं वा ? कालावच्छेदराहित्यं वा ? ध्वंसाप्रतियोगित्वं वा ? उभयावधिराहित्यं वा ? नाद्यौ, अविद्यायां काले चाऽतिव्याप्तेः। सापि हि सर्वकालोपादानत्वत्तत्सम्बन्धिनी। इदानीमेव नान्यदेत्येवं रूपतदवच्छेदरहिता च। न तृतीयः, ध्वंसेऽतिव्याप्तेः।

"anupalabdhigamyo'bhāva" ityāditvanmatabhaṅgāt| anṛtavyāvṛtterapi brahmamātratvena bhedasatyatvāpātācca| prābhākaramate'pi pratiyogimadadhikaraṇavyāvṛttyarthaṃ kaivalyādiviśeṣitasyaivādhikaraṇasyābhāvatvācca| na cettanmate'pyanupapattireva| anyathā guṇaguṇyabhedamate śauklyāderiva śaktyādibhāvadharmāṇāmapi brahmamātratvaṃ syāt| na ca bhāvarūpadvitīyābhāvaviśiṣṭatvamadvitīyatvaṃ| tathā cābhāvasya dvitīyasya prāmāṇikatve'pyadoṣa iti vācyam, dṛśyasyāpyabhāvasyeva śrutyādisiddhasya dharmādharmādirūpabhāvasyāpi mithyātvāyogādityuktatvāt| ata eva nāntyaḥ, upalakṣaṇasyāpyabhāvasyāprāmāṇikatve tatpratiyogino dvitīyasya prāmāṇikatvāvaśyambhavāt| kiṃ cābhāvasya prāgabhāvāditve dvitīyasyānityatvamātraṃ syānna tu mithyātvam| atyantābhagavatve upalakṣaṇatvamayāvaddravyabhāvitvena cedatyantābhāvatvahāniḥ| vedāntatātparyaviṣayatvādikāryānanvayitvena cedatyantābhāvāsiddhiḥ| kiṃ cāprāmāṇikena dvitīyābhāveneva dvitīyenāpyupalakṣitatvasambhavāt, tena sadvitīyaṃ kiṃ na syāt ? evaṃ ca- dvaitābhāvastāttvikaścettena syātsidvitīyatā| atāttvikaśced dvaitena sadvitīyatvamāpatet|| kiṃ cedaṃ nityatvaṃ yad brahmaṇa evābhimataṃ sarvakālasambandhitvaṃ vā ? kālāvacchedarāhityaṃ vā ? dhvaṃsāpratiyogitvaṃ vā ? ubhayāvadhirāhityaṃ vā ? nādyau, avidyāyāṃ kāle cā'tivyāpteḥ| sāpi hi sarvakālopādānatvattatsambandhinī| idānīmeva nānyadetyevaṃ rūpatadavacchedarahitā ca| na tṛtīyaḥ, dhvaṃse'tivyāpteḥ|

Report an error

ननु ध्वंसोऽपि ध्वंसप्रतियोगी, प्रतियोग्यनुन्मज्जनं तु प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मज्जनवद् युक्तमिति चेन्न, एवं सति मोक्षेऽप्यात्मान्यस्य कस्यचिद् ध्यंसस्य वक्तव्यतया लाघवार्थम् आद्यध्वंसनित्यताया एव युक्तत्वात्। न च ध्वंसस्य नित्यत्वेऽपि भावेषु ब्रह्मैव नित्यमित्यस्याहानिरिति वाच्यम्, निष्प्रतियोगिकत्वेन भावस्य ध्वंसत्वादेर्नित्यत्वावश्यम्भवात्। न चतुर्थः, एवं परिभाषायामपि ब्रह्मण एव नित्यत्वमित्येतत्फलस्य मुक्तावन्याभावस्यासिद्धेः। एवं च- काले कालापरिच्छेन्ने ध्वंसे चाध्वंसयोगिनि। नित्ये सति कथं नित्यं ब्रह्मैवेति मतं तव।। कथं च दृग्रूपस्यात्मनः साक्षाद् द्रष्टृत्वरूपं साक्षित्वम् ? "साक्षाद् द्रष्टरिसंज्ञाया"मिति हि सूत्रम्। बुद्ध्युपाधिकस्यापि द्रष्टृत्वस्य सुषुप्त्यादावभावात्। बुद्धेः साक्ष्यधीनसिद्धिकप्रातीतिका विद्याकार्यत्वेन चक्रकाश्रयत्वाच्च। किं च साक्षी किं जीवकोटिः ? ब्रह्मकोटिर्वा ? उभयानुगतं चिन्मात्रं वा ? नाद्यः, जीवो बुद्ध्युपाधिकोऽणुरिति पक्षे इदमंशावच्छिन्नचिद्वेद्यस्य शुक्तिरूप्यादेः साक्षिवेद्यत्वायोगात्, चक्रकाच्च। "अज्ञानोपाधिकः सर्वगत" इति पक्षेऽपि अज्ञानस्य साक्ष्यधीनसिद्धिकत्वेनाऽन्योन्याश्रयात्। न द्वितीयः, तेन ब्रह्मण एव साक्षिवेद्यसुखदुःखादिधीः, न तु जीवस्येति वैपरीत्यापातात्। अन्यथाऽनवच्छिन्नानन्दधीरपि जीवस्य स्यात्। न च ब्रह्मचैतन्यं घटादिप्रकाशकमिति मतेऽज्ञानाभिभवद्वारा तस्य जीवचैतन्याभेदाभिव्यञ्जकान्तः करणवृत्तिरिवेह तादृशी वृत्तिरस्ति।

nanu dhvaṃso'pi dhvaṃsapratiyogī, pratiyogyanunmajjanaṃ tu prāgabhāvanivṛttirūpasya ghaṭasya nivṛttāvapi prāgabhāvānunmajjanavad yuktamiti cenna, evaṃ sati mokṣe'pyātmānyasya kasyacid dhyaṃsasya vaktavyatayā lāghavārtham ādyadhvaṃsanityatāyā eva yuktatvāt| na ca dhvaṃsasya nityatve'pi bhāveṣu brahmaiva nityamityasyāhāniriti vācyam, niṣpratiyogikatvena bhāvasya dhvaṃsatvādernityatvāvaśyambhavāt| na caturthaḥ, evaṃ paribhāṣāyāmapi brahmaṇa eva nityatvamityetatphalasya muktāvanyābhāvasyāsiddheḥ| evaṃ ca- kāle kālāparicchenne dhvaṃse cādhvaṃsayogini| nitye sati kathaṃ nityaṃ brahmaiveti mataṃ tava|| kathaṃ ca dṛgrūpasyātmanaḥ sākṣād draṣṭṛtvarūpaṃ sākṣitvam ? "sākṣād draṣṭarisaṃjñāyā"miti hi sūtram| buddhyupādhikasyāpi draṣṭṛtvasya suṣuptyādāvabhāvāt| buddheḥ sākṣyadhīnasiddhikaprātītikā vidyākāryatvena cakrakāśrayatvācca| kiṃ ca sākṣī kiṃ jīvakoṭiḥ ? brahmakoṭirvā ? ubhayānugataṃ cinmātraṃ vā ? nādyaḥ, jīvo buddhyupādhiko'ṇuriti pakṣe idamaṃśāvacchinnacidvedyasya śuktirūpyādeḥ sākṣivedyatvāyogāt, cakrakācca| "ajñānopādhikaḥ sarvagata" iti pakṣe'pi ajñānasya sākṣyadhīnasiddhikatvenā'nyonyāśrayāt| na dvitīyaḥ, tena brahmaṇa eva sākṣivedyasukhaduḥkhādidhīḥ, na tu jīvasyeti vaiparītyāpātāt| anyathā'navacchinnānandadhīrapi jīvasya syāt| na ca brahmacaitanyaṃ ghaṭādiprakāśakamiti mate'jñānābhibhavadvārā tasya jīvacaitanyābhedābhivyañjakāntaḥ karaṇavṛttiriveha tādṛśī vṛttirasti|

Report an error

न तृतीयः, ईश्वरेणेव चिन्मात्रेणापि सांसारिकदुःखस्य तद्गतत्वेनाऽग्रहणेऽपि यद्भागो मुक्तस्तस्य चिन्मात्रस्य दुःखाद्युल्लेखरूपोपप्लवापातात्। सुप्तमैत्रं प्रति मैत्रीयाज्ञानादेर्मैत्रीयतयेव जाग्रच्चैत्रीयदुःखादेरपि चैत्रीयतया सुप्तमैत्रं प्रति प्रतीतिप्रंसङ्गेन मैत्रस्यैतावंतं कालं दुःखं नावेदिषमिति परामर्शायोगाच्च। नापि साक्षात्कर्त्तव्याकाराविद्यावृत्तिप्रतिफलितं चैतन्यं साक्षि, सुषुप्तौ चाज्ञानाद्याकाराविद्यावृत्तिर्नास्तीति वाच्यम्, दुःखादेः स्वानन्तरभाव्यविद्यावृत्तिप्रतिफलितचिद्वेद्यत्वे ज्ञातैकसत्त्वायोगात्। अविद्यावित्तेरपि साक्ष्यधीनसिद्धकत्वेनान्योन्याश्रयाच्च विस्तृतं चैतदसतः साधकत्वभङ्गे। परमते ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वभङ्गः।। 7 ।।

na tṛtīyaḥ, īśvareṇeva cinmātreṇāpi sāṃsārikaduḥkhasya tadgatatvenā'grahaṇe'pi yadbhāgo muktastasya cinmātrasya duḥkhādyullekharūpopaplavāpātāt| suptamaitraṃ prati maitrīyājñānādermaitrīyatayeva jāgraccaitrīyaduḥkhāderapi caitrīyatayā suptamaitraṃ prati pratītipraṃsaṅgena maitrasyaitāvaṃtaṃ kālaṃ duḥkhaṃ nāvediṣamiti parāmarśāyogācca| nāpi sākṣātkarttavyākārāvidyāvṛttipratiphalitaṃ caitanyaṃ sākṣi, suṣuptau cājñānādyākārāvidyāvṛttirnāstīti vācyam, duḥkhādeḥ svānantarabhāvyavidyāvṛttipratiphalitacidvedyatve jñātaikasattvāyogāt| avidyāvitterapi sākṣyadhīnasiddhakatvenānyonyāśrayācca vistṛtaṃ caitadasataḥ sādhakatvabhaṅge| paramate brahmaṇo jñānatvānandatvādvitīyatvanityatvasākṣitvabhaṅgaḥ|| 7 ||

Report an error

8. ब्रह्मण उपादानत्वभङ्गः

8. brahmaṇa upādānatvabhaṅgaḥ

Report an error

यच्चेदमुच्यते ब्रह्म जगत उपादानत्वे सति कर्त्रित्यभिन्ननिमित्तोपादानं जगदिति। तन्न, यतः। विकारवत्कारणत्वमुपादानत्वमुच्यते। निर्विकारतया वेदसिद्धे ब्रह्मणि तत्कथम्।। परिणामापरपर्यायविकारवत्त्वं ह्युपादानत्वम्, तच्च ब्रह्मणि ‘निर्विकारोऽक्षरः शुद्ध’ इत्यादिश्रुतिविरुद्धम्। ननु विवरणे रज्वाः सूत्रद्वयवन्मायाविशिष्टं ब्रह्म जगत्कारणमिति वा मायशक्तिमद्ब्रह्म कारणमिति वा जगदुपादानमायाश्रयतया ब्रह्म कारणमिति वेति मतत्रयमुक्तम्। तत्राद्ये रज्ज्वाः सूत्रे इव मायाब्रह्मणी उपादाने। निर्विकारश्रुतिस्तु केवलब्रह्मपरेति विवक्षितम्। द्वितीये मायोपरागाद्ब्रह्म विकारि, निर्विकारश्रुतिस्तु तदनुपरक्ताभिप्रायेति विवक्षितम्। तृतीये तन्तुद्वारांऽशुः पटस्येव मायाद्वारा ब्रह्मोपादानम्, श्रुतिस्तु अद्वारकविकारनिषेधिकेति विवक्षितमिति चेन्न, आद्ये मायावत्तं तु वच्च ब्रह्मापि विकारीति विशिष्य ब्रह्मणो निर्विकारत्वोक्त्ययोगात्।

yaccedamucyate brahma jagata upādānatve sati kartrityabhinnanimittopādānaṃ jagaditi| tanna, yataḥ| vikāravatkāraṇatvamupādānatvamucyate| nirvikāratayā vedasiddhe brahmaṇi tatkatham|| pariṇāmāparaparyāyavikāravattvaṃ hyupādānatvam, tacca brahmaṇi ‘nirvikāro'kṣaraḥ śuddha’ ityādiśrutiviruddham| nanu vivaraṇe rajvāḥ sūtradvayavanmāyāviśiṣṭaṃ brahma jagatkāraṇamiti vā māyaśaktimadbrahma kāraṇamiti vā jagadupādānamāyāśrayatayā brahma kāraṇamiti veti matatrayamuktam| tatrādye rajjvāḥ sūtre iva māyābrahmaṇī upādāne| nirvikāraśrutistu kevalabrahmapareti vivakṣitam| dvitīye māyoparāgādbrahma vikāri, nirvikāraśrutistu tadanuparaktābhiprāyeti vivakṣitam| tṛtīye tantudvārāṃ'śuḥ paṭasyeva māyādvārā brahmopādānam, śrutistu advārakavikāraniṣedhiketi vivakṣitamiti cenna, ādye māyāvattaṃ tu vacca brahmāpi vikārīti viśiṣya brahmaṇo nirvikāratvoktyayogāt|

Report an error

किं च परमार्थसज्ज्ञानानन्दस्वभावस्य ब्रह्मणोऽप्युपादानत्वे कार्यमपि तथा स्यात्। अविद्योपादानत्वेऽपि सितासितसूत्रकार्ये पटे सितत्ववज्जगति परमार्थसत्यादेरपि दुर्वारत्वात्। न ह्युपादानस्वभावस्योपदेये धीमात्रम्, अविद्यास्वभावस्याऽनिर्वाच्यत्वस्याऽपि प्रपञ्चे धीमात्रत्वापातात्। सन्मात्रोपादानकत्वं सत्त्वे तन्त्रं चेत्, अनिर्वाच्यत्वमपि न स्यात्, तन्मात्रोपादानकत्वाभावात्। द्वितीये मायाख्यहेतूपरागभावाभावाभ्यां विकारभावाभावविवक्षा चेत्, मृदादिसाधारण्यम्। मायाविशिष्टं ब्रह्म विकारि निर्विकारश्रुतिस्तु विशेष्याभिप्रायेति विवक्षायां तु विशिष्टस्य ब्रह्मत्वे निर्विकारश्रुतिविरोधः। अब्रह्मत्वे न नो हानिः। एतेन प्रकृतिविशिष्टं ब्रह्मोपादानमिति निरस्तम्। विस्तृतं चैतदन्यत्र। किं च विशिष्टस्य मृदादिवद्धर्भिसमसत्ताकरूपान्तरापत्तिरूपपरिणामाद्विवर्तमत हानिः स्यात्। विशिष्टस्य परिणामः शुद्धस्य तु विवर्त इति चेत्, तर्हि शुद्धेऽपि विवर्तार्थम् आरोपितविकारस्यावश्यकत्वान्निर्विकारश्रुतेस्तत्परत्वं न स्यात्। श्रुतिर्विशेष्यस्यैव तात्त्विकविकाराभावपरा चेद्, विशिष्टे विकारोक्तिरयुक्ता स्यात्। तत्त्वतो निर्विकारे आरोपितविकाराविरोधात्। तृतीयोऽप्ययुक्तः, अंशोस्तन्तुं प्रतीव ब्रह्मणः अनादिमायां प्रति उपादानत्वाभावात्। भ्रमाधिष्ठानत्वमुपादानत्वमिति चेत्, न। उपादाने मृदादौ भ्रमाधिष्ठानत्वस्य भ्रमाधिष्ठाने च शुक्त्यादौ उपादानत्वस्य चाऽव्यवहारात्। पारिभाषिकोपादानत्वस्य चाऽनुपादानत्वे पर्यवसानात्।

kiṃ ca paramārthasajjñānānandasvabhāvasya brahmaṇo'pyupādānatve kāryamapi tathā syāt| avidyopādānatve'pi sitāsitasūtrakārye paṭe sitatvavajjagati paramārthasatyāderapi durvāratvāt| na hyupādānasvabhāvasyopadeye dhīmātram, avidyāsvabhāvasyā'nirvācyatvasyā'pi prapañce dhīmātratvāpātāt| sanmātropādānakatvaṃ sattve tantraṃ cet, anirvācyatvamapi na syāt, tanmātropādānakatvābhāvāt| dvitīye māyākhyahetūparāgabhāvābhāvābhyāṃ vikārabhāvābhāvavivakṣā cet, mṛdādisādhāraṇyam| māyāviśiṣṭaṃ brahma vikāri nirvikāraśrutistu viśeṣyābhiprāyeti vivakṣāyāṃ tu viśiṣṭasya brahmatve nirvikāraśrutivirodhaḥ| abrahmatve na no hāniḥ| etena prakṛtiviśiṣṭaṃ brahmopādānamiti nirastam| vistṛtaṃ caitadanyatra| kiṃ ca viśiṣṭasya mṛdādivaddharbhisamasattākarūpāntarāpattirūpapariṇāmādvivartamata hāniḥ syāt| viśiṣṭasya pariṇāmaḥ śuddhasya tu vivarta iti cet, tarhi śuddhe'pi vivartārtham āropitavikārasyāvaśyakatvānnirvikāraśrutestatparatvaṃ na syāt| śrutirviśeṣyasyaiva tāttvikavikārābhāvaparā ced, viśiṣṭe vikāroktirayuktā syāt| tattvato nirvikāre āropitavikārāvirodhāt| tṛtīyo'pyayuktaḥ, aṃśostantuṃ pratīva brahmaṇaḥ anādimāyāṃ prati upādānatvābhāvāt| bhramādhiṣṭhānatvamupādānatvamiti cet, na| upādāne mṛdādau bhramādhiṣṭhānatvasya bhramādhiṣṭhāne ca śuktyādau upādānatvasya cā'vyavahārāt| pāribhāṣikopādānatvasya cā'nupādānatve paryavasānāt|

Report an error

एतेनाऽसत्यरूपान्तरापत्तिर्विवर्तः, सत्यरूपान्तरापत्तिस्तु परिणामः, रूपान्तरापत्तिमात्रम् उपादानत्वम्। तच्च ब्रह्मणो विवर्तरूपविशेषेणाप्युपपन्नम्, निर्विकारश्रुतिस्तु तात्त्विकविकारभावाभिप्राया। ब्रह्म चाज्ञातं प्रपञ्चरूपेण विवर्तते इति अज्ञानमपि परिणामितयोपादानान्तर्गतम्। रूप्यमपि शुक्तिविवर्तत्वादज्ञानपरिणामत्वाच्चोभयोपादनकमिति निरस्तम्। त्वयापि मिथ्याभूतस्य मिथ्याभूतमेवोपादनमन्वेषणीयं सत्यत्वे कार्यस्याऽपि कारणस्वभावतया सत्यत्वप्रसङ्ग इति वदता सत्यस्यासत्यरूपापत्तेर्निषेधात्। सत्यारोपितधूमानुगतधूमत्वसामान्यस्येव सत्यासत्यरूपान्तरापत्त्यनुगतो पादानत्वसामान्यस्याप्यभावाच्च। शुक्तिब्रह्मणोरेव रूप्याकाशाद्युपादनत्वसम्भवे अविद्यान्वयव्यतिरेकयोर्निमित्तत्वेनाप्युपपत्तेरविद्योपादानकत्वकल्पनायोगाच्च। न च परिणामित्वेनाविद्याकल्पनम्। असत्यस्य रूप्यादेः सत्यरूपापत्तिमत्परिणाम्यपेक्षाभावाद्। विकारित्वेनाविद्याकल्पनं तु तत्त्वतो निर्विकारे ब्रह्मणि अतात्विकविकाराङ्गीकारात् परेणैव निरस्तम्। न च कार्यापेक्षितस्वसमानसत्ताकोपादानत्वेना विद्याकल्पनम्, अविद्यार्थापत्तिभङ्गे निरस्तत्वात्। किं च रूप्येऽपि रूप्यमिदमिति प्रतीतेः अविद्याविकारभूतं रूप्यम्, इदं रूप्यतादात्म्यं वाऽस्तु। इदमो रूप्यरूपापत्तिरूपो विकारस्तु कथम् ? न हीदं रूप्यरूपमापन्नमिति धीरस्ति। न चारोपितमप्यारोपं विना युक्तम्। एतेन रूपान्तरापत्तिप्रतीतिविषयत्वम् उपादानत्वं प्रतीतेः प्रमात्वाप्रमात्वाभ्यां परिणामविवर्ताविति निरस्तम्। शुक्तिर्वा ब्रह्म वारूप्यत्वं वा आकाशत्वं वा आपन्नमित्यप्रतीतेः।

etenā'satyarūpāntarāpattirvivartaḥ, satyarūpāntarāpattistu pariṇāmaḥ, rūpāntarāpattimātram upādānatvam| tacca brahmaṇo vivartarūpaviśeṣeṇāpyupapannam, nirvikāraśrutistu tāttvikavikārabhāvābhiprāyā| brahma cājñātaṃ prapañcarūpeṇa vivartate iti ajñānamapi pariṇāmitayopādānāntargatam| rūpyamapi śuktivivartatvādajñānapariṇāmatvāccobhayopādanakamiti nirastam| tvayāpi mithyābhūtasya mithyābhūtamevopādanamanveṣaṇīyaṃ satyatve kāryasyā'pi kāraṇasvabhāvatayā satyatvaprasaṅga iti vadatā satyasyāsatyarūpāpatterniṣedhāt| satyāropitadhūmānugatadhūmatvasāmānyasyeva satyāsatyarūpāntarāpattyanugato pādānatvasāmānyasyāpyabhāvācca| śuktibrahmaṇoreva rūpyākāśādyupādanatvasambhave avidyānvayavyatirekayornimittatvenāpyupapatteravidyopādānakatvakalpanāyogācca| na ca pariṇāmitvenāvidyākalpanam| asatyasya rūpyādeḥ satyarūpāpattimatpariṇāmyapekṣābhāvād| vikāritvenāvidyākalpanaṃ tu tattvato nirvikāre brahmaṇi atātvikavikārāṅgīkārāt pareṇaiva nirastam| na ca kāryāpekṣitasvasamānasattākopādānatvenā vidyākalpanam, avidyārthāpattibhaṅge nirastatvāt| kiṃ ca rūpye'pi rūpyamidamiti pratīteḥ avidyāvikārabhūtaṃ rūpyam, idaṃ rūpyatādātmyaṃ vā'stu| idamo rūpyarūpāpattirūpo vikārastu katham ? na hīdaṃ rūpyarūpamāpannamiti dhīrasti| na cāropitamapyāropaṃ vinā yuktam| etena rūpāntarāpattipratītiviṣayatvam upādānatvaṃ pratīteḥ pramātvāpramātvābhyāṃ pariṇāmavivartāviti nirastam| śuktirvā brahma vārūpyatvaṃ vā ākāśatvaṃ vā āpannamityapratīteḥ|

Report an error

सच्च त्यच्चाभवदि त्यादि श्रुतेश्चात्माश्रयप्रसङ्गेन स्वजन्यरूपान्तरापत्तिधीविषयत्वप्रत्यायकत्वायोगात्। एतेन रूपान्तराभेदधीविषयत्वं वा कार्याभेदधीविषयत्वं वोपादानत्वम्। प्रतीतेः प्रमात्वाप्रमात्वाभ्यां परिणामविवर्ताविति निरस्तम्, आद्ये तत्त्वंपदार्थयोः क्षीरनीरयोः खण्डगोत्वयोश्चोपादानोपादेयत्वापातात्। द्वितीये सदृशे संन्निहिते निमित्तेऽपि कार्याभेदभ्रमसम्भवेनातिव्याप्तेः। तस्मादकारणस्यातीतादेरत्यन्तासतश्च भ्रमाधिष्ठानत्वदर्शनाद् भ्रमाधिष्ठाने च शुक्त्यादौ कारणत्वोपादानत्वयोरव्यवहारात् न परपक्षे भ्रमाधिष्ठानस्य ब्रह्मण उपादानत्वकारणत्वे। ननु मायोपादानम्, ईश्वरो निमित्तं शुद्धं ब्रह्माधिष्ठानमिति चेन्न, अभिन्ननिमित्तोपादानत्वाभावेन त्वन्मते तदर्थस्य प्रकृत्यधिकरणदेरनुपपत्तेः। ब्रह्मण उपादानत्वभङ्गः।। 8 ।।

sacca tyaccābhavadi tyādi śruteścātmāśrayaprasaṅgena svajanyarūpāntarāpattidhīviṣayatvapratyāyakatvāyogāt| etena rūpāntarābhedadhīviṣayatvaṃ vā kāryābhedadhīviṣayatvaṃ vopādānatvam| pratīteḥ pramātvāpramātvābhyāṃ pariṇāmavivartāviti nirastam, ādye tattvaṃpadārthayoḥ kṣīranīrayoḥ khaṇḍagotvayoścopādānopādeyatvāpātāt| dvitīye sadṛśe saṃnnihite nimitte'pi kāryābhedabhramasambhavenātivyāpteḥ| tasmādakāraṇasyātītāderatyantāsataśca bhramādhiṣṭhānatvadarśanād bhramādhiṣṭhāne ca śuktyādau kāraṇatvopādānatvayoravyavahārāt na parapakṣe bhramādhiṣṭhānasya brahmaṇa upādānatvakāraṇatve| nanu māyopādānam, īśvaro nimittaṃ śuddhaṃ brahmādhiṣṭhānamiti cenna, abhinnanimittopādānatvābhāvena tvanmate tadarthasya prakṛtyadhikaraṇaderanupapatteḥ| brahmaṇa upādānatvabhaṅgaḥ|| 8 ||

Report an error

9. ब्रह्मणो निमित्तत्वभङ्गः

9. brahmaṇo nimittatvabhaṅgaḥ

Report an error

किं चेदं कर्तृत्वं किं परिभाषया शुक्त्यादिवदधिष्ठानत्वमात्रम् ? भ्रान्तवदध्यासद्रष्टृत्त्वं वा ? मायाविवद् व्यामोहकत्वं वा ? कुलालादिवदुपादानादिगोचरप्रयत्नादिमत्त्वं वा ? नाद्यः, त्वन्मतेऽधिष्ठानत्वातिरिक्तोपादानत्वाभावेन कर्तृत्वोपादानत्वयोः सामानाधिकरण्योक्त्ययोगात्। "तदैक्षत नामरूपे व्याकरोदि" इत्यादि श्रुत्यनुपपत्तेश्च। न हि चेतनोऽचेतनो वा स्वस्मिन्नारोपितं सङ्कल्प्य करोति। अत एव न द्वितीयः, भ्रान्तस्य प्रेक्षापूर्वकारोपितकर्तृत्वाभावात्। ब्रह्मणोऽभ्रान्तत्वेनाकर्तृत्वस्य जीवस्य भ्रान्तत्वेन जगत्कर्तृत्वस्य चापातात्। न चेष्टापत्तिः, श्रुत्यादिविरोधात्। जगत ईश्वरं मुक्त्वा संसारिण उत्पत्त्यादि सम्भावयितुमपि न शक्यमित्यादित्वभ्दाष्यविरोधाच्च। ननु शुद्धस्याभ्रान्तत्वेऽपि मायाशबलितः कर्तेश्वरो भ्रान्त इति चेन्न, ईश्वरस्य भ्रान्तत्वे जीववत्संसाराद्यापातेन बहुश्रुत्यादिविरोधात्। किं च पक्षद्वयेऽपि वैषम्यनैर्घृण्येन सापेक्षत्वादि त्यादिसूत्रेषु कर्मसापेक्षत्वेन वैषम्यादिपरिहारो न युक्तः स्यात्। अधिष्ठानत्वेन तदप्रसक्तेः। न तृतीयः, व्यामोहनीयजीवादर्शने व्यामोहकत्वायोगाद्, दर्शने च भ्रान्तत्वापत्तेः। व्यामोहकत्वस्यापि आरोपितत्वेनान्योन्याश्रयाच्च। नामरूपे व्याकरवाणी त्यादि श्रुत्यनुपपत्तेश्च। न हि मायावी गजादिकं करवाणीति सङ्कल्प्य करोति, किं तु दर्शयामीति सङ्कल्प्य दर्शयति। किं च पक्षत्रयेऽपि जन्मादिसूत्रेऽर्थलब्धसार्वज्ञ्यादिस्फोरणार्थं शास्त्रयोनिसूत्रमिति यत्परमतं तद्भंङ्गः स्याद्, भ्रमाधिष्ठानत्वादिना सार्वज्ञ्यालाभात्। न चतुर्थः, कल्पितत्वे तस्यायोगात्।

kiṃ cedaṃ kartṛtvaṃ kiṃ paribhāṣayā śuktyādivadadhiṣṭhānatvamātram ? bhrāntavadadhyāsadraṣṭṛttvaṃ vā ? māyāvivad vyāmohakatvaṃ vā ? kulālādivadupādānādigocaraprayatnādimattvaṃ vā ? nādyaḥ, tvanmate'dhiṣṭhānatvātiriktopādānatvābhāvena kartṛtvopādānatvayoḥ sāmānādhikaraṇyoktyayogāt| "tadaikṣata nāmarūpe vyākarodi" ityādi śrutyanupapatteśca| na hi cetano'cetano vā svasminnāropitaṃ saṅkalpya karoti| ata eva na dvitīyaḥ, bhrāntasya prekṣāpūrvakāropitakartṛtvābhāvāt| brahmaṇo'bhrāntatvenākartṛtvasya jīvasya bhrāntatvena jagatkartṛtvasya cāpātāt| na ceṣṭāpattiḥ, śrutyādivirodhāt| jagata īśvaraṃ muktvā saṃsāriṇa utpattyādi sambhāvayitumapi na śakyamityāditvabhdāṣyavirodhācca| nanu śuddhasyābhrāntatve'pi māyāśabalitaḥ karteśvaro bhrānta iti cenna, īśvarasya bhrāntatve jīvavatsaṃsārādyāpātena bahuśrutyādivirodhāt| kiṃ ca pakṣadvaye'pi vaiṣamyanairghṛṇyena sāpekṣatvādi tyādisūtreṣu karmasāpekṣatvena vaiṣamyādiparihāro na yuktaḥ syāt| adhiṣṭhānatvena tadaprasakteḥ| na tṛtīyaḥ, vyāmohanīyajīvādarśane vyāmohakatvāyogād, darśane ca bhrāntatvāpatteḥ| vyāmohakatvasyāpi āropitatvenānyonyāśrayācca| nāmarūpe vyākaravāṇī tyādi śrutyanupapatteśca| na hi māyāvī gajādikaṃ karavāṇīti saṅkalpya karoti, kiṃ tu darśayāmīti saṅkalpya darśayati| kiṃ ca pakṣatraye'pi janmādisūtre'rthalabdhasārvajñyādisphoraṇārthaṃ śāstrayonisūtramiti yatparamataṃ tadbhaṃṅgaḥ syād, bhramādhiṣṭhānatvādinā sārvajñyālābhāt| na caturthaḥ, kalpitatve tasyāyogāt|

Report an error

Illustration: Verse & Place (Project-owned).